अग्निमेवोदकेन परिषिञ्चति न परिध्याङ्गमपि । तद्विधिमाह-आदिते ऽनुमन्यस्वेत्यादिना । प्राचीनं प्रागायतम् । उदीचानमुदगायतम् । समन्तंसर्वतः । अत्र ऽदेव सवितः प्रसुवऽइत्येतावानेव मन्त्रः, नर्च आदिप्रदेशः । तथा नोत्तरे परिषेचने ऽप्रासावीऽरिति प्रसुवपदस्योहः । वैश्वदेवकाण्डे एकाग्निविधावेवमोवाम्नातानां ऽअदिते ऽनिमन्यस्वऽइत्यादानामष्टानां यजुषां पूर्वोत्तरपरिषेचनस्थेष्वष्टसु व्यापारेषु श्रुतिस्थानाभ्यां विनियोगात्, वाजपेयप्रकरणस्थाया ऋचः स्वतो ऽत्रापि विनियोगायोग्यत्वात्, आदिप्रदेशे समुदायलक्षणापत्तेः, यजु प्राये मन्त्राष्टके ऋचो ऽप्रतीतत्वात्, ऊहपक्षे आर्षपाठबाधप्रसङ्गात्, ऽतस्मादृचं नोहेत्ऽइति बह्वृचश्रुतिविप्रतिषिद्धस्य ग्रहणप्रसङ्गात्, अस्मदीयानामाचाराच्च । विस्पष्टं चैतत् बोधायनानां, ऽश्रन्वमंस्थाः प्रासावीरिति मन्त्रान्तान् सन्नमयतिऽ(बौगृ।१-४-३७) इति । एवं चोत्तरपरिषेचने ऽअन्वमंस्थाः प्रासावीः ऽइति पूर्वमन्त्रेभ्यो विशेषमात्रस्य पाठः न पुनरबहः । यथाग्नौ ऽएतेनैव त्रैष्टुभेनछन्दसाहरिष्टकामुपदधेऽ; इति । सन्नामशब्दश्चात्र गौणः । अत एवैते मन्त्राः वैश्वदेवकाण्डमुपाकृत्य प्रागुत्सर्जनादध्येतव्याः, ब्राह्मयज्ञपारायणयोश्च ॥३॥ पैतृकेषु समन्तमेव तूष्णीम्
agnimevodakena pariṣiñcati na paridhyāṅgamapi / tadvidhimāha-ādite 'numanyasvetyādinā / prācīnaṃ prāgāyatam / udīcānamudagāyatam / samantaṃsarvataḥ / atra 'deva savitaḥ prasuva'ityetāvāneva mantraḥ, narca ādipradeśaḥ / tathā nottare pariṣecane 'prāsāvī'riti prasuvapadasyohaḥ / vaiśvadevakāṇḍe ekāgnividhāvevamovāmnātānāṃ 'adite 'nimanyasva'ityādānāmaṣṭānāṃ yajuṣāṃ pūrvottarapariṣecanastheṣvaṣṭasu vyāpāreṣu śrutisthānābhyāṃ viniyogāt, vājapeyaprakaraṇasthāyā ṛcaḥ svato 'trāpi viniyogāyogyatvāt, ādipradeśe samudāyalakṣaṇāpatteḥ, yaju prāye mantrāṣṭake ṛco 'pratītatvāt, ūhapakṣe ārṣapāṭhabādhaprasaṅgāt, 'tasmādṛcaṃ nohet'iti bahvṛcaśrutivipratiṣiddhasya grahaṇaprasaṅgāt, asmadīyānāmācārācca / vispaṣṭaṃ caitat bodhāyanānāṃ, 'śranvamaṃsthāḥ prāsāvīriti mantrāntān sannamayati'(bau.gṛ.1-4-37) iti / evaṃ cottarapariṣecane 'anvamaṃsthāḥ prāsāvīḥ 'iti pūrvamantrebhyo viśeṣamātrasya pāṭhaḥ na punarabahaḥ / yathāgnau 'etenaiva traiṣṭubhenachandasāhariṣṭakāmupadadhe'; iti / sannāmaśabdaścātra gauṇaḥ / ata evaite mantrāḥ vaiśvadevakāṇḍamupākṛtya prāgutsarjanādadhyetavyāḥ, brāhmayajñapārāyaṇayośca //3// paitṛkeṣu samantameva tūṣṇīm
Sanskrit only: no published translation is held for this verse.