निषेधच्छाययेत्यादि । "आक्षेप इति स ज्ञेयः" = सो ऽप्यमाक्षेपालङ्कारोज्ञातव्यः । स कीदृशः---"प्रस्तुतस्यैव वस्तुनः आक्षेपः" = प्रकृतस्यैवार्थस्य आक्षेपः = अपाकरणम् = अभिप्रेतस्यार्थस्यापि निवर्तनमिति (यावत्) । कया ? "निषेधच्छायया" = प्रतिषेधविच्छित्त्या । किमर्थम् ? "कान्तिं प्रथयितुं परां" = प्रकृष्टामुपशोभां प्रकटयितुम् । यथा--- सुहअ विलंवसु थोअं जाव इमं विरहकाअरं हिअअं । संठविऊण भणिस्सं अहवा वोलेसु किं भणिमो
niṣedhacchāyayetyādi / "ākṣepa iti sa jñeyaḥ" = so 'pyamākṣepālaṅkārojñātavyaḥ / sa kīdṛśaḥ---"prastutasyaiva vastunaḥ ākṣepaḥ" = prakṛtasyaivārthasya ākṣepaḥ = apākaraṇam = abhipretasyārthasyāpi nivartanamiti (yāvat) / kayā ? "niṣedhacchāyayā" = pratiṣedhavicchittyā / kimartham ? "kāntiṃ prathayituṃ parāṃ" = prakṛṣṭāmupaśobhāṃ prakaṭayitum / yathā--- suhaa vilaṃvasu thoaṃ jāva imaṃ virahakāaraṃ hiaaṃ / saṃṭhaviūṇa bhaṇissaṃ ahavā volesu kiṃ bhaṇimo
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.