0/5 readHide transliteration
ता एता देवताः सृष्टा अस्मिन् महत्य् अर्णवे प्रापतन् । तम् अशनापिपासाभ्याम् अन्ववार्जत् । ता एनम् अब्रुवन्न् आयतनं नः प्रजानीहि । यस्मिन् प्रतिष्ठिता अन्नम् अदामेति
tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan | tam aśanāpipāsābhyām anvavārjat | tā enam abruvann āyatanaṃ naḥ prajānīhi | yasmin pratiṣṭhitā annam adāmeti
Those deities (devati), Agni and the rest, after they had been sent forth, fell into this great ocean K Then he (the Self) besieged him, (the person) with hunger and thirst.
Translated by F. Max MüllerFrom an unproofread scan of the printed edition; spelling and line breaks may carry OCR errors.
← PreviousMark as learned Next →
In this sitting
1.2.1 ता एता देवताः सृष्टा अस्मिन् महत्य् अर्णवे प्रापतन् । तम् अशनापिपासाभ्याम् अन्ववार्जत् । ता एनम् अब्रुवन्न् आयतनं नः प्रजानीहि । यस्मिन् प्रतिष्ठिता अन्नम् अदामेति 1.2.2 ताभ्यो गाम् आनयत् । ता अब्रुवन् न वै नो ऽयम् अलम् इति । ताभ्यो ऽश्वम् आनयत् । ता अब्रुवन् न वै नो ऽयम् अलम् इति 1.2.3 ताभ्यः पुरुषम् आनयत् । ता अब्रुवन् सुकृतं बतेति । पुरुषो वाव सुकृतम् । ता अब्रवीद् यथायतनं प्रविशतेति 1.2.4 अग्निर् वाग् भूत्वा मुखं प्राविशत् । वायुः प्राणो भूत्वा नासिके प्राविशत् । आदित्यश् चक्षुर् भूत्वाक्षिणी प्राविशत् । दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् । ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन् । चन्द्रमा मनो भूत्वा हृदयं प्राविशत् । मृत्युर् अपानो भूत्वा नाभिं प्राविशत् । आपो रेतो भूत्वा शिश्नं प्राविशन् 1.2.5 तम् अशनापिपासे अब्रूताम् अवाभ्याम् अभिप्रजानीहीति । ते अब्रवीद् एतास्व् एव वां देवतास्व् आभजाम्य् एतासु भागिन्यौ करोमीति । तस्माद् यस्यै कस्यै च देवतायै हविर् गृह्यते भागिन्याव् एवास्याम् अशनापिपासे भवतः See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.