वाक्यार्थेत्यादि । "ज्ञेयः सोर्ऽथान्तरन्यासः" = (अर्थान्तरन्यास) नामालङ्कारो "ज्ञेयः" = परिज्ञातव्यः । कीदृशः---"वाक्यार्थान्तरविन्यासः"---परस्परान्वितपदसमुदायाभिधेयं वस्तु वाक्यार्थः तस्मादन्यस्मात् = अप्रकृतत्वात् प्रस्तुतव्यतिरेकि वाक्यार्थान्तरं, तस्य "विन्यासः" = विशिष्टं न्यसनं = तद्विदाह्लादकारितयोपनिबन्धः । कस्मात् कारणात् "मुख्यतात्पर्यसाम्यतः"," मुख्यं" = प्रस्तावाधिकृतत्वात् प्रधानभूतं वस्तु, तस्य "तात्पर्यं" = यत्परत्वेन तत्संमतं, तस्य "साम्यतः" = सादृश्यात् । कथं "समर्(पकत) याहितः" = समर्पकत्वेनोपनिबद्धः, तदुपपत्तियोजनेनेति यावत् । अत्र सामान्ये समर्थनीये विशेषः समर्थको, विशेषे वा सामान्यं, (त) योः परस्पराव्यभिचारात् । यथा--- असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः
vākyārthetyādi / "jñeyaḥ sor'thāntaranyāsaḥ" = (arthāntaranyāsa) nāmālaṅkāro "jñeyaḥ" = parijñātavyaḥ / kīdṛśaḥ---"vākyārthāntaravinyāsaḥ"---parasparānvitapadasamudāyābhidheyaṃ vastu vākyārthaḥ tasmādanyasmāt = aprakṛtatvāt prastutavyatireki vākyārthāntaraṃ, tasya "vinyāsaḥ" = viśiṣṭaṃ nyasanaṃ = tadvidāhlādakāritayopanibandhaḥ / kasmāt kāraṇāt "mukhyatātparyasāmyataḥ"," mukhyaṃ" = prastāvādhikṛtatvāt pradhānabhūtaṃ vastu, tasya "tātparyaṃ" = yatparatvena tatsaṃmataṃ, tasya "sāmyataḥ" = sādṛśyāt / kathaṃ "samar(pakata) yāhitaḥ" = samarpakatvenopanibaddhaḥ, tadupapattiyojaneneti yāvat / atra sāmānye samarthanīye viśeṣaḥ samarthako, viśeṣe vā sāmānyaṃ, (ta) yoḥ parasparāvyabhicārāt / yathā--- asaṃśayaṃ kṣatraparigrahakṣamā yadāryamasyāmabhilāṣi me manaḥ / satāṃ hi sandehapadeṣu vastuṣu pramāṇamantaḥ karaṇapravṛttayaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.