जल-पादो ऽपि मन्दविषेण कृत-कवच-नव्यामोहित-चित्तः किम् अपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्ण-सर्पस् तम् उद्देशं समायातः । तं च मण्डूकैर् वाह्यमानं दृष्ट्वा विस्मय-गतम् । आह च-वयस्य ! यद् अस्माकम् अशनं तैः कथं वाह्यसे । विरुद्धम् एतत् । मन्दविषो ऽब्रवीत्- सर्वम् एतद् विजानामि यथा वाह्यो ऽस्मि दर्दुरैः । किञ्चित् कालं प्रतीक्षेऽहं घृतान्धो ब्राह्मणो यथा
jala-pādo 'pi mandaviṣeṇa kṛta-kavaca-navyāmohita-cittaḥ kim api nāvabudhyate | atrāntare'nyo mahākāyaḥ kṛṣṇa-sarpas tam uddeśaṃ samāyātaḥ | taṃ ca maṇḍūkair vāhyamānaṃ dṛṣṭvā vismaya-gatam | āha ca-vayasya ! yad asmākam aśanaṃ taiḥ kathaṃ vāhyase | viruddham etat | mandaviṣo 'bravīt- sarvam etad vijānāmi yathā vāhyo 'smi darduraiḥ | kiñcit kālaṃ pratīkṣe'haṃ ghṛtāndho brāhmaṇo yathā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.