Library·Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja·10

Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja 10

करविन्दीया व्याख्या ऊर्ध्व - येत् सर्वासामिष्टकानामूर्थ्वाप्रमाणमुत्सेधं जानुपञ्चमेन कारयेत् । अङ्गुल्यधिकारे द्वात्रिंशज्जानुरिति बोधायनः । तस्य पञ्चमं षडङ्गुलयः अर्धचतुरदशास्तिलाश् च । तेन संमितमिष्टकानाम् ऊर्ध्वप्रमाणं भवति । जानुदघ्नं चिन्वीत प्रथमं चिन्वानः, पञ्च चितयो भवन्तीति श्रुत्योःसमावेशादूर्ध्वप्रमाणे समं स्यादश्रुतत्वादिति जानुपञ्चमा इष्टका भवेयुः । जानुद्विगुणा नाभिः । जानुत्रिगुणमास्यम् । जानुदघ्ने सहस्रा इष्टकाः नाभिदघ्ने द्विसाहस्रा द्विप्रस्ताराश् च । आस्यदघ्ने त्रिषाहस्राः त्रिप्रस्ताराश् च । तत्र सर्वत्र विशेषाश्रवणात् जानुपञ्चममेवोर्ध्वप्रमाणमिष्टकानाम् । इष्टकानां कारयेदिति इहानुवर्तमाने पुनरपि तयोर्ग्रहणं गार्हपत्यधिष्णयेष्टकानामपि जानुपञ्चमत्वाय । अर्धेन - षस्य अर्धेन पञ्चचार्धेनन कारयेदित्येव । नाकसदश्वूडोपधानमन्त्रविशेषाः । तैरुपधेयाः । पञ्चपढ्चेष्टका जानुपञ्व्रमस्योर्धेन कार्याः उत्तरा "नाकसद्भय उपदधातिऽ । इत्येकस्मिन् प्रस्तारे तासामुत्तराधरभावदर्शनात् । इष्टकाभिरकेव जानुदघ्नादिसाम्पादनात्, पुरीषोपधानीमष्टका समीकरणार्थे चितेर्वृद्धयर्थं च । यत्पच्य षस्य करणपरिकॢप्तानां इष्टकानां पाकवशात् प्रतिह्रासः - क्षय उपजायते । तत्पुरीषेण पूरयेत्, अनेन्ष्टका न दुष्यन्ति अवर्जनीयत्वात्, तस्य "मित्रैतां पचेतिऽ लिङ्गात्, वातातपाभ्यामपि शोषणं पाक एव । अत एव पाकवशाद्धीनमिष्टकायामविस्तारोभयमुपधानकाले पुरीषेण पूरयेत् । कुतः? अनियतपरिमाणत्वात् पुरीषस्य । न ह्येतावत् पुरीषं प्रक्षेपणीयमिति नियमः । तस्मात्पाकवशाद्धीनस्य पुरीषेण पूरणमेव । जलार्द्रा मृत् पुरीषं । तेनेष्टकानां ह्रासं पूरयेत् । सुन्दरराजीया व्याख्या ऊर्ध्व कारयेत् "त्रिंशदङ्गुलं जानुः, इत्याग्निवेश्यः । तस्य पञ्चमं षडङ्गुलम्, "षडङ्गुलोत्सेधा, इत्येव कात्यायनः । अर्धेन च त्रयङ्गुलेन । यत्पच्य षस्य शुष्यमाणानां सर्वेषामेतदुपल्क्षणम् । "यच्छोषपाकाभ्यां प्रतिह्रसेतऽ इत्येव बोधायनः ॥ नवमः खण्डः कपर्दिक्षाष्यम् उपधाने ऽध्यर्धा दश पुरस्तात् प्रतीचीर् आत्मन्य् उपदधाति । दश पश्चात् प्राचीः आत्मनि पुरस्ताद्भागे षट्त्रिंशदङ्गुलायामेन कारिताद्यार्धाः प्रतीचीः प्रत्यगायताः दशोपदधाति । आत्प्रन्येव पश्चाद्भागे ता एवेष्टकाः तत्संख्याकाः प्राचीः - प्रागायताः । पञ्चपञ्च पक्षाग्रयोः । पक्षाप्यययोश् च विशयास् तासाम् अर्धेष्टकामात्राणि पक्षयोर् भवन्ति पञ्चपञ्च पक्षाग्रयोर्दक्षिणायताः उदगायताश् च । विशयाश् च पञ्च चोदगायताः दक्षिणायताश् च । इष्टकाशब्देन पञ्चभागीया एव गृह्यान्ते नाध्यर्दा "विपरीता अप्ययाऽ इति लिङ्गात् । पञ्चपञ्च पुच्छपार्श्वयोर् दक्षिणा उदीचीश् च

karavindīyā vyākhyā ūrdhva - yet sarvāsāmiṣṭakānāmūrthvāpramāṇamutsedhaṃ jānupañcamena kārayet / aṅgulyadhikāre dvātriṃśajjānuriti bodhāyanaḥ / tasya pañcamaṃ ṣaḍaṅgulayaḥ ardhacaturadaśāstilāś ca / tena saṃmitamiṣṭakānām ūrdhvapramāṇaṃ bhavati / jānudaghnaṃ cinvīta prathamaṃ cinvānaḥ, pañca citayo bhavantīti śrutyoḥsamāveśādūrdhvapramāṇe samaṃ syādaśrutatvāditi jānupañcamā iṣṭakā bhaveyuḥ / jānudviguṇā nābhiḥ / jānutriguṇamāsyam / jānudaghne sahasrā iṣṭakāḥ nābhidaghne dvisāhasrā dviprastārāś ca / āsyadaghne triṣāhasrāḥ triprastārāś ca / tatra sarvatra viśeṣāśravaṇāt jānupañcamamevordhvapramāṇamiṣṭakānām / iṣṭakānāṃ kārayediti ihānuvartamāne punarapi tayorgrahaṇaṃ gārhapatyadhiṣṇayeṣṭakānāmapi jānupañcamatvāya / ardhena - ṣasya ardhena pañcacārdhenana kārayedityeva / nākasadaśvūḍopadhānamantraviśeṣāḥ / tairupadheyāḥ / pañcapaḍhceṣṭakā jānupañvramasyordhena kāryāḥ uttarā "nākasadbhaya upadadhāti' / ityekasmin prastāre tāsāmuttarādharabhāvadarśanāt / iṣṭakābhirakeva jānudaghnādisāmpādanāt, purīṣopadhānīmaṣṭakā samīkaraṇārthe citervṛddhayarthaṃ ca / yatpacya ṣasya karaṇaparikḷptānāṃ iṣṭakānāṃ pākavaśāt pratihrāsaḥ - kṣaya upajāyate / tatpurīṣeṇa pūrayet, anenṣṭakā na duṣyanti avarjanīyatvāt, tasya "mitraitāṃ paceti' liṅgāt, vātātapābhyāmapi śoṣaṇaṃ pāka eva / ata eva pākavaśāddhīnamiṣṭakāyāmavistārobhayamupadhānakāle purīṣeṇa pūrayet / kutaḥ? aniyataparimāṇatvāt purīṣasya / na hyetāvat purīṣaṃ prakṣepaṇīyamiti niyamaḥ / tasmātpākavaśāddhīnasya purīṣeṇa pūraṇameva / jalārdrā mṛt purīṣaṃ / teneṣṭakānāṃ hrāsaṃ pūrayet / sundararājīyā vyākhyā ūrdhva kārayet "triṃśadaṅgulaṃ jānuḥ, ityāgniveśyaḥ / tasya pañcamaṃ ṣaḍaṅgulam, "ṣaḍaṅgulotsedhā, ityeva kātyāyanaḥ / ardhena ca trayaṅgulena / yatpacya ṣasya śuṣyamāṇānāṃ sarveṣāmetadupalkṣaṇam / "yacchoṣapākābhyāṃ pratihraseta' ityeva bodhāyanaḥ // navamaḥ khaṇḍaḥ kapardikṣāṣyam upadhāne 'dhyardhā daśa purastāt pratīcīr ātmany upadadhāti | daśa paścāt prācīḥ ātmani purastādbhāge ṣaṭtriṃśadaṅgulāyāmena kāritādyārdhāḥ pratīcīḥ pratyagāyatāḥ daśopadadhāti / ātpranyeva paścādbhāge tā eveṣṭakāḥ tatsaṃkhyākāḥ prācīḥ - prāgāyatāḥ / pañcapañca pakṣāgrayoḥ | pakṣāpyayayoś ca viśayās tāsām ardheṣṭakāmātrāṇi pakṣayor bhavanti pañcapañca pakṣāgrayordakṣiṇāyatāḥ udagāyatāś ca / viśayāś ca pañca codagāyatāḥ dakṣiṇāyatāś ca / iṣṭakāśabdena pañcabhāgīyā eva gṛhyānte nādhyardā "viparītā apyayā' iti liṅgāt / pañcapañca pucchapārśvayor dakṣiṇā udīcīś ca

Sanskrit only: no published translation is held for this verse.

पञ्चपञ्चध्यर्धा दक्षिणायता उदगायताश् च यथा समीपे प्रदेशमात्रमवशिष्यते तथोपधेयाः । करविन्दीया व्याख्या उप चीः उपधानकालो द्वतीयकरणोत्पन्ना इष्टकाः आत्मनि पूर्वान्ते दशोपदध्यात् । प्रतीचीः प्रत्यगायाताः उदीचीरिति । ता एव एश पश्चात् प्राचीः आत्मनि पश्चिमान्ते प्रागायाताः ता एव । पञ्च याः ता एव प्राच्यौ रीत्यौ । पक्षाप्यययोश् च विशयाः । पक्षाप्ययः - पक्षमूलं विविधमात्मनि पक्षे च शेरत इति विशयाः । तासां कियदात्मनि कियत्पक्ष इत्याह - तासांअन्ति तासां विशयानामर्धेष्टकामात्राणि पक्षयोर्मवन्ति । आत्मानमरत्निना प्रदेशेन पक्षमित्यर्थः । प्राच्यौ रीत्यौ ॥ पञ्च चीश् च पुच्छपार्श्वयोः पञ्चपञ्च उत्तरा दक्षिणामुखाः दक्षिणा उत्तरामुखाः प्राच्यौ रीत्यौ! उत्तरसूत्रे भेदामावाय पुच्छाग्रप्रादेशस्यापृथग्ग्रीतिता प्रतिपादयिष्यते । अत एता अग्रप्रभृत्युपधेयाः ॥ सुन्दरराजीया व्याख्या प्रतीचीः प्रत्यगायताः । उदीचोरिति आत्मन्येव एता उदगायताः, अन्यथा पञ्चानामसंभवात् । पक्षे आत्मनि च शेरत इति विशयाः । अरत्निमात्रा ह्यात्मनि । प्रादेशं पुरस्तादवशिष्य । कपर्दिभाष्यम् पुच्छे प्रादेशम् उपधाय सर्वम् अग्निं पञ्चमभागीयाभिः प्रच्छादयेत्

pañcapañcadhyardhā dakṣiṇāyatā udagāyatāś ca yathā samīpe pradeśamātramavaśiṣyate tathopadheyāḥ / karavindīyā vyākhyā upa cīḥ upadhānakālo dvatīyakaraṇotpannā iṣṭakāḥ ātmani pūrvānte daśopadadhyāt / pratīcīḥ pratyagāyātāḥ udīcīriti / tā eva eśa paścāt prācīḥ ātmani paścimānte prāgāyātāḥ tā eva / pañca yāḥ tā eva prācyau rītyau / pakṣāpyayayoś ca viśayāḥ / pakṣāpyayaḥ - pakṣamūlaṃ vividhamātmani pakṣe ca śerata iti viśayāḥ / tāsāṃ kiyadātmani kiyatpakṣa ityāha - tāsāṃanti tāsāṃ viśayānāmardheṣṭakāmātrāṇi pakṣayormavanti / ātmānamaratninā pradeśena pakṣamityarthaḥ / prācyau rītyau // pañca cīś ca pucchapārśvayoḥ pañcapañca uttarā dakṣiṇāmukhāḥ dakṣiṇā uttarāmukhāḥ prācyau rītyau! uttarasūtre bhedāmāvāya pucchāgraprādeśasyāpṛthaggrītitā pratipādayiṣyate / ata etā agraprabhṛtyupadheyāḥ // sundararājīyā vyākhyā pratīcīḥ pratyagāyatāḥ / udīcoriti ātmanyeva etā udagāyatāḥ, anyathā pañcānāmasaṃbhavāt / pakṣe ātmani ca śerata iti viśayāḥ / aratnimātrā hyātmani / prādeśaṃ purastādavaśiṣya / kapardibhāṣyam pucche prādeśam upadhāya sarvam agniṃ pañcamabhāgīyābhiḥ pracchādayet

Sanskrit only: no published translation is held for this verse.

पञ्चदशभागीयाभिः सङ्ख्यां पूरयेत्

pañcadaśabhāgīyābhiḥ saṅkhyāṃ pūrayet

Sanskrit only: no published translation is held for this verse.

ननु कथं सर्वस्याग्नेः पञ्चदशभागीयाभिः प्रच्छादनम्? उच्यते - अत्रोपहितानामिष्टकानामबाधेन सर्वस्मिन्नग्नौ पञ्चमभागीयाभिः प्रच्छाद्यामाने तदेकदेशे तासामसम्भवे सत्याख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणी नहि वचनशतेनाप्यशङ्कनीयार्थःशक्यो विधातुमिति चतुरश्राभिः प्रच्छादयितुमशक्यत्वात् प्रथमप्रतीतसर्वशब्दानुरोधेन जघन्यः पञ्चमभागीयाशब्दो बाहुल्याभिप्रायो वर्णनीयः । तेन तत्तत्सहकारिणीभिरत्रत्याभिः सम्भवन्तीभिरपि प्रच्छादनं कार्यमित्येवमर्थं प्रादेशानामत्र प्राप्तिः । एष न्यायस्तत्राङ्गीकरणीयः । तत्रत्याभिरनुरक्ताभिरपि प्रच्छादने किं वार्ऽधेष्टकाः करणेनोत्पन्नाः न कुत्रचिद्विनियुक्ताः । तासामुपदेशबलादेव अत्र संख्यापूरणे प्रच्छादने च यथायोगं विनियोगः कार्यः । किञ्च यच्चतुरश्रं त्रयश्रि वा सम्पद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेदिति परिभाषां वक्ष्यति । तथा वात्र समुपधानं स्यात् । अत्रात्मनि सन्ध्यन्तराले चत्वारिंशत् पञ्चमभागीयास्तासां पुरस्ताद्दश पश्चाच्च दश । पक्षयोर्विंशतिः पुच्छे दश । ता एता दशोत्तरशतं पञ्चमभागीयाः, पञ्चाशदर्धाश्चतस्रोर्ऽधाः द्वौ प्रादेशाविति षट्षष्ठिः शतं चेष्टकाः । "साहस्रं चिन्वीत प्रथमं चिन्वानऽ इत्यादिभिर्वाक्यैः प्रत्यग्नीष्टकानां साहस्रादयःसंख्या विधास्यन्ते । ताश् च प्रतिचिति प्रतिप्रस्तारं च भिद्यान्त इति च तत्रैव प्रतिपादयिष्यते । सा सहस्रसंख्या कथमत्र सम्पाद्येत्याह ॥ पञ्च रयेत् पञ्चदशभागीयाभिरष्टाङ्गुलाभिःसंख्या पूरयेत् । का संख्यात्र पूर्यते? किं समुदायगता? उत प्रस्तारगता अविशेषात्? न समुदायगता आनन्तर्यात्, प्रतिप्रस्तारं शतद्वयनियमाच्च, प्रस्तारगतैव संख्या तत्र पूर्यते, अस्य वचनस्य सामर्थ्यादवसीयते संख्यापूरणं उपधानाय प्रच्छादिकासु कासांचिदुद्धरणं प्रचालनं वा यथायोगं न्याय्यमिति । अत्र प्रस्तारशतद्वयसम्पत्तये चतुस्त्रिंशत्संख्यासम्पाद्या । सा च प्रच्छादितासु काश्विदुद्धृत्य योग्नेष्टकोपधानेन भवति । तत्रैकस्मिन् पञ्चमभागीयाक्षेत्रे नव पञ्चदशभागीयाःशेरत इति । तत्रतत्रोपधाने देशानियमे तदुद्धरणेन तासामुपधाने कार्ये मन्त्रोपधानसौकर्याय उद्धरणोपधानदेशनियम उच्यते । तत्रास्मनि प्राच्यो दश रीतयः, तत्र मध्यमरीत्योः द्वितीये उद्धृत्य तत्र अष्टादश पञ्चदशभागीया आवपेत् । तयोरेव रीत्योरुपान्ते उद्धृत्याष्टादश आवपेत् । पुच्छे चतस्नः प्राच्यो रीत्यः, तत्र मध्यमयोरन्त उद्धृत्य चतस्रोर्ऽधेष्टका उदीचीरुपदध्यात् । एवं द्विशतः प्रस्तारः पूर्यते । अत्रैके पुच्छाग्रे दश प्रादेशानुपधाय पञ्चमभागीयाभिः प्रच्छादयन्ति, तेषां च विपरीतवचनानर्थक्यप्रसङ्गो मैदप्रसङ्गश् च भवतीति तथा नोपधेयाः । किञ्च - यदि पुच्छाग्रे प्रादेशानामुपधानमपीष्टमभविष्यत्तर्हि पादेष्टकाश्चतुर्मागीयानां पक्षाग्रयोः पञ्चदश पुच्छाग्र इति च स्पष्टतरं पुच्छाग्र इत्येवावक्ष्यत् । न चैवमुक्तं । तस्मादुक्तविध एवोपधानक्रम इति स्थितम् ॥ सुन्दरराजीया व्याख्या पुच्छादवशिष्टं प्रादेशक्षेत्रं यामिरिष्टकाभिर्मेदपरिहारेणोपधातुं शक्यते ताभिरुपदध्यात् । तत्र पार्श्वयोर्द्वे प्रादेशमात्रयौ मध्ये चतस्रोर्ऽधेष्टका उदगायताः । एतदेव प्रादेशकरणस्य प्रयोजनम् । अतः प्रादेशाभावेन कियते । शिष्टाग्नौ पञ्चमभागीयाभिः प्रच्छादिते षट्षष्टिशतमिष्टका भवन्ति । अरत्निप्रादेशरहिते पञ्चाशच्छतं इष्टका भवन्ति । तत्र आत्मन्युदीच्ये नव रीतयः । तत्र आत्मनि मध्यमायां मध्यमाश्चतस्र उद्धृत्य चतुःपञ्चाशन्निधेयाः । उभयत्रापि पुच्छाग्रे द्वे पञ्चम्यावुद्धृत्य चतस्रोर्ऽधेष्टका उपधेया उदगायताः । एवं द्विशतः प्रस्तारः ॥ कपर्दिबाष्टम् अपरस्मिन् प्रस्तारे ऽध्यर्धा दश दक्षिणत उदीचीर् आत्मन्य् उपदधाति । दशोत्तरतो दक्षिणाः आत्मनि दक्षिणत उतीचीरुदगायताः दशाध्यर्धाः उपदधाति आत्मन्येवोत्तरतः दशध्यर्धाः दक्षिणायताः । यथा प्रथमे प्रस्तारे पक्षौ तथा पुच्छम् । यथा पुच्छं तथा पक्षौ विपरीता अप्यये

nanu kathaṃ sarvasyāgneḥ pañcadaśabhāgīyābhiḥ pracchādanam? ucyate - atropahitānāmiṣṭakānāmabādhena sarvasminnagnau pañcamabhāgīyābhiḥ pracchādyāmāne tadekadeśe tāsāmasambhave satyākhyātānāmarthaṃ bruvatāṃ śaktiḥ sahakāriṇī nahi vacanaśatenāpyaśaṅkanīyārthaḥśakyo vidhātumiti caturaśrābhiḥ pracchādayitumaśakyatvāt prathamapratītasarvaśabdānurodhena jaghanyaḥ pañcamabhāgīyāśabdo bāhulyābhiprāyo varṇanīyaḥ / tena tattatsahakāriṇībhiratratyābhiḥ sambhavantībhirapi pracchādanaṃ kāryamityevamarthaṃ prādeśānāmatra prāptiḥ / eṣa nyāyastatrāṅgīkaraṇīyaḥ / tatratyābhiranuraktābhirapi pracchādane kiṃ vār'dheṣṭakāḥ karaṇenotpannāḥ na kutracidviniyuktāḥ / tāsāmupadeśabalādeva atra saṃkhyāpūraṇe pracchādane ca yathāyogaṃ viniyogaḥ kāryaḥ / kiñca yaccaturaśraṃ trayaśri vā sampadyetārdheṣṭakābhiḥ pādeṣṭakābhirvā pracchādayediti paribhāṣāṃ vakṣyati / tathā vātra samupadhānaṃ syāt / atrātmani sandhyantarāle catvāriṃśat pañcamabhāgīyāstāsāṃ purastāddaśa paścācca daśa / pakṣayorviṃśatiḥ pucche daśa / tā etā daśottaraśataṃ pañcamabhāgīyāḥ, pañcāśadardhāścatasror'dhāḥ dvau prādeśāviti ṣaṭṣaṣṭhiḥ śataṃ ceṣṭakāḥ / "sāhasraṃ cinvīta prathamaṃ cinvāna' ityādibhirvākyaiḥ pratyagnīṣṭakānāṃ sāhasrādayaḥsaṃkhyā vidhāsyante / tāś ca praticiti pratiprastāraṃ ca bhidyānta iti ca tatraiva pratipādayiṣyate / sā sahasrasaṃkhyā kathamatra sampādyetyāha // pañca rayet pañcadaśabhāgīyābhiraṣṭāṅgulābhiḥsaṃkhyā pūrayet / kā saṃkhyātra pūryate? kiṃ samudāyagatā? uta prastāragatā aviśeṣāt? na samudāyagatā ānantaryāt, pratiprastāraṃ śatadvayaniyamācca, prastāragataiva saṃkhyā tatra pūryate, asya vacanasya sāmarthyādavasīyate saṃkhyāpūraṇaṃ upadhānāya pracchādikāsu kāsāṃciduddharaṇaṃ pracālanaṃ vā yathāyogaṃ nyāyyamiti / atra prastāraśatadvayasampattaye catustriṃśatsaṃkhyāsampādyā / sā ca pracchāditāsu kāśviduddhṛtya yogneṣṭakopadhānena bhavati / tatraikasmin pañcamabhāgīyākṣetre nava pañcadaśabhāgīyāḥśerata iti / tatratatropadhāne deśāniyame taduddharaṇena tāsāmupadhāne kārye mantropadhānasaukaryāya uddharaṇopadhānadeśaniyama ucyate / tatrāsmani prācyo daśa rītayaḥ, tatra madhyamarītyoḥ dvitīye uddhṛtya tatra aṣṭādaśa pañcadaśabhāgīyā āvapet / tayoreva rītyorupānte uddhṛtyāṣṭādaśa āvapet / pucche catasnaḥ prācyo rītyaḥ, tatra madhyamayoranta uddhṛtya catasror'dheṣṭakā udīcīrupadadhyāt / evaṃ dviśataḥ prastāraḥ pūryate / atraike pucchāgre daśa prādeśānupadhāya pañcamabhāgīyābhiḥ pracchādayanti, teṣāṃ ca viparītavacanānarthakyaprasaṅgo maidaprasaṅgaś ca bhavatīti tathā nopadheyāḥ / kiñca - yadi pucchāgre prādeśānāmupadhānamapīṣṭamabhaviṣyattarhi pādeṣṭakāścaturmāgīyānāṃ pakṣāgrayoḥ pañcadaśa pucchāgra iti ca spaṣṭataraṃ pucchāgra ityevāvakṣyat / na caivamuktaṃ / tasmāduktavidha evopadhānakrama iti sthitam // sundararājīyā vyākhyā pucchādavaśiṣṭaṃ prādeśakṣetraṃ yāmiriṣṭakābhirmedaparihāreṇopadhātuṃ śakyate tābhirupadadhyāt / tatra pārśvayordve prādeśamātrayau madhye catasror'dheṣṭakā udagāyatāḥ / etadeva prādeśakaraṇasya prayojanam / ataḥ prādeśābhāvena kiyate / śiṣṭāgnau pañcamabhāgīyābhiḥ pracchādite ṣaṭṣaṣṭiśatamiṣṭakā bhavanti / aratniprādeśarahite pañcāśacchataṃ iṣṭakā bhavanti / tatra ātmanyudīcye nava rītayaḥ / tatra ātmani madhyamāyāṃ madhyamāścatasra uddhṛtya catuḥpañcāśannidheyāḥ / ubhayatrāpi pucchāgre dve pañcamyāvuddhṛtya catasror'dheṣṭakā upadheyā udagāyatāḥ / evaṃ dviśataḥ prastāraḥ // kapardibāṣṭam aparasmin prastāre 'dhyardhā daśa dakṣiṇata udīcīr ātmany upadadhāti | daśottarato dakṣiṇāḥ ātmani dakṣiṇata utīcīrudagāyatāḥ daśādhyardhāḥ upadadhāti ātmanyevottarataḥ daśadhyardhāḥ dakṣiṇāyatāḥ / yathā prathame prastāre pakṣau tathā puccham | yathā pucchaṃ tathā pakṣau viparītā apyaye

Sanskrit only: no published translation is held for this verse.

पुच्छाग्रे पश्चादध्यर्धाः प्रागायताः । दक्षिणे पक्षे पश्चात् पञ्च प्रागायताः पुरस्ताच्च् पञ्च । षट्प्रत्यगायताः । उत्तरपक्षे चैवं प्रागायताः प्रत्यगायताश् च । पुच्छाप्यये ऽध्यर्धाः पञ्च प्रागायताः प्रत्यगायताश् च । पुच्छाप्यये ऽध्यर्थाः पञ्च प्रागायताः । तासामर्धेष्टकामात्रा आत्मनि भवन्ति । एवं विपरीता अप्यये । तासां पुरस्तात्पञ्चार्धेष्टका उदीच्यः । सर्वम् अग्निं पञ्चमभागीयाभिः प्रच्छादयेत्

pucchāgre paścādadhyardhāḥ prāgāyatāḥ / dakṣiṇe pakṣe paścāt pañca prāgāyatāḥ purastācc pañca / ṣaṭpratyagāyatāḥ / uttarapakṣe caivaṃ prāgāyatāḥ pratyagāyatāś ca / pucchāpyaye 'dhyardhāḥ pañca prāgāyatāḥ pratyagāyatāś ca / pucchāpyaye 'dhyarthāḥ pañca prāgāyatāḥ / tāsāmardheṣṭakāmātrā ātmani bhavanti / evaṃ viparītā apyaye / tāsāṃ purastātpañcārdheṣṭakā udīcyaḥ / sarvam agniṃ pañcamabhāgīyābhiḥ pracchādayet

Sanskrit only: no published translation is held for this verse.

पञ्चदशभागीयाबिः सङ्ख्यां पूरयेत् पूर्ववद्द्विशतः प्रस्तारः । करविन्दीया व्याख्या अपर णाः द्वितीये प्रस्तारे ऽध्यर्धा आत्मनो दक्षिणे भागे दशोपदध्यादुत्तरे दश ॥ यथाप्र क्षौ प्रथमप्रस्तारे यथा पक्षावुपहितौ तथा पुच्छे । यथा पुच्छमुपहितं तथा पक्षयोः । एतदुक्तं भवति - पुच्छाग्रे पुच्छाग्रसन्धौ पञ्च पञ्चाध्यर्धा उपधेयाः । पक्षयोस्तु पार्श्वयोः अध्यर्धा उपधेयाः, तत्र विशेषमाह - विपरीता प्यये पुच्छाप्यये पक्षाप्ययवदतिदेशप्राप्तानामध्यर्धानां आत्मनि अरत्नि मात्रत्वं पुच्छेर्ऽधेष्टकामात्रत्वं च प्राप्तोतीत्यत आह । अत्र विपरीता भवेयुरर्धेष्टका मात्राण्यात्मनि भवेयुररद्ननिमात्राणि पुच्छ इत्यर्थः । अस्य च भेदाभावः प्रयोजनमिति पूर्वस्मिन्नेव प्रस्तार उक्तं । सर्वम येत् अत्र पुरस्तात् प्रभृत्यात्मनि प्रच्छाद्यमाने पुच्छाप्ययविशयानां पुरतः पुरुषमात्रे प्रादेशो ऽवशिष्यते । तत्र पञ्चमभागीयानामसम्भवात् भेदाभावाय पञ्चार्धेष्टका उदीच्य उपधेयाः, तासामुपधाने हेतुरुक्तः । अत्रात्मन्यध्यर्धानां मध्ये पञ्चषष्टिः पञ्चम करविन्दीया व्याख्या भागीयाः पञ्च चार्धाः, पक्षयोर्द्वादश द्वादश पञ्चमभागीयाः, पुच्छे पञ्चदश ता एताः चतुरुत्तरशतं पञ्चमबागीयाः, पञ्चचार्धाः, चतुःपञ्चाघदध्यर्धाः । ता एताः त्रिषष्टिः शतं च, अत्र सप्तत्रिंशत्संख्या सम्पाद्या ॥ पञ्च येत् अत्र पक्षयोरात्मनि पुच्छे चतस्रः पञ्चमभागीया उद्धृत्य ष्ट्त्रिंशतं पञ्चदशभागीया उपदध्यात् । अत्मनि पूर्वस्यां रीत्यां मध्ये पञ्चोद्धत्य दशार्धेष्टका उदीचीरुपदध्यादेवं द्विशतः प्रस्तारः ॥ सुन्दरराजीया व्याख्या अपरस्मिनतथापुच्छम् अत्राप्यययोः पञ्चपञ्चाध्यर्धाः । पार्श्वेषु पञ्चपञ्चाध्यर्धाः, अरत्ननिवृद्धौ षट्षडिति द्रष्टव्यम् । पुच्छाप्यये या उपधीयन्ते तासामर्धेष्टकामात्राण्यात्मनि भवन्ति । पुच्छे ऽरत्निमात्राणि । एतच्च प्रादेशवृद्धौ । इतरथा अर्धेष्टकामात्राण्येव पुच्छे । सर्वमग्निंअपूरयेत् पूर्ववदात्मनि मध्ये चतस्रःषड्वोद्धृत्य एकैकस्य स्थाने नवनवाष्टाङ्गुलाः । सारत्निप्रादेशपक्षे पुच्छाप्ययस्थाभ्यः प्राक्पञ्चार्धेष्टका उदगायता उपधेयाः । आत्मनि पूर्वरीत्यां मध्यमाः पञ्चोद् धृत्य दशार्धेष्टका उदगायता उपदध्यात् । एवं द्विशतः । अरत्निप्रादशाभावे तु चतु पञ्चाशता पञ्चतशभागीयाभिः द्वयूनं द्विशतं भवति । पुच्छपार्श्वयोरेवैकैकां पञ्चमीमपोह्य चतस्रोर्ऽधेष्टकाः प्रागायताः । एवं द्विशतः । कपर्दिभाष्यम् व्यत्यासं चिनुयाद् यावतः प्रस्तारांश् चिकीर्षेत्

pañcadaśabhāgīyābiḥ saṅkhyāṃ pūrayet pūrvavaddviśataḥ prastāraḥ / karavindīyā vyākhyā apara ṇāḥ dvitīye prastāre 'dhyardhā ātmano dakṣiṇe bhāge daśopadadhyāduttare daśa // yathāpra kṣau prathamaprastāre yathā pakṣāvupahitau tathā pucche / yathā pucchamupahitaṃ tathā pakṣayoḥ / etaduktaṃ bhavati - pucchāgre pucchāgrasandhau pañca pañcādhyardhā upadheyāḥ / pakṣayostu pārśvayoḥ adhyardhā upadheyāḥ, tatra viśeṣamāha - viparītā pyaye pucchāpyaye pakṣāpyayavadatideśaprāptānāmadhyardhānāṃ ātmani aratni mātratvaṃ puccher'dheṣṭakāmātratvaṃ ca prāptotītyata āha / atra viparītā bhaveyurardheṣṭakā mātrāṇyātmani bhaveyuraradnanimātrāṇi puccha ityarthaḥ / asya ca bhedābhāvaḥ prayojanamiti pūrvasminneva prastāra uktaṃ / sarvama yet atra purastāt prabhṛtyātmani pracchādyamāne pucchāpyayaviśayānāṃ purataḥ puruṣamātre prādeśo 'vaśiṣyate / tatra pañcamabhāgīyānāmasambhavāt bhedābhāvāya pañcārdheṣṭakā udīcya upadheyāḥ, tāsāmupadhāne heturuktaḥ / atrātmanyadhyardhānāṃ madhye pañcaṣaṣṭiḥ pañcama karavindīyā vyākhyā bhāgīyāḥ pañca cārdhāḥ, pakṣayordvādaśa dvādaśa pañcamabhāgīyāḥ, pucche pañcadaśa tā etāḥ caturuttaraśataṃ pañcamabāgīyāḥ, pañcacārdhāḥ, catuḥpañcāghadadhyardhāḥ / tā etāḥ triṣaṣṭiḥ śataṃ ca, atra saptatriṃśatsaṃkhyā sampādyā // pañca yet atra pakṣayorātmani pucche catasraḥ pañcamabhāgīyā uddhṛtya ṣṭtriṃśataṃ pañcadaśabhāgīyā upadadhyāt / atmani pūrvasyāṃ rītyāṃ madhye pañcoddhatya daśārdheṣṭakā udīcīrupadadhyādevaṃ dviśataḥ prastāraḥ // sundararājīyā vyākhyā aparasminatathāpuccham atrāpyayayoḥ pañcapañcādhyardhāḥ / pārśveṣu pañcapañcādhyardhāḥ, aratnanivṛddhau ṣaṭṣaḍiti draṣṭavyam / pucchāpyaye yā upadhīyante tāsāmardheṣṭakāmātrāṇyātmani bhavanti / pucche 'ratnimātrāṇi / etacca prādeśavṛddhau / itarathā ardheṣṭakāmātrāṇyeva pucche / sarvamagniṃapūrayet pūrvavadātmani madhye catasraḥṣaḍvoddhṛtya ekaikasya sthāne navanavāṣṭāṅgulāḥ / sāratniprādeśapakṣe pucchāpyayasthābhyaḥ prākpañcārdheṣṭakā udagāyatā upadheyāḥ / ātmani pūrvarītyāṃ madhyamāḥ pañcod dhṛtya daśārdheṣṭakā udagāyatā upadadhyāt / evaṃ dviśataḥ / aratniprādaśābhāve tu catu pañcāśatā pañcataśabhāgīyābhiḥ dvayūnaṃ dviśataṃ bhavati / pucchapārśvayorevaikaikāṃ pañcamīmapohya catasror'dheṣṭakāḥ prāgāyatāḥ / evaṃ dviśataḥ / kapardibhāṣyam vyatyāsaṃ cinuyād yāvataḥ prastārāṃś cikīrṣet

Sanskrit only: no published translation is held for this verse.

गतमेतत् । पञ्च चितयो भवन्ति । पञ्चभिः पुरीषैर् अभ्यूहतीति पुरीषान्ता चितिर् अर्थान्तरत्वात् पुरीषस्य

gatametat / pañca citayo bhavanti | pañcabhiḥ purīṣair abhyūhatīti purīṣāntā citir arthāntaratvāt purīṣasya

Sanskrit only: no published translation is held for this verse.

इष्टकासन्धानार्थं पुरीषम् । तस्मात्तदन्ता चितिः । तदर्थत्वात्तद्घरेण गृह्यते । जानुदघ्नीं साहस्रं चिन्वीत प्रथमं चिन्वानः यः प्रथमं चिनोति स जानुदघ्नीं चिनुयात् सहस्रसङ्ख्यायुतं च । महाग्निमेवाधिकृत्य विधानान्न शालामुखीयधिष्णीयानां सहस्रसङ्ख्यायामन्तर्भावः । नापि जानुदघ्नीता ॥ नाभिदघ्नीं द्विषाहस्रं द्वितीयम् आस्यदघ्नीं त्रिषाहस्रं तृतीयम् उत्तरम् उत्तरं ज्यायाम्सम् नाभिप्रमाणमुत्सेधतः द्विषाह्स्रं द्वितीयं चिन्वानः । आस्यप्रमाणं तृतीयं चिन्वानः । त्रिषाहस्रं तृतीयमुत्तरमुत्तरं ज्यायाम्सं ॥ नाभिप्रमाणमुत्सेधतः द्विषाह्स्रं द्वलितीयं चिन्वानः । आस्यप्रमाणं तृतीयं चिन्वानः । त्रिषाहस्रं च ग्रीवदघ्नमित्यस्मदीया श्रुतिः । महान्तं बृहन्तम् अपरिमितं स्वर्गकामश् चिन्वीतेति विज्ञायते

iṣṭakāsandhānārthaṃ purīṣam / tasmāttadantā citiḥ / tadarthatvāttadghareṇa gṛhyate / jānudaghnīṃ sāhasraṃ cinvīta prathamaṃ cinvānaḥ yaḥ prathamaṃ cinoti sa jānudaghnīṃ cinuyāt sahasrasaṅkhyāyutaṃ ca / mahāgnimevādhikṛtya vidhānānna śālāmukhīyadhiṣṇīyānāṃ sahasrasaṅkhyāyāmantarbhāvaḥ / nāpi jānudaghnītā // nābhidaghnīṃ dviṣāhasraṃ dvitīyam āsyadaghnīṃ triṣāhasraṃ tṛtīyam uttaram uttaraṃ jyāyāmsam nābhipramāṇamutsedhataḥ dviṣāhsraṃ dvitīyaṃ cinvānaḥ / āsyapramāṇaṃ tṛtīyaṃ cinvānaḥ / triṣāhasraṃ tṛtīyamuttaramuttaraṃ jyāyāmsaṃ // nābhipramāṇamutsedhataḥ dviṣāhsraṃ dvalitīyaṃ cinvānaḥ / āsyapramāṇaṃ tṛtīyaṃ cinvānaḥ / triṣāhasraṃ ca grīvadaghnamityasmadīyā śrutiḥ / mahāntaṃ bṛhantam aparimitaṃ svargakāmaś cinvīteti vijñāyate

Sanskrit only: no published translation is held for this verse.

किञ्च ग्रीवास्ययोः पर्याय्त्वं लोके च दृश्यते - दशास्यो दशग्रीव इति । तस्माच्छुत्योरेकार्थता । सुन्दरराजीया व्याख्या व्यत्यासंअपुरीषस्य इष्टकाःस्थण्डिलार्थाः, तत्सन्धानार्थं पुरीषं । अतो भिन्नप्रयोजनत्वात्सख्यान्तरं नावगाहते । जानुदघ्नींअज्यायांसं साहस्रं सहस्रपरिमाणम् । द्विषाहस्रं त्रिषाहस्रमिति "पूर्वपदादितिऽ षत्वम् । उत्तरमुत्तरं चतुर्थप्रभृति । अत्र ब्राह्नणं प्रमाणत्वेनाह - महान्तंअविज्ञायते महान्तं विधाभ्यासेन । अपरिमितं बृहन्तं ऊर्वप्रमाणेन । अत्र बोधायनः - ऊर्ध्वप्रमाणाभ्यासं जानोः पञ्चमस्य चतुर्विंशेनैके समामनन्ति । कपर्दिभाष्यम् द्विषाहस्रे द्विप्रस्ताराश् चितयो भवन्ति । त्रिषाहस्र त्रिप्रस्ताराश् चतुर्थप्रभृतिष्व् आहारेषु नित्यम् इष्टकापरिमाणम्

kiñca grīvāsyayoḥ paryāytvaṃ loke ca dṛśyate - daśāsyo daśagrīva iti / tasmācchutyorekārthatā / sundararājīyā vyākhyā vyatyāsaṃapurīṣasya iṣṭakāḥsthaṇḍilārthāḥ, tatsandhānārthaṃ purīṣaṃ / ato bhinnaprayojanatvātsakhyāntaraṃ nāvagāhate / jānudaghnīṃajyāyāṃsaṃ sāhasraṃ sahasraparimāṇam / dviṣāhasraṃ triṣāhasramiti "pūrvapadāditi' ṣatvam / uttaramuttaraṃ caturthaprabhṛti / atra brāhnaṇaṃ pramāṇatvenāha - mahāntaṃavijñāyate mahāntaṃ vidhābhyāsena / aparimitaṃ bṛhantaṃ ūrvapramāṇena / atra bodhāyanaḥ - ūrdhvapramāṇābhyāsaṃ jānoḥ pañcamasya caturviṃśenaike samāmananti / kapardibhāṣyam dviṣāhasre dviprastārāś citayo bhavanti | triṣāhasra triprastārāś caturthaprabhṛtiṣv āhāreṣu nityam iṣṭakāparimāṇam

Sanskrit only: no published translation is held for this verse.

विज्ञायते च ःन ज्यायांसं चित्वा कनीयांसं चिन्वीतेतिऽ

vijñāyate ca ḥna jyāyāṃsaṃ citvā kanīyāṃsaṃ cinvīteti'

Sanskrit only: no published translation is held for this verse.