यत्रेत्यादि । सा सहोक्तिरलङ्कृतिः, "मता" = प्रतिभाता, "सतां" तद्विदां संमतेत्यर्थः । कीदृशी---"यत्र" = यस्यां, "एकेनैव वाक्येन" अभिन्नेनैव पदसमूहेन "अर्थानां" वाक्यार्थतात्पर्यभूतानां वस्तूनां "युगपत्" = तुल्यकालम् "उक्तिः" = अभिहितिः । किमर्थं---"वर्णनीयार्थसिद्धये" = "वर्णनीयस्य" = प्रधानत्वेन विवक्षितस्यार्थस्य "सिद्धये" = संपत्तये । तदिदमुक्तं भवति---यत्र वाक्यान्तरवक्तव्यमपि वस्तु प्रस्तुतार्थनिष्पत्तये विच्छित्त्या तेनैव वाक्येनाभिधीयते । यथा हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य पाणिरसि निर्भरगर्भखिन्न- देवीविवासनपटोः करुणा कुतस्ते
yatretyādi / sā sahoktiralaṅkṛtiḥ, "matā" = pratibhātā, "satāṃ" tadvidāṃ saṃmatetyarthaḥ / kīdṛśī---"yatra" = yasyāṃ, "ekenaiva vākyena" abhinnenaiva padasamūhena "arthānāṃ" vākyārthatātparyabhūtānāṃ vastūnāṃ "yugapat" = tulyakālam "uktiḥ" = abhihitiḥ / kimarthaṃ---"varṇanīyārthasiddhaye" = "varṇanīyasya" = pradhānatvena vivakṣitasyārthasya "siddhaye" = saṃpattaye / tadidamuktaṃ bhavati---yatra vākyāntaravaktavyamapi vastu prastutārthaniṣpattaye vicchittyā tenaiva vākyenābhidhīyate / yathā he hasta dakṣiṇa mṛtasya śiśordvijasya jīvātave visṛja śūdramunau kṛpāṇam / rāmasya pāṇirasi nirbharagarbhakhinna- devīvivāsanapaṭoḥ karuṇā kutaste
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.