वस्तुसाम्येत्यादि । "यदन्यस्य" ("यस्मात्") वर्ण्यात् प्रस्तुतात् "अन्यस्य" व्यतिरिक्तवृत्तेः पदार्थान्तरस्य "उपदर्शनम्" = उपनिबन्धनं स दृष्टान्तनामालङ्कारो ऽभिधीयते । कथं "वस्तुसाम्यं समाश्रित्य" "वस्तुनोः" पदार्थयोः दृष्टान्तदार्ष्टान्तिकयोः "साम्यं" सादृश्यं "समाश्रिताय" निमित्तीकृत्य । लिङ्गसंख्याविभक्तिस्वरूपलक्षणसाम्यवर्जितमिति (बोधनार्थं) वस्तुग्रहणम् । "तत्र" उपन्ते "इवाद्यसंभवे" सादृश्याभिधायिनामिवप्रभृतीनां विरहे । तदेवमुपमायाः वाचकमग्रे व्यतिरिच्यते । यथा--- सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम्
vastusāmyetyādi / "yadanyasya" ("yasmāt") varṇyāt prastutāt "anyasya" vyatiriktavṛtteḥ padārthāntarasya "upadarśanam" = upanibandhanaṃ sa dṛṣṭāntanāmālaṅkāro 'bhidhīyate / kathaṃ "vastusāmyaṃ samāśritya" "vastunoḥ" padārthayoḥ dṛṣṭāntadārṣṭāntikayoḥ "sāmyaṃ" sādṛśyaṃ "samāśritāya" nimittīkṛtya / liṅgasaṃkhyāvibhaktisvarūpalakṣaṇasāmyavarjitamiti (bodhanārthaṃ) vastugrahaṇam / "tatra" upante "ivādyasaṃbhave" sādṛśyābhidhāyināmivaprabhṛtīnāṃ virahe / tadevamupamāyāḥ vācakamagre vyatiricyate / yathā--- sarasijamanuviddhaṃ śaivalenāpi ramyaṃ malinamapi himāṃśorlakṣma lakṣmīṃ tanoti / iyamadhikamanojñā valkalenāpi tanvī kimiva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.