न, पश्य, तदनुपपत्तेः । चैतन्यस्वरूपं चेद् आगन्तुकं पश्यसि, पश्य । नैतद् वर्शशतेनाप्य् उपपत्त्या कल्पयितुं शक्नुमो वयम्, अन्यो वाचैतन्यो ऽपि । [तस्य] संहतत्वात् पारार्थ्यम् अनेकत्वं नाशित्वं च न केनचिद् उपपत्त्या वारयितुं शक्यम् । अस्वार्थस्य स्वतःसिद्ध्यभावाद् इत्य् अवोचाम । चैतन्यस्वरूपस्य त्व् आत्मनः स्वतःसिद्धेर् अन्यानपेक्षत्वं न केनचिद् वारयितुं शक्यम्, अव्यभिचारात्
na, paśya, tadanupapatteḥ / caitanyasvarūpaṃ ced āgantukaṃ paśyasi, paśya / naitad varśaśatenāpy upapattyā kalpayituṃ śaknumo vayam, anyo vācaitanyo 'pi / [tasya] saṃhatatvāt pārārthyam anekatvaṃ nāśitvaṃ ca na kenacid upapattyā vārayituṃ śakyam / asvārthasya svataḥsiddhyabhāvād ity avocāma / caitanyasvarūpasya tv ātmanaḥ svataḥsiddher anyānapekṣatvaṃ na kenacid vārayituṃ śakyam, avyabhicārāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.