मुक्तोपसृप्यव्यपदेशाच् च इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम् । यस्मान्मुक्तोपसृप्यतास्य व्यपदिश्यमाना दृश्यते । मुक्तैरुपसृप्यम् मुक्तोपसृप्यम् । देहादिष्वनात्मस्वहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागस्तत्परिभवादौ द्वेषस्तदुच्छेददर्शनाद्भयं मोहश्चेत्येवमयमनन्तभेदो ऽनर्थव्रातः संततः सर्वेषां नः प्रत्यक्षः । तद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुपसृप्यं गम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवति । कथम्, ऽभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मुण्ड। २।२।८) इत्युक्त्वा ब्रवीति- ऽतथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्ऽ (मुण्ड। ३।२।७) इति । ब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रे- ऽयदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः । अथ मर्त्यो ऽमृतो भवत्यत्र ब्रह्म समश्नुतेऽ (बृह। ४।४।७) इत्येवमादौ । प्रधानादीनां तु न क्वचिन्मुक्तोपसृप्यमस्ति प्रसिद्धम् । अपिच ऽतमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैव सेतुःऽ इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यते । तच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम्- ऽतमेव धीरो विज्ञाय प्रज्ञां कुर्वति ब्राह्मणः । नानुध्यायाद्वहूञ्शब्दान्वाचो विग्लापनं हि तत्ऽ (बृह। ४।४।२१) इति । तस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म ॥ २ ॥ ---------------------- फ़्न्: प्रज्ञा वाक्यार्थधीः । ब्राह्मणपदमनुक्तद्विजोपलक्षणम् ।
muktopasṛpyavyapadeśāc ca itaśca parameva brahma dyubhvādyāyatanam / yasmānmuktopasṛpyatāsya vyapadiśyamānā dṛśyate / muktairupasṛpyam muktopasṛpyam / dehādiṣvanātmasvahamasmītyātmabuddhiravidyā, tatastatpūjanādau rāgastatparibhavādau dveṣastaducchedadarśanādbhayaṃ mohaścetyevamayamanantabhedo 'narthavrātaḥ saṃtataḥ sarveṣāṃ naḥ pratyakṣaḥ / tadviparyayeṇāvidyārāgadveṣādidoṣamuktairupasṛpyaṃ gamyametaditi dyubhvādyāyatanaṃ prakṛtya vyapadeśo bhavati / katham, 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) ityuktvā bravīti- 'tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.7) iti / brahmaṇaśca muktopasṛpyatvaṃ prasiddhaṃ śāstre- 'yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ / atha martyo 'mṛto bhavatyatra brahma samaśnute' (bṛha. 4.4.7) ityevamādau / pradhānādīnāṃ tu na kvacinmuktopasṛpyamasti prasiddham / apica 'tamevaikaṃ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiva setuḥ' iti vāgvimokapūrvakaṃ vijñeyatvamiha dyubhvādyāyatanasyocyate / tacca śrutyantare brahmaṇo dṛṣṭam- 'tameva dhīro vijñāya prajñāṃ kurvati brāhmaṇaḥ / nānudhyāyādvahūñśabdānvāco viglāpanaṃ hi tat' (bṛha. 4.4.21) iti / tasmādapi dyubhvādyāyatanaṃ paraṃ brahma // 2 // ---------------------- FN: prajñā vākyārthadhīḥ / brāhmaṇapadamanuktadvijopalakṣaṇam /
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.