ब्रह्म संधत्तं तन्मे जिन्वतम् । क्षत्रꣳ संधत्तं तन्मे जिन्वतम् । इषꣳ संधत्तं तां मे जिन्वतम् । ऊर्जꣳ संधत्तं तां मे जिन्वतम् । रयिꣳ संधत्तं तां मे जिन्वतम् । पुष्टिꣳ संधत्तं तां मे जिन्वतम् । प्रजाꣳ संधत्तं तां मे जिन्वतम् । पशून्संधत्तं तान्मे जिन्वतम् । स्तुतोऽसि जनधाः । देवास्त्वा शुक्रपाः प्रणयन्तु १ सुवीराः प्रजाः प्रजनयन्परीहि । शुक्रः शुक्रशोचिषा । स्तुतोऽसि जनधाः । देवास्त्वा मन्थिपाः प्रणयन्तु । सुप्रजाः प्रजाः प्रजनयन्परीहि । मन्थी मन्थिशोचिषा । संजग्मानौ दिव आ पृथिव्यायुः । संधत्तं तन्मे जिन्वतम् । प्राणꣳ संधत्तं तं मे जिन्वतम् । अपानꣳ संधत्तं तं मे जिन्वतम् २ व्यानꣳ संधत्तं तं मे जिन्वतम् । चक्षुः संधत्तं तन्मे जिन्वतम् । श्रोत्रꣳ संधत्तं तन्मे जिन्वतम् । मनः संधत्तं तन्मे जिन्वतम् । वाचꣳ संधत्तं तां मे जिन्वतम् । आयुः स्थ आयुर्मे धत्तम् । आयुर्यज्ञाय धत्तम् । आयुर्यज्ञपतये धत्तम् । प्राणः स्थः प्राणं मे धत्तं । प्राणं यज्ञाय धत्तम् ३ प्राणं यज्ञपतये धत्तम् । चक्षुः स्थश्चक्षुर्मे धत्तम् । चक्षुर्यज्ञाय धत्तम् । चक्षुर्यज्ञपतये धत्तम् । श्रोत्रꣳ स्थः श्रोत्रं मे धत्तम् । श्रोत्रं यज्ञाय धत्तम् । श्रोत्रं यज्ञपतये धत्तम् । तौ देवौ शुक्रामन्थिनौ । कल्पयतं दैवीर्विशः । कल्पयतं मानुषीः ४ इषमूर्जमस्मासु धत्तम् । प्राणान्पशुषु । प्रजां मयि च यजमाने च । निरस्तः शण्डः । निरस्तो मर्कः । अपनुत्तौ शण्डामर्कौ सहामुना । शुक्रस्य समिदसि । मन्थिनः समिदसि । स प्रथमः संकृतिर्विश्वकर्मा । स प्रथमो मित्रो वरुणो अग्निः । स प्रथमो बृहस्पतिश्चिकित्वान् । तस्मा इन्द्राय सुतमाजुहोमि (5)
brahma saṃdhattaṃ tanme jinvatam | kṣatram̐ saṃdhattaṃ tanme jinvatam | iṣam̐ saṃdhattaṃ tāṃ me jinvatam | ūrjam̐ saṃdhattaṃ tāṃ me jinvatam | rayim̐ saṃdhattaṃ tāṃ me jinvatam | puṣṭim̐ saṃdhattaṃ tāṃ me jinvatam | prajām̐ saṃdhattaṃ tāṃ me jinvatam | paśūnsaṃdhattaṃ tānme jinvatam | stuto'si janadhāḥ | devāstvā śukrapāḥ praṇayantu 1 suvīrāḥ prajāḥ prajanayanparīhi | śukraḥ śukraśociṣā | stuto'si janadhāḥ | devāstvā manthipāḥ praṇayantu | suprajāḥ prajāḥ prajanayanparīhi | manthī manthiśociṣā | saṃjagmānau diva ā pṛthivyāyuḥ | saṃdhattaṃ tanme jinvatam | prāṇam̐ saṃdhattaṃ taṃ me jinvatam | apānam̐ saṃdhattaṃ taṃ me jinvatam 2 vyānam̐ saṃdhattaṃ taṃ me jinvatam | cakṣuḥ saṃdhattaṃ tanme jinvatam | śrotram̐ saṃdhattaṃ tanme jinvatam | manaḥ saṃdhattaṃ tanme jinvatam | vācam̐ saṃdhattaṃ tāṃ me jinvatam | āyuḥ stha āyurme dhattam | āyuryajñāya dhattam | āyuryajñapataye dhattam | prāṇaḥ sthaḥ prāṇaṃ me dhattaṃ | prāṇaṃ yajñāya dhattam 3 prāṇaṃ yajñapataye dhattam | cakṣuḥ sthaścakṣurme dhattam | cakṣuryajñāya dhattam | cakṣuryajñapataye dhattam | śrotram̐ sthaḥ śrotraṃ me dhattam | śrotraṃ yajñāya dhattam | śrotraṃ yajñapataye dhattam | tau devau śukrāmanthinau | kalpayataṃ daivīrviśaḥ | kalpayataṃ mānuṣīḥ 4 iṣamūrjamasmāsu dhattam | prāṇānpaśuṣu | prajāṃ mayi ca yajamāne ca | nirastaḥ śaṇḍaḥ | nirasto markaḥ | apanuttau śaṇḍāmarkau sahāmunā | śukrasya samidasi | manthinaḥ samidasi | sa prathamaḥ saṃkṛtirviśvakarmā | sa prathamo mitro varuṇo agniḥ | sa prathamo bṛhaspatiścikitvān | tasmā indrāya sutamājuhomi (5)
Roman (IAST) transliteration rendered by HREEM from the edition's Devanagari; the Devanagari is the edition's own.
Sanskrit only: no published translation is held for this verse.