भूमा संप्रसादाद् अध्युपदेशात् इदं समामनन्ति- ऽभूमा त्वेव विदिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्ऽ (छा। ७।२३,२४) इत्यादि । तत्र संशयः । भूमेति तावद्बहुत्वमभिधीयते, ऽबहोर्लोपो भू च बहोःऽ (पा। ६।४।१५८) इति भूमशब्दस्य भावप्रत्ययान्ततास्मारणात् । किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायां ऽप्राणो वा आशाभूयान्ऽ (छा। ७।१५।१) इति संनिधानात्प्राणो भूमेति प्रतिभाति । तथा ऽश्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सो ऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतुऽ (छां। ७।१।३) इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभाति । तत्र कस्योपादनं न्याय्यं कस्य वा हानमिति भवति संशयः । किं तावत्प्राप्तम् । प्राणो भूमेति । कस्मात् । भूयः प्रश्नप्रतिवचनपरंपरादर्शनात् । यथा हि ऽअस्ति भगवो नाम्नो भूयःऽ इति, ऽवाग्वाव नाम्नो भूयसीऽ इति । तथा ऽअस्ति भगवो नाम्नो भूयःऽ इति, मनो वाव वाचो भूयःऽ इति च नामादिभ्यो ह्या प्राणाद्भूयःप्रश्नप्रतिवचनप्रवाहः प्रवृत्तः । नैवं प्राणात्परं भूयःप्रश्नप्रतिवचनं दृश्यते ऽस्ति भगवः प्राणाद्भूय इत्यादो वाव प्राणाद्भूय इति । प्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयासं ऽप्राणो वा आशाया भूयान्ऽ इत्यादिना सप्रपञ्चमुक्त्वा प्राणदर्शिनश्चातिवादित्वम्- ऽअतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीतऽ इत्यभ्यनुज्ञाय ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इति प्राणव्रतमतिवादित्वमनुकृष्यापरित्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्प्राणमेव भूमानं मन्यन्त इति गम्यते । कथं पुनः प्राणे भूमनि व्याख्यायमाने ऽयत्र नान्यत्पश्यतिऽ इत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति । उच्यते- सुषुप्त्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिवृत्तिदर्शनात्संभवति प्राणस्यापि ऽयत्र नान्यत्पश्यतिऽ इत्येतल्लक्षणम् । तथाच श्रुतिः ऽन शृणोति न पश्यतिऽ इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्यवस्थामुक्त्वा ऽप्राणाग्नय एवैतस्मिन्पुरे जाग्रतिऽ (प्र। ४।२।३) इति तस्यामेवावस्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती प्राणप्रधानां सुषुप्त्यवस्थां दर्शयति । यच्चैतद्भूम्नः सुखत्वं श्रुतम्- ऽयो वै भूमा तत्सुखम्ऽ (छा। ७।२३) इति, तदप्यविरुद्धम् । ऽअत्रैष देवः स्वप्नान्न पश्यत्यथ यदेतस्मिञ्शरीरे सुखं भवतिऽ (प्र। ४।६) इति सुषुप्त्यवस्थायामेव सुखश्रवणात् । यच्च ऽयो वै भूमा तदमृतम्ऽ (छा। ७।२४।१) इति तदपि प्राणस्याविरुद्धं, ऽप्राणो वा अमृतम्ऽ (कौ। ३।२) इति श्रुतेः । कथं पुनः प्राणं भूमानं मन्यमानस्य तरति शोकमात्मवित् इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते । प्राण एवेहात्मा विवक्षित इति ब्रूमः । तथाहि-ऽ प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणःऽ (छा। ७।१५।१) इति प्राणमेव सर्वात्मानं करोति । ऽयथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम्ऽ इति च सर्वात्मत्वारनाभिनिदर्शनाभ्यां च संभवति वैपुल्यात्मिका भूमरूपता प्राणस्य । तस्मात्प्राणो भूमेत्येवं प्राप्तम् । तत इदमुच्यते- परमात्मैवेह भूमा भवितुमर्हति न प्राणः । कस्मात् । संप्रसादादध्युपदेशात् । संप्रसाद इति सुषुप्तं स्थानमुच्यते, सम्यक्प्रसीदत्यस्मिन्निति निर्वचनात् । बृहदारण्यके च स्वप्नजागरितस्थानाभ्यां सह पाठात् तस्यां च संप्रसादावस्थायां प्राणो जागर्तीति प्राणो ऽत्र संप्रसादो ऽभिप्रेयते । प्राणादूर्ध्वं भूम्न उपदिश्यमानत्वादित्यर्थः । प्राण एव चेद्भूमास्यात्स एव तस्मादूर्ध्वमुपदिश्येतेत्यश्लिष्टमेवैतत्स्यात् । नहि नामैव नाम्नो भूय इति नाम्न ऊर्ध्वमुपदिष्टम् । किं तर्हि नाम्नो ऽन्यदर्थान्तरमुपदिष्टं वागाख्यम्- ऽवाग्वाव नाम्नो भूयसीऽ इति । तथा वागादिभ्यो ऽप्या प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम् । तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणादर्थान्तरभूतो भवितुमर्हति । नन्विह नास्ति प्रश्नो ऽस्ति भगवः प्राणाद्भूय इति, नापि प्रतिवचनमस्ति प्राणाद्वाव भूयो ऽस्तीति, कथं प्राणादधि भूमोपदिश्यते । प्राणविषयमेव चातिवादित्वामुत्तरत्रानुकृष्यमाणं पश्यामः- ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इति । तस्मान्नास्ति प्रादध्युपदेश इति । अत्रोच्यते- न तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति शक्यं वक्तुं, विशेषवादात् ऽयः सत्येनातिवदतिऽ इति । ननु विशेषवादो ऽप्ययं प्राणविषय एव भविष्यति । कथम् । यथैषो ऽग्निहोत्री यः सत्यं वदतीत्युक्ते न सत्यवदनेनाग्निहोत्रित्वं, केन तर्हि, अग्निहोत्रेणैव । सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यते । तथा ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इत्युक्ते न सत्यवदनेनातिवादित्वम्, केन तर्हि, प्रकृतेन प्राणविज्ञानेनैव । सत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इति । नेति ब्रूमः । श्रुत्यर्थपरित्यागप्रसङ्गात् । श्रुत्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते- ऽयःसत्येनातिवदति सो ऽतिवदतिऽ इति । नात्र प्राणविज्ञानस्य संकीर्तनमस्ति । प्रकरणात्तु प्राणविज्ञानं संबध्येत । तत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात् । प्रकृतव्यावृत्त्यर्थश्च तुशब्दो न संगच्छते ऽएष तु वा अतिवदतिऽ इति । ऽसत्यं त्वेव विजिज्ञासितव्यम्ऽ (छा। ७।१६) इति च प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयति । तस्माद्यथैकवेदप्रशंसायां प्रकृतायामेष तु महाब्राह्मणो यश्चतुरो वेदानधीत इत्येकवेदेभ्योर्ऽथान्तरभूतश्चतुर्वेदः प्रशस्यते तादृगेतद्द्रष्टव्यम् । नच प्रश्नप्रतिवचनरूपयैवार्थान्तरविवक्षया भवितव्यमिति नियमो ऽस्ति । प्रकृतसंबन्धासंभवकारितत्वादर्थान्तरविवक्षायाः । तत्र प्राणान्तमनुशासनं श्रुत्वा तूष्णीभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति । यत्प्राणविज्ञानेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इति । तत्र सत्यमिति परं ब्रह्मोच्यते, परमार्थरूपत्वात् । ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै। २।१) इति च श्रुत्यन्तरात् । तथा व्युत्पादिताय नारदाय ऽसो ऽहं भगवः सत्येनातिवदानिऽ इत्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भूमानमुपदिशति । तत्र यत्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातं तदेवेह भूमेत्युच्यत इति गम्यते । तस्मादस्ति प्राणादधि भूम्न उपदेश इत्यतः प्राणादन्यः परमात्मा भूमा भवितुमर्हति । एवञ्चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भविष्यति । प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते । नहि प्राणस्य मुख्यया वृत्त्यात्मत्वमस्ति । नचान्यत्र परमात्मज्ञानाच्छोकविनिवृत्तिरस्ति, ऽनान्यः पन्था विद्यते ऽयनायऽ (श्वे। ६।१५) इति श्रुत्यन्तरात् । ऽतं मा भगवाञ्शोकस्य पारं तारयतुऽ (छा। ७।१।३) इति चोपक्रम्योपसंहरति- ऽतस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारःऽ (छा। ७।२६।२) इति । तम इति शोकादिकारणमविद्योच्यते । प्राणान्ते चानुशासने न प्राणस्यान्यायत्ततोच्येत । ऽआत्मतः प्राणःऽ (छा। ७।२६।२) इति च ब्राह्मणम् । प्रकरणान्ते परमात्मविवक्षा भविष्यति, ऽभूमा तु प्राण एवेति चेत्ऽ न । ऽस भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्निऽ (छा। ७।२४।१) इत्यादिना भूम्न एवा प्रकरणसमाप्तेरनुकर्षणात् । वैपुल्यात्मिका च भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामुपपद्यते ॥ ८॥ ---------------------- फ़्न्: व्यवहारातितं पूर्णं वस्तु भूमा । भगवद्दृशेभ्यो युष्मत्सदृशेभ्यः । देवः बुद्ध्याद्युपाधिको जीवः । प्रकरणात्तु संबध्येत अतिवादित्वे हेतुत्वेनेति शेषः । प्रयत्नान्तरं विचारः । विज्ञानमत्र निदिध्यासनादि ।
bhūmā saṃprasādād adhyupadeśāt idaṃ samāmananti- 'bhūmā tveva vidijñāsitavya iti bhūmānaṃ bhagavo vijijñāsa iti / yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpam' (chā. 7.23,24) ityādi / tatra saṃśayaḥ / bhūmeti tāvadbahutvamabhidhīyate, 'bahorlopo bhū ca bahoḥ' (pā. 6.4.158) iti bhūmaśabdasya bhāvapratyayāntatāsmāraṇāt / kimātmakaṃ punastadbahutvamiti viśeṣākāṅkṣāyāṃ 'prāṇo vā āśābhūyān' (chā. 7.15.1) iti saṃnidhānātprāṇo bhūmeti pratibhāti / tathā 'śrutaṃ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so 'haṃ bhagavaḥ śocāmi taṃ mā bhagavāñśokasya pāraṃ tārayatu' (chāṃ. 7.1.3) iti prakaraṇotthānātparamātmā bhūmetyapi pratibhāti / tatra kasyopādanaṃ nyāyyaṃ kasya vā hānamiti bhavati saṃśayaḥ / kiṃ tāvatprāptam / prāṇo bhūmeti / kasmāt / bhūyaḥ praśnaprativacanaparaṃparādarśanāt / yathā hi 'asti bhagavo nāmno bhūyaḥ' iti, 'vāgvāva nāmno bhūyasī' iti / tathā 'asti bhagavo nāmno bhūyaḥ' iti, mano vāva vāco bhūyaḥ' iti ca nāmādibhyo hyā prāṇādbhūyaḥpraśnaprativacanapravāhaḥ pravṛttaḥ / naivaṃ prāṇātparaṃ bhūyaḥpraśnaprativacanaṃ dṛśyate 'sti bhagavaḥ prāṇādbhūya ityādo vāva prāṇādbhūya iti / prāṇameva tu nāmādibhya āśāntebhyo bhūyāsaṃ 'prāṇo vā āśāyā bhūyān' ityādinā saprapañcamuktvā prāṇadarśinaścātivāditvam- 'ativādyasītyativādyasmīti brūyānnāpahnuvīta' ityabhyanujñāya 'eṣa tu vā ativadati yaḥ satyenātivadati' iti prāṇavratamativāditvamanukṛṣyāparityajyaiva prāṇaṃ satyādiparamparayā bhūmānamavatārayanprāṇameva bhūmānaṃ manyanta iti gamyate / kathaṃ punaḥ prāṇe bhūmani vyākhyāyamāne 'yatra nānyatpaśyati' ityetadbhūmno lakṣaṇaparaṃ vacanaṃ vyākhyāyeteti / ucyate- suṣuptyavasthāyāṃ prāṇagrasteṣu karaṇeṣu darśanādivyavahāranivṛttidarśanātsaṃbhavati prāṇasyāpi 'yatra nānyatpaśyati' ityetallakṣaṇam / tathāca śrutiḥ 'na śṛṇoti na paśyati' ityādinā sarvakaraṇavyāpārapratyastamayarūpāṃ suṣuptyavasthāmuktvā 'prāṇāgnaya evaitasminpure jāgrati' (pra. 4.2.3) iti tasyāmevāvasthāyāṃ pañcavṛtteḥ prāṇasya jāgaraṇaṃ bruvatī prāṇapradhānāṃ suṣuptyavasthāṃ darśayati / yaccaitadbhūmnaḥ sukhatvaṃ śrutam- 'yo vai bhūmā tatsukham' (chā. 7.23) iti, tadapyaviruddham / 'atraiṣa devaḥ svapnānna paśyatyatha yadetasmiñśarīre sukhaṃ bhavati' (pra. 4.6) iti suṣuptyavasthāyāmeva sukhaśravaṇāt / yacca 'yo vai bhūmā tadamṛtam' (chā. 7.24.1) iti tadapi prāṇasyāviruddhaṃ, 'prāṇo vā amṛtam' (kau. 3.2) iti śruteḥ / kathaṃ punaḥ prāṇaṃ bhūmānaṃ manyamānasya tarati śokamātmavit ityātmavividiṣayā prakaraṇasyotthānamupapadyate / prāṇa evehātmā vivakṣita iti brūmaḥ / tathāhi-' prāṇo ha pitā prāṇo mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ prāṇo brāhmaṇaḥ' (chā. 7.15.1) iti prāṇameva sarvātmānaṃ karoti / 'yathā vā arā nābhau samarpitā evamasminprāṇe sarvaṃ samarpitam' iti ca sarvātmatvāranābhinidarśanābhyāṃ ca saṃbhavati vaipulyātmikā bhūmarūpatā prāṇasya / tasmātprāṇo bhūmetyevaṃ prāptam / tata idamucyate- paramātmaiveha bhūmā bhavitumarhati na prāṇaḥ / kasmāt / saṃprasādādadhyupadeśāt / saṃprasāda iti suṣuptaṃ sthānamucyate, samyakprasīdatyasminniti nirvacanāt / bṛhadāraṇyake ca svapnajāgaritasthānābhyāṃ saha pāṭhāt tasyāṃ ca saṃprasādāvasthāyāṃ prāṇo jāgartīti prāṇo 'tra saṃprasādo 'bhipreyate / prāṇādūrdhvaṃ bhūmna upadiśyamānatvādityarthaḥ / prāṇa eva cedbhūmāsyātsa eva tasmādūrdhvamupadiśyetetyaśliṣṭamevaitatsyāt / nahi nāmaiva nāmno bhūya iti nāmna ūrdhvamupadiṣṭam / kiṃ tarhi nāmno 'nyadarthāntaramupadiṣṭaṃ vāgākhyam- 'vāgvāva nāmno bhūyasī' iti / tathā vāgādibhyo 'pyā prāṇādarthāntarameva tatra tatrordhvamupadiṣṭam / tadvatprāṇādūrdhvamupadiśyamāno bhūmā prāṇādarthāntarabhūto bhavitumarhati / nanviha nāsti praśno 'sti bhagavaḥ prāṇādbhūya iti, nāpi prativacanamasti prāṇādvāva bhūyo 'stīti, kathaṃ prāṇādadhi bhūmopadiśyate / prāṇaviṣayameva cātivāditvāmuttaratrānukṛṣyamāṇaṃ paśyāmaḥ- 'eṣa tu vā ativadati yaḥ satyenātivadati' iti / tasmānnāsti prādadhyupadeśa iti / atrocyate- na tāvatprāṇaviṣayasyaivātivāditvasyaitadanukarṣaṇamiti śakyaṃ vaktuṃ, viśeṣavādāt 'yaḥ satyenātivadati' iti / nanu viśeṣavādo 'pyayaṃ prāṇaviṣaya eva bhaviṣyati / katham / yathaiṣo 'gnihotrī yaḥ satyaṃ vadatītyukte na satyavadanenāgnihotritvaṃ, kena tarhi, agnihotreṇaiva / satyavadanaṃ tvagnihotriṇo viśeṣa ucyate / tathā 'eṣa tu vā ativadati yaḥ satyenātivadati' ityukte na satyavadanenātivāditvam, kena tarhi, prakṛtena prāṇavijñānenaiva / satyavadanaṃ tu prāṇavido viśeṣo vivakṣyata iti / neti brūmaḥ / śrutyarthaparityāgaprasaṅgāt / śrutyā hyatra satyavadanenātivāditvaṃ pratīyate- 'yaḥsatyenātivadati so 'tivadati' iti / nātra prāṇavijñānasya saṃkīrtanamasti / prakaraṇāttu prāṇavijñānaṃ saṃbadhyeta / tatra prakaraṇānurodhena śrutiḥ parityaktā syāt / prakṛtavyāvṛttyarthaśca tuśabdo na saṃgacchate 'eṣa tu vā ativadati' iti / 'satyaṃ tveva vijijñāsitavyam' (chā. 7.16) iti ca prayatnāntarakaraṇamarthāntaravivakṣāṃ sūcayati / tasmādyathaikavedapraśaṃsāyāṃ prakṛtāyāmeṣa tu mahābrāhmaṇo yaścaturo vedānadhīta ityekavedebhyor'thāntarabhūtaścaturvedaḥ praśasyate tādṛgetaddraṣṭavyam / naca praśnaprativacanarūpayaivārthāntaravivakṣayā bhavitavyamiti niyamo 'sti / prakṛtasaṃbandhāsaṃbhavakāritatvādarthāntaravivakṣāyāḥ / tatra prāṇāntamanuśāsanaṃ śrutvā tūṣṇībhūtaṃ nāradaṃ svayameva sanatkumāro vyutpādayati / yatprāṇavijñānena vikārānṛtaviṣayeṇātivāditvamanativāditvameva tat 'eṣa tu vā ativadati yaḥ satyenātivadati' iti / tatra satyamiti paraṃ brahmocyate, paramārtharūpatvāt / 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1) iti ca śrutyantarāt / tathā vyutpāditāya nāradāya 'so 'haṃ bhagavaḥ satyenātivadāni' ityevaṃ pravṛttāya vijñānādisādhanaparamparayā bhūmānamupadiśati / tatra yatprāṇādadhi satyaṃ vaktavyaṃ pratijñātaṃ tadeveha bhūmetyucyata iti gamyate / tasmādasti prāṇādadhi bhūmna upadeśa ityataḥ prāṇādanyaḥ paramātmā bhūmā bhavitumarhati / evañcehātmavividiṣayā prakaraṇasyotthānamupapannaṃ bhaviṣyati / prāṇa evehātmā vivakṣita ityetadapi nopapadyate / nahi prāṇasya mukhyayā vṛttyātmatvamasti / nacānyatra paramātmajñānācchokavinivṛttirasti, 'nānyaḥ panthā vidyate 'yanāya' (śve. 6.15) iti śrutyantarāt / 'taṃ mā bhagavāñśokasya pāraṃ tārayatu' (chā. 7.1.3) iti copakramyopasaṃharati- 'tasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavānsanatkumāraḥ' (chā. 7.26.2) iti / tama iti śokādikāraṇamavidyocyate / prāṇānte cānuśāsane na prāṇasyānyāyattatocyeta / 'ātmataḥ prāṇaḥ' (chā. 7.26.2) iti ca brāhmaṇam / prakaraṇānte paramātmavivakṣā bhaviṣyati, 'bhūmā tu prāṇa eveti cet' na / 'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) ityādinā bhūmna evā prakaraṇasamāpteranukarṣaṇāt / vaipulyātmikā ca bhūmarūpatā sarvakāraṇatvātparamātmanaḥ sutarāmupapadyate // 8// ---------------------- FN: vyavahārātitaṃ pūrṇaṃ vastu bhūmā / bhagavaddṛśebhyo yuṣmatsadṛśebhyaḥ / devaḥ buddhyādyupādhiko jīvaḥ / prakaraṇāttu saṃbadhyeta ativāditve hetutveneti śeṣaḥ / prayatnāntaraṃ vicāraḥ / vijñānamatra nididhyāsanādi /
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.