अथ कदाचित् सा तेन सहैकशयने पराङ्मुखी यावत् तिष्ठति तावद् गृहे चौरः प्रविष्टः । सापि तं चौरं दृष्ट्वा भय-व्याकुलिता वृद्धम् अपि तं पतिं गाढं समालिलिङ्ग । सो ऽपि विस्मयात् पुलकाञ्चित-सर्व-गात्रश् चिन्तयामास-अहो किम् एषा माम् अद्यावगूहते ? यावन् निपुणतया पश्यति तावत् गृह-कोणैक-देशे चौरं दृष्ट्वा व्यचिन्तयत्-नूनम् एषास्य भयान् माम् आलिङ्गति इति ज्ञात्वा तं चौरम् आह-या ममोद्विजते (१८६) इत्य् आदि । तच् छ्रुत्वा चौरो ऽप्य् आह-हर्तव्यं ते न पश्यामि (१८७) इत्य् आदि । तस्माच् चौरस्याप्य् उपकारः श्रेयश् चिन्त्यते किं पुनः शरणागतस्य । अपि चायं तैर् विप्रकृतो ऽस्माकम् एव पुष्टये भविष्यति तदीय-रन्ध्र-दर्शनाय चेति अनेन कारणेनायम् अवध्य इति । एतद् आकर्ण्यारिमर्दनो ऽन्यं सचिवं वक्रनासं पप्रच्छ-भद्र ! साम्प्रतम् एवं स्थिते किं करणीयम् इति ? सो ऽब्रवीत्-देव ! अवध्यो ऽयम् । यतः- शत्रवो ऽपि हितार्थैव विवदन्तः परस्परम् । चौरेण जीवितं दत्तं राक्षसेन तु गो-युगम्
atha kadācit sā tena sahaikaśayane parāṅmukhī yāvat tiṣṭhati tāvad gṛhe cauraḥ praviṣṭaḥ | sāpi taṃ cauraṃ dṛṣṭvā bhaya-vyākulitā vṛddham api taṃ patiṃ gāḍhaṃ samāliliṅga | so 'pi vismayāt pulakāñcita-sarva-gātraś cintayāmāsa-aho kim eṣā mām adyāvagūhate ? yāvan nipuṇatayā paśyati tāvat gṛha-koṇaika-deśe cauraṃ dṛṣṭvā vyacintayat-nūnam eṣāsya bhayān mām āliṅgati iti jñātvā taṃ cauram āha-yā mamodvijate (186) ity ādi | tac chrutvā cauro 'py āha-hartavyaṃ te na paśyāmi (187) ity ādi | tasmāc caurasyāpy upakāraḥ śreyaś cintyate kiṃ punaḥ śaraṇāgatasya | api cāyaṃ tair viprakṛto 'smākam eva puṣṭaye bhaviṣyati tadīya-randhra-darśanāya ceti anena kāraṇenāyam avadhya iti | etad ākarṇyārimardano 'nyaṃ sacivaṃ vakranāsaṃ papraccha-bhadra ! sāmpratam evaṃ sthite kiṃ karaṇīyam iti ? so 'bravīt-deva ! avadhyo 'yam | yataḥ- śatravo 'pi hitārthaiva vivadantaḥ parasparam | caureṇa jīvitaṃ dattaṃ rākṣasena tu go-yugam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.