क्अ इ,३२।१२-३३।४ रो इ,१०७-१०८ अ , इ , उण् ऋ , ऌक् ए , ओङ् ऐ , औच् । प्रत्याहारे अनुबन्धानाम् कथम् अज्ग्रहणेषु न । ये एते अक्षु प्रत्याहारार्थाः अनुबन्धाः क्रियन्ते एतेषाम् अज्ग्रहणेषु ग्रहणम् कस्मात् न भवति । किम् च स्यात् । दधि णकारीयति मधु णकारीयति इति । इकः यण् अचि इति यणादेशः प्रसज्येत । आचारात् । किम् इदम् आचारात् इति । आचार्याणाम् उपचारात् । न एतेषु आचार्याः अच्कार्याणि कृतवन्तः । अप्रधानत्वात् । अप्रधानत्वात् च । न खलु अपि एतेषाम् अक्षु प्राधान्येन उपदेशः क्रियते । क्व तर्हि । हल्षु । कुतः एतत् । एषा हि आचार्यस्य शैली लक्ष्यते यत् तुल्यजातीयान् तुल्यजातीयेषु उपदिशति । अचः अक्षु हलः हल्षु । लोपः च बलवत्तरः । लोपः खलु अपि तावत् भवति । ऊकालः अच् इति वा योगः तत्कालानाम् यथा भवेत् अचाम् ग्रहणम् अच्कार्यम् तेन एतेषाम् न भविष्यति । अथ वा योगविभागः करिष्यते । ऊकालः अच् । उ ऊ उ३ इति एवङ्कालः अच् भवति । ततः ह्रस्वदीर्घप्लुतः । ह्रस्वदीर्घप्लुतसञ्ज्ञः च भवति ऊकालः अच् । एवम् अपि कुक्कुटः इति अत्र अपि प्राप्नोति । तस्मात् पूर्वोक्तः एव परिहारः । एषः एव अर्थः। अपरः आह : ह्रस्वादीनाम् वचनात् प्राक् यावत् तावत् एव योगः अस्तु अच्कार्याणि यथा स्युः तत्कालेषु अक्षु कार्याणि ।
KA I,32.12-33.4 Ro I,107-108 a , i , uṇ ṛ , ḷk e , oṅ ai , auc . pratyāhāre anubandhānām katham ajgrahaṇeṣu na . ye ete akṣu pratyāhārārthāḥ anubandhāḥ kriyante eteṣām ajgrahaṇeṣu grahaṇam kasmāt na bhavati . kim ca syāt . dadhi ṇakārīyati madhu ṇakārīyati iti . ikaḥ yaṇ aci iti yaṇādeśaḥ prasajyeta . ācārāt . kim idam ācārāt iti . ācāryāṇām upacārāt . na eteṣu ācāryāḥ ackāryāṇi kṛtavantaḥ . apradhānatvāt . apradhānatvāt ca . na khalu api eteṣām akṣu prādhānyena upadeśaḥ kriyate . kva tarhi . halṣu . kutaḥ etat . eṣā hi ācāryasya śailī lakṣyate yat tulyajātīyān tulyajātīyeṣu upadiśati . acaḥ akṣu halaḥ halṣu . lopaḥ ca balavattaraḥ . lopaḥ khalu api tāvat bhavati . ūkālaḥ ac iti vā yogaḥ tatkālānām yathā bhavet acām grahaṇam ackāryam tena eteṣām na bhaviṣyati . atha vā yogavibhāgaḥ kariṣyate . ūkālaḥ ac . u ū u3 iti evaṅkālaḥ ac bhavati . tataḥ hrasvadīrghaplutaḥ . hrasvadīrghaplutasañjñaḥ ca bhavati ūkālaḥ ac . evam api kukkuṭaḥ iti atra api prāpnoti . tasmāt pūrvoktaḥ eva parihāraḥ . eṣaḥ eva arthaḥ. aparaḥ āha : hrasvādīnām vacanāt prāk yāvat tāvat eva yogaḥ astu ackāryāṇi yathā syuḥ tatkāleṣu akṣu kāryāṇi .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.