अत्र निकुम्भिलायाम् अभिचारं चिकीर्षुणा इन्द्रजिता राघवादि-बुद्धि-प्रमोषणार्थं माया-कल्पित-मैथिली-कण्ठ-खण्डनं कृतम् इति वस्तूत्थापनम् । अथ सम्फेटः - सम्फेटस् तु समाघातः क्रुद्ध-संरब्धयोर् द्वयोः ॥स्र्स् १।५२०॥ २८५च्द् यथा - अन्योन्य-सूतोन्मथनाद् अभूतां ताव् एव सूतौ रथिनौ च कौचित् । व्यश्वौ गदा-व्यायत-सम्प्रहारौ भग्नायुधौ बाहु-विमर्द-निष्ठौ ॥स्र्स् १।५२१॥ (रवं। ७।५२) आसां च मध्ये वृत्तीनां शब्द-वृत्तिस् तु भारती । तिस्रोऽ र्थ-वृत्तयः शेषास् तच्-चतस्रो हि वृत्तयः ॥स्र्स् १।५२२॥ २८६ अन्ये तु मिश्रणाद् आसां मिश्रां वृत्तिं च पञ्चमीम् । अशेष-रस-सामान्यां मन्यन्ते लक्षयन्ति च ॥स्र्स् १।५२३॥ २८७ यथा- यत्रारभट्य्-आदि-गणाः समन्ता मिश्रत्वम् आश्रित्य मिथः प्रथन्ते । मिश्रेति तां वृत्तिम् उशन्ति धीराः साधारणीम् अर्थ-चतुष्टयस्य ॥स्र्स् १।५२४॥ (शृप्र। १२) इति । तन् विचार-सहम् । कुतः ? तत् किं वृत्ति-धर्माणां मिश्रणम् ऐक्य-रूपेण न्यूनाधिक-भावेन वा । न प्रथमः अवैषम्येण मिश्रणाभावात् । तथा मिश्रणे तु मिश्र-वृत्ति-व्यङ्ग्यो रसोऽ पि मिश्रो न्यूनाधिकः प्रसज्येत । वृत्तीनांच रस-विशेष-नियमस्य वक्ष्यमाणत्वात् । ननु मिश्रा वृत्तिः सर्व-रस-साधारणीति चेत्, न । भारत्या वृत्त्या अपहृत-विषयत्वात् । मूल-प्रमाणाभावेन स्वोक्ति-मात्रत्वाच् च । नापि द्वितीयः । वैषम्येण वृत्ति-गुणानां मिश्रणे यत्र यद्-वृत्ति-प्रत्यभिज्ञा-हेतु-भूता बहवो गुणा लक्ष्यन्ते तत्र सैव वृत्तिर् इति निश्चयात् । ननु, तत्र प्रकरणादि-वशेन रस-विशेष-व्यक्तिर् इति चेत् तर्हि प्रस्तुत-रसानुरोधेनैव वृत्ति-विशेष-निर्धारणम् अप्य् अङ्गीकर्तव्यम् एव । तथा च भरतः- भावो वापि रसो वापि प्रवृत्तिर् वृत्तिर् एव वा । सर्वेषां समवेतानां रूपं यस्य भवेद् बहु । स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥स्र्स् १।५२५॥ (नाशा। ७।११९-१२०) इति । अथैतासां रस-नियमः- कैशिकी स्यात् तु शृङ्गारे रसे वीरे तु सात्वती । रदुर-बीभत्सयोर् वृत्तिर् नियतारभटी पुनः । २८८ शृङ्गारादिषु सर्वेषु रसेष्व् इष्टैव भारती ॥स्र्स् १।५२६॥ २८९अब् एतच् च शृङ्गारादि-ग्रहणं तज्-जन्यानां हास्यादीनाम् अप्य् उपलक्षणम् । अतश् च शृङ्गार-हास्ययोः कैशिकी । वीराद्भुतयोः सात्त्वती । रौद्र-करुणयोर् बीभत्स-भयानकयोश् च आरभटीति नियमः प्रतीयते । तथा च भरतः- शृङ्गारं चैव हास्यं च वृत्तिः स्यात् कैशिकी श्रिता । सात्त्वती नाम विज्ञेया रौद्र-वीराद्भुताश्रया
atra nikumbhilāyām abhicāraṃ cikīrṣuṇā indrajitā rāghavādi-buddhi-pramoṣaṇārthaṃ māyā-kalpita-maithilī-kaṇṭha-khaṇḍanaṃ kṛtam iti vastūtthāpanam | atha sampheṭaḥ - sampheṭas tu samāghātaḥ kruddha-saṃrabdhayor dvayoḥ ||SRs 1.520|| 285cd yathā - anyonya-sūtonmathanād abhūtāṃ tāv eva sūtau rathinau ca kaucit | vyaśvau gadā-vyāyata-samprahārau bhagnāyudhau bāhu-vimarda-niṣṭhau ||SRs 1.521|| (ra.vaṃ. 7.52) āsāṃ ca madhye vṛttīnāṃ śabda-vṛttis tu bhāratī | tisro' rtha-vṛttayaḥ śeṣās tac-catasro hi vṛttayaḥ ||SRs 1.522|| 286 anye tu miśraṇād āsāṃ miśrāṃ vṛttiṃ ca pañcamīm | aśeṣa-rasa-sāmānyāṃ manyante lakṣayanti ca ||SRs 1.523|| 287 yathā- yatrārabhaṭy-ādi-gaṇāḥ samantā miśratvam āśritya mithaḥ prathante | miśreti tāṃ vṛttim uśanti dhīrāḥ sādhāraṇīm artha-catuṣṭayasya ||SRs 1.524|| (śṛ.pra. 12) iti | tan vicāra-saham | kutaḥ ? tat kiṃ vṛtti-dharmāṇāṃ miśraṇam aikya-rūpeṇa nyūnādhika-bhāvena vā | na prathamaḥ avaiṣamyeṇa miśraṇābhāvāt | tathā miśraṇe tu miśra-vṛtti-vyaṅgyo raso' pi miśro nyūnādhikaḥ prasajyeta | vṛttīnāṃca rasa-viśeṣa-niyamasya vakṣyamāṇatvāt | nanu miśrā vṛttiḥ sarva-rasa-sādhāraṇīti cet, na | bhāratyā vṛttyā apahṛta-viṣayatvāt | mūla-pramāṇābhāvena svokti-mātratvāc ca | nāpi dvitīyaḥ | vaiṣamyeṇa vṛtti-guṇānāṃ miśraṇe yatra yad-vṛtti-pratyabhijñā-hetu-bhūtā bahavo guṇā lakṣyante tatra saiva vṛttir iti niścayāt | nanu, tatra prakaraṇādi-vaśena rasa-viśeṣa-vyaktir iti cet tarhi prastuta-rasānurodhenaiva vṛtti-viśeṣa-nirdhāraṇam apy aṅgīkartavyam eva | tathā ca bharataḥ- bhāvo vāpi raso vāpi pravṛttir vṛttir eva vā | sarveṣāṃ samavetānāṃ rūpaṃ yasya bhaved bahu | sa mantavyo rasaḥ sthāyī śeṣāḥ sañcāriṇo matāḥ ||SRs 1.525|| (nā.śā. 7.119-120) iti | athaitāsāṃ rasa-niyamaḥ- kaiśikī syāt tu śṛṅgāre rase vīre tu sātvatī | radura-bībhatsayor vṛttir niyatārabhaṭī punaḥ | 288 śṛṅgārādiṣu sarveṣu raseṣv iṣṭaiva bhāratī ||SRs 1.526|| 289ab etac ca śṛṅgārādi-grahaṇaṃ taj-janyānāṃ hāsyādīnām apy upalakṣaṇam | ataś ca śṛṅgāra-hāsyayoḥ kaiśikī | vīrādbhutayoḥ sāttvatī | raudra-karuṇayor bībhatsa-bhayānakayoś ca ārabhaṭīti niyamaḥ pratīyate | tathā ca bharataḥ- śṛṅgāraṃ caiva hāsyaṃ ca vṛttiḥ syāt kaiśikī śritā | sāttvatī nāma vijñeyā raudra-vīrādbhutāśrayā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.