अनेकत्र प्रात्पवत एकस्यैकत्र नियमनं परिसङ्ख्या एककरत्र वर्जनेन अन्यतरत्र सङ्ख्यानात् । ससङ्गतिकं व्याचष्टे-एकानेकेत्यादि । असंभाव्ये स्थूलदृशा संभावयितुं अशक्ये । निर्वक्ति-परीति । परीत्युपसर्गोवर्जनवृत्तिरित्यर्थः । भेदानाह-सा चैषेति । प्रश्रपूर्विका शाब्दी तथैवार्थी अप्रश्रपूर्विका शाब्दी तथैवार्थी[ति]चतुर्धा । किं भूषणमिति -आर्यैराचरितम् । इयं प्रश्रपूर्विका शब्दोपात्तवर्ज्या । किमासेव्यमिति । यदासक्त्या द्युसरिदादिसमासङ्गेन । इयं प्रश्रपूर्वा अर्थाक्षित्पवर्ज्या । भक्तिर्भव इति । युवतिरूपे कामास्त्रे । इयम् अप्रश्रा शाब्दवर्ज्या । कौटिल्यमिति । इयम् अप्रश्रा आर्थवर्ज्या । योजनस्य सुज्ञानत्वान्न्यायसंचारायाह-अत्रालौकिकमिति । अलौकिकग्रहो हि लौकिकं व्यवच्छिनत्त्येव विरोधात् । अतो व्यवच्छ्रद्यं शाब्दमार्थं चेति भेदद्वयोदयः । अलौकिकस्य प्रसिद्धेः क्वचित्प्रश्रो ऽन्यथा चेति चातुर्विध्यम् । श्लेषभित्तिकतया, दर्शयति-विलङ्घयन्तीति । श्रुतिवर्त्म कर्णोपकण्ठो वेदमार्गश्च । विक्रिमा अरालता दौःशील्य च । चित्रकर्मस्तिति-वर्णा वलक्षायदयो द्विजातयश्च । दण्डोयष्टिः शास्तिश्च । अत्र श्लेषः पूर्वम् सिद्ध इति न बाधकः अपि तु चारुतावह इत्याह-श्लेषसम्पृक्तत्वमिति । अलौकिकतां दर्शयितुमाह-अत्र चेति । पाक्षिकत्वनियम अनेकत्र युगपत्प्रात्पौ परिसङ्घ्येति हि वाक्यवित्प्रसिद्धं लक्षणम् । तद्वैलक्षण्याय नियमनसामान्याधिकरण्यं यतः । इत्थमतः पाक्षिकप्रात्पिरूपं नियमलक्षणमपि स्वीक्रियत इति युगपत्संभावनात्मकं परिसङ्ख्यालक्षणामिह[प्रायिकम्] । परिसङ्ख्या त्वनेकत्र प्रात्पस्यैकत्र यन्त्रणम् । चतुर्धा प्रश्रवर्ज्योक्त्योर्भावाभावादियं मता ॥ न परं युगपत्प्रात्पिः पक्षे ऽपि प्रात्पिरिष्यते । परिसङ्ख्यानियमयोरतो ऽत्रालौकिकी स्थितिः ॥ अर्थापत्त्यर्थं सूत्रम्- दण्डपूपिकया अर्थान्तरापतनं अर्थापत्तिः
anekatra prātpavata ekasyaikatra niyamanaṃ parisaṅkhyā ekakaratra varjanena anyataratra saṅkhyānāt / sasaṅgatikaṃ vyācaṣṭe-ekāneketyādi / asaṃbhāvye sthūladṛśā saṃbhāvayituṃ aśakye / nirvakti-parīti / parītyupasargovarjanavṛttirityarthaḥ / bhedānāha-sā caiṣeti / praśrapūrvikā śābdī tathaivārthī apraśrapūrvikā śābdī tathaivārthī[ti]caturdhā / kiṃ bhūṣaṇamiti -āryairācaritam / iyaṃ praśrapūrvikā śabdopāttavarjyā / kimāsevyamiti / yadāsaktyā dyusaridādisamāsaṅgena / iyaṃ praśrapūrvā arthākṣitpavarjyā / bhaktirbhava iti / yuvatirūpe kāmāstre / iyam apraśrā śābdavarjyā / kauṭilyamiti / iyam apraśrā ārthavarjyā / yojanasya sujñānatvānnyāyasaṃcārāyāha-atrālaukikamiti / alaukikagraho hi laukikaṃ vyavacchinattyeva virodhāt / ato vyavacchradyaṃ śābdamārthaṃ ceti bhedadvayodayaḥ / alaukikasya prasiddheḥ kvacitpraśro 'nyathā ceti cāturvidhyam / śleṣabhittikatayā, darśayati-vilaṅghayantīti / śrutivartma karṇopakaṇṭho vedamārgaśca / vikrimā arālatā dauḥśīlya ca / citrakarmastiti-varṇā valakṣāyadayo dvijātayaśca / daṇḍoyaṣṭiḥ śāstiśca / atra śleṣaḥ pūrvam siddha iti na bādhakaḥ api tu cārutāvaha ityāha-śleṣasampṛktatvamiti / alaukikatāṃ darśayitumāha-atra ceti / pākṣikatvaniyama anekatra yugapatprātpau parisaṅghyeti hi vākyavitprasiddhaṃ lakṣaṇam / tadvailakṣaṇyāya niyamanasāmānyādhikaraṇyaṃ yataḥ / itthamataḥ pākṣikaprātpirūpaṃ niyamalakṣaṇamapi svīkriyata iti yugapatsaṃbhāvanātmakaṃ parisaṅkhyālakṣaṇāmiha[prāyikam] / parisaṅkhyā tvanekatra prātpasyaikatra yantraṇam / caturdhā praśravarjyoktyorbhāvābhāvādiyaṃ matā // na paraṃ yugapatprātpiḥ pakṣe 'pi prātpiriṣyate / parisaṅkhyāniyamayorato 'trālaukikī sthitiḥ // arthāpattyarthaṃ sūtram- daṇḍapūpikayā arthāntarāpatanaṃ arthāpattiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.