उत्तराच् चेद् आविर्भूतस्वरूपस् तु इतरपरामर्शाद्या जीवाशङ्का जाता सासंभवान्निराकृता । अथेदानीं मृतस्येवामृतसेकात्पुनः समुत्थानं जीवाशङ्कायाः क्रियते उत्तरस्मात्प्रजापत्याद्वाक्यात् । तत्रहि ऽय आत्मापहतपाप्माऽ इत्यपहतपाप्मत्वादिगुणकमात्मानमन्वेष्टव्यं विजिज्ञासितव्यं च प्रतिज्ञाय ऽय एषो ऽक्षिणि पुरुषो दृश्यत एष आत्माऽ (छा। ८।७।४) इति ब्रुवन्नक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशति । ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामिऽ (छा। ८।९।३) इति च तमेव पुनः पुनः परामृश्य ऽय एष स्वप्ने महीयमानश्चरत्येष आत्माऽ (छा। ८।१०।१) इति ऽतद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्माऽ इति च जीवमेवावस्थान्तरगतं व्याचष्टे । तस्यैव चापहतपाप्मत्वादि दर्शयति- ऽएतदमृतमभयमेतद्ब्रह्मऽ इति । नाहं खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानिऽ (छा। ८।११।१,२) इति च सुषुप्तावस्थायां दोषमुपलभ्य ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात् इति चोपक्रम्य शरीरसंबन्धनिन्दापूर्वकं ऽएष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषःऽ इति जीवमेव शरीरात्समुत्थितमुत्तमपुरुषं दर्शयति । तस्मादस्ति संभवो जीवे पारमेश्वराणां धर्माणाम् । अतः ऽदहरो ऽस्मिन्नन्तराकाशःऽ इति जीव एवोक्त इति चेत्कश्चिद्ब्रूयात्, तं प्रति ब्रूयात्- ऽआविर्भूतस्वरूपस्तुऽ इति । तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । नोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का संभवतीत्यर्थः । कस्मात् । यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यते । आविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः । भूतपूर्वगत्या जीववचनम् । एतदुक्तं भवति- ऽय एषो ऽक्षिणि इत्यक्षिलक्षितं द्रष्टारं निर्दिश्योदशरावब्राह्मणेनैनं शरीरात्मताया व्युत्थाप्य ऽएतं त्वेव तेऽ इति पुनःपुनस्तमेव व्याख्यायेयत्वेनाकृष्य स्वप्नसुषुप्तोपन्यासक्रमेण ऽपरं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽ इति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म तद्रूपतयैनं जीवं व्याचष्टे न जैवेन रूपेण । यत्परं ज्योतिरूपसंपत्तव्यं श्रुतं तत्परं ब्रह्म । तच्चापहतपाप्मत्वादिधर्मकं, तदेव च जीवस्य पारमार्थिकं स्वरूपं ऽतत्त्वमसिऽ इत्यादिशास्त्रेभ्यः, नेतरदुपाधिकल्पितम् । यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निवर्तयन्कूटस्थनित्यदृक्स्वरूपमात्मानमहं ब्रह्मास्मीति न प्रतिपद्यते तावज्जीवस्य जीवत्वम् । यदा तु देहेन्द्रियमनोबुद्धिसंघाताद्व्युत्थाप्य श्रुत्या प्रतिबोध्यते, नासि त्वं देहेन्द्रियमनोबुद्धिसंघातः, नासि संसारी, किं तर्हि तद्यत्सत्यं स आत्मा चैतन्यमात्रस्वरूपस्तत्त्वमसीति, तदा कूचस्थनित्यदृक्स्वरूपमात्मानं प्रतिबुदध्यास्माच्छरीराद्यभिमानात्समुत्तिष्ठन्स एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति । ऽस यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड। ३।२।१) इत्यादिश्रुतिभ्यः । तदेव चास्य पारमार्थिकं स्वरूपं येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते । कथं पुनः स्वं च रूपं स्वेनैव निष्पद्यत इति संभवति कूटस्थनित्यस्य सुवर्णादीनां तु द्रव्यान्तरसंपर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात् । तथा नक्षत्रादीनामहन्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् । नतु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः संभवत्यसंसर्गित्वाद्व्योम्न इव, दृष्टविरोधाच्च । दृष्टिश्रुतिमतिविज्ञातयो हि जीवस्य स्वरूपम् । तच्च शरीरादसमुत्थितस्यापि जीवस्य सदा निष्पन्नमेव दृश्यते । सर्वो हि जीवः पश्यन्शृण्वन्मन्वानो विजानन्व्यवहरत्यन्यथा व्यवहारानुपपत्तेः । तच्चेच्छरीरात्समुत्थितस्य निष्पद्येत प्राक्समुत्थानाद्दृष्टो व्यवहारो विरुध्येत । अतः किमात्मकमिदं शरीरात्समुत्थानं, किमात्मिका वा स्वरूपेणाभिनिष्पत्तिरिति । अत्रोच्यते- प्राग्विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिरविविक्तमिव जीवस्य दृष्ट्यादिज्योतिःस्वरूपं भवति । यथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं च स्वरूपं प्राग्विवेकग्रहणाद्रक्तनीलाद्युपाधिभिरविविक्तमिव भवति । प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन च स्वेनरूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन् । तथा देहाद्युपाध्यविविक्तस्यैव सतो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानं विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिः । तथा विवेकाविवेकमात्रेणैवात्मनो ऽशरीरत्वं सशरीरत्वं च, मन्त्रवर्णात् ऽअशरीरं शरीरेषुऽ (का। १।२।२२) इति, ऽशरीरस्थो ऽपि कौन्तेय न करोति न लिप्यतेऽ (गी।१३।३१) इति च सशरीरत्वाशरीरत्वविशेषाभावस्मरणात् । तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन्विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते । नत्वान्यादृशावाविर्भावानाविर्भावौ स्वरूपस्य संभवतः स्वरूपत्वादेव । एवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदो न वस्तुकृतः, व्योमवदसङ्गत्वाविशेषात् । कुतश्चिदेवं प्रतिपत्तव्यम् । यतो ऽय एषो ऽक्षिणि पुरुषो दृश्यतेऽ इत्युपदिश्य ऽएतदमृतमभयमेतद्ब्रह्मऽ इत्युपदिशति । यो ऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते सो ऽमृताभयलक्षणाद्ब्रह्मणो ऽन्यश्चेत्स्यात्ततो ऽमृताभयब्रह्मसामानाध् इकरण्यं न स्यात् । नापि प्रतिच्छायात्मायमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावादित्वप्रसङ्गात् । तथा द्वितीये ऽपि पर्याये ऽय एषः स्वप्ने महीयमानश्चरतिऽ इति न प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्द्रष्टुरन्यो निर्दिष्टः, ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामिऽ इत्युपक्रमात् । किञ्चाहमद्य स्वप्ने हस्तिनमद्राक्षं नेदानीं तं पश्यामीति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टे । द्रष्टारं तु तमेव प्रत्यभिजानाति य एवाहं स्वप्नमद्राक्षं स एवाहं जागरितं पश्यमीति । तथा तृतीये ऽपि पर्याये ऽनहि खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि इति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति न विज्ञातारं प्रतिषेधति । यत्तु तत्र ऽविनाशमेवापीतो भवतिऽ इति तदपि विशेषविज्ञानविनाशाभिप्रायमेव न विज्ञातृविनाशाभिप्रायम् । ऽनहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते ऽविनाशित्वात्ऽ (बृ। ४।३।३०) इति श्रुत्यन्तरात् । तथा चतुर्थे ऽपि पर्याये ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्ऽ इत्युपक्रम्य ऽमघवन्मर्त्यं वा इदं शरीरम्ऽ इत्यादिना प्रपञ्चेन शरीरादुपाधिसंबन्धप्रत्याख्यानेन संप्रसादशब्दोदितं जीवं ऽस्वेन रूपेणाभिनिष्पद्यतेऽ इति ब्रह्मस्वरूपापन्नं दर्शयन्न परस्माद्ब्रह्मणो ऽमृताभयस्वरूपादन्यं जीवं दर्शयति । केचित्तु परमात्मविवक्षायां ऽएतं त्वेव तेऽ इति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहतपाप्मत्वादिगुणकमात्मानं ते भूयो ऽनुव्याख्यास्यामीति कल्पयन्ति । तेषामेतमिति संनिहितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येत । भूयःश्रुतिश्चोपरुध्येत, पर्यायान्तराभिहितस्य पर्यायान्तरे ऽनभिधीयमानत्वात् । ऽएतं त्वेव तेऽ इति च प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येत । तस्माद्यदविद्याप्रत्युपस्थापितपारमार्थिकं जैवं रूपं कर्तृभोक्तृरागद्वेषादिदोषकलुषितमनेकानर्थयोगि तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपाद्यते, सर्पादिविलयनेनेव रज्ज्वादीन् । अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्ते ऽस्मदीयाश्च केचित् । तेषां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिबोधायेदं शारीरकमारब्धम् । एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया मायया मायाविवदनेकधा विभाव्यते नान्यो विज्ञानधातुरस्तीति । यत्त्विदं परमेश्वरवाक्ये जीवमाशङ्ख्य प्रतिषेधति सूत्रकारः - ऽनासंभवात्ऽ (ब्र।१।३।१८) इत्यादिना । तत्रायमभिप्रायः - नित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादिपरिकल्पितम् । तदात्मैकत्वप्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीति परमात्मनो जीवादन्यत्वं द्रढयति । जीवस्य तु न परस्मादन्यत्वं प्रतिपिपादयिषति किं त्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जीवभेदम् । एवं हि स्वाभाविककर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो न विरुध्यन्त इति मन्यते । प्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयति- ऽशास्त्रदृष्ट्या तूपदेशो वामदेववत्ऽ (ब्र। १।१।३०) इत्यादिनावर्णिश्चास्माभिर्विद्वद्भेदेन कर्मविधिविरोधपरिहारः ॥ १९ ॥ ---------------------- महीयमानो वासनामयैर्विषयैः पूज्यमान इति स्वप्नपर्याये, तद्यत्रेति सुषुप्तिपर्याये च जीवमेव प्रजापतिर्व्याचष्ट इत्यन्वयः । अहेति निपातः खेदे । एतस्मात्प्रकृतादात्मनो ऽन्यत्र अन्यम् । उदशरावेति उदकपूर्णे शरावे प्रतिबिम्बात्मानं देहं स्वस्याज्ञातं यत्तन्मह्यं वाच्यमित्युक्तः श्रुत्यर्थः । व्युत्थाप्य विचार्य । अभिनिष्पद्यत इत्यत्र एतदुक्तं भवतीति संबन्धः । अभिभावकः सौरालोकास्तद्वियोगे । वेदना हर्षशोकादयः । विवेकविज्ञानं त्वंपदार्थशोधनम् । अन्यादृशौ सत्यौ । अंशादिशून्यत्वमसङ्गत्वम् । अयं सुषुप्तः, संप्रति सुषुप्तौ, अहं आत्मानं अहङ्कारास्पदमात्मानं न जानाति । नहीति आत्मानः स्वभावभूतविज्ञाप्तेर्नान्यथाभावो योग्यत्वादित्यर्थः । विलयनेन शोधनेन । विद्यया महावाक्येन । वाक्यानि तत्त्वमस्यादीनि जीवब्रह्मणोश्चैतन्याविशेषात्तदाकारेणाकारान्तरेण वा भेदायोगो न्यायः । नेहनानेनेत्यादयो द्वैतवादनिषेधाः ।
uttarāc ced āvirbhūtasvarūpas tu itaraparāmarśādyā jīvāśaṅkā jātā sāsaṃbhavānnirākṛtā / athedānīṃ mṛtasyevāmṛtasekātpunaḥ samutthānaṃ jīvāśaṅkāyāḥ kriyate uttarasmātprajāpatyādvākyāt / tatrahi 'ya ātmāpahatapāpmā' ityapahatapāpmatvādiguṇakamātmānamanveṣṭavyaṃ vijijñāsitavyaṃ ca pratijñāya 'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmā' (chā. 8.7.4) iti bruvannakṣisthaṃ draṣṭāraṃ jīvamātmānaṃ nirdiśati / 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' (chā. 8.9.3) iti ca tameva punaḥ punaḥ parāmṛśya 'ya eṣa svapne mahīyamānaścaratyeṣa ātmā' (chā. 8.10.1) iti 'tadyatraitatsuptaḥ samastaḥ saṃprasannaḥ svapnaṃ na vijānātyeṣa ātmā' iti ca jīvamevāvasthāntaragataṃ vyācaṣṭe / tasyaiva cāpahatapāpmatvādi darśayati- 'etadamṛtamabhayametadbrahma' iti / nāhaṃ khalvayamevaṃ saṃpratyātmānaṃ jānātyayamahamasmīti no evemāni bhūtāni' (chā. 8.11.1,2) iti ca suṣuptāvasthāyāṃ doṣamupalabhya 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi no evānyatraitasmāt iti copakramya śarīrasaṃbandhanindāpūrvakaṃ 'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ' iti jīvameva śarīrātsamutthitamuttamapuruṣaṃ darśayati / tasmādasti saṃbhavo jīve pārameśvarāṇāṃ dharmāṇām / ataḥ 'daharo 'sminnantarākāśaḥ' iti jīva evokta iti cetkaścidbrūyāt, taṃ prati brūyāt- 'āvirbhūtasvarūpastu' iti / tuśabdaḥ pūrvapakṣavyāvṛttyarthaḥ / nottarasmādapi vākyādiha jīvasyāśaṅkā saṃbhavatītyarthaḥ / kasmāt / yatastatrāpyāvirbhūtasvarūpo jīvo vivakṣyate / āvirbhūtaṃ svarūpamasyetyāvirbhūtasvarūpaḥ / bhūtapūrvagatyā jīvavacanam / etaduktaṃ bhavati- 'ya eṣo 'kṣiṇi ityakṣilakṣitaṃ draṣṭāraṃ nirdiśyodaśarāvabrāhmaṇenainaṃ śarīrātmatāyā vyutthāpya 'etaṃ tveva te' iti punaḥpunastameva vyākhyāyeyatvenākṛṣya svapnasuṣuptopanyāsakrameṇa 'paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' iti yadasya pāramārthikaṃ svarūpaṃ paraṃ brahma tadrūpatayainaṃ jīvaṃ vyācaṣṭe na jaivena rūpeṇa / yatparaṃ jyotirūpasaṃpattavyaṃ śrutaṃ tatparaṃ brahma / taccāpahatapāpmatvādidharmakaṃ, tadeva ca jīvasya pāramārthikaṃ svarūpaṃ 'tattvamasi' ityādiśāstrebhyaḥ, netaradupādhikalpitam / yāvadeva hi sthāṇāviva puruṣabuddhiṃ dvaitalakṣaṇāmavidyāṃ nivartayankūṭasthanityadṛksvarūpamātmānamahaṃ brahmāsmīti na pratipadyate tāvajjīvasya jīvatvam / yadā tu dehendriyamanobuddhisaṃghātādvyutthāpya śrutyā pratibodhyate, nāsi tvaṃ dehendriyamanobuddhisaṃghātaḥ, nāsi saṃsārī, kiṃ tarhi tadyatsatyaṃ sa ātmā caitanyamātrasvarūpastattvamasīti, tadā kūcasthanityadṛksvarūpamātmānaṃ pratibudadhyāsmāccharīrādyabhimānātsamuttiṣṭhansa eva kūṭasthanityadṛksvarūpa ātmā bhavati / 'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (muṇḍa. 3.2.1) ityādiśrutibhyaḥ / tadeva cāsya pāramārthikaṃ svarūpaṃ yena śarīrātsamutthāya svena rūpeṇābhiniṣpadyate / kathaṃ punaḥ svaṃ ca rūpaṃ svenaiva niṣpadyata iti saṃbhavati kūṭasthanityasya suvarṇādīnāṃ tu dravyāntarasaṃparkādabhibhūtasvarūpāṇāmanabhivyaktāsādhāraṇaviśeṣāṇāṃ kṣāraprakṣepādibhiḥ śodhyamānānāṃ svarūpeṇābhiniṣpattiḥ syāt / tathā nakṣatrādīnāmahanyabhibhūtaprakāśānāmabhibhāvakaviyoge rātrau svarūpeṇābhiniṣpattiḥ syāt / natu tathātmacaitanyajyotiṣo nityasya kenacidabhibhavaḥ saṃbhavatyasaṃsargitvādvyomna iva, dṛṣṭavirodhācca / dṛṣṭiśrutimativijñātayo hi jīvasya svarūpam / tacca śarīrādasamutthitasyāpi jīvasya sadā niṣpannameva dṛśyate / sarvo hi jīvaḥ paśyanśṛṇvanmanvāno vijānanvyavaharatyanyathā vyavahārānupapatteḥ / tacceccharīrātsamutthitasya niṣpadyeta prāksamutthānāddṛṣṭo vyavahāro virudhyeta / ataḥ kimātmakamidaṃ śarīrātsamutthānaṃ, kimātmikā vā svarūpeṇābhiniṣpattiriti / atrocyate- prāgvivekavijñānotpatteḥ śarīrendriyamanobuddhiviṣayavedanopādhibhiraviviktamiva jīvasya dṛṣṭyādijyotiḥsvarūpaṃ bhavati / yathā śuddhasya sphaṭikasya svācchyaṃ śauklyaṃ ca svarūpaṃ prāgvivekagrahaṇādraktanīlādyupādhibhiraviviktamiva bhavati / pramāṇajanitavivekagrahaṇāttu parācīnaḥ sphaṭikaḥ svācchyena śauklyena ca svenarūpeṇābhiniṣpadyata ityucyate prāgapi tathaiva san / tathā dehādyupādhyaviviktasyaiva sato jīvasya śrutikṛtaṃ vivekavijñānaṃ śarīrātsamutthānaṃ vivekavijñānaphalaṃ svarūpeṇābhiniṣpattiḥ kevalātmasvarūpāvagatiḥ / tathā vivekāvivekamātreṇaivātmano 'śarīratvaṃ saśarīratvaṃ ca, mantravarṇāt 'aśarīraṃ śarīreṣu' (kā. 1.2.22) iti, 'śarīrastho 'pi kaunteya na karoti na lipyate' (gī.13.31) iti ca saśarīratvāśarīratvaviśeṣābhāvasmaraṇāt / tasmādvivekavijñānābhāvādanāvirbhūtasvarūpaḥ sanvivekavijñānādāvirbhūtasvarūpa ityucyate / natvānyādṛśāvāvirbhāvānāvirbhāvau svarūpasya saṃbhavataḥ svarūpatvādeva / evaṃ mithyājñānakṛta eva jīvaparameśvarayorbhedo na vastukṛtaḥ, vyomavadasaṅgatvāviśeṣāt / kutaścidevaṃ pratipattavyam / yato 'ya eṣo 'kṣiṇi puruṣo dṛśyate' ityupadiśya 'etadamṛtamabhayametadbrahma' ityupadiśati / yo 'kṣiṇi prasiddho draṣṭā draṣṭṛtvena vibhāvyate so 'mṛtābhayalakṣaṇādbrahmaṇo 'nyaścetsyāttato 'mṛtābhayabrahmasāmānādh ikaraṇyaṃ na syāt / nāpi praticchāyātmāyamakṣilakṣito nirdiśyate, prajāpatermṛṣāvāditvaprasaṅgāt / tathā dvitīye 'pi paryāye 'ya eṣaḥ svapne mahīyamānaścarati' iti na prathamaparyāyanirdiṣṭādakṣipuruṣāddraṣṭuranyo nirdiṣṭaḥ, 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' ityupakramāt / kiñcāhamadya svapne hastinamadrākṣaṃ nedānīṃ taṃ paśyāmīti dṛṣṭameva pratibuddhaḥ pratyācaṣṭe / draṣṭāraṃ tu tameva pratyabhijānāti ya evāhaṃ svapnamadrākṣaṃ sa evāhaṃ jāgaritaṃ paśyamīti / tathā tṛtīye 'pi paryāye 'nahi khalvayamevaṃ saṃpratyātmānaṃ jānātyayamahamasmīti no evemāni bhūtāni iti suṣuptāvasthāyāṃ viśeṣavijñānābhāvameva darśayati na vijñātāraṃ pratiṣedhati / yattu tatra 'vināśamevāpīto bhavati' iti tadapi viśeṣavijñānavināśābhiprāyameva na vijñātṛvināśābhiprāyam / 'nahi vijñāturvijñāterviparilopo vidyate 'vināśitvāt' (bṛ. 4.3.30) iti śrutyantarāt / tathā caturthe 'pi paryāye 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi no evānyatraitasmāt' ityupakramya 'maghavanmartyaṃ vā idaṃ śarīram' ityādinā prapañcena śarīrādupādhisaṃbandhapratyākhyānena saṃprasādaśabdoditaṃ jīvaṃ 'svena rūpeṇābhiniṣpadyate' iti brahmasvarūpāpannaṃ darśayanna parasmādbrahmaṇo 'mṛtābhayasvarūpādanyaṃ jīvaṃ darśayati / kecittu paramātmavivakṣāyāṃ 'etaṃ tveva te' iti jīvākarṣaṇamanyāyyaṃ manyamānā etameva vākyopakramasūcitamapahatapāpmatvādiguṇakamātmānaṃ te bhūyo 'nuvyākhyāsyāmīti kalpayanti / teṣāmetamiti saṃnihitāvalambinī sarvanāmaśrutirviprakṛṣyeta / bhūyaḥśrutiścoparudhyeta, paryāyāntarābhihitasya paryāyāntare 'nabhidhīyamānatvāt / 'etaṃ tveva te' iti ca pratijñāya prākcaturthātparyāyādanyamanyaṃ vyācakṣāṇasya prajāpateḥ pratārakatvaṃ prasajyeta / tasmādyadavidyāpratyupasthāpitapāramārthikaṃ jaivaṃ rūpaṃ kartṛbhoktṛrāgadveṣādidoṣakaluṣitamanekānarthayogi tadvilayanena tadviparītamapahatapāpmatvādiguṇakaṃ pārameśvaraṃ svarūpaṃ vidyayā pratipādyate, sarpādivilayaneneva rajjvādīn / apare tu vādinaḥ pāramārthikameva jaivaṃ rūpamiti manyante 'smadīyāśca kecit / teṣāṃ sarveṣāmātmaikatvasamyagdarśanapratipakṣabhūtānāṃ pratibodhāyedaṃ śārīrakamārabdham / eka eva parameśvaraḥ kūṭasthanityo vijñānadhāturavidyayā māyayā māyāvivadanekadhā vibhāvyate nānyo vijñānadhāturastīti / yattvidaṃ parameśvaravākye jīvamāśaṅkhya pratiṣedhati sūtrakāraḥ - 'nāsaṃbhavāt' (bra.1.3.18) ityādinā / tatrāyamabhiprāyaḥ - nityaśuddhabuddhamuktasvabhāve kūṭasthanitye ekasminnasaṅge paramātmani tadviparītaṃ jaivaṃ rūpaṃ vyomnīva talamalādiparikalpitam / tadātmaikatvapratipādanaparairvākyairnyāyopetairdvaitavādapratiṣedhaiścāpaneṣyāmīti paramātmano jīvādanyatvaṃ draḍhayati / jīvasya tu na parasmādanyatvaṃ pratipipādayiṣati kiṃ tvanuvadatyevāvidyākalpitaṃ lokaprasiddhaṃ jīvabhedam / evaṃ hi svābhāvikakartṛtvabhoktṛtvānuvādena pravṛttāḥ karmavidhayo na virudhyanta iti manyate / pratipādyaṃ tu śāstrārthamātmaikatvameva darśayati- 'śāstradṛṣṭyā tūpadeśo vāmadevavat' (bra. 1.1.30) ityādināvarṇiścāsmābhirvidvadbhedena karmavidhivirodhaparihāraḥ // 19 // ---------------------- mahīyamāno vāsanāmayairviṣayaiḥ pūjyamāna iti svapnaparyāye, tadyatreti suṣuptiparyāye ca jīvameva prajāpatirvyācaṣṭa ityanvayaḥ / aheti nipātaḥ khede / etasmātprakṛtādātmano 'nyatra anyam / udaśarāveti udakapūrṇe śarāve pratibimbātmānaṃ dehaṃ svasyājñātaṃ yattanmahyaṃ vācyamityuktaḥ śrutyarthaḥ / vyutthāpya vicārya / abhiniṣpadyata ityatra etaduktaṃ bhavatīti saṃbandhaḥ / abhibhāvakaḥ saurālokāstadviyoge / vedanā harṣaśokādayaḥ / vivekavijñānaṃ tvaṃpadārthaśodhanam / anyādṛśau satyau / aṃśādiśūnyatvamasaṅgatvam / ayaṃ suṣuptaḥ, saṃprati suṣuptau, ahaṃ ātmānaṃ ahaṅkārāspadamātmānaṃ na jānāti / nahīti ātmānaḥ svabhāvabhūtavijñāpternānyathābhāvo yogyatvādityarthaḥ / vilayanena śodhanena / vidyayā mahāvākyena / vākyāni tattvamasyādīni jīvabrahmaṇoścaitanyāviśeṣāttadākāreṇākārāntareṇa vā bhedāyogo nyāyaḥ / nehanānenetyādayo dvaitavādaniṣedhāḥ /
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.