उक्तसर्वालङ्कारान्यत्वात् सर्वालङ्कारशेषतयौतत् त्रयोक्तिः । पृथग्रसवदादिविविक्तविषयतयेत्यर्थः । व्याचष्टे-भावस्याङ्कुररूपेत्यादि । अङ्कुररूपस्योद्गमदशोदयः । विरुद्धयोः तुल्यकक्ष्यतया विनिवेशनं सन्धिः । पूर्वपूर्वोपमर्देन बहूनामुत्तरोत्तरनिबन्धःशबलता । पृथक्प्रतिपादने हेतुमाह-एतत्प्रतिपादनं चेति । केवलालङ्कारत्वात्संसृष्टिसंकरवैलक्षण्यम् । तयोः सम्पृक्तत्वं स्वरूपमित्याह-संसृष्टिसंकरयोर्हीति । एकस्मिन्निति-विपक्षनामग्रहणं ग्लपितत्वे, ग्लपितत्वमावेगे, आवेगो ऽवधीरणे,, अवधीरणं प्रियतमतूष्णींभावे, तूष्णींभावस्तु पुनर्वीक्षणे हेतुः । अत्रौत्सुक्यं भावस्योदयः तस्य च गुणभाव इह विवक्षणीयः । वामेन नारीति । वामेन करेण प्रियतमाया नयनाश्रुधारां दक्षिणीन कृपाणाधारां प्रमार्जयन् कर्तव्यमूढो ऽभूदित्यत्थः । अत्र रतिभावरणौत्सुक्ययोः सन्धिः । तदेतदाह-अत्र स्नेहाख्य इति । स्नेहग्रहणादृते शृङ्गारस्थायितामाह भाविस्थायित्वे (भावः, अस्ययित्वे?) तु रतिः प्रीतिमात्रम् । क्काकार्यमिति । अत्र क्काकार्यं क्व च शशलक्ष्मणः कुलमिति वितर्कः । भूयो ऽपि दृश्येत सा इति औत्सुक्यम् । श्रुतं दोषप्रशमायेति मतिः । अहो कोपे ऽपि मुखं कान्तमिति स्मृतिः । किं वक्ष्यन्त्यपकल्मषा इति शङ्का । स्वप्ने ऽपि दुर्लभेति दैन्यम् । चेतः स्वास्थ्यं उपेहीति धृतिः । को धन्यो ऽधरं पास्यतीति चिन्ता । अत्रोत्तरोत्तरेषां पूर्वपूर्वोपमर्देन अवस्थानात् शबलता । तदेतदाह-अत्र वितर्केत्यादि । तानिमान्निगमयति-तदे[त]इत्यादि । स्थितिप्रशमवद्भावस्योदयःसन्धिरेव च । शाबल्यं च गुणीभावे पृथक्पृथगलङ्क्रिया ॥ सङ्करसंसृष्टी प्रस्तुष्टूषुराह-अधुना एषामिति । संश्लेषःसम्बन्धः । तस्यद्वैविध्यमाह-तत्र संश्लेष इत्यादि । भेदकोटेरुद्भटतायां संयोगन्यायः अनुत्कटत्वे तु समवायन्यायः । दृष्टान्तेन न्यायभेदमवस्थापयति-तिलतण्डुलन्यायः क्षीरनीरसादृश्यमिति च । उभयमपि परिपाट्या सूत्रयितुमाह-क्रमेणेति । एषां तिलतण्डुलन्यायेन मिश्रत्धे संसृष्टिः
uktasarvālaṅkārānyatvāt sarvālaṅkāraśeṣatayautat trayoktiḥ / pṛthagrasavadādiviviktaviṣayatayetyarthaḥ / vyācaṣṭe-bhāvasyāṅkurarūpetyādi / aṅkurarūpasyodgamadaśodayaḥ / viruddhayoḥ tulyakakṣyatayā viniveśanaṃ sandhiḥ / pūrvapūrvopamardena bahūnāmuttarottaranibandhaḥśabalatā / pṛthakpratipādane hetumāha-etatpratipādanaṃ ceti / kevalālaṅkāratvātsaṃsṛṣṭisaṃkaravailakṣaṇyam / tayoḥ sampṛktatvaṃ svarūpamityāha-saṃsṛṣṭisaṃkarayorhīti / ekasminniti-vipakṣanāmagrahaṇaṃ glapitatve, glapitatvamāvege, āvego 'vadhīraṇe,, avadhīraṇaṃ priyatamatūṣṇīṃbhāve, tūṣṇīṃbhāvastu punarvīkṣaṇe hetuḥ / atrautsukyaṃ bhāvasyodayaḥ tasya ca guṇabhāva iha vivakṣaṇīyaḥ / vāmena nārīti / vāmena kareṇa priyatamāyā nayanāśrudhārāṃ dakṣiṇīna kṛpāṇādhārāṃ pramārjayan kartavyamūḍho 'bhūdityatthaḥ / atra ratibhāvaraṇautsukyayoḥ sandhiḥ / tadetadāha-atra snehākhya iti / snehagrahaṇādṛte śṛṅgārasthāyitāmāha bhāvisthāyitve (bhāvaḥ, asyayitve?) tu ratiḥ prītimātram / kkākāryamiti / atra kkākāryaṃ kva ca śaśalakṣmaṇaḥ kulamiti vitarkaḥ / bhūyo 'pi dṛśyeta sā iti autsukyam / śrutaṃ doṣapraśamāyeti matiḥ / aho kope 'pi mukhaṃ kāntamiti smṛtiḥ / kiṃ vakṣyantyapakalmaṣā iti śaṅkā / svapne 'pi durlabheti dainyam / cetaḥ svāsthyaṃ upehīti dhṛtiḥ / ko dhanyo 'dharaṃ pāsyatīti cintā / atrottarottareṣāṃ pūrvapūrvopamardena avasthānāt śabalatā / tadetadāha-atra vitarketyādi / tānimānnigamayati-tade[ta]ityādi / sthitipraśamavadbhāvasyodayaḥsandhireva ca / śābalyaṃ ca guṇībhāve pṛthakpṛthagalaṅkriyā // saṅkarasaṃsṛṣṭī prastuṣṭūṣurāha-adhunā eṣāmiti / saṃśleṣaḥsambandhaḥ / tasyadvaividhyamāha-tatra saṃśleṣa ityādi / bhedakoṭerudbhaṭatāyāṃ saṃyoganyāyaḥ anutkaṭatve tu samavāyanyāyaḥ / dṛṣṭāntena nyāyabhedamavasthāpayati-tilataṇḍulanyāyaḥ kṣīranīrasādṛśyamiti ca / ubhayamapi paripāṭyā sūtrayitumāha-krameṇeti / eṣāṃ tilataṇḍulanyāyena miśratdhe saṃsṛṣṭiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.