शिष्य उवाच -- नाहं तावद् अनन्यः । कस्मात् । यस्मात् तदुभयं कर्मभूतं गटादिम् इव जानामि । यदि अनन्यो ऽहम्, तेन तदुभयं न जानीयाम्, किं तु जानामि, तस्माद् अन्यः । सुखदुःखवेदनाविक्रिया च स्वार्थैव प्राप्नोति, त्वदुक्तं च स्यात्, अनन्यत्वे, न च तयोः स्वार्थता युक्ता । न हि चन्दनकण्टककृते सुखदुःखे चन्दनकण्टकार्थे, घटोपयोगो वा घटार्थः । तस्मात् तद्विज्ञातुर् मम चन्दनादिकृतो ऽर्थः । अहं हि ततो ऽन्यः समस्तम् अर्थं जानामि बुद्ध्यारूढम्
śiṣya uvāca -- nāhaṃ tāvad ananyaḥ / kasmāt / yasmāt tadubhayaṃ karmabhūtaṃ gaṭādim iva jānāmi / yadi ananyo 'ham, tena tadubhayaṃ na jānīyām, kiṃ tu jānāmi, tasmād anyaḥ / sukhaduḥkhavedanāvikriyā ca svārthaiva prāpnoti, tvaduktaṃ ca syāt, ananyatve, na ca tayoḥ svārthatā yuktā / na hi candanakaṇṭakakṛte sukhaduḥkhe candanakaṇṭakārthe, ghaṭopayogo vā ghaṭārthaḥ / tasmāt tadvijñātur mama candanādikṛto 'rthaḥ / ahaṃ hi tato 'nyaḥ samastam arthaṃ jānāmi buddhyārūḍham
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.