ऽयेन विधिःऽ इत्यत्र भाष्ये वचन रूपेण पठितैषा। तेन ऽराज्ञाऽ ऽसाम्नाऽ इत्याद्वल्लोपः, ऽदण्डीऽ ऽवाग्मीऽ इत्यादौ ऽइन्हन्ऽ इति नियमः, ऽसुपयाःऽ ऽसुस्रोताःऽ इत्यादौ ऽअत्वसन्तस्यऽ इति दीर्गः, ऽसुशर्माऽ ऽसुप्रथिमाऽ इत्यादौ ऽमनःऽ इति ङीब्निषेधश्च सिद्धः। अन्ये तु ऽपरिवीविषीध्वम्ऽ इत्यत्र ढत्वव्यावृत्तये क्रियमाणात् ऽइणः षीध्वम्ऽ इत्यत्राङ्गग्रहणादर्थवत्परिभाषानित्या, तन्मूलकमिदमित्याहुः। ऽविभाषेटःऽ इत्यत्रानर्थकस्यैव षीध्वमः सम्भवादत्रापि तस्यैव ग्रहणमिति भ्रमवारणाय ऽअङ्गात्ऽ इति परे॥ ननु ऽउश्चऽ इत्यत्र ऽलिङ्सिचौऽ इत्यतः ऽआत्मनेपदेषुऽ इत्येव सम्बध्येत, अनन्तरत्वादत आह :- एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः
'yena vidhiḥ' ityatra bhāṣye vacana rūpeṇa paṭhitaiṣā/ tena 'rājñā' 'sāmnā' ityādvallopaḥ, 'daṇḍī' 'vāgmī' ityādau 'inhan' iti niyamaḥ, 'supayāḥ' 'susrotāḥ' ityādau 'atvasantasya' iti dīrgaḥ, 'suśarmā' 'suprathimā' ityādau 'manaḥ' iti ṅībniṣedhaśca siddhaḥ/ anye tu 'parivīviṣīdhvam' ityatra ḍhatvavyāvṛttaye kriyamāṇāt 'iṇaḥ ṣīdhvam' ityatrāṅgagrahaṇādarthavatparibhāṣānityā, tanmūlakamidamityāhuḥ/ 'vibhāṣeṭaḥ' ityatrānarthakasyaiva ṣīdhvamaḥ sambhavādatrāpi tasyaiva grahaṇamiti bhramavāraṇāya 'aṅgāt' iti pare// nanu 'uśca' ityatra 'liṅsicau' ityataḥ 'ātmanepadeṣu' ityeva sambadhyeta, anantaratvādata āha :- ekayoganirdiṣṭānāṃ saha vā pravṛttiḥ saha vā nivṛttiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.