Library·Patanjali: Vyakaranamahabhasya·8·8.4

Patanjali: Vyakaranamahabhasya 8.4

क्अ इइइ,४५२।१-२० रो व्,४८८-४९० रषाभ्याम् णत्वे ऋकारग्रहणम् । रषाभ्याम् णत्वे ऋकारग्रहणम् कर्तव्यम् । रषाभ्याम् नः णः समानपदे ऋकारात् च इति वक्तव्यम् । इह अपि यथा स्यात् : मातॄणाम् , पितॄणाम् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । यः असौ ऋकारे रेफः तदाश्रयम् णत्वम् भविष्यति । न सिध्यति । किम् कारणम् । न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते । एकदेशे नुडादिषु च उक्तम् । किम् उक्तम् । अग्रहणम् चेत् नुड्विधिलादेशविनामेषु ऋकारग्रहणम् इति । तस्मात् गृह्यन्ते । एवम् अपि न सिध्यति । किम् कारणम् । अननन्तरत्वात् । यत् तत् रेफात् परम् भक्तेः तेन व्यवहितत्वात् न प्राप्नोति । अड्व्यवाये इति एवम् भविष्यति । न सिध्यति । किम् कारणम् । वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते । ये व्यपवृक्ताः अपि वर्णाः भवन्ति । यत् च अत्र रेफात् परम् भक्तेः न तत् क्व चित् अपि व्यपवृक्तम् दृश्यते । एवम् तर्हि योगविभागः करिष्यते । रषाभ्याम् नः णः समानपदे । ततः व्यवाये । व्यवाये च रषाभ्याम् नः णः भवति इति । ततः अट्कुप्वाङ्नुम्भिः इति । इदम् इदानीम् किमर्थम् । नियमार्थम् । एतैः एव अक्षरसमाम्नायिकैः व्यवाये न अन्यैः इति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति ऋकारात् णत्वम् इति यत् अयम् क्षुभ्नादिषु नृनमनशब्दम् पठति । न एतत् अस्ति ज्ञापकम् । वृद्ध्यर्थम् एतत् स्यात् । नार्नमनिः इति । यत् तर्हि तत्र एव तृप्नोतिशब्दम् पठति । यत् च अपि नृनमनशब्दम् पठति । ननु च उक्तम् वृद्ध्यर्थम् एतत् स्यात् इति । बहिरङ्गा वृद्धिः । अन्तरङ्गम् णत्वम् । असिद्धम् बहिरङ्गम् अन्तरङ्गे । अथ वा उपरिष्टात् योगविभागः करिष्यते । ऋतः नः णः भवति । ततः छन्दसि अवग्रहात् ऋतः इति एव ।

KA III,452.1-20 Ro V,488-490 raṣābhyām ṇatve ṛkāragrahaṇam . raṣābhyām ṇatve ṛkāragrahaṇam kartavyam . raṣābhyām naḥ ṇaḥ samānapade ṛkārāt ca iti vaktavyam . iha api yathā syāt : mātṝṇām , pitṝṇām iti . tat tarhi vaktavyam . na vaktavyam . yaḥ asau ṛkāre rephaḥ tadāśrayam ṇatvam bhaviṣyati . na sidhyati . kim kāraṇam . na hi varṇaikadeśāḥ varṇagrahaṇena gṛhyante . ekadeśe nuḍādiṣu ca uktam . kim uktam . agrahaṇam cet nuḍvidhilādeśavināmeṣu ṛkāragrahaṇam iti . tasmāt gṛhyante . evam api na sidhyati . kim kāraṇam . ananantaratvāt . yat tat rephāt param bhakteḥ tena vyavahitatvāt na prāpnoti . aḍvyavāye iti evam bhaviṣyati . na sidhyati . kim kāraṇam . varṇaikadeśāḥ ke varṇagrahaṇena gṛhyante . ye vyapavṛktāḥ api varṇāḥ bhavanti . yat ca atra rephāt param bhakteḥ na tat kva cit api vyapavṛktam dṛśyate . evam tarhi yogavibhāgaḥ kariṣyate . raṣābhyām naḥ ṇaḥ samānapade . tataḥ vyavāye . vyavāye ca raṣābhyām naḥ ṇaḥ bhavati iti . tataḥ aṭkupvāṅnumbhiḥ iti . idam idānīm kimartham . niyamārtham . etaiḥ eva akṣarasamāmnāyikaiḥ vyavāye na anyaiḥ iti . atha vā ācāryapravṛttiḥ jñāpayati bhavati ṛkārāt ṇatvam iti yat ayam kṣubhnādiṣu nṛnamanaśabdam paṭhati . na etat asti jñāpakam . vṛddhyartham etat syāt . nārnamaniḥ iti . yat tarhi tatra eva tṛpnotiśabdam paṭhati . yat ca api nṛnamanaśabdam paṭhati . nanu ca uktam vṛddhyartham etat syāt iti . bahiraṅgā vṛddhiḥ . antaraṅgam ṇatvam . asiddham bahiraṅgam antaraṅge . atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . ṛtaḥ naḥ ṇaḥ bhavati . tataḥ chandasi avagrahāt ṛtaḥ iti eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५२।२१-४५३।८ रो व्,४९०-४९१ अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः । अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः वक्तव्यः । आदर्शेन अक्षदर्शेन । न वा अन्येन व्यपेतत्वात् । न वा वक्तव्यः । किम् कारणम् । अन्येन व्यपेतत्वात् । अन्येन अत्र व्यवायः । यदि अपि अत्र अन्येन व्यवायः अटा अपि तु व्यवायः अस्ति तत्र अस्ति अड्व्यवाये इति प्राप्नोति । अटा एव व्यवाये भवति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । अड्ग्रहणसामर्थ्यात् । यदि हि यत्र अटा च अन्येन च व्यवायः तत्र स्यात् अड्ग्रहणम् अनर्थकम् स्यात् । व्यवाये नः णः भवति इति एव ब्रूयात् । अस्ति अन्यत् अड्ग्रहणस्य प्रयोजनम् । किम् । यः अनिर्दिष्टैः एव व्यवायः तत्र मा भूत् । कृत्स्नम् मृत्स्ना इति । यदि एतावत् प्रयोजनम् स्यात् शर्व्यवाये न इति एव ब्रूयात् ।

KA III,452.21-453.8 Ro V,490-491 aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ . aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ vaktavyaḥ . ādarśena akṣadarśena . na vā anyena vyapetatvāt . na vā vaktavyaḥ . kim kāraṇam . anyena vyapetatvāt . anyena atra vyavāyaḥ . yadi api atra anyena vyavāyaḥ aṭā api tu vyavāyaḥ asti tatra asti aḍvyavāye iti prāpnoti . aṭā eva vyavāye bhavati . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . aḍgrahaṇasāmarthyāt . yadi hi yatra aṭā ca anyena ca vyavāyaḥ tatra syāt aḍgrahaṇam anarthakam syāt . vyavāye naḥ ṇaḥ bhavati iti eva brūyāt . asti anyat aḍgrahaṇasya prayojanam . kim . yaḥ anirdiṣṭaiḥ eva vyavāyaḥ tatra mā bhūt . kṛtsnam mṛtsnā iti . yadi etāvat prayojanam syāt śarvyavāye na iti eva brūyāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५३।९-१७ रो व्,४९१ तत्समुदाये णत्वाप्रसिद्धिः यथा अन्यत्र । तत्समुदाये व्यवायसमुदाये णत्वस्य अप्रसिद्धिः । अर्केण अर्घेण । यथा अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति । क्व अन्यत्र । नुम्विसर्जनीयशर्व्यवायेऽपि निंस्से निंस्स्व इति । किम् पुनः कारणम् अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति । प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति । तत् यथा । गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः । ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति । तत् यथा । गर्गाः शतम् दण्ड्यन्ताम् इति । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति । यदि एवम् एकेन व्यवाये न प्राप्नोति । किरिणा रिरिणा इति । उभयथा अपि वाक्यपरिसमाप्तिः दृश्यते । तत् यथा । गर्गैः सह न भोक्तव्यम् इति प्रत्येकम् च न सम्भुज्यते समुदितैः च ।

KA III,453.9-17 Ro V,491 tatsamudāye ṇatvāprasiddhiḥ yathā anyatra . tatsamudāye vyavāyasamudāye ṇatvasya aprasiddhiḥ . arkeṇa argheṇa . yathā anyatra api vyavāyasamudāye kāryam na bhavati . kva anyatra . numvisarjanīyaśarvyavāye'pi niṃsse niṃssva iti . kim punaḥ kāraṇam anyatra api vyavāyasamudāye kāryam na bhavati . pratyekam vākyaparisamāptiḥ dṛṣṭā iti . tat yathā . guṇavṛddhisañjñe pratyekam bhavataḥ . nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ iti . tat yathā . gargāḥ śatam daṇḍyantām iti . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . yadi evam ekena vyavāye na prāpnoti . kiriṇā ririṇā iti . ubhayathā api vākyaparisamāptiḥ dṛśyate . tat yathā . gargaiḥ saha na bhoktavyam iti pratyekam ca na sambhujyate samuditaiḥ ca .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५३।१८-४५४।७ रो व्,४९१-४९२ कुव्यवाये हादेशेषु प्रतिषेधः । कुव्यवाये हादेशेषु प्रतिषेधः वकव्यः । किम् प्रयोजनम् । प्रयोजनम् वृत्रघ्नः स्रुघ्नः प्राघानि इति । हन्तेरत्पूर्वस्य इति अत्पूर्वग्रहणम् न कर्तव्यम् भवति । नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः । नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः वक्तव्यः । प्रेन्वनम् प्रेन्वनीयम् । अनागमे च णत्वम् । अनागमे च णत्वम् वक्तव्यम् । तृम्पणीयम् । अनुस्वारव्यवायवचनात् तु सिद्धम् । अनुस्वारव्यवाये नः णः भवति इति वक्तव्यम् । तदनुस्वारग्रहणम् कर्तव्यम् । न कर्तव्यम् । क्रियते न्यासे एव । नकारे अनुस्वारः परसवर्णीभूतः निर्दिश्यते । इह अपि तर्हि प्राप्नोति । प्रेन्वनम् प्रेन्वनीयम् । अनुस्वारविशेषणम् नुम्ग्रहणम् । नुमः यः अनुस्वारः इति । इह अपि तर्हि न प्राप्नोति । तृम्पणम् तृम्पणीयम् । एवम् तर्हि अयोगवाहानाम् अविशेषेण उपदेशः चोदितः तत्र अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम् । यदि एवम् न अर्थः नुम्ग्रहणेन । अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम् ।

KA III,453.18-454.7 Ro V,491-492 kuvyavāye hādeśeṣu pratiṣedhaḥ . kuvyavāye hādeśeṣu pratiṣedhaḥ vakavyaḥ . kim prayojanam . prayojanam vṛtraghnaḥ srughnaḥ prāghāni iti . hanteratpūrvasya iti atpūrvagrahaṇam na kartavyam bhavati . numvyavāye ṇatve anusvārābhāve pratiṣedhaḥ . numvyavāye ṇatve anusvārābhāve pratiṣedhaḥ vaktavyaḥ . prenvanam prenvanīyam . anāgame ca ṇatvam . anāgame ca ṇatvam vaktavyam . tṛmpaṇīyam . anusvāravyavāyavacanāt tu siddham . anusvāravyavāye naḥ ṇaḥ bhavati iti vaktavyam . tadanusvāragrahaṇam kartavyam . na kartavyam . kriyate nyāse eva . nakāre anusvāraḥ parasavarṇībhūtaḥ nirdiśyate . iha api tarhi prāpnoti . prenvanam prenvanīyam . anusvāraviśeṣaṇam numgrahaṇam . numaḥ yaḥ anusvāraḥ iti . iha api tarhi na prāpnoti . tṛmpaṇam tṛmpaṇīyam . evam tarhi ayogavāhānām aviśeṣeṇa upadeśaḥ coditaḥ tatra anusvāre kṛte aḍvyavāye iti eva siddham . yadi evam na arthaḥ numgrahaṇena . anusvāre kṛte aḍvyavāye iti eva siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५४।८-१६ रो व्,४९३ पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् । पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । तद्धितपूर्वपदस्थाप्रतिषेधार्थम् । तद्धितस्थस्य पूर्वपदस्थस्य च प्रतिषेधः मा भूत् । खारपायणः करणप्रियः ॥ तत् तर्हि वक्तव्यम् । न वक्तव्यम् । पूर्वपदम् उत्तरपदम् इति सम्बन्धिशब्दौ एतौ । सति पूर्वपदे उत्तरपदम् भवति सति च उत्तरपदे पूर्वपदम् भवति । तत्र सम्बन्धात् एतत् गन्तव्यम् यत् प्रति पूर्वपदम् इति एतत् भवति तत्स्थस्य नियमः इति । किम् च प्रति एतत् भवति । उत्तरपदम् प्रति ।

KA III,454.8-16 Ro V,493 pūrvapadāt sañjñāyām uttarapadagrahaṇam . pūrvapadāt sañjñāyām uttarapadagrahaṇam kartavyam . kim prayojanam . taddhitapūrvapadasthāpratiṣedhārtham . taddhitasthasya pūrvapadasthasya ca pratiṣedhaḥ mā bhūt . khārapāyaṇaḥ karaṇapriyaḥ .. tat tarhi vaktavyam . na vaktavyam . pūrvapadam uttarapadam iti sambandhiśabdau etau . sati pūrvapade uttarapadam bhavati sati ca uttarapade pūrvapadam bhavati . tatra sambandhāt etat gantavyam yat prati pūrvapadam iti etat bhavati tatsthasya niyamaḥ iti . kim ca prati etat bhavati . uttarapadam prati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५४।१७-४५५।९ रो व्,४९३-४९४ सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमप्रतिषेधः । सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमस्य अयम् प्रतिषेधः विज्ञायते अगः इति । तत्र कः दोषः । तत्र नित्यम् णत्वप्रसङ्गः । तत्र पूर्वेण सञ्ज्ञायाम् च असञ्ज्ञायाम् च नित्यम् णत्वम् प्राप्नोति । योगविभागात् सिद्धम् । योगविभागः करिष्यते । पूर्वपदात् सञ्ज्ञायाम् । ततः अगः । गान्तात् पूर्वपदात् या च यावती णत्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः । अप्रतिषेधः वा यथा सर्वनामसञ्ज्ञायाम् । न वा अर्थः प्रतिषेधेन । णत्वम् कस्मात् न भवति । यथा सर्वनामसञ्ज्ञायाम् । उक्तम् च सर्वनामसञ्ज्ञायाम् सर्वनामसञ्ज्ञायाम् निपातनात् णत्वाभावः इति । यथा पुनः तत्र निपातनम् क्रियते सर्वादीनि सर्वनामानि इति इह इदानीम् किम् निपातनम् । इह अपि निपातनम् अस्ति । किम् । अणृगयनादिभ्यः इति । न एव वा पुनः अत्र पूर्वेण णत्वम् प्राप्नोति । किम् कारणम् । समानपदे इति उच्यते न च एतत् समानपदम् । समासे कृते समानपदम् । समानम् एव यत् नित्यम् न च एतत् नित्यम् समानपदम् एव । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । समानग्रहणसामर्थ्यात्। यदि हि यत् समानम् च असमानम् च तत्र स्यात् समनग्रहणम् अनर्थकम् स्यात् ।

KA III,454.17-455.9 Ro V,493-494 sañjñāyām niyamavacane gapratiṣedhāt niyamapratiṣedhaḥ . sañjñāyām niyamavacane gapratiṣedhāt niyamasya ayam pratiṣedhaḥ vijñāyate agaḥ iti . tatra kaḥ doṣaḥ . tatra nityam ṇatvaprasaṅgaḥ . tatra pūrveṇa sañjñāyām ca asañjñāyām ca nityam ṇatvam prāpnoti . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . pūrvapadāt sañjñāyām . tataḥ agaḥ . gāntāt pūrvapadāt yā ca yāvatī ṇatvaprāptiḥ tasyāḥ sarvasyāḥ pratiṣedhaḥ . apratiṣedhaḥ vā yathā sarvanāmasañjñāyām . na vā arthaḥ pratiṣedhena . ṇatvam kasmāt na bhavati . yathā sarvanāmasañjñāyām . uktam ca sarvanāmasañjñāyām sarvanāmasañjñāyām nipātanāt ṇatvābhāvaḥ iti . yathā punaḥ tatra nipātanam kriyate sarvādīni sarvanāmāni iti iha idānīm kim nipātanam . iha api nipātanam asti . kim . aṇṛgayanādibhyaḥ iti . na eva vā punaḥ atra pūrveṇa ṇatvam prāpnoti . kim kāraṇam . samānapade iti ucyate na ca etat samānapadam . samāse kṛte samānapadam . samānam eva yat nityam na ca etat nityam samānapadam eva . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . samānagrahaṇasāmarthyāt. yadi hi yat samānam ca asamānam ca tatra syāt samanagrahaṇam anarthakam syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५५।१०-१२ रो व्,४९४ द्व्यक्षरत्र्यक्षरेभ्यः इति वक्तव्यम् । इह मा भूत् । देवदारुवनम् । इरिकादिभ्यः प्रतिषेधः वक्तव्यः । इरिकावनम् तिमिरवनम् ।

KA III,455.10-12 Ro V,494 dvyakṣaratryakṣarebhyaḥ iti vaktavyam . iha mā bhūt . devadāruvanam . irikādibhyaḥ pratiṣedhaḥ vaktavyaḥ . irikāvanam timiravanam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५५।१३-१६ रो व्,४९४-४९५ अदन्तात् अदन्तस्य इति वक्तव्यम् । इह मा भूत् । दीर्घाह्नी शरत् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न एषा अहन्शब्दात् षष्ठी । का तर्हि । अह्नशब्दात् प्रथमा पूर्वसूत्रनिर्देशः च । अथ वा युवादिषु पाठः करिष्यते ।

KA III,455.13-16 Ro V,494-495 adantāt adantasya iti vaktavyam . iha mā bhūt . dīrghāhnī śarat iti . tat tarhi vaktavyam . na vaktavyam . na eṣā ahanśabdāt ṣaṣṭhī . kā tarhi . ahnaśabdāt prathamā pūrvasūtranirdeśaḥ ca . atha vā yuvādiṣu pāṭhaḥ kariṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५५।१७-२१ रो व्,४९५ आहितोपस्थितयोः इति वक्तव्यम् । इह अपि यथा स्यात् । इक्षुवाहणम् शरवाहणम् । अपरः आह : वाहनम् वाह्यात् इति वक्तव्यम् । यदा हि गर्गाणाम् वाहनम् अपविद्धम् तिष्ठति तदा मा भूत् । गर्गवाहनम् इति ।

KA III,455.17-21 Ro V,495 āhitopasthitayoḥ iti vaktavyam . iha api yathā syāt . ikṣuvāhaṇam śaravāhaṇam . aparaḥ āha : vāhanam vāhyāt iti vaktavyam . yadā hi gargāṇām vāhanam apaviddham tiṣṭhati tadā mā bhūt . gargavāhanam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५६।१-४ रो व्,४९५ वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् । वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् । गिरिणदी गिरिनदी । चक्रणितम्बा चक्रनितम्बा ।

KA III,456.1-4 Ro V,495 vāprakaraṇe girinadyādīnām upasaṅkhyānam . vāprakaraṇe girinadyādīnām upasaṅkhyānam kartavyam . giriṇadī girinadī . cakraṇitambā cakranitambā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५६।५-१४ रो व्,४९५-४९६ प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् असमासान्तप्रतिषेधार्थम् । प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । असमासान्तप्रतिषेधार्थम् । असमासान्तस्य मा भूत् । गर्गभगिनी दक्षभगिनी इति । न वा भवति गर्गभगिणी इति । भवति यदा एतत् वाक्यम् गर्गाणाम् भगः गर्गभगः गर्गभगः अस्याः अस्ति इति । यदा तु एतत् वाक्यम् भवति गर्गाणाम् भगिनी गर्गभगिनी इति तदा न भवितव्यम् । तदा मा भूत् इति । यदि समासान्तग्रहणम् क्रियते माषवापिणी वृईहिवापिणी अत्र न प्राप्नोति । लिङ्गविशिष्टग्रहणे च उक्तम् । किम् उक्तम् । गतिकारकोपपदानाम् कृद्भिः सह समासवचनम् प्राक् सुबुत्पत्तेः इति । क्अ इइइ,४५६।१५-१७ रो व्,४९६ तत्र युवादिप्रतिषेधः । तत्र युवादीनाम् प्रतिषेदः वक्तव्यः । आर्ययूना क्षत्रिययूना प्रपक्वानि परिपक्वानि दीर्घाह्नी शरत् इति ।

KA III,456.5-14 Ro V,495-496 prātipadikāntasya ṇatve samāsāntagrahaṇam asamāsāntapratiṣedhārtham . prātipadikāntasya ṇatve samāsāntagrahaṇam kartavyam . kim prayojanam . asamāsāntapratiṣedhārtham . asamāsāntasya mā bhūt . gargabhaginī dakṣabhaginī iti . na vā bhavati gargabhagiṇī iti . bhavati yadā etat vākyam gargāṇām bhagaḥ gargabhagaḥ gargabhagaḥ asyāḥ asti iti . yadā tu etat vākyam bhavati gargāṇām bhaginī gargabhaginī iti tadā na bhavitavyam . tadā mā bhūt iti . yadi samāsāntagrahaṇam kriyate māṣavāpiṇī vṛīhivāpiṇī atra na prāpnoti . liṅgaviśiṣṭagrahaṇe ca uktam . kim uktam . gatikārakopapadānām kṛdbhiḥ saha samāsavacanam prāk subutpatteḥ iti . KA III,456.15-17 Ro V,496 tatra yuvādipratiṣedhaḥ . tatra yuvādīnām pratiṣedaḥ vaktavyaḥ . āryayūnā kṣatriyayūnā prapakvāni paripakvāni dīrghāhnī śarat iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५६।१८-४५७।२ रो व्,४९६-४९७ अथ इह कथम् भवितव्यम् । माषकुम्भवापेण व्रीहिकुम्भवापेण इति । किम् नित्यम् णत्वेन भवितव्यम् आहोस्वित् विभाषया । यदा तावत् एतत् वाक्यम् भवति कुम्भस्य वापः कुम्भवापः माषाणाम् कुम्भवापः माषकुम्भवाप इति तदा नित्यम् णत्वेन भवितव्यम् । यदा तु एतत् वाक्यम् भवति माषाणाम् कुम्भः माषकुम्भः माषकुम्भस्य वापः माषकुम्भवापः इति तदा विभाषया भवितव्यम् ।

KA III,456.18-457.2 Ro V,496-497 atha iha katham bhavitavyam . māṣakumbhavāpeṇa vrīhikumbhavāpeṇa iti . kim nityam ṇatvena bhavitavyam āhosvit vibhāṣayā . yadā tāvat etat vākyam bhavati kumbhasya vāpaḥ kumbhavāpaḥ māṣāṇām kumbhavāpaḥ māṣakumbhavāpa iti tadā nityam ṇatvena bhavitavyam . yadā tu etat vākyam bhavati māṣāṇām kumbhaḥ māṣakumbhaḥ māṣakumbhasya vāpaḥ māṣakumbhavāpaḥ iti tadā vibhāṣayā bhavitavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५७।३-१४ रो व्,४९७-४९८ असमासग्रहणम् किमर्थम् । समासे इति वर्तते असमासे अपि यथा स्यात् । प्रणमति परिणमति । क्व पुनः समासग्रहणम् प्रकृतम् । पूर्वपदात्सञ्ज्ञायामगः इति । कथम् पुनः तेन समासग्रहणम् शक्यम् विज्ञातुम् । पूर्वपदग्रहणसामर्थ्यात् । समासे एव एतत् भवति पूर्वपदम् उत्तरपदम् इति । अथ अपिग्रहणम् किमर्थम् । समासे अपि यथा स्यात् । प्रणामकः परिणामकः । यदि तर्हि समासे च असमासे च इष्यते न अर्थः असमासेपिग्रहणेन । निवृत्तम् पूर्वपदात् इति । अविशेषेण उपसर्गात् णत्वम् वक्ष्यामि । समासे नियमात् न प्राप्नोति । असिद्धम् उपसर्गात् णत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति । एवम् तर्हि सिद्धे सति यत् असमासे अपिग्रहणम् करोति तत् ज्ञापयति आचार्यः न योगे योगः असिद्धः । किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति । किम् एतस्य ज्ञपने प्रयोजनम् । यत् तत् उक्तम् निष्कृतम् निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति सः न दोषः भवति ।

KA III,457.3-14 Ro V,497-498 asamāsagrahaṇam kimartham . samāse iti vartate asamāse api yathā syāt . praṇamati pariṇamati . kva punaḥ samāsagrahaṇam prakṛtam . pūrvapadātsañjñāyāmagaḥ iti . katham punaḥ tena samāsagrahaṇam śakyam vijñātum . pūrvapadagrahaṇasāmarthyāt . samāse eva etat bhavati pūrvapadam uttarapadam iti . atha apigrahaṇam kimartham . samāse api yathā syāt . praṇāmakaḥ pariṇāmakaḥ . yadi tarhi samāse ca asamāse ca iṣyate na arthaḥ asamāsepigrahaṇena . nivṛttam pūrvapadāt iti . aviśeṣeṇa upasargāt ṇatvam vakṣyāmi . samāse niyamāt na prāpnoti . asiddham upasargāt ṇatvam tasya asiddhatvāt niyamaḥ na bhaviṣyati . evam tarhi siddhe sati yat asamāse apigrahaṇam karoti tat jñāpayati ācāryaḥ na yoge yogaḥ asiddhaḥ . kim tarhi prakaraṇe prakaraṇam asiddham iti . kim etasya jñapane prayojanam . yat tat uktam niṣkṛtam niṣpītam iti atra satvasya asiddhatvāt ṣatvam na prāpnoti iti saḥ na doṣaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५७।१५-४५८।२ रो व्,४९८ णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः । अगमकः निर्देशः अनिर्देशः । यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च णोपदेशम् प्रति क्रियायोगः । एवम् तर्हि आह अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति न च णोपदेशम् प्रति उपसर्गः अस्ति तत्र वचनात् भविष्यति । वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः । वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः वक्तव्यः । प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः इति । सिद्धम् तु यम् प्रति उपसर्गः तत्स्थस्य इति वचनात् । सिद्धम् एतत् । कथम् । यम् प्रति उपसर्गः तत्स्थस्य णः भवति इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः इति । न एषः दोषः । णोपदेशः इति न एवम् विज्ञायते णः उपदेशः णोपदेशः णोपदेशस्य इति । कथम् तर्हि । णः उपदेशः अस्य सः अयम् णोपदेशः णोपदेशस्य इति ।

KA III,457.15-458.2 Ro V,498 ṇopadeśam prati upasargābhāvāt anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca ṇopadeśam prati kriyāyogaḥ . evam tarhi āha ayam upasargāt asamāse api ṇopadeśasya iti na ca ṇopadeśam prati upasargaḥ asti tatra vacanāt bhaviṣyati . vacanaprāmāṇyāt iti cet padalope pratiṣedhaḥ . vacanaprāmāṇyāt iti cet padalope pratiṣedhaḥ vaktavyaḥ . pragatāḥ nāyakāḥ asmāt grāmāt pranāyakaḥ grāmaḥ iti . siddham tu yam prati upasargaḥ tatsthasya iti vacanāt . siddham etat . katham . yam prati upasargaḥ tatsthasya ṇaḥ bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam ṇopadeśam prati upasargābhāvāt anirdeśaḥ iti . na eṣaḥ doṣaḥ . ṇopadeśaḥ iti na evam vijñāyate ṇaḥ upadeśaḥ ṇopadeśaḥ ṇopadeśasya iti . katham tarhi . ṇaḥ upadeśaḥ asya saḥ ayam ṇopadeśaḥ ṇopadeśasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५८।३-१० रो व्,४९९ हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् । हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् कर्तव्यम् । प्रहिणोति प्रमीणीते । वचनात् भविष्यति । अस्ति वचने प्रयोजनम् । किम् । प्रहिणुतः प्रमीणाति । सिद्धम् अचः स्थानिवत्त्वात् । सिद्धम् एतत् । कथम् । अचः स्थानिवत्त्वात् । स्थानिवद्भावात् अत्र णत्वम् भविष्यति । प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासेद्धे न स्थानिवत् इति । दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति ।

KA III,458.3-10 Ro V,499 hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam . hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam kartavyam . prahiṇoti pramīṇīte . vacanāt bhaviṣyati . asti vacane prayojanam . kim . prahiṇutaḥ pramīṇāti . siddham acaḥ sthānivattvāt . siddham etat . katham . acaḥ sthānivattvāt . sthānivadbhāvāt atra ṇatvam bhaviṣyati . pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāseddhe na sthānivat iti . doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५८।११-२२ रो व्,४९९ लोट् इति किमर्थम् । प्रहिमानि कुलानि । प्रवपानि मांसानि । आनि लोड्ग्रहणानर्थक्यम् अर्थवद्ग्रहणात् । आनि लोड्ग्रहणम् अनर्थकम् । किम् कारणम् । अर्थवद्ग्रहणात् । अर्थवतः आनिशब्दस्य ग्रहणम् न एषः अर्थवान् । अनुपसर्गात् वा । अथ वा यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् आनिशब्दम् प्रति क्रियायोगः । इह अपि तर्हि न प्राप्नोति । प्रयाणि परियाणि इति । अत्र अपि न आनिशब्दम् प्रति क्रियायोगः । आनिशब्दम् प्रति अत्र क्रियायोगः । कथम् । यत्क्रिययुक्ताः इति न एवम् विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति । कथम् तर्हि । या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति ।

KA III,458.11-22 Ro V,499 loṭ iti kimartham . prahimāni kulāni . pravapāni māṃsāni . āni loḍgrahaṇānarthakyam arthavadgrahaṇāt . āni loḍgrahaṇam anarthakam . kim kāraṇam . arthavadgrahaṇāt . arthavataḥ āniśabdasya grahaṇam na eṣaḥ arthavān . anupasargāt vā . atha vā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca etam āniśabdam prati kriyāyogaḥ . iha api tarhi na prāpnoti . prayāṇi pariyāṇi iti . atra api na āniśabdam prati kriyāyogaḥ . āniśabdam prati atra kriyāyogaḥ . katham . yatkriyayuktāḥ iti na evam vijñāyate yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti . katham tarhi . yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५९।१-१० रो व्,५०० नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् । नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् । प्रण्यगदत् परिण्यगदत् । आङा च इति वक्तव्यम् । प्रण्यागदत् । ननु च अयम् अट् गदादिभक्तः गदादिग्रहणेन ग्राहिष्यते । न सिध्यति । अङ्गस्य अट् उच्यते विकरणान्तम् च अङ्गम् सः असौ सङ्घातभक्तः अशक्यः गदादिग्रहणेन ग्रहीतुम् । एवम् तर्हि अड्व्यवाये इति वर्तते । क्व प्रकृतम् । अट्कुप्वाङ्नुम्व्यवाये अपि इति । तत् वै कार्यिविशेषणम् निमित्तविशेषणेन च इह अर्थः । तत्र अपि निमित्तविशेषणम् एव ।

KA III,459.1-10 Ro V,500 neḥ gadādiṣu aḍvyavāye upasaṅkhyānam . neḥ gadādiṣu aḍvyavāye upasaṅkhyānam kartavyam . praṇyagadat pariṇyagadat . āṅā ca iti vaktavyam . praṇyāgadat . nanu ca ayam aṭ gadādibhaktaḥ gadādigrahaṇena grāhiṣyate . na sidhyati . aṅgasya aṭ ucyate vikaraṇāntam ca aṅgam saḥ asau saṅghātabhaktaḥ aśakyaḥ gadādigrahaṇena grahītum . evam tarhi aḍvyavāye iti vartate . kva prakṛtam . aṭkupvāṅnumvyavāye api iti . tat vai kāryiviśeṣaṇam nimittaviśeṣaṇena ca iha arthaḥ . tatra api nimittaviśeṣaṇam eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५९।११-२२ रो व्,५००-५०१ अन्तग्रहणम् किमर्थम् । अनितेः अन्तग्रहणम् सम्बुद्ध्यर्थम् । अनितेः अन्तग्रहणम् क्रियते सम्बुद्ध्यर्थम् । हे प्राण् । अप्ररः आह । अनितेः अन्तः पदान्तस्य । अनितेः अन्तग्रहणम् क्रियते पदान्तस्य न इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् । यः वा तस्मात् अनन्तरः । अथ वा अयम् अन्तशब्दः अस्ति एव अवयववाची । तत् यथा : वस्त्रान्तः वसनान्तः इति । अस्ति सामीप्ये वर्तते । तत् यथा । उदकान्तम् गतः । उदकसमीपम् गतः इति गम्यते । तत् यः सामीप्ये वर्तते तस्य ग्रहणम् विज्ञायते । अनितेः समीपे यः रेफः तस्मात् नस्य यथा स्यात् । प्राणिति । इह मा भूत् । पर्यनिति ।

KA III,459.11-22 Ro V,500-501 antagrahaṇam kimartham . aniteḥ antagrahaṇam sambuddhyartham . aniteḥ antagrahaṇam kriyate sambuddhyartham . he prāṇ . apraraḥ āha . aniteḥ antaḥ padāntasya . aniteḥ antagrahaṇam kriyate padāntasya na iti pratiṣedhaḥ prāpnoti tadbādhanārtham . yaḥ vā tasmāt anantaraḥ . atha vā ayam antaśabdaḥ asti eva avayavavācī . tat yathā : vastrāntaḥ vasanāntaḥ iti . asti sāmīpye vartate . tat yathā . udakāntam gataḥ . udakasamīpam gataḥ iti gamyate . tat yaḥ sāmīpye vartate tasya grahaṇam vijñāyate . aniteḥ samīpe yaḥ rephaḥ tasmāt nasya yathā syāt . prāṇiti . iha mā bhūt . paryaniti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६०।१-३ रो व्,५०१ साभ्यासस्य द्वयोः इष्टम् । साभ्यासस्य द्वयोः णत्वम् इष्यते । प्राणिणिषति ।

KA III,460.1-3 Ro V,501 sābhyāsasya dvayoḥ iṣṭam . sābhyāsasya dvayoḥ ṇatvam iṣyate . prāṇiṇiṣati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६०।४-७ रो व्,५०१ अत्पूर्वस्य इति किमर्थम् । प्रघ्नन्ति परिघ्नन्ति । हन्तेः अत्पूर्वस्य वचने उक्तम् । किम् उक्तम् । कुव्यवाये हादेशेषु प्रतिषेधः इति ।

KA III,460.4-7 Ro V,501 atpūrvasya iti kimartham . praghnanti parighnanti . hanteḥ atpūrvasya vacane uktam . kim uktam . kuvyavāye hādeśeṣu pratiṣedhaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६०।८-१६ रो व्,५०२ कथम् इदम् विज्ञयते । ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति । आहोस्वित् ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति । किम् च अतः । यदि विज्ञयते ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति प्र नः मुञ्चतम् अत्र अपि प्राप्नोति । अथ विज्ञायते ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति प्र णः वनिः देवकृता अत्र न प्राप्नोति । उभयथा च प्रक्रमे दोषः भवति । प्र नः* मुञ्चतम् , प्र नः मुञ्चतम् । प्र* उ नः , प्र उ नः । भाविनि अपि ओति न इष्यते । भाविनि अपि ओकारे णत्वम् न इष्यते । एवम् तर्हि उपसर्गात् बहुलम् इति वक्तव्यम् ।

KA III,460.8-16 Ro V,502 katham idam vijñayate . okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti . āhosvit okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti . kim ca ataḥ . yadi vijñayate okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti pra naḥ muñcatam atra api prāpnoti . atha vijñāyate okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti pra ṇaḥ vaniḥ devakṛtā atra na prāpnoti . ubhayathā ca prakrame doṣaḥ bhavati . pra naḥ* muñcatam , pra naḥ muñcatam . pra* u naḥ , pra u naḥ . bhāvini api oti na iṣyate . bhāvini api okāre ṇatvam na iṣyate . evam tarhi upasargāt bahulam iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६०।१७-१९ रो व्,५०३ कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् । कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् कर्तव्यम् । निर्विण्णः अहम् अनेन वासेन ।

KA III,460.17-19 Ro V,503 kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam . kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam kartavyam . nirviṇṇaḥ aham anena vāsena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६१।१-७ रो व्,५०३ णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् । णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् कर्तव्यम् । प्राप्यमाणम् प्राप्यमानम् । तद्विधानात् सिद्धम् । विहितविशेषणम् णिग्रहणम् । ण्यन्तात् यः विहितः इति । अडधिकारात् वा । अथ वा अड्व्यवाये इति वर्तते ।

KA III,461.1-7 Ro V,503 ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam . ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam kartavyam . prāpyamāṇam prāpyamānam . tadvidhānāt siddham . vihitaviśeṣaṇam ṇigrahaṇam . ṇyantāt yaḥ vihitaḥ iti . aḍadhikārāt vā . atha vā aḍvyavāye iti vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६१।८-४६२।६ रो व्,५०३-५०४ किमर्थम् इदम् उच्यते न कृत्यचः इति एव सिद्धम् । नियमार्थः अयम् आरम्भः । इजादेः एव च सनुम्कात् न अन्यस्मात् सनुम्कात् इति । क्व मा भूत् । प्रमङ्कनम् परिमङ्कनम् । सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् । सनुमः णत्वे अवधारणस्य अप्राप्तिः । किम् कारणम् । विधेयभावात् । कैमर्थक्यात् नियमः भवति । विधेयम् न अस्ति इति कृत्वा । इह च अस्ति विधेयम् । किम् । ण्यन्तात् विभाषा प्राप्ता तत्र नित्यम् णत्वम् विधेयम् । तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः विधिः भविष्यति न नियमः । सिद्धम् तु प्रतिषेधाधिकारे सनुम्ग्रहणात् । सिद्धम् एतत् । कथम् । प्रतिषेधाधिकारे सनुम्ग्रहणात् । प्रतिषेधाधिकारे सनुम्ग्रहणम् कर्तव्यम् । न भाभूपूकमिगमिप्यायिवेपिसनुमाम् इति । इह अपि तर्हि न प्राप्नोति । प्रेङ्गणम् प्रेङ्गणीयम् । कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् । कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् कर्तव्यम् । सिध्यति सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् इति । न एषः दोषः । हलः इति वर्तते । क्व प्रकृतम् । हलश्चेजुपधात् इति । तत् वै तत्र आदिविशेषणम् अन्तविशेषणेन च इह अर्थः । कथम् पुनः ज्ञायते तत्र आदिविशेषणम् इति । इजुपधात् इति उच्यते अत्र न अर्थः अन्तविशेषणेन । तत्र आदिविशेषणम् सत् इह अन्तविशेषणम् भविष्यति । कथम् । इजादेः इति उच्यते तत्र न अर्थः आदिविशेषणेन । अथ वा इजादेः सनुमः इति अत्र णेर्विभाषा इति एतत् अनुवर्तिष्यते ।

KA III,461.8-462.6 Ro V,503-504 kimartham idam ucyate na kṛtyacaḥ iti eva siddham . niyamārthaḥ ayam ārambhaḥ . ijādeḥ eva ca sanumkāt na anyasmāt sanumkāt iti . kva mā bhūt . pramaṅkanam parimaṅkanam . sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt . sanumaḥ ṇatve avadhāraṇasya aprāptiḥ . kim kāraṇam . vidheyabhāvāt . kaimarthakyāt niyamaḥ bhavati . vidheyam na asti iti kṛtvā . iha ca asti vidheyam . kim . ṇyantāt vibhāṣā prāptā tatra nityam ṇatvam vidheyam . tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ vidhiḥ bhaviṣyati na niyamaḥ . siddham tu pratiṣedhādhikāre sanumgrahaṇāt . siddham etat . katham . pratiṣedhādhikāre sanumgrahaṇāt . pratiṣedhādhikāre sanumgrahaṇam kartavyam . na bhābhūpūkamigamipyāyivepisanumām iti . iha api tarhi na prāpnoti . preṅgaṇam preṅgaṇīyam . kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam . kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam kartavyam . sidhyati sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt iti . na eṣaḥ doṣaḥ . halaḥ iti vartate . kva prakṛtam . halaścejupadhāt iti . tat vai tatra ādiviśeṣaṇam antaviśeṣaṇena ca iha arthaḥ . katham punaḥ jñāyate tatra ādiviśeṣaṇam iti . ijupadhāt iti ucyate atra na arthaḥ antaviśeṣaṇena . tatra ādiviśeṣaṇam sat iha antaviśeṣaṇam bhaviṣyati . katham . ijādeḥ iti ucyate tatra na arthaḥ ādiviśeṣaṇena . atha vā ijādeḥ sanumaḥ iti atra ṇervibhāṣā iti etat anuvartiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६२।७-१२ रो व्,५०५ भादिषु पूञ्ग्रहणम् । भादिषु पूञ्ग्रहणम् कर्तव्यम् । इह मा भूत् । प्रपवणम् सोमस्य इति । ण्यन्तस्य च उपसङ्ख्यनम् । ण्यन्तस्य च उपसङ्ख्यानम् कर्तव्यम् । किम् पूञः एव । न इति आह । अविशेषेण । प्रभापनम् परिभापनम् ।

KA III,462.7-12 Ro V,505 bhādiṣu pūñgrahaṇam . bhādiṣu pūñgrahaṇam kartavyam . iha mā bhūt . prapavaṇam somasya iti . ṇyantasya ca upasaṅkhyanam . ṇyantasya ca upasaṅkhyānam kartavyam . kim pūñaḥ eva . na iti āha . aviśeṣeṇa . prabhāpanam paribhāpanam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६२।१३-१७ रो व्,५०५ षात् पदादिपरवचनम् । षात्पदादिपरग्रहणम् कर्तव्यम् । इह एव यथा स्यात् । निष्पानम् दुष्पानम् । इह मा भूत् । ससर्पिष्केण सयजुष्केण । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न एवम् विज्ञायते पदस्य अन्तः पदान्तः पदान्तात् इति । कथम् तर्हि । पदे अन्तः पदान्तः पदान्तात् इति ।

KA III,462.13-17 Ro V,505 ṣāt padādiparavacanam . ṣātpadādiparagrahaṇam kartavyam . iha eva yathā syāt . niṣpānam duṣpānam . iha mā bhūt . sasarpiṣkeṇa sayajuṣkeṇa . tat tarhi vaktavyam . na vaktavyam . na evam vijñāyate padasya antaḥ padāntaḥ padāntāt iti . katham tarhi . pade antaḥ padāntaḥ padāntāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६२।१८-२२ रो व्,५०५ नशेः अशः । नशेः अशः इति वक्तव्यम् । इह अपि यथा स्यात् । प्रनङ्क्ष्यति परिनङ्क्ष्यति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इह नशेः षः इति इयता सिद्धम् । सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तस्य एतत् प्रयोजनम् षान्तभूतपूर्वस्य अपि यथा स्यात् ।

KA III,462.18-22 Ro V,505 naśeḥ aśaḥ . naśeḥ aśaḥ iti vaktavyam . iha api yathā syāt . pranaṅkṣyati parinaṅkṣyati . tat tarhi vaktavyam . na vaktavyam . iha naśeḥ ṣaḥ iti iyatā siddham . saḥ ayam evam siddhe sati yat antagrahaṇam karoti tasya etat prayojanam ṣāntabhūtapūrvasya api yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६३।१-५ रो व्,५०६ पदव्यवाये अतद्धिते । पदव्यवाये अतद्धिते इति वक्तव्यम् । इह मा भूत् । आर्द्रगोमयेण शुष्कगोमयेण इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न एवम् विज्ञायते पदेन व्यवाये पदव्यवाये इति । कथम् तर्हि । पदे व्यवायः पदव्यवायः पद्व्यवाये इति ।

KA III,463.1-5 Ro V,506 padavyavāye ataddhite . padavyavāye ataddhite iti vaktavyam . iha mā bhūt . ārdragomayeṇa śuṣkagomayeṇa iti . tat tarhi vaktavyam . na vaktavyam . na evam vijñāyate padena vyavāye padavyavāye iti . katham tarhi . pade vyavāyaḥ padavyavāyaḥ padvyavāye iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६३।६-७ रो व्,५०६ अविहितलक्षणः णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः ।

KA III,463.6-7 Ro V,506 avihitalakṣaṇaḥ ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६३।८-११ रो व्,५०६ किमर्थम् तृतीयानिर्देशः क्रियते न श्चौ इति एव उच्येत । आनन्तर्यमात्रे श्चुत्वम् यथा स्यात् । यज्ञः राज्ञः याच्ञा । अथ सङ्ख्यातानुदेशः कस्मात् न भवति । आचार्यप्रवृत्तिः ज्ञापयति सङ्ख्यातानुदेशः न इह इति यत् अयम् शात् प्रतिषेधम् शास्ति ।

KA III,463.8-11 Ro V,506 kimartham tṛtīyānirdeśaḥ kriyate na ścau iti eva ucyeta . ānantaryamātre ścutvam yathā syāt . yajñaḥ rājñaḥ yācñā . atha saṅkhyātānudeśaḥ kasmāt na bhavati . ācāryapravṛttiḥ jñāpayati saṅkhyātānudeśaḥ na iha iti yat ayam śāt pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६३।१२-१५ रो व्,५०७ किमर्थम् त्र्तीयानिर्देशः क्रियते न ष्टौ इति एव उच्येत । आनन्तर्यमात्रे ष्टुत्वम् यथा स्यात् । पेष्टा लेढा । अथ सङ्ख्यातानुदेशः कस्मात् न भवति । आचार्यप्रवृत्तिः ज्ञापयति न इह सङ्ख्यातानुदेशः भवति इति यत् अयम् तोःषि इति प्रतिषेधम् शास्ति ।

KA III,463.12-15 Ro V,507 kimartham trtīyānirdeśaḥ kriyate na ṣṭau iti eva ucyeta . ānantaryamātre ṣṭutvam yathā syāt . peṣṭā leḍhā . atha saṅkhyātānudeśaḥ kasmāt na bhavati . ācāryapravṛttiḥ jñāpayati na iha saṅkhyātānudeśaḥ bhavati iti yat ayam toḥṣi iti pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६३।१६-१८ रो व्,५०७ अनाम् इति किम् । षण्णाम् भवति कश्यपः । अत्यल्पम् इदम् उच्यते अनाम् इति । अनान्नवतिनगरीणाम् च इति वक्तव्यम् : षण्णाम् , षण्णवतिः , षण्णगरी ।

KA III,463.16-18 Ro V,507 anām iti kim . ṣaṇṇām bhavati kaśyapaḥ . atyalpam idam ucyate anām iti . anānnavatinagarīṇām ca iti vaktavyam : ṣaṇṇām , ṣaṇṇavatiḥ , ṣaṇṇagarī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६४।१-४ रो व्,५०७ यरः अनुनासिके प्रत्यये भाषायाम् नित्यवचनम् । यरः अनुनासिके प्रत्यये भाषायाम् नित्यम् इति च वक्तव्यम् । वाङ्मयम् । त्वङ्मयम् इति ।

KA III,464.1-4 Ro V,507 yaraḥ anunāsike pratyaye bhāṣāyām nityavacanam . yaraḥ anunāsike pratyaye bhāṣāyām nityam iti ca vaktavyam . vāṅmayam . tvaṅmayam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६४।५-१७ रो व्,५०७-५०८ द्विर्वचने यणः मयः । द्विर्वचने यणः मयः इति वक्तव्यम् । किम् उदाहरणम् । यदि यणः इति पञ्चमी मयः इति षष्ठी उल्क्का वल्म्मीकम् इति उदहरणम् । अथ मयः इति पञ्चमी यणः इति षष्ठी दध्य्यत्र मध्व्वत्र इति उदाहरणम् । शरः खयः । शरः खयः इति वक्तव्यम् । किम् उदाहरणम् । यदि शरः इति पञ्चमी खयः इति षष्ठी स्थ्थाली स्थ्थाता इति उदाहरणम् । अथ खयः इति पञ्चमी शरः इति षष्ठी वत्स्सः क्ष्षीरम् अप्स्सराः इति उदाहरणम् । अवसाने च । अवसाने च द्वे भवतः इति वक्तव्यम् । वाक्क् वाक् । त्वक्क् त्वक् । स्रुक्क् स्रुक् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न अयम् प्रसज्यप्रतिषेधः । अचि न इति । किम् तर्हि पर्युदसः अयम् । यत् अन्यत् अचः इति ।

KA III,464.5-17 Ro V,507-508 dvirvacane yaṇaḥ mayaḥ . dvirvacane yaṇaḥ mayaḥ iti vaktavyam . kim udāharaṇam . yadi yaṇaḥ iti pañcamī mayaḥ iti ṣaṣṭhī ulkkā valmmīkam iti udaharaṇam . atha mayaḥ iti pañcamī yaṇaḥ iti ṣaṣṭhī dadhyyatra madhvvatra iti udāharaṇam . śaraḥ khayaḥ . śaraḥ khayaḥ iti vaktavyam . kim udāharaṇam . yadi śaraḥ iti pañcamī khayaḥ iti ṣaṣṭhī sththālī sththātā iti udāharaṇam . atha khayaḥ iti pañcamī śaraḥ iti ṣaṣṭhī vatssaḥ kṣṣīram apssarāḥ iti udāharaṇam . avasāne ca . avasāne ca dve bhavataḥ iti vaktavyam . vākk vāk . tvakk tvak . srukk sruk . tat tarhi vaktavyam . na vaktavyam . na ayam prasajyapratiṣedhaḥ . aci na iti . kim tarhi paryudasaḥ ayam . yat anyat acaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६४।१८-२० रो व्,५०८ न आदिनि आक्रोशे पुत्रस्य इति तत्परे च । न आदिनि आक्रोशे पुत्रस्य इति अत्र तत्परे च इति वक्तव्यम् । पुत्रपुत्रादिनि । क्अ इइइ,४६४।२१-२२ रो व्,५०८ वा हतजग्धपरे च । वा हतजग्धपरे इति वक्तव्यम् । पुत्रहती पुत्त्रहती । पुत्रजग्धी पुत्त्रजग्धी । क्अ इइइ,४६५।१-३ रो व्,५०८ चयः द्वितीयाः शरि पौष्करसादेः । चयः द्वितीयाः भवन्ति शरि परतः पौष्करसादेः आचार्यस्य मतेन । वथ्सः , ख्षीरम् , अफ्सराः ।

KA III,464.18-20 Ro V,508 na ādini ākrośe putrasya iti tatpare ca . na ādini ākrośe putrasya iti atra tatpare ca iti vaktavyam . putraputrādini . KA III,464.21-22 Ro V,508 vā hatajagdhapare ca . vā hatajagdhapare iti vaktavyam . putrahatī puttrahatī . putrajagdhī puttrajagdhī . KA III,465.1-3 Ro V,508 cayaḥ dvitīyāḥ śari pauṣkarasādeḥ . cayaḥ dvitīyāḥ bhavanti śari parataḥ pauṣkarasādeḥ ācāryasya matena . vathsaḥ , khṣīram , aphsarāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६५।४-६ रो व्,५०९ उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् । उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् कर्तव्यम् । अघ्न्ये दूरम् उत्कन्द । क्अ इइइ,४६५।७ रो व्,५०९ रोगे च इति वक्तव्यम् । उत्कन्दकः रोगः ।

KA III,465.4-6 Ro V,509 udaḥ pūrvatve skandeḥ chandasi upasaṅkhyānam . udaḥ pūrvatve skandeḥ chandasi upasaṅkhyānam kartavyam . aghnye dūram utkanda . KA III,465.7 Ro V,509 roge ca iti vaktavyam . utkandakaḥ rogaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६५।८-१० रो व्,५०९ छत्वम् अमि तच्छ्लोकेन तच्छ्मश्रुणा इति प्रयोजनम् । छत्वम् अमि इति वक्तव्यम् । किम् प्रयोजनम् । तच्छ्लोकेन । तच्छ्मश्रुणा इति ।

KA III,465.8-10 Ro V,509 chatvam ami tacchlokena tacchmaśruṇā iti prayojanam . chatvam ami iti vaktavyam . kim prayojanam . tacchlokena . tacchmaśruṇā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६५।११-१५ रो व्,५०९ सवर्णग्रहणम् किमर्थम् । झरः झरि सवर्णग्रहणम् समसङ्ख्यप्रतिषेधार्थम् । झरः झरि सवर्णग्रहणम् क्रियते समसङ्ख्यप्रतिषेधार्थम् । सङ्ख्यातानुदेशः मा भूत् इति । किम् च स्यात् । इह न स्यात् । शिण्ढि पिण्ढि इति ।

KA III,465.11-15 Ro V,509 savarṇagrahaṇam kimartham . jharaḥ jhari savarṇagrahaṇam samasaṅkhyapratiṣedhārtham . jharaḥ jhari savarṇagrahaṇam kriyate samasaṅkhyapratiṣedhārtham . saṅkhyātānudeśaḥ mā bhūt iti . kim ca syāt . iha na syāt . śiṇḍhi piṇḍhi iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६५।१६-४६७।३ रो व्,५०९-५१२ किमर्थम् इदम् उच्यते । अकारः अयम् अक्षरसमाम्नाये विवृतः उपदिष्टः तस्य संवृतताप्रत्यापत्तिः क्रियते । किम् पुनः कारणम् विवृतः उपदिश्यते । आदेशार्थम् सवर्णार्थम् अकारः विवृतः स्मृतः । आकारस्य तथा ह्रस्वः तदर्थम् पाणिनेः अ अ । आदेशार्थम् तावत् । वृक्षाभ्याम् , देवदत्ता३ । आन्तर्यतः विवृतस्य विवृतौ दीर्घप्लुतौ यथा स्याताम् । सवर्णार्थम् च । अकारः सवर्णग्रहणेन आकारम् अपि यथा गृह्णीयात् । आकारस्य तथा ह्रस्वः । तथा च अतिखट्वः , अतिमालः इति अत्र आकारस्य ह्रस्वः उच्यमानः विवृतः प्राप्नोति सः संवृतः स्यात् इति एवमर्था प्रयापत्तिः । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः । अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः । खट्वा माला । न एषः दोषः । यथा एव प्रकृतितः सवर्णग्रहणम् एवम् आदेशतः अपि भवितव्यम् तत्र आन्तर्यतः ह्रस्वस्य ह्रस्वः दीर्घस्य दीर्घः भविष्यति । आदेशस्य च अनण्त्वात् न सवर्णग्रहणम् । आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति । केषाम् । उदात्तानुदात्तस्वरितानुनासिकानाम् । सिद्धम् तु तपरनिर्देशात् । सिद्धम् एतत् । कथम् । तपरनिर्देशात् । तपरनिर्देशः कर्तव्यः । अत् अ* इति । अपरः आह : अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः । अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः : खट्वा माला । न एषः दोषः । दीर्घोच्चारणसामर्थ्यात् न भविष्यति । इदम् तर्हि प्रयोजनम् । वृक्षाभ्याम् प्लक्षाभ्याम् । अत्र अपि दीर्घवचनसामर्थ्यात् न भविष्यति । इदम् तर्हि । अपि काकः श्येनायते । ननु च अत्र अपि दीर्घवचनसमर्थ्यात् एव न भविष्यति । अस्ति अन्यत् दीर्घवचने प्रयोजनम् । किम् । दधीयति मधूयति । अत्र एव च एषः दोषः आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति । केषाम् । उदात्तानुदात्तस्वरितानुनासिकानाम् । सिद्धम् तु तपरनिर्देशात् । सिद्धम् एतत् । कथम् । तपरनिर्देशात् । तपरनिर्देशः कर्तव्यः । अत् अत् इति । एकशेषनिर्देशात् वा स्वरभिन्नानाम् भगवतः पाणिनेः सिद्धम् । एकशेषनिर्देशात् वा स्वरभिन्नानम् भगवतः पाणिनेः आचार्यस्य सिद्धम् । एकशेषनिर्देसः अयम् । अ , अ , अ इति ।

KA III,465.16-467.3 Ro V,509-512 kimartham idam ucyate . akāraḥ ayam akṣarasamāmnāye vivṛtaḥ upadiṣṭaḥ tasya saṃvṛtatāpratyāpattiḥ kriyate . kim punaḥ kāraṇam vivṛtaḥ upadiśyate . ādeśārtham savarṇārtham akāraḥ vivṛtaḥ smṛtaḥ . ākārasya tathā hrasvaḥ tadartham pāṇineḥ a a . ādeśārtham tāvat . vṛkṣābhyām , devadattā3 . āntaryataḥ vivṛtasya vivṛtau dīrghaplutau yathā syātām . savarṇārtham ca . akāraḥ savarṇagrahaṇena ākāram api yathā gṛhṇīyāt . ākārasya tathā hrasvaḥ . tathā ca atikhaṭvaḥ , atimālaḥ iti atra ākārasya hrasvaḥ ucyamānaḥ vivṛtaḥ prāpnoti saḥ saṃvṛtaḥ syāt iti evamarthā prayāpattiḥ . asti prayojanam etat . kim tarhi iti . akārasya pratyāpattau dīrghapratiṣedhaḥ . akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ . khaṭvā mālā . na eṣaḥ doṣaḥ . yathā eva prakṛtitaḥ savarṇagrahaṇam evam ādeśataḥ api bhavitavyam tatra āntaryataḥ hrasvasya hrasvaḥ dīrghasya dīrghaḥ bhaviṣyati . ādeśasya ca anaṇtvāt na savarṇagrahaṇam . ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti . keṣām . udāttānudāttasvaritānunāsikānām . siddham tu taparanirdeśāt . siddham etat . katham . taparanirdeśāt . taparanirdeśaḥ kartavyaḥ . at a* iti . aparaḥ āha : akārasya pratyāpattau dīrghapratiṣedhaḥ . akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ : khaṭvā mālā . na eṣaḥ doṣaḥ . dīrghoccāraṇasāmarthyāt na bhaviṣyati . idam tarhi prayojanam . vṛkṣābhyām plakṣābhyām . atra api dīrghavacanasāmarthyāt na bhaviṣyati . idam tarhi . api kākaḥ śyenāyate . nanu ca atra api dīrghavacanasamarthyāt eva na bhaviṣyati . asti anyat dīrghavacane prayojanam . kim . dadhīyati madhūyati . atra eva ca eṣaḥ doṣaḥ ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti . keṣām . udāttānudāttasvaritānunāsikānām . siddham tu taparanirdeśāt . siddham etat . katham . taparanirdeśāt . taparanirdeśaḥ kartavyaḥ . at at iti . ekaśeṣanirdeśāt vā svarabhinnānām bhagavataḥ pāṇineḥ siddham . ekaśeṣanirdeśāt vā svarabhinnānam bhagavataḥ pāṇineḥ ācāryasya siddham . ekaśeṣanirdesaḥ ayam . a , a , a iti .

Sanskrit only: no published translation is held for this verse.