Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·2

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 2

समाध्यभावाच् च यो ऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेषु- ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यसितव्य सो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (बृ। २।४।५), ऽआत्मेत्येवं ध्यायथ आत्मानम्ऽ (मुण्ड। २।२।६) इत्येवंलक्षणः, सो ऽप्यसत्यात्मनः कर्तृत्वे नोपपद्येत । तस्मादप्यस्य कर्तृत्वसिद्धिः ॥ ३९ ॥ १५ तक्षाधिकरणम् ॥ सू। ४०

samādhyabhāvāc ca yo 'pyayamaupaniṣadātmapratipattiprayojanaḥ samādhirupadiṣṭo vedānteṣu- 'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyasitavya so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (bṛ. 2.4.5), 'ātmetyevaṃ dhyāyatha ātmānam' (muṇḍa. 2.2.6) ityevaṃlakṣaṇaḥ, so 'pyasatyātmanaḥ kartṛtve nopapadyeta / tasmādapyasya kartṛtvasiddhiḥ // 39 // 15 takṣādhikaraṇam // sū. 40

Sanskrit only: no published translation is held for this verse.

यथा च तक्षोभयथा एवं तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभिः कर्तृत्वं शारीरस्य प्रदर्शितं, तत्पुनः स्वाभाविकं वा स्यादुपाधिनिमित्तं वेति चिन्त्यते । तत्रैतैरेव शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकं कर्तृत्वमपवादहेत्वभावादिति । एवं प्राप्ते ब्रूमः । न स्वाभाविकं कर्तृत्वमात्मनः संभवति, अनिर्मोक्षप्रसङ्गात् । कर्तृत्वस्वभावे ह्यात्मनो न कर्तृत्वान्निर्मोक्षः संभवति, अग्नेरिवौष्ण्यात् । नच कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः, कर्तृत्वस्य दुःखरूपत्वात् । ननु स्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्यपरिहारात्पुरुषार्थः सेत्स्यति । तत्परिहारश्च निमित्तपरिहारात् । यथाग्नेर्दहनशक्तियुक्तस्यापि काष्ठवियोगाद्दहनकार्याभावात् । न । निमित्तानामपि शक्तिलक्षणेन संबन्धेन संबद्धानामत्यन्तपरिहारासंभवात् । ननु मोक्षसाधनविधानान्मोक्षः सेत्स्यति । न । साधनायत्तस्यानित्यत्वात् । अपिच नित्यशुद्धबुद्धमुक्तात्मप्रतिपादनान्मोक्षसिद्धिरभिमता । तादृगात्मप्रतिपादनं च न स्वाभाविके कर्तृत्वे ऽवकल्पेत । तस्मादुपाधिधर्माध्यासेनैवात्मनः कर्तृत्वं न स्वाभाविकम् । तथाच श्रुतिः - ऽध्यायतीव लेलायतीवऽ (बृ। ४।३।७) इति । ऽआत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः(कण्ठ। ३।४) इति चोपाधिसंपृक्तस्यैवात्मनो भोक्तेत्यादिविशेषलाभं दर्शयति । नहि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते । ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ। ४।३।२३) इत्यादिश्रवणात् । पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत, परस्मादन्यश्चेच्चितिमाञ्जीवः कर्ता बुद्ध्यादिसंघातव्यतिरिक्तो न स्यात् । न । अविद्याप्रत्युपस्थापितत्वात्कर्तृत्वभोक्तृत्वयोः । तथाच शास्त्रम्- ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिऽ (बृ। २।४।१४) इत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति- ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ। २।४।१४) इति । तथा स्वप्नजागरितयोरात्मन उपाधिसंपर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा तदभावं सुषुप्तौ प्राज्ञेनात्मना संपरिष्वक्तस्य श्रावयति- ऽतद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् (बृ। ४।३।२१) इत्यारभ्य एषास्य परमा गतिरेषास्य परमा संपदेषो ऽस्य परमो लोक एषो ऽस्यपरम आनन्दः (बृ। ४।३।३२) इत्युपसंहारात् । तदेतदाहाचार्यः - यथा च तक्षोभयथा इति । त्वर्थे चायं चः पठितः । नैवं मन्तव्यं स्वाभाविकमेवात्मनः कर्तृत्वमग्नेरिवौष्ण्यमिति । यथा तु तक्षा लोके वास्यादिकरणहस्तः कर्ता दुःखी भवति स एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निवृत्तो निर्व्यापारः सुखी भवत्येवमविद्याप्रत्युपस्थापितद्वैतसंपृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति स तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकरणसंघातो ऽकर्ता सुखी भवति संप्रसादावस्थायाम् । तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूयात्मैव केवलो निवृत्तः सुखी भवति । तक्षदृष्टान्तश्चैतावतांऽशेन द्रष्टव्यः । तक्षा हि विशिष्ठेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति । स्वशरीरेण त्वकर्तैव । एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति, स्वात्मना त्वकर्तैवेति । नत्वात्मनस्थक्ष्ण इवावयवाः सन्ति यैर्हस्तादिभिरिव वास्यादीनि तक्षा मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा । यत्तूक्तं शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति । तन्न । विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति न कर्तृत्वमात्मनः प्रतिपादयति । नच स्वाभाविकमस्य कर्तृत्वमिति ब्रह्मात्मत्वोपदेशादित्यवोचाम । तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते । कर्ता विज्ञानात्मा पुरुष इत्येवञ्जातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्यमेवाविद्याकृतं कर्तृत्वमनुवदिष्यति । एतेन विहारोपादाने परिहृते । तयोरप्यनुवादरूपत्वात् । ननु संध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तत इति विहार उपदिश्यमानः केवलस्यात्मनः कर्तृत्वमावहति । तथोपादाने ऽपि ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यात्मनः कर्तृत्वं गमयत इति । अत्रोच्यते- न तावत्संध्ये स्थाने ऽत्यन्तमात्मनः करणविरमणमस्ति । ऽसधीः स्वप्नो भूत्वेमं लोकमतिक्रामतिऽ (बृ।४।३।७) इति तत्रापि धीसंबन्धश्रवणात् । तथाच स्मरन्ति- ऽइन्द्रियाणामुपरमे मनो ऽनुपरतं यदि । सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्ऽ इति । ऽकामादयश्च मनसो वृत्तयःऽ इति श्रुतिः । ताश्च स्वप्ने दृश्यन्ते । तस्मात्समना एव स्वप्ने विहरति । विहारो ऽपि च तत्रत्यो वासनामय एव नतु पारमार्थिको ऽस्ति । तथाच श्रुतिरिवाकारानुबद्धमेव स्वप्नव्यापारं वर्णयति- ऽउतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्ऽ (बृ। ४।३।१३) इति । लौकिका अपि तथैव स्वप्नं कथयन्ति- आरुक्षमिव गिरिशृङ्गमद्राक्षमिव वनराजिमिति । तथोपादाने ऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशस्तथापि तत्संपृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम् । केवले कर्तृत्वासंभवस्य दर्शितत्वात् । भवति च लोके ऽनेकप्रकारा विवक्षा योधा युध्यन्ते योधै राजा युध्यत इति । अपिचास्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते न स्वातन्त्र्यं कस्यचिदबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमस्य दृष्टत्वात् । यस्त्वयं व्यपदेशो दर्शितः ऽविज्ञानं यज्ञं तनुतेऽ इति, स बुद्धेरेव कर्तृत्वं प्रापयति । विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् । मनोनन्तरं पाठाच्च । ऽतस्य श्रद्धैव शिरःऽ (तै। २।४) इति च विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसंकीर्तनात् । श्रद्धादीनां च बुद्धिधर्मत्वप्रसिद्धेः । ऽविज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासतेऽ (तै। २।५।१) इति च वाक्यशेषात् । ज्येष्ठत्वस्य च प्रथमजत्वमस्य बुद्धौ प्रसिद्धत्वात् । ऽस एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञःऽ इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारमात् । नच बुद्धेः शक्तिविपर्ययः करणानां कर्तृत्वाभ्युपगमे भवति । सर्वकारकाणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात् । उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वं, सा चात्मनः । नच तस्यामप्यस्य कर्तृत्वमस्ति । नित्योलब्धिस्वरूपत्वात् । अहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति । अहङ्कारस्याप्युपलभ्यमानत्वात् । नचैवं सति करणान्तरकल्पनाप्रसङ्गः । बुद्धेः करणत्वाभ्युपगमात् । समाध्यभावस्तु शास्त्रार्थत्त्वेनैव परिहृतः । यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात् । तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम् ॥ ४० ॥ ---------------------- फ़्न्: शोकान्तरं दुःखास्पृष्टम् । गतिः प्राप्यं, लोको भोग्यं सुखम् । अन्यैरप्रेर्यत्वं स्वस्थत्वम्, मानसप्रयत्नराहित्यं निर्वृतत्वम्, कायचेष्टाशून्यत्वं निर्व्यापारत्वम् । संप्रसादः सुषुप्तिः । जक्षत् भुञ्जानैव । १६ परायत्ताधिकरणम् । सू। ४१-४२

yathā ca takṣobhayathā evaṃ tāvacchāstrārthavattvādibhirhetubhiḥ kartṛtvaṃ śārīrasya pradarśitaṃ, tatpunaḥ svābhāvikaṃ vā syādupādhinimittaṃ veti cintyate / tatraitaireva śāstrārthavattvādibhirhetubhiḥ svābhāvikaṃ kartṛtvamapavādahetvabhāvāditi / evaṃ prāpte brūmaḥ / na svābhāvikaṃ kartṛtvamātmanaḥ saṃbhavati, anirmokṣaprasaṅgāt / kartṛtvasvabhāve hyātmano na kartṛtvānnirmokṣaḥ saṃbhavati, agnerivauṣṇyāt / naca kartṛtvādanirmuktasyāsti puruṣārthasiddhiḥ, kartṛtvasya duḥkharūpatvāt / nanu sthitāyāmapi kartṛtvaśaktau kartṛtvakāryaparihārātpuruṣārthaḥ setsyati / tatparihāraśca nimittaparihārāt / yathāgnerdahanaśaktiyuktasyāpi kāṣṭhaviyogāddahanakāryābhāvāt / na / nimittānāmapi śaktilakṣaṇena saṃbandhena saṃbaddhānāmatyantaparihārāsaṃbhavāt / nanu mokṣasādhanavidhānānmokṣaḥ setsyati / na / sādhanāyattasyānityatvāt / apica nityaśuddhabuddhamuktātmapratipādanānmokṣasiddhirabhimatā / tādṛgātmapratipādanaṃ ca na svābhāvike kartṛtve 'vakalpeta / tasmādupādhidharmādhyāsenaivātmanaḥ kartṛtvaṃ na svābhāvikam / tathāca śrutiḥ - 'dhyāyatīva lelāyatīva' (bṛ. 4.3.7) iti / 'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ(kaṇṭha. 3.4) iti copādhisaṃpṛktasyaivātmano bhoktetyādiviśeṣalābhaṃ darśayati / nahi vivekināṃ parasmādanyo jīvo nāma kartā bhoktā vā vidyate / 'nānyo 'to 'sti draṣṭā' (bṛ. 4.3.23) ityādiśravaṇāt / para eva tarhi saṃsārī kartā bhoktā ca prasajyeta, parasmādanyaśceccitimāñjīvaḥ kartā buddhyādisaṃghātavyatirikto na syāt / na / avidyāpratyupasthāpitatvātkartṛtvabhoktṛtvayoḥ / tathāca śāstram- 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' (bṛ. 2.4.14) ityavidyāvasthāyāṃ kartṛtvabhoktṛtve darśayitvā vidyāvasthāyāṃ te eva kartṛtvabhoktṛtve nivārayati- 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14) iti / tathā svapnajāgaritayorātmana upādhisaṃparkakṛtaṃ śramaṃ śyenasyevākāśe viparipatataḥ śrāvayitvā tadabhāvaṃ suṣuptau prājñenātmanā saṃpariṣvaktasya śrāvayati- 'tadvā asyaitadāptakāmamātmakāmamakāmaṃ rūpaṃ śokāntaram (bṛ. 4.3.21) ityārabhya eṣāsya paramā gatireṣāsya paramā saṃpadeṣo 'sya paramo loka eṣo 'syaparama ānandaḥ (bṛ. 4.3.32) ityupasaṃhārāt / tadetadāhācāryaḥ - yathā ca takṣobhayathā iti / tvarthe cāyaṃ caḥ paṭhitaḥ / naivaṃ mantavyaṃ svābhāvikamevātmanaḥ kartṛtvamagnerivauṣṇyamiti / yathā tu takṣā loke vāsyādikaraṇahastaḥ kartā duḥkhī bhavati sa eva svagṛhaṃ prāpto vimuktavāsyādikaraṇaḥ svastho nivṛtto nirvyāpāraḥ sukhī bhavatyevamavidyāpratyupasthāpitadvaitasaṃpṛkta ātmā svapnajāgaritāvasthayoḥ kartā duḥkhī bhavati sa tacchramāpanuttaye svamātmānaṃ paraṃ brahma praviśya vimuktakāryakaraṇasaṃghāto 'kartā sukhī bhavati saṃprasādāvasthāyām / tathā muktyavasthāyāmapyavidyādhvāntaṃ vidyāpradīpena vidhūyātmaiva kevalo nivṛttaḥ sukhī bhavati / takṣadṛṣṭāntaścaitāvatāṃ'śena draṣṭavyaḥ / takṣā hi viśiṣṭheṣu takṣaṇādivyāpāreṣvapekṣyaiva pratiniyatāni karaṇāni vāsyādīni kartā bhavati / svaśarīreṇa tvakartaiva / evamayamātmā sarvavyāpāreṣvapekṣyaiva manaādīni karaṇāni kartā bhavati, svātmanā tvakartaiveti / natvātmanasthakṣṇa ivāvayavāḥ santi yairhastādibhiriva vāsyādīni takṣā manaādīni karaṇānyātmopādadīta nyasyedvā / yattūktaṃ śāstrārthavattvādibhirhetubhiḥ svābhāvikamātmanaḥ kartṛtvamiti / tanna / vidhiśāstraṃ tāvadyathāprāptaṃ kartṛtvamupādāya kartavyaviśeṣamupadiśati na kartṛtvamātmanaḥ pratipādayati / naca svābhāvikamasya kartṛtvamiti brahmātmatvopadeśādityavocāma / tasmādavidyākṛtaṃ kartṛtvamupādāya vidhiśāstraṃ pravartiṣyate / kartā vijñānātmā puruṣa ityevañjātīyakamapi śāstramanuvādarūpatvādyathāprāpyamevāvidyākṛtaṃ kartṛtvamanuvadiṣyati / etena vihāropādāne parihṛte / tayorapyanuvādarūpatvāt / nanu saṃdhye sthāne prasupteṣu karaṇeṣu sve śarīre yathākāmaṃ parivartata iti vihāra upadiśyamānaḥ kevalasyātmanaḥ kartṛtvamāvahati / tathopādāne 'pi 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' iti karaṇeṣu karmakaraṇavibhaktī śrūyamāṇe kevalasyātmanaḥ kartṛtvaṃ gamayata iti / atrocyate- na tāvatsaṃdhye sthāne 'tyantamātmanaḥ karaṇaviramaṇamasti / 'sadhīḥ svapno bhūtvemaṃ lokamatikrāmati' (bṛ.4.3.7) iti tatrāpi dhīsaṃbandhaśravaṇāt / tathāca smaranti- 'indriyāṇāmuparame mano 'nuparataṃ yadi / sevate viṣayāneva tadvidyātsvapnadarśanam' iti / 'kāmādayaśca manaso vṛttayaḥ' iti śrutiḥ / tāśca svapne dṛśyante / tasmātsamanā eva svapne viharati / vihāro 'pi ca tatratyo vāsanāmaya eva natu pāramārthiko 'sti / tathāca śrutirivākārānubaddhameva svapnavyāpāraṃ varṇayati- 'uteva strībhiḥ saha modamāno jakṣadutevāpi bhayāni paśyan' (bṛ. 4.3.13) iti / laukikā api tathaiva svapnaṃ kathayanti- ārukṣamiva giriśṛṅgamadrākṣamiva vanarājimiti / tathopādāne 'pi yadyapi karaṇeṣu karmakaraṇavibhaktinirdeśastathāpi tatsaṃpṛktasyaivātmanaḥ kartṛtvaṃ draṣṭavyam / kevale kartṛtvāsaṃbhavasya darśitatvāt / bhavati ca loke 'nekaprakārā vivakṣā yodhā yudhyante yodhai rājā yudhyata iti / apicāsminnupādāne karaṇavyāpāroparamamātraṃ vivakṣyate na svātantryaṃ kasyacidabuddhipūrvakasyāpi svāpe karaṇavyāpāroparamasya dṛṣṭatvāt / yastvayaṃ vyapadeśo darśitaḥ 'vijñānaṃ yajñaṃ tanute' iti, sa buddhereva kartṛtvaṃ prāpayati / vijñānaśabdasya tatra prasiddhatvāt / manonantaraṃ pāṭhācca / 'tasya śraddhaiva śiraḥ' (tai. 2.4) iti ca vijñānamayasyātmanaḥ śraddhādyavayavatvasaṃkīrtanāt / śraddhādīnāṃ ca buddhidharmatvaprasiddheḥ / 'vijñānaṃ devāḥ sarve brahma jyeṣṭhamupāsate' (tai. 2.5.1) iti ca vākyaśeṣāt / jyeṣṭhatvasya ca prathamajatvamasya buddhau prasiddhatvāt / 'sa eṣa vācaścittasyottarottarakramo yadyajñaḥ' iti ca śrutyantare yajñasya vāgbuddhisādhyatvāvadhāramāt / naca buddheḥ śaktiviparyayaḥ karaṇānāṃ kartṛtvābhyupagame bhavati / sarvakārakāṇāmeva svasvavyāpāreṣu kartṛtvasyāvaśyaṃbhāvitvāt / upalabdhyapekṣaṃ tveṣāṃ karaṇānāṃ karaṇatvaṃ, sā cātmanaḥ / naca tasyāmapyasya kartṛtvamasti / nityolabdhisvarūpatvāt / ahaṅkārapūrvakamapi kartṛtvaṃ nopalabdhurbhavitumarhati / ahaṅkārasyāpyupalabhyamānatvāt / nacaivaṃ sati karaṇāntarakalpanāprasaṅgaḥ / buddheḥ karaṇatvābhyupagamāt / samādhyabhāvastu śāstrārthattvenaiva parihṛtaḥ / yathāprāptameva kartṛtvamupādāya samādhividhānāt / tasmātkartṛtvamapyātmana upādhinimittameveti sthitam // 40 // ---------------------- FN: śokāntaraṃ duḥkhāspṛṣṭam / gatiḥ prāpyaṃ, loko bhogyaṃ sukham / anyairapreryatvaṃ svasthatvam, mānasaprayatnarāhityaṃ nirvṛtatvam, kāyaceṣṭāśūnyatvaṃ nirvyāpāratvam / saṃprasādaḥ suṣuptiḥ / jakṣat bhuñjānaiva / 16 parāyattādhikaraṇam / sū. 41-42

Sanskrit only: no published translation is held for this verse.

परात् तु तच्छ्रुतेः यदिदमविद्यावस्थायामुपादिनिबन्धनं कर्तृत्वं जीवस्याभिहितं, तत्किमनपेक्ष्येश्वरं भवत्याहोस्विदीश्वरापेक्षमिति भवति विचारणा । तत्र प्राप्तं तावन्नेश्वरमपेक्षते जीवः कर्तृत्व इति । कस्मात् । अपेक्षाप्रयोजनाभावात् । अयं हि जीवः स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारकान्तरसामग्रीसमपन्नः कर्तृत्वमनुभवितुं शक्नोति । तस्य किमीश्वरः करिष्यति । नच लोके प्रसिद्धिरस्ति कृष्यादिकासु क्रियास्वनडुदादिवदीश्वरो ऽपरो ऽपेक्षितव्य इति । क्लेषात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत, विषमफलं चैषां कर्तृत्वं विदधतो वैषम्यम् । ननु ऽवैषम्यनैर्घृण्ये न सापेक्षत्वात्ऽ (ब्र। १।४।१७) इत्युक्तम् । सत्यमुक्तम् सति त्वीश्वरस्य सापेक्षत्वसंभवे । सापेक्षत्वं चेश्वरस्य संभवति सतोर्जन्तूनां धर्माधर्मयोस्तयोश्च सद्भावः सति जीवस्य कर्तृत्वे । तदेव चेत्कर्तृत्वमीश्वरापेक्षं स्यात्किंविषयमीश्वरस्य सापेक्षत्वमुच्येत । अकृताभ्यागमश्चैवं जीवस्य प्रसज्येत । तस्मात्स्वत एवास्य कर्तृत्वमिति । एतां प्राप्तिं तुशब्देन व्यावर्त्य प्रतिजानीते- ऽपरात्ऽ इति । अविद्यावस्थायां कार्यकरणसंघाताविवेकदर्शिनो जीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात्सर्वभूताधिवासात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः, तदनुग्रहहेतुकेनैव च विज्ञानेन मोक्षसिद्धिर्भवितुमर्हति । कुतः । तच्छ्रुतेः । यद्यपि दोषप्रयुक्तः सामग्रीसंपन्नश्च जीवः, यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धं, तथापि सर्वास्वेव प्रवृत्तिष्वीश्वरो हेतुकर्तेति श्रुतेरवसीयते । तथाहि श्रुतिर्भवति- ऽएष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीयते । एष ह्येवासाधु कर्म कारयति तं यमधो निनीषतेऽ (कौषी। ३।८) इति । ऽय आत्मनि तिष्ठन्नात्मानमन्तरो यमयतिऽ इति चैवञ्जातीयका ॥ ४१ ॥ नन्वेवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घण्ये स्यातामकृताभ्यागमश्च जीवस्येति । नेत्युच्यते-

parāt tu tacchruteḥ yadidamavidyāvasthāyāmupādinibandhanaṃ kartṛtvaṃ jīvasyābhihitaṃ, tatkimanapekṣyeśvaraṃ bhavatyāhosvidīśvarāpekṣamiti bhavati vicāraṇā / tatra prāptaṃ tāvanneśvaramapekṣate jīvaḥ kartṛtva iti / kasmāt / apekṣāprayojanābhāvāt / ayaṃ hi jīvaḥ svayameva rāgadveṣādidoṣaprayuktaḥ kārakāntarasāmagrīsamapannaḥ kartṛtvamanubhavituṃ śaknoti / tasya kimīśvaraḥ kariṣyati / naca loke prasiddhirasti kṛṣyādikāsu kriyāsvanaḍudādivadīśvaro 'paro 'pekṣitavya iti / kleṣātmakena ca kartṛtvena jantūnsaṃsṛjata īśvarasya nairghṛṇyaṃ prasajyeta, viṣamaphalaṃ caiṣāṃ kartṛtvaṃ vidadhato vaiṣamyam / nanu 'vaiṣamyanairghṛṇye na sāpekṣatvāt' (bra. 1.4.17) ityuktam / satyamuktam sati tvīśvarasya sāpekṣatvasaṃbhave / sāpekṣatvaṃ ceśvarasya saṃbhavati satorjantūnāṃ dharmādharmayostayośca sadbhāvaḥ sati jīvasya kartṛtve / tadeva cetkartṛtvamīśvarāpekṣaṃ syātkiṃviṣayamīśvarasya sāpekṣatvamucyeta / akṛtābhyāgamaścaivaṃ jīvasya prasajyeta / tasmātsvata evāsya kartṛtvamiti / etāṃ prāptiṃ tuśabdena vyāvartya pratijānīte- 'parāt' iti / avidyāvasthāyāṃ kāryakaraṇasaṃghātāvivekadarśino jīvasyāvidyātimirāndhasya sataḥ parasmādātmanaḥ karmādhyakṣātsarvabhūtādhivāsātsākṣiṇaścetayiturīśvarāttadanujñayā kartṛtvabhoktṛtvalakṣaṇasya saṃsārasya siddhiḥ, tadanugrahahetukenaiva ca vijñānena mokṣasiddhirbhavitumarhati / kutaḥ / tacchruteḥ / yadyapi doṣaprayuktaḥ sāmagrīsaṃpannaśca jīvaḥ, yadyapi ca loke kṛṣyādiṣu karmasu neśvarakāraṇatvaṃ prasiddhaṃ, tathāpi sarvāsveva pravṛttiṣvīśvaro hetukarteti śruteravasīyate / tathāhi śrutirbhavati- 'eṣa hyeva sādhu karma kārayati taṃ yamebhyo lokebhya unninīyate / eṣa hyevāsādhu karma kārayati taṃ yamadho ninīṣate' (kauṣī. 3.8) iti / 'ya ātmani tiṣṭhannātmānamantaro yamayati' iti caivañjātīyakā // 41 // nanvevamīśvarasya kārayitṛtve sati vaiṣamyanairghaṇye syātāmakṛtābhyāgamaśca jīvasyeti / netyucyate-

Sanskrit only: no published translation is held for this verse.

कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः तुशब्दश्चोदितदोषव्यावर्तनार्थः । कृतो यः प्रयत्नो जीवस्य धर्माधर्मलक्षणस्तदपेक्ष एवैनमीश्वरः कारयति । ततश्चैते चोदिता दोषा न प्रसज्यन्ते । जीवकृतधर्माधर्मवैषम्यापेक्ष एव तत्तत्फलानि विषमं विभजेत्पर्जन्यवदीश्वरो निमित्तत्वमात्रेण । यथा लोके नानाविधानां गुच्छगुल्मादीनां व्रीहियवादीनां चासाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः । नह्यसति पर्जन्ये रसपष्पपलाशादिवैषम्यं तेषां जायते, नाप्यसत्सु स्वस्वबीजेषु, एवं जीवकृतप्रयत्नापेक्ष ईश्वरस्तेषां शुभाशुभं विदध्यादिति श्लिष्यते । ननु कृतप्रयत्नापेक्षत्वमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते । नैष दोषः । परायत्ते ऽपि हि कर्तृत्वे करोत्येव जीवः । कुर्वन्तं हि तमीश्वरः कारयति । अपिच पूर्वप्रयत्नमपेक्ष्येदानीं कारयति पूर्वतरं च प्रयत्नमपेक्ष्य पूर्वमकारयदित्यनादित्वात्संसारस्येत्यनवद्यम् । कथं पुनरवगम्यते कृतप्रत्नापेक्ष ईश्वर इति । विहितप्रतिषिद्धावैयर्थ्यादिभ्य इत्याह । एवं हि ऽस्वर्गकामो यजेतऽ ऽब्राह्मणो न हन्तव्यःऽ, इत्येवञ्जातीयकस्य विहितस्य प्रतिषिद्धस्य चावैयर्थ्यं भवति । अन्यथा तदनर्थकं स्यात् । ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत । अत्यन्तपरतन्त्रत्वाज्जीवस्य । तथा विहितकारिणमप्यनर्थेन संसृजेत्प्रतिषिद्धकारिणमप्यर्थेन । ततश्च प्रामाण्यं वेदस्यास्तमियात् । ईश्वरस्य चात्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयर्थ्यं तथा देशकालनिमित्तानां पूर्वोक्तदोषप्रसङ्गश्चेत्येवञ्जातीयकं दोषजातमादिग्रहणेन दर्शयति ॥ ४२ ॥ १७ अंशाधिकरणम् । सू। ४३-५३

kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ tuśabdaścoditadoṣavyāvartanārthaḥ / kṛto yaḥ prayatno jīvasya dharmādharmalakṣaṇastadapekṣa evainamīśvaraḥ kārayati / tataścaite coditā doṣā na prasajyante / jīvakṛtadharmādharmavaiṣamyāpekṣa eva tattatphalāni viṣamaṃ vibhajetparjanyavadīśvaro nimittatvamātreṇa / yathā loke nānāvidhānāṃ gucchagulmādīnāṃ vrīhiyavādīnāṃ cāsādhāraṇebhyaḥ svasvabījebhyo jāyamānānāṃ sādhāraṇaṃ nimittaṃ bhavati parjanyaḥ / nahyasati parjanye rasapaṣpapalāśādivaiṣamyaṃ teṣāṃ jāyate, nāpyasatsu svasvabījeṣu, evaṃ jīvakṛtaprayatnāpekṣa īśvarasteṣāṃ śubhāśubhaṃ vidadhyāditi śliṣyate / nanu kṛtaprayatnāpekṣatvameva jīvasya parāyatte kartṛtve nopapadyate / naiṣa doṣaḥ / parāyatte 'pi hi kartṛtve karotyeva jīvaḥ / kurvantaṃ hi tamīśvaraḥ kārayati / apica pūrvaprayatnamapekṣyedānīṃ kārayati pūrvataraṃ ca prayatnamapekṣya pūrvamakārayadityanāditvātsaṃsārasyetyanavadyam / kathaṃ punaravagamyate kṛtapratnāpekṣa īśvara iti / vihitapratiṣiddhāvaiyarthyādibhya ityāha / evaṃ hi 'svargakāmo yajeta' 'brāhmaṇo na hantavyaḥ', ityevañjātīyakasya vihitasya pratiṣiddhasya cāvaiyarthyaṃ bhavati / anyathā tadanarthakaṃ syāt / īśvara eva vidhipratiṣedhayorniyujyeta / atyantaparatantratvājjīvasya / tathā vihitakāriṇamapyanarthena saṃsṛjetpratiṣiddhakāriṇamapyarthena / tataśca prāmāṇyaṃ vedasyāstamiyāt / īśvarasya cātyantānapekṣatve laukikasyāpi puruṣakārasya vaiyarthyaṃ tathā deśakālanimittānāṃ pūrvoktadoṣaprasaṅgaścetyevañjātīyakaṃ doṣajātamādigrahaṇena darśayati // 42 // 17 aṃśādhikaraṇam / sū. 43-53

Sanskrit only: no published translation is held for this verse.

अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके जीवेश्वरयोरुपकार्योपकारभाव उक्तः । स च संबद्धयोरेव लोके दृष्टो यथा स्वामिभृत्ययोर्यथा वाग्निविस्फुलिङ्गयोः । ततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात्किं स्वामिभृत्यवत्संबन्ध आहोस्विदग्निविस्फुलिङ्गवदित्यस्यां विचिकित्सायामनियमो वा प्राप्नोति । अथवा स्वामिभृत्यप्रकारेष्वेवेशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव संबन्ध इति प्राप्नोति । अतो ब्रवीत्यंश इति । जीव ईश्वस्यांशो भवितुमर्हति, यथाग्नेर्विस्फुलिङ्गः । अंश इवांशो नहि निरवयवस्य मुख्य्ॐऽशः संभवति । कस्मात्पुनर्निरवयवत्वात्स एव न भवति । नानाव्यपदेशात् । ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा। ८।७।१) ऽएतमेव विदित्वा मुनिर्भवतिऽ ऽ य आत्मनि तिष्ठन्नात्मानमन्तरो यमयतिऽ इति चैवञ्जातीयको भेदनिर्देशो नासति भेदे युज्यते । ननु चायं नानाव्यपदेशः सुतरां स्वामिभृत्यसारूप्ये युज्यत इत्यत आह- अन्यथा चापीति । नच नानाव्यपदेशादेव केवलादंशत्वप्रतिप्तिः । किं तर्ह्यन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकः । तथाहि- एके शाखिनो दाशकितवादिभावं ब्रह्मण आमनन्त्याथर्वणिका ब्रह्मसूक्ते- ऽब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाःऽ इत्यादिना । दाशा य एते कैवर्ताः प्रसिद्धाः, ये चामी दासाः स्वामिष्वात्मानमुपक्षपयन्ति, ये चान्ये कितवा द्यूतकृतस्ते सर्वे ब्रह्मैवेति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृतकार्यकरणसंघातप्रविष्टानां जीवानां ब्रह्मत्वमाह । तथान्यत्रापि ब्रह्मप्रक्रियायामेवायमर्थः प्रपञ्च्यते- ऽत्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखःऽ (श्वे। ४।३) इति । ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ इति च । ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृच ३।७।२३) इत्यादिश्रुतिभ्यश्चास्यार्थस्य सिद्धिः । चैतन्यं चाविशिष्टं जीवेश्वरयोर्यथाग्निविस्फुलिङ्गयोरौष्ण्यम् । अतो भेदाभेदावगमाभ्यामंशत्वावगमः ॥ ४३ ॥ कुतश्चांशत्वावगमः -

aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke jīveśvarayorupakāryopakārabhāva uktaḥ / sa ca saṃbaddhayoreva loke dṛṣṭo yathā svāmibhṛtyayoryathā vāgnivisphuliṅgayoḥ / tataśca jīveśvarayorapyupakāryopakārakabhāvābhyupagamātkiṃ svāmibhṛtyavatsaṃbandha āhosvidagnivisphuliṅgavadityasyāṃ vicikitsāyāmaniyamo vā prāpnoti / athavā svāmibhṛtyaprakāreṣveveśitrīśitavyabhāvasya prasiddhatvāttadvidha eva saṃbandha iti prāpnoti / ato bravītyaṃśa iti / jīva īśvasyāṃśo bhavitumarhati, yathāgnervisphuliṅgaḥ / aṃśa ivāṃśo nahi niravayavasya mukhyoṃ'śaḥ saṃbhavati / kasmātpunarniravayavatvātsa eva na bhavati / nānāvyapadeśāt / 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1) 'etameva viditvā munirbhavati' ' ya ātmani tiṣṭhannātmānamantaro yamayati' iti caivañjātīyako bhedanirdeśo nāsati bhede yujyate / nanu cāyaṃ nānāvyapadeśaḥ sutarāṃ svāmibhṛtyasārūpye yujyata ityata āha- anyathā cāpīti / naca nānāvyapadeśādeva kevalādaṃśatvapratiptiḥ / kiṃ tarhyanyathā cāpi vyapadeśo bhavatyanānātvasya pratipādakaḥ / tathāhi- eke śākhino dāśakitavādibhāvaṃ brahmaṇa āmanantyātharvaṇikā brahmasūkte- 'brahma dāśā brahma dāsā brahmaiveme kitavāḥ' ityādinā / dāśā ya ete kaivartāḥ prasiddhāḥ, ye cāmī dāsāḥ svāmiṣvātmānamupakṣapayanti, ye cānye kitavā dyūtakṛtaste sarve brahmaiveti hīnajantūdāharaṇena sarveṣāmeva nāmarūpakṛtakāryakaraṇasaṃghātapraviṣṭānāṃ jīvānāṃ brahmatvamāha / tathānyatrāpi brahmaprakriyāyāmevāyamarthaḥ prapañcyate- 'tvaṃ strī tvaṃ pumānasi tvaṃ kumāra uta vā kumārī / tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ' (śve. 4.3) iti / 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' iti ca / 'nānyo 'to 'sti draṣṭā' (bṛca 3.7.23) ityādiśrutibhyaścāsyārthasya siddhiḥ / caitanyaṃ cāviśiṣṭaṃ jīveśvarayoryathāgnivisphuliṅgayorauṣṇyam / ato bhedābhedāvagamābhyāmaṃśatvāvagamaḥ // 43 // kutaścāṃśatvāvagamaḥ -

Sanskrit only: no published translation is held for this verse.

मन्त्रवर्णाच् च मन्त्रवर्णश्चैतमर्थमवगमयति ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः । पादो ऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिविऽ (छा। ३।१२।६) इति । अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति । ऽअहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यःऽ इति प्रयोगात् । अंशः पादो भाग इत्यनर्थान्तरम् । तस्मादप्यंशत्वावगमः ॥ ४४ ॥ कुतश्चांशत्वावगमः -

mantravarṇāc ca mantravarṇaścaitamarthamavagamayati 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ / pādo 'sya sarvābhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti / atra bhūtaśabdena jīvapradhānāni sthāvarajaṅgamāni nirdiśati / 'ahiṃsansarvabhūtānyanyatra tīrthebhyaḥ' iti prayogāt / aṃśaḥ pādo bhāga ityanarthāntaram / tasmādapyaṃśatvāvagamaḥ // 44 // kutaścāṃśatvāvagamaḥ -

Sanskrit only: no published translation is held for this verse.

अपि च स्मर्यते ईश्वरगीतास्वपि चेश्वरंशत्वं जीवस्य स्मर्यते- ऽममैवांशो जीवलोके जीवभूतः सनातनःऽ (१५।७) इति । तस्मादप्यंशत्वावगमः । यत्तूक्तं स्वामिभृत्यादिष्वेवेशित्रीशितव्यभावो लोके प्रसिद्ध इति । यद्यप्येषा लोके प्रसिद्धस्तथापि शास्त्रात्त्वत्रांशांशित्वमीशित्रीशितव्यभावश्च निश्चीयते । निरतिशयोपाधिसंपन्नश्चेश्वरो निहीनोपाधिसंपन्नाञ्जीवान्प्रशास्तीति न किञ्चिद्विप्रतिषिध्यते ॥ ४५ ॥ अत्राह- ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात् । यथा लोके हस्तपादाद्यन्यतमाङ्गगतेन दुःखेनाङ्गिनो देवदत्तस्य दुःखित्वं तद्वत् । ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात् । अतो वरं पूर्वावस्थः संसार एवास्त्विति सम्यग्दर्शनानर्थक्यप्रसङ्गः स्यादिति । अत्रोच्यते-

api ca smaryate īśvaragītāsvapi ceśvaraṃśatvaṃ jīvasya smaryate- 'mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ' (15.7) iti / tasmādapyaṃśatvāvagamaḥ / yattūktaṃ svāmibhṛtyādiṣveveśitrīśitavyabhāvo loke prasiddha iti / yadyapyeṣā loke prasiddhastathāpi śāstrāttvatrāṃśāṃśitvamīśitrīśitavyabhāvaśca niścīyate / niratiśayopādhisaṃpannaśceśvaro nihīnopādhisaṃpannāñjīvānpraśāstīti na kiñcidvipratiṣidhyate // 45 // atrāha- nanu jīvasyeśvarāṃśatvābhyupagame tadīyena saṃsāraduḥkhopabhogenāṃśina īśvarasyāpi duḥkhitvaṃ syāt / yathā loke hastapādādyanyatamāṅgagatena duḥkhenāṅgino devadattasya duḥkhitvaṃ tadvat / tataśca tatprāptānāṃ mahattaraṃ duḥkhaṃ prāpnuyāt / ato varaṃ pūrvāvasthaḥ saṃsāra evāstviti samyagdarśanānarthakyaprasaṅgaḥ syāditi / atrocyate-

Sanskrit only: no published translation is held for this verse.

प्रकाशादिवन् नैवं परः यथा जीवः संसारदुःखमनुभवति नैवं पर ईश्वरो ऽनुभवतीति प्रतिजानीमहे । जीवो ह्यविद्यावेशवशाद्देहाद्यात्मभावमिव गत्वा तत्कृतेन दुःखेन दुःख्यहमित्यविद्यया कृतं दुःखोपभोगमभिमन्यते । नैवं परमेश्वरस्य देहाद्यात्मभावो दुःखाभिमानो वास्ति । जीवस्याप्यविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दुःखाभिमानो नतु पारमार्थिको ऽस्ति । यथाच स्वदेहगतदाहच्छेदादिनिमित्तं दुःखं तदभिमानभ्रान्त्यानुभवति तथा पुत्रमित्रादिगोचरमपि दुःखं तदभिमानभ्रान्त्यैवानुभवत्यहमेव पुत्रो ऽहमेव मित्रमित्येवं स्नेहवशेन पुत्रमित्रादिष्वभिनिविशमानः । ततश्च निश्चितमेतदवगम्यते- मिथ्याभिमानभ्रमनिमित्त एव दुःखानुभव इति । व्यतिरेकदर्शनाच्चैवमवगम्यते । तथाहि- पुत्रमित्रादिमत्सु बहुषूपविष्टेषु तत्संबन्धाभिमानिष्वितरेषु च पुत्रो मृतो मित्रं मृतमित्येवमाद्युद्घोषिते येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्निमित्तं दुःखमुत्पद्यते नाभिमानहीनानां परिव्राजकादीनाम् । अतश्च लौकिकस्यापि पुंसः सम्यग्दर्शनार्थवत्त्वं दृष्टं, किमुत विषयशून्यादात्मनो ऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैतन्यमात्रस्वरूपस्येति । तस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्गः । प्रकाशादिवदिति निदर्शनोपन्यासः । यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्यवतिष्ठमानो ऽङ्गुल्याद्युपाधिसंबन्धात्तेष्वृजुवक्रादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रतिपद्यमानो ऽपि न परमार्थतस्तद्भावं प्रतिपद्यते । यथा चाकाशो घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानो ऽपि न परमार्थतो गच्छति, यथा चोदशरावादिकम्पनात्तद्गते सूर्यप्रतिबिम्बे कम्पमाने ऽपि न तद्वान्सूर्यः कम्पते, एवमविद्याप्रत्युपस्थापिते बुद्ध्याद्युपहिते जीवाख्येंऽशे दुःखायमाने ऽपि न तद्वानीश्वरो दुःखायते । जीवस्यापि तु दुःखप्राप्तिरविद्यानिमित्तैवेत्युक्तम् । तथाचाविद्यानिमित्तजीवभावव्युदासेन ब्रह्मभावमेव जीवस्य प्रतिपादयन्ति वेदान्ताः ऽतत्त्वमसिऽ इत्येवमादयः, तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखित्वप्रसङ्गः ॥ ४६ ॥ ---------------------- फ़्न्: इतरेष्वभिमानशून्येषु ।

prakāśādivan naivaṃ paraḥ yathā jīvaḥ saṃsāraduḥkhamanubhavati naivaṃ para īśvaro 'nubhavatīti pratijānīmahe / jīvo hyavidyāveśavaśāddehādyātmabhāvamiva gatvā tatkṛtena duḥkhena duḥkhyahamityavidyayā kṛtaṃ duḥkhopabhogamabhimanyate / naivaṃ parameśvarasya dehādyātmabhāvo duḥkhābhimāno vāsti / jīvasyāpyavidyākṛtanāmarūpanirvṛttadehendriyādyupādhyavivekabhramanimitta eva duḥkhābhimāno natu pāramārthiko 'sti / yathāca svadehagatadāhacchedādinimittaṃ duḥkhaṃ tadabhimānabhrāntyānubhavati tathā putramitrādigocaramapi duḥkhaṃ tadabhimānabhrāntyaivānubhavatyahameva putro 'hameva mitramityevaṃ snehavaśena putramitrādiṣvabhiniviśamānaḥ / tataśca niścitametadavagamyate- mithyābhimānabhramanimitta eva duḥkhānubhava iti / vyatirekadarśanāccaivamavagamyate / tathāhi- putramitrādimatsu bahuṣūpaviṣṭeṣu tatsaṃbandhābhimāniṣvitareṣu ca putro mṛto mitraṃ mṛtamityevamādyudghoṣite yeṣāmeva putramitrādimattvābhimānasteṣāmeva tannimittaṃ duḥkhamutpadyate nābhimānahīnānāṃ parivrājakādīnām / ataśca laukikasyāpi puṃsaḥ samyagdarśanārthavattvaṃ dṛṣṭaṃ, kimuta viṣayaśūnyādātmano 'nyadvastvantaramapaśyato nityacaitanyamātrasvarūpasyeti / tasmānnāsti samyagdarśanānarthakyaprasaṅgaḥ / prakāśādivaditi nidarśanopanyāsaḥ / yathā prakāśaḥ sauraścāndramaso vā viyadvyāpyavatiṣṭhamāno 'ṅgulyādyupādhisaṃbandhātteṣvṛjuvakrādibhāvaṃ pratipadyamāneṣu tattadbhāvamiva pratipadyamāno 'pi na paramārthatastadbhāvaṃ pratipadyate / yathā cākāśo ghaṭādiṣu gacchatsu gacchanniva vibhāvyamāno 'pi na paramārthato gacchati, yathā codaśarāvādikampanāttadgate sūryapratibimbe kampamāne 'pi na tadvānsūryaḥ kampate, evamavidyāpratyupasthāpite buddhyādyupahite jīvākhyeṃ'śe duḥkhāyamāne 'pi na tadvānīśvaro duḥkhāyate / jīvasyāpi tu duḥkhaprāptiravidyānimittaivetyuktam / tathācāvidyānimittajīvabhāvavyudāsena brahmabhāvameva jīvasya pratipādayanti vedāntāḥ 'tattvamasi' ityevamādayaḥ, tasmānnāsti jaivena duḥkhena paramātmano duḥkhitvaprasaṅgaḥ // 46 // ---------------------- FN: itareṣvabhimānaśūnyeṣu /

Sanskrit only: no published translation is held for this verse.

स्मरन्ति च स्मरन्ति च व्यासादयो यथा जैवेन दुःखेन न परमात्मा दुःखायत इति । ऽतत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा । कर्मात्मा त्वपरो यो ऽसौ मोक्षबन्धनैः स युज्यते । स सप्तदशकेनापि राशिना युज्यते पुनःऽ इति । चशब्दात्समामनन्ति चेति वाक्यशेषः । ऽतयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतिऽ (श्वे। ४।६) इति । ऽएकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यःऽ (कठ। ५।११) इति च ॥ ४७ ॥ अत्राह- यदि तर्ह्येक एव सर्वेषां भूतानामन्तरात्मा स्यात्कथमनुज्ञापरिहारौ स्यातां लोकिकौ वैदिकौ चेति । ननु चांशो जीव ईश्वरस्येत्युक्तम् । तद्भेदाच्चानुज्ञापरिहारौ तदाश्रयावव्यतिकीर्णावुपपद्येते किमत्र चोद्यत इति । उच्यते- नैतदेवम् । अनंशित्वमपि हि जीवस्याभेदवादिन्यः श्रुतयः प्रतिपादयन्ति- ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (ते। २।६।१), ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ। ३।७।२३), ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ। ४।४।१९), ऽतत्त्वमसिऽ (छा। ६।८।७) ऽअहं ब्रह्मास्मिऽ (बृ। १।४।१०) इत्येवञ्जातीयकाः । ननु भेदाभेदावगमाभ्यामंशत्वं सिद्ध्यतीत्युक्तम् । स्यादेतदेवं यद्युभावपि भेदाभेदौ प्रतिपिपादयिषितौ स्याताम्, अभेद एव त्वत्र प्रतिपिपादयिषितो ब्रह्मात्मत्वप्रतिपत्तौ पुरुषार्थसिद्धेः । स्वभावप्राप्तस्तु भेदो ऽनूद्यते । नच निरवयवस्य ब्रह्मणो मुख्य्ॐऽशो जीवः संभवतीत्युक्तम् । तस्मात्परः एवैकः सर्वेषां भूतानामन्तरात्मा जीवभावेनावस्थित इत्यतो वक्तव्यानुज्ञापरिहारोपपत्तिः ॥ ४७ ॥ ---------------------- फ़्न्: तत्र जीवपरयोर्मध्ये । कर्मात्मा कर्माश्रयो जीवः । सप्तदशकेन दशेन्द्रयाणि पञ्च प्राणः मनो बुद्दिश्चेति सप्तदशसंख्याको राशिर्लिङ्गम् । मृत्योः स मृत्यु - इह ब्रह्मणि यो नानेव कल्पितभेदशालि चेतनाचेतनात्मकं विश्वं पश्यति स मृत्योरनन्तरं मृत्युं जन्ममरणादिपरम्परारूपं संसारं प्राप्नोतीत्यर्थः । तां ब्रूमः -

smaranti ca smaranti ca vyāsādayo yathā jaivena duḥkhena na paramātmā duḥkhāyata iti / 'tatra yaḥ paramātmā hi sa nityo nirguṇaḥ smṛtaḥ / na lipyate phalaiścāpi padmapatramivāmbhasā / karmātmā tvaparo yo 'sau mokṣabandhanaiḥ sa yujyate / sa saptadaśakenāpi rāśinā yujyate punaḥ' iti / caśabdātsamāmananti ceti vākyaśeṣaḥ / 'tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti' (śve. 4.6) iti / 'ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ' (kaṭha. 5.11) iti ca // 47 // atrāha- yadi tarhyeka eva sarveṣāṃ bhūtānāmantarātmā syātkathamanujñāparihārau syātāṃ lokikau vaidikau ceti / nanu cāṃśo jīva īśvarasyetyuktam / tadbhedāccānujñāparihārau tadāśrayāvavyatikīrṇāvupapadyete kimatra codyata iti / ucyate- naitadevam / anaṃśitvamapi hi jīvasyābhedavādinyaḥ śrutayaḥ pratipādayanti- 'tatsṛṣṭvā tadevānuprāviśat' (te. 2.6.1), 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23), 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19), 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) ityevañjātīyakāḥ / nanu bhedābhedāvagamābhyāmaṃśatvaṃ siddhyatītyuktam / syādetadevaṃ yadyubhāvapi bhedābhedau pratipipādayiṣitau syātām, abheda eva tvatra pratipipādayiṣito brahmātmatvapratipattau puruṣārthasiddheḥ / svabhāvaprāptastu bhedo 'nūdyate / naca niravayavasya brahmaṇo mukhyoṃ'śo jīvaḥ saṃbhavatītyuktam / tasmātparaḥ evaikaḥ sarveṣāṃ bhūtānāmantarātmā jīvabhāvenāvasthita ityato vaktavyānujñāparihāropapattiḥ // 47 // ---------------------- FN: tatra jīvaparayormadhye / karmātmā karmāśrayo jīvaḥ / saptadaśakena daśendrayāṇi pañca prāṇaḥ mano buddiśceti saptadaśasaṃkhyāko rāśirliṅgam / mṛtyoḥ sa mṛtyu - iha brahmaṇi yo nāneva kalpitabhedaśāli cetanācetanātmakaṃ viśvaṃ paśyati sa mṛtyoranantaraṃ mṛtyuṃ janmamaraṇādiparamparārūpaṃ saṃsāraṃ prāpnotītyarthaḥ / tāṃ brūmaḥ -

Sanskrit only: no published translation is held for this verse.

अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् ऽऋतौ भार्यामुपेयात्ऽ इत्यनुज्ञा । ऽऽगुर्वाङ्गनां नोपगच्छेत्ऽ इति परिहारः । तथा ऽअग्नीषोमीयं पशुं संज्ञपयेत्ऽ इत्यनुज्ञा । ऽन हिंस्यात्सर्वाभूतानिऽ इति परिहारः । एवं लोके ऽपि मित्रमुपसेवितव्यमित्यनुज्ञा । शत्रुः परिहर्तव्य इति परिहारः । एवंप्रकारावनुज्ञापरिहारावेकत्वे ऽप्यात्मनो देहसंबन्धात्स्याताम् । देहैः संबन्धो देहसंबन्धः । कः पुनर्देहसंबन्धः । देहादिरयं संघातो ऽहमेवेत्यात्मनि विपरीतप्रत्ययोत्पत्तिः । दृष्टा च सा सर्वप्राणिनामहं गच्छाम्यहमागच्छाम्यहमन्धो ऽहमनन्धो ऽहं मूढो ऽहममूढ इत्येवमात्मिका । नह्यस्याः सम्यग्दर्शनादन्यन्निवारकमस्ति । प्राक्तु सम्यग्दर्शनात्प्रततैषा भ्रान्तिः सर्वजन्तुषु । तदेवमविद्यानिमित्तदेहाद्युपाधिसंबन्धकृताद्विशेषादैकात्म्याभ्युपगमे ऽप्यनुज्ञापरिहाराववकल्प्येते । सम्यग्दर्शिनस्तर्ह्यनुज्ञापरिहारानर्थक्यं प्राप्तम् । न । तस्यकृतार्थत्वान्नियोज्यत्वानुपपत्तेः । हेयोपादेययोर्हि नियोज्यो नियोक्तव्यः स्यात् । आत्मनस्त्वतिरिक्तं हेयमुपादेयं वा वस्त्वपश्यन्कथं नियुज्येत । नचात्मात्मन्येव नियोज्यः स्यात् । शरीरव्यतिरेकदर्शिन एव नियोज्यत्वमिति चेत् । न । तत्संहतत्वाभिमानात् । सत्यं व्यतिरेकदर्शिनो नियोज्यत्वं तथापि व्योमादिवद्देहाद्यसंहतत्वमपश्यत एवात्मनो नियोज्यत्वाभिमानः । नहि देहाद्यसंहतत्वदर्शिनः कस्यचिदपि नियोगो दृष्टः । किमुतैकात्म्यदर्शिनः । नच नियोगाभावात्सम्यग्दर्शिनो यथेष्टचेष्टाप्रसङ्गः । सर्वत्राभिमानस्यैव प्रवर्तकत्वादिभिमानाभावाच्च सम्यग्दर्शिनः । तस्माद्देहसंबन्धादेवानुज्ञापरिहारौ । ज्योतिरादिवत् । यथा ज्योतिष एकत्वे ऽप्यग्निः क्रव्यात्परिह्रियते नेतरः । यथाच प्रकाश एकस्यापि सवितुरमेध्यदेशसंबद्धः परिह्रियते नेतरः शुचिभूमिष्ठः । यथा भौमाः प्रदेशा वज्रवैडूर्यादय उपादीयन्ते । भौमा अपि सन्तो नरकलेवरादयः परिह्रियन्ते । यथा मूत्रपरीषं गवां पवित्रतया परिगृह्यते तदेव जात्यन्तरे परिवर्ज्यते तद्वत् ॥ ४८ ॥ ---------------------- फ़्न्: प्रतता संतता । विशेषो भेदः । क्रव्यं मांसमत्तीति क्रव्यात् स्माशानाग्निः ।

anujñāparihārau dehasambandhāj jyotirādivat 'ṛtau bhāryāmupeyāt' ityanujñā / ''gurvāṅganāṃ nopagacchet' iti parihāraḥ / tathā 'agnīṣomīyaṃ paśuṃ saṃjñapayet' ityanujñā / 'na hiṃsyātsarvābhūtāni' iti parihāraḥ / evaṃ loke 'pi mitramupasevitavyamityanujñā / śatruḥ parihartavya iti parihāraḥ / evaṃprakārāvanujñāparihārāvekatve 'pyātmano dehasaṃbandhātsyātām / dehaiḥ saṃbandho dehasaṃbandhaḥ / kaḥ punardehasaṃbandhaḥ / dehādirayaṃ saṃghāto 'hamevetyātmani viparītapratyayotpattiḥ / dṛṣṭā ca sā sarvaprāṇināmahaṃ gacchāmyahamāgacchāmyahamandho 'hamanandho 'haṃ mūḍho 'hamamūḍha ityevamātmikā / nahyasyāḥ samyagdarśanādanyannivārakamasti / prāktu samyagdarśanātpratataiṣā bhrāntiḥ sarvajantuṣu / tadevamavidyānimittadehādyupādhisaṃbandhakṛtādviśeṣādaikātmyābhyupagame 'pyanujñāparihārāvavakalpyete / samyagdarśinastarhyanujñāparihārānarthakyaṃ prāptam / na / tasyakṛtārthatvānniyojyatvānupapatteḥ / heyopādeyayorhi niyojyo niyoktavyaḥ syāt / ātmanastvatiriktaṃ heyamupādeyaṃ vā vastvapaśyankathaṃ niyujyeta / nacātmātmanyeva niyojyaḥ syāt / śarīravyatirekadarśina eva niyojyatvamiti cet / na / tatsaṃhatatvābhimānāt / satyaṃ vyatirekadarśino niyojyatvaṃ tathāpi vyomādivaddehādyasaṃhatatvamapaśyata evātmano niyojyatvābhimānaḥ / nahi dehādyasaṃhatatvadarśinaḥ kasyacidapi niyogo dṛṣṭaḥ / kimutaikātmyadarśinaḥ / naca niyogābhāvātsamyagdarśino yatheṣṭaceṣṭāprasaṅgaḥ / sarvatrābhimānasyaiva pravartakatvādibhimānābhāvācca samyagdarśinaḥ / tasmāddehasaṃbandhādevānujñāparihārau / jyotirādivat / yathā jyotiṣa ekatve 'pyagniḥ kravyātparihriyate netaraḥ / yathāca prakāśa ekasyāpi savituramedhyadeśasaṃbaddhaḥ parihriyate netaraḥ śucibhūmiṣṭhaḥ / yathā bhaumāḥ pradeśā vajravaiḍūryādaya upādīyante / bhaumā api santo narakalevarādayaḥ parihriyante / yathā mūtraparīṣaṃ gavāṃ pavitratayā parigṛhyate tadeva jātyantare parivarjyate tadvat // 48 // ---------------------- FN: pratatā saṃtatā / viśeṣo bhedaḥ / kravyaṃ māṃsamattīti kravyāt smāśānāgniḥ /

Sanskrit only: no published translation is held for this verse.

असन्ततेश् चाव्यतिकरः स्यातां नामानुज्ञापरिहरावेकस्याप्यत्मनो देहविशेषयोगात् । यत्स्वयं कर्मफलसंबन्धः स चैकात्म्याभ्युपगमे व्यतिकीर्येत स्वाम्येकत्वादिति चेत् । नैतदेवम् । असंततेः । नहि कर्तृभोक्तृश्चात्मनः संततः सर्वैः शरीरैः संबन्धो ऽस्ति । उपाधितन्त्रो हि जीव इत्युक्तम् । उपाध्यसंतानाच्च नास्ति जीवसंतानः । ततश्च कर्मव्यतिकरः फलव्यतिकरो वा न भविष्यति ॥ ४९ ॥

asantateś cāvyatikaraḥ syātāṃ nāmānujñāpariharāvekasyāpyatmano dehaviśeṣayogāt / yatsvayaṃ karmaphalasaṃbandhaḥ sa caikātmyābhyupagame vyatikīryeta svāmyekatvāditi cet / naitadevam / asaṃtateḥ / nahi kartṛbhoktṛścātmanaḥ saṃtataḥ sarvaiḥ śarīraiḥ saṃbandho 'sti / upādhitantro hi jīva ityuktam / upādhyasaṃtānācca nāsti jīvasaṃtānaḥ / tataśca karmavyatikaraḥ phalavyatikaro vā na bhaviṣyati // 49 //

Sanskrit only: no published translation is held for this verse.

आभास एव च आभास एव चैष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः । न स एव साक्षात् । नापि वस्त्वन्तरम् । अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्धः । एवमप्यव्यतिकर एव कर्मफलयोः । आभासस्य चाविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति । तद्व्युदासेन च पारमार्थिकस्य ब्रह्मात्मभावस्योपदेशोपपत्तिः । येषां तु बहव आत्मानस्ते च सर्वे सर्वगतास्तेषामेवैष व्यतिकरः प्राप्नोति । कथम् । बहवो विभवश्चात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्च तदर्थं साधारणं प्रधानं तन्निमित्तैषां भोगापवर्गसिद्धिरिति सांख्याः । सति बहुत्वे विभुत्वे च घटकुड्यादिसमाना द्रव्यमात्रस्वरूपाः स्वतो ऽचेतना आत्मनस्तदुपकरणानि चाणूनि मनांस्यचेतनानि । तत्रात्मद्रव्याणां मनोद्रव्याणां च संयोगान्नवेच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते । ते चाव्यतिरेकेण प्रत्येकमात्मसु समवयन्ति स संसारः । तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादाः । तत्र सांख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां संनिधानाद्यविशेषाच्चैकस्य सुखदुःखसंबन्धे सर्वेषां सुखदुःखसंबन्धः प्राप्नोति । स्यादेतत् । प्रधानप्रवृत्तेः परुषकैवल्यार्थत्वाद्व्यवस्था भविष्यति । अन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्तिः स्यात् । तथाचानिर्मोक्षः प्रसज्येतेति । नैतत्सारम् । नह्यभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम् । उपपत्त्या तु कयाचिद्व्यवस्थोच्येत । असत्यां पुनरुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यं, प्राप्नोति तु व्यवस्थाहेत्वभावाद्व्यतिकरः । काणादानामपि यदैकेनात्मना मनः संयुज्यते तदात्मान्तरैरपि नान्तरीयकः संयोगः स्यात्संनिधानाद्यविशेषात् । ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुखदुःखित्वं प्रसज्येत ॥ ५० ॥ स्यादेतत् । अदृष्टनिमित्तो नियमो भविष्यतीति । नेत्याह-

ābhāsa eva ca ābhāsa eva caiṣa jīvaḥ parasyātmano jalasūryakādivatpratipattavyaḥ / na sa eva sākṣāt / nāpi vastvantaram / ataśca yathā naikasmiñjalasūryake kampamāne jalasūryakāntaraṃ kampate, evaṃ naikasmiñjīve karmaphalasaṃbandhini jīvāntarasya tatsaṃbandhaḥ / evamapyavyatikara eva karmaphalayoḥ / ābhāsasya cāvidyākṛtatvāttadāśrayasya saṃsārasyāvidyākṛtatvopapattiriti / tadvyudāsena ca pāramārthikasya brahmātmabhāvasyopadeśopapattiḥ / yeṣāṃ tu bahava ātmānaste ca sarve sarvagatāsteṣāmevaiṣa vyatikaraḥ prāpnoti / katham / bahavo vibhavaścātmānaścaitanyamātrasvarūpā nirguṇā niratiśayāśca tadarthaṃ sādhāraṇaṃ pradhānaṃ tannimittaiṣāṃ bhogāpavargasiddhiriti sāṃkhyāḥ / sati bahutve vibhutve ca ghaṭakuḍyādisamānā dravyamātrasvarūpāḥ svato 'cetanā ātmanastadupakaraṇāni cāṇūni manāṃsyacetanāni / tatrātmadravyāṇāṃ manodravyāṇāṃ ca saṃyogānnavecchādayo vaiśeṣikā ātmaguṇā utpadyante / te cāvyatirekeṇa pratyekamātmasu samavayanti sa saṃsāraḥ / teṣāṃ navānāmātmaguṇānāmatyantānutpādo mokṣa iti kāṇādāḥ / tatra sāṃkhyānāṃ tāvaccaitanyasvarūpatvātsarvātmanāṃ saṃnidhānādyaviśeṣāccaikasya sukhaduḥkhasaṃbandhe sarveṣāṃ sukhaduḥkhasaṃbandhaḥ prāpnoti / syādetat / pradhānapravṛtteḥ paruṣakaivalyārthatvādvyavasthā bhaviṣyati / anyathā hi svavibhūtikhyāpanārthā pradhānapravṛttiḥ syāt / tathācānirmokṣaḥ prasajyeteti / naitatsāram / nahyabhilaṣitasiddhinibandhanā vyavasthā śakyā vijñātum / upapattyā tu kayācidvyavasthocyeta / asatyāṃ punarupapattau kāmaṃ mā bhūdabhilaṣitaṃ puruṣakaivalyaṃ, prāpnoti tu vyavasthāhetvabhāvādvyatikaraḥ / kāṇādānāmapi yadaikenātmanā manaḥ saṃyujyate tadātmāntarairapi nāntarīyakaḥ saṃyogaḥ syātsaṃnidhānādyaviśeṣāt / tataśca hetvaviśeṣātphalāviśeṣa ityekasyātmanaḥ sukhaduḥkhayoge sarvātmanāmapi samānaṃ sukhaduḥkhitvaṃ prasajyeta // 50 // syādetat / adṛṣṭanimitto niyamo bhaviṣyatīti / netyāha-

Sanskrit only: no published translation is held for this verse.

अदृष्टानियमात् बहुष्वात्मस्वाकाशवत्सर्वगतेषु प्रतिशरीरं बाह्याभ्यन्तराविशेषेण संनिहितेषु मनोवाक्कायैर्धर्मलक्षणमदृष्टमुपर्ज्यते । सांख्यानां तावत्तदनात्मसमवायि प्रधानवर्ति प्रधानसाधारण्यान्न प्रत्यात्मं सुखदुःखोपभोगस्य नियामकमुपपद्यते । काणादानामपि पूर्ववत्साधारणेनात्ममनःसंयोगेन निर्वर्तितस्यादृष्टस्याप्यस्यैवात्मन इदमदृष्टमिति नियमे हेत्वभावादेष एव दोषः ॥ ५१ ॥ स्यादेतत् । अहमिदं फलं प्राप्नवानीदं परिहराणीत्थं प्रयता इत्थं करवाणीत्येवंविधा अभिसंध्यादयः प्रत्यात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्यन्तीति । नेत्याह-

adṛṣṭāniyamāt bahuṣvātmasvākāśavatsarvagateṣu pratiśarīraṃ bāhyābhyantarāviśeṣeṇa saṃnihiteṣu manovākkāyairdharmalakṣaṇamadṛṣṭamuparjyate / sāṃkhyānāṃ tāvattadanātmasamavāyi pradhānavarti pradhānasādhāraṇyānna pratyātmaṃ sukhaduḥkhopabhogasya niyāmakamupapadyate / kāṇādānāmapi pūrvavatsādhāraṇenātmamanaḥsaṃyogena nirvartitasyādṛṣṭasyāpyasyaivātmana idamadṛṣṭamiti niyame hetvabhāvādeṣa eva doṣaḥ // 51 // syādetat / ahamidaṃ phalaṃ prāpnavānīdaṃ pariharāṇītthaṃ prayatā itthaṃ karavāṇītyevaṃvidhā abhisaṃdhyādayaḥ pratyātmaṃ pravartamānā adṛṣṭasyātmanāṃ ca svasvāmibhāvaṃ niyaṃsyantīti / netyāha-

Sanskrit only: no published translation is held for this verse.

अभिसन्ध्यादिष्व् अपि चैवम् अभिसंध्यादीनामपि साधारणेनैवात्ममनःसंयोगेन सर्वात्मसंनिधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग एव ॥ ५२ ॥

abhisandhyādiṣv api caivam abhisaṃdhyādīnāmapi sādhāraṇenaivātmamanaḥsaṃyogena sarvātmasaṃnidhau kriyamāṇānāṃ niyamahetutvānupapatteruktadoṣānuṣaṅga eva // 52 //

Sanskrit only: no published translation is held for this verse.

प्रदेशाद् इति चेन् नान्तर्भावात् अथोच्येत विभुत्वे ऽप्यत्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एवात्मप्रदेशे भविष्यतीति अतः प्रदेशकृता व्यवस्थाभिसंध्यादीनामदृष्टस्य सुखदुःखयोश्च भविष्यतीति । तदपि नोपपद्यते । कस्मात् । अन्तर्भावात् । विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्वन्तर्भवन्ति । तत्र न वैशेषिकैः शरीरावच्छिन्नो ऽप्यात्मानः प्रदेशः कल्पयितुं शक्यः । कल्प्यमानो ऽप्ययं निष्प्रदेशस्यात्मनः प्रदेशः काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति । शरीरमपि सर्वात्मसंनिधावुत्पद्यमानमस्यैवात्मनो नेतरेषामिति न नियन्तुं शक्यम् । प्रदेशविशेषाभ्युपगमे ऽपि च द्वयोरात्मनोः समानसुखदुःखभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धिः स्यात् । समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात् । तथाहि- देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत्तस्मात्प्रदेशादपक्रान्ते तच्छरीरे यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते तस्यापीतरेण समानः सुखदुःखानुभवो दृश्यते स न स्याद्यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमनिष्टं न स्यात् । स्वर्गाद्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् । ब्राह्मणादिशरीरप्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वार्गाद्युपभोगस्य । सर्वगतत्वानुपपत्तिश्च बहूनामात्मनां, दृष्टान्ताभावात् । वद तावत्त्वं के बहवः समानप्रदेशाश्चेति । रूपादय इति चेत् । न । तेषामपि धर्म्यंशेनाभेदाल्लक्षणभेदाच्च । नतु बहूनामात्मनां लक्षणभेदो ऽस्ति । अन्त्यविशेषवशाद्भेदोपपत्तिरितिचेत् । न । भेदकल्पनाय अन्त्यविशेषकल्पनायाश्चेतरेतराश्रयत्वात् । आकाशादीनामपि विभुत्वं ब्रह्मवादिनो ऽसिद्धं कार्यत्वाभ्युपगमात्, तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम् ॥ ५३ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ श्रीशारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य तृतीयः पादः समाप्तः ॥ ३ ॥ ____________________________________________________________________________________________ ____________________________________________________________________________________________ द्वितीयाध्याये चतुर्थः पादः । अत्र पादे लिङ्गशरीरश्रुतीनां विरोधपरिहारः

pradeśād iti cen nāntarbhāvāt athocyeta vibhutve 'pyatmanaḥ śarīrapratiṣṭhena manasā saṃyogaḥ śarīrāvacchinna evātmapradeśe bhaviṣyatīti ataḥ pradeśakṛtā vyavasthābhisaṃdhyādīnāmadṛṣṭasya sukhaduḥkhayośca bhaviṣyatīti / tadapi nopapadyate / kasmāt / antarbhāvāt / vibhutvāviśeṣāddhi sarva evātmānaḥ sarvaśarīreṣvantarbhavanti / tatra na vaiśeṣikaiḥ śarīrāvacchinno 'pyātmānaḥ pradeśaḥ kalpayituṃ śakyaḥ / kalpyamāno 'pyayaṃ niṣpradeśasyātmanaḥ pradeśaḥ kālpanikatvādeva na pāramārthikaṃ kāryaṃ niyantuṃ śaknoti / śarīramapi sarvātmasaṃnidhāvutpadyamānamasyaivātmano netareṣāmiti na niyantuṃ śakyam / pradeśaviśeṣābhyupagame 'pi ca dvayorātmanoḥ samānasukhaduḥkhabhājoḥ kadācidekenaiva tāvaccharīreṇopabhogasiddhiḥ syāt / samānapradeśasyāpi dvayorātmanoradṛṣṭasya saṃbhavāt / tathāhi- devadatto yasminpradeśe sukhaduḥkhamanvabhūttasmātpradeśādapakrānte taccharīre yajñadattaśarīre ca taṃ pradeśamanuprāpte tasyāpītareṇa samānaḥ sukhaduḥkhānubhavo dṛśyate sa na syādyadi devadattayajñadattayoḥ samānapradeśamaniṣṭaṃ na syāt / svargādyanupabhogaprasaṅgaśca pradeśavādinaḥ syāt / brāhmaṇādiśarīrapradeśeṣvadṛṣṭaniṣpatteḥ pradeśāntaravartitvācca svārgādyupabhogasya / sarvagatatvānupapattiśca bahūnāmātmanāṃ, dṛṣṭāntābhāvāt / vada tāvattvaṃ ke bahavaḥ samānapradeśāśceti / rūpādaya iti cet / na / teṣāmapi dharmyaṃśenābhedāllakṣaṇabhedācca / natu bahūnāmātmanāṃ lakṣaṇabhedo 'sti / antyaviśeṣavaśādbhedopapattiriticet / na / bhedakalpanāya antyaviśeṣakalpanāyāścetaretarāśrayatvāt / ākāśādīnāmapi vibhutvaṃ brahmavādino 'siddhaṃ kāryatvābhyupagamāt, tasmādātmaikatvapakṣa eva sarvadoṣābhāva iti siddham // 53 // iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śrīśārīrakamīmāṃsābhāṣye dvitīyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ // 3 // ____________________________________________________________________________________________ ____________________________________________________________________________________________ dvitīyādhyāye caturthaḥ pādaḥ / atra pāde liṅgaśarīraśrutīnāṃ virodhaparihāraḥ

Sanskrit only: no published translation is held for this verse.

तथा प्राणाः वियदादिविषयः श्रुतिविप्रतिषेधस्तृतीयेन पादेन परिहृतः । चतुर्थेनेदानीं प्राणविषयः परिह्रियते । ऽतत्र तावत् तत्तेजो ऽसृजतऽ (छान्दो। ६।२।३) इति, ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तैत्ति। २।१।१) इति चैवमादिषूत्पत्तिप्रकरणेषु प्राणानामुत्पजिर्नाम्नायते क्वचिच्चानुत्पत्तिरेवैषामाम्नायते ऽअसद्वा इदमग्र आसीत्ऽ (तै। २।७) ऽतदाहुः किं तदसदासीदित्यृषयो वाव ते ऽग्रे ऽसदासीत् । तदाहुः के ते ऋषय इति । प्राणा वाव ऋषयःऽ इत्यत्र प्रागुत्पत्तेः प्राणानां सद्भावश्रवणात् । अन्यत्र तु प्राणानामप्युत्पत्तिः पठ्यते- ऽयथाग्नेर्ज्वलतः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवैतस्मादात्मनः सर्वे प्राणाःऽ इति, ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मुण्ड। २।१।३) इति, ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मु। २।१।८) इति, ऽस प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनो ऽन्नम्ऽ (प्र। ६।४) इति चैवमादिप्रदेशेषु । तत्र तत्र श्रुतिविप्रतिषेधादन्यतरनिर्धारणकारणानिरूपणाच्चाप्रतिपत्तिः प्राप्नोति । अथवा प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिरिति प्राप्नोति । अत उत्तरमिदं पठति- ऽतथा प्राणाःऽ इति । कथं पुनरत्र तथेत्यक्षरानुलोम्यं प्रकृतोपमानाभावात् । सर्वगतात्मबहुत्ववादिदूषणमतीतानन्तरपादान्ते प्रकृतं तत्तावन्नोपमानं संभवति सादृश्याभावात् । सादृश्ये हि सत्युपमानं स्यात् । यथा सिंहस्तथा बलवर्मोति । अदृष्टसाम्यप्रतिपादनार्थमिति यद्युच्येत, यथादृष्टस्य सर्वात्मसंनिधावुत्पद्यमानस्यानियतत्वमेवं प्राणानामपि सर्वात्मनः प्रत्यनियतत्वमिति । तदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् । नच जीवेन प्राणा उपमीयेरन्सिद्धान्तविरोधात् । जीवस्य ह्यनुत्पत्तिराख्याता । प्राणानां तूत्पत्तिर्व्याचिख्यासिता । तस्मात्तथेत्यसंबद्धमिव प्रतिभाति । न । उदाहरणोपात्तेनाप्युपमानेन संबन्धोपपत्तेः । अत्र प्राणोत्पत्तिवादिवाक्यजातमुजदाहरणम्- ऽएतस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्तिऽ (बृ। २।१।२०) इत्येवञ्जातीयकम् । तत्र यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते तथा प्राणा अपीत्यर्थः । तथा- ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽ (मुण्ड। २।१।३) इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम् । अथवा ऽपानव्यापच्च तद्वत्ऽ (जैअ। ३।४।१५) इत्येवमादिषु व्यवहितोपमानसंबन्धस्याप्याश्रितत्वात् । यथातीतानन्तरपादाद्युक्ता वियदादयः परस्य ब्रह्मणो विकाराः समधिगतास्तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम् । कः पुनः प्राणानां विकारत्वे हेतुः । श्रुतत्वमेव । ननु केषुचित्प्रदेशेषु न प्राणानामुत्पत्तिः श्रूयत इत्युक्तं तदयुक्तम् । प्रदेशान्तरेषु श्रवणात् । नहि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहते । तस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्त इति सूक्तम् ॥ १ ॥ ---------------------- फ़्न्: प्राणविषयः प्राणोत्पत्तिसंख्यातत्त्वादिविषयः । आनुलोम्यमाञ्जस्यम् । यथा तृतीयाध्यये चतुर्थपादेष्वप्रतिग्रहेष्वधिकरणपूर्वपक्षन्यायो बहुसूत्रव्यवहितो ऽपि सोमवमने परामृश्यते तद्वदत्रापि ज्ञेयम् ।

tathā prāṇāḥ viyadādiviṣayaḥ śrutivipratiṣedhastṛtīyena pādena parihṛtaḥ / caturthenedānīṃ prāṇaviṣayaḥ parihriyate / 'tatra tāvat tattejo 'sṛjata' (chāndo. 6.2.3) iti, 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (taitti. 2.1.1) iti caivamādiṣūtpattiprakaraṇeṣu prāṇānāmutpajirnāmnāyate kvaciccānutpattirevaiṣāmāmnāyate 'asadvā idamagra āsīt' (tai. 2.7) 'tadāhuḥ kiṃ tadasadāsīdityṛṣayo vāva te 'gre 'sadāsīt / tadāhuḥ ke te ṛṣaya iti / prāṇā vāva ṛṣayaḥ' ityatra prāgutpatteḥ prāṇānāṃ sadbhāvaśravaṇāt / anyatra tu prāṇānāmapyutpattiḥ paṭhyate- 'yathāgnerjvalataḥ kṣudrā visphuliṅgā vyuccarantyevamevaitasmādātmanaḥ sarve prāṇāḥ' iti, 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (muṇḍa. 2.1.3) iti, 'sapta prāṇāḥ prabhavanti tasmāt' (mu. 2.1.8) iti, 'sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ mano 'nnam' (pra. 6.4) iti caivamādipradeśeṣu / tatra tatra śrutivipratiṣedhādanyataranirdhāraṇakāraṇānirūpaṇāccāpratipattiḥ prāpnoti / athavā prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiriti prāpnoti / ata uttaramidaṃ paṭhati- 'tathā prāṇāḥ' iti / kathaṃ punaratra tathetyakṣarānulomyaṃ prakṛtopamānābhāvāt / sarvagatātmabahutvavādidūṣaṇamatītānantarapādānte prakṛtaṃ tattāvannopamānaṃ saṃbhavati sādṛśyābhāvāt / sādṛśye hi satyupamānaṃ syāt / yathā siṃhastathā balavarmoti / adṛṣṭasāmyapratipādanārthamiti yadyucyeta, yathādṛṣṭasya sarvātmasaṃnidhāvutpadyamānasyāniyatatvamevaṃ prāṇānāmapi sarvātmanaḥ pratyaniyatatvamiti / tadapi dehāniyamenaivoktatvātpunaruktaṃ bhavet / naca jīvena prāṇā upamīyeransiddhāntavirodhāt / jīvasya hyanutpattirākhyātā / prāṇānāṃ tūtpattirvyācikhyāsitā / tasmāttathetyasaṃbaddhamiva pratibhāti / na / udāharaṇopāttenāpyupamānena saṃbandhopapatteḥ / atra prāṇotpattivādivākyajātamujadāharaṇam- 'etasmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti' (bṛ. 2.1.20) ityevañjātīyakam / tatra yathā lokādayaḥ parasmādbrahmaṇa utpadyante tathā prāṇā apītyarthaḥ / tathā- 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' (muṇḍa. 2.1.3) ityevamādiṣvapi khādivatprāṇānāmutpattiriti draṣṭavyam / athavā 'pānavyāpacca tadvat' (jai.a. 3.4.15) ityevamādiṣu vyavahitopamānasaṃbandhasyāpyāśritatvāt / yathātītānantarapādādyuktā viyadādayaḥ parasya brahmaṇo vikārāḥ samadhigatāstathā prāṇā api parasya brahmaṇo vikārā iti yojayitavyam / kaḥ punaḥ prāṇānāṃ vikāratve hetuḥ / śrutatvameva / nanu keṣucitpradeśeṣu na prāṇānāmutpattiḥ śrūyata ityuktaṃ tadayuktam / pradeśāntareṣu śravaṇāt / nahi kvacidaśravaṇamanyatra śrutaṃ nivārayitumutsahate / tasmācchrutatvāviśeṣādākāśādivatprāṇā apyutpadyanta iti sūktam // 1 // ---------------------- FN: prāṇaviṣayaḥ prāṇotpattisaṃkhyātattvādiviṣayaḥ / ānulomyamāñjasyam / yathā tṛtīyādhyaye caturthapādeṣvapratigraheṣvadhikaraṇapūrvapakṣanyāyo bahusūtravyavahito 'pi somavamane parāmṛśyate tadvadatrāpi jñeyam /

Sanskrit only: no published translation is held for this verse.

गौण्यसंभवात् यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति । तत्प्रत्याह- गौण्यसंभवादिति । गौण्या असंभवो गौण्यसंभवः । नहि प्राणानामुत्पत्तिश्रुतिर्गौणी संभवति । प्रतिज्ञाहानिप्रसङ्गात् । ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मुण्ड। १।१।३) इति ह्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्साधनायेदमाम्नायते- ऽएतस्माज्जायते प्राणःऽ (मुण्ड। २।१।३) इत्यादि । सा च प्रतिज्ञा प्राणादेः समस्तस्य जागतो ब्रह्मविकारत्वे सति प्रकृतिव्यतिरेकेण विकाराभावात्सिद्ध्यति । गौण्यां तु प्राणानामुत्पत्तिश्रुतौ प्रतिज्ञेयं हीयेत । तथाच प्रतिज्ञातार्थमुपसंहरति- ऽपुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्ऽ (मुण्ड। २।२।११) इति, ऽब्रह्मैवेदं विश्वमिदं वरिष्टम्ऽ (मुण्ड। २।२।११) इति च । तथा ऽआत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्ऽ इत्येवञ्जातीयकासु श्रुतिष्वेषैव प्रतिज्ञा योजयितव्या । कथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम् । नैतन्मूलप्रकृतिविषयम् । ऽअप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परःऽ (मुण्ड, २।१।२) इति मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वावधारणात् । अवान्तरप्रकृतिविषयं त्वेतत्स्ववविकारापेक्षं प्रगुत्पत्तेः प्राणानां सद्भावावधारणमिति द्रष्टव्यम् । व्याकृतविषयाणामपि भूयसीनामवस्थानां श्रुतिस्मृत्योः प्रकृतिविकारभावप्रसिद्धेः । वियदधिकरणे हि ऽगौण्यसंभवात्ऽ इति पूर्वपक्षसूत्रत्वाद्गौणी जन्मश्रुतिरसंभवादिति व्याख्यातम् । प्रतिज्ञाहान्या च तत्र सिद्धान्तो ऽभिहितः । इह तु सिद्धान्तसूत्रत्वाद्गोण्या जन्मश्रुतेरसंभवादिति व्याक्यातम् । तदनुरोदेन त्विहापि गौणी जन्मश्रुतिसंभवादिति व्याचक्षाणैः प्रतिज्ञाहानिरुपेक्षिता स्यात् ॥ २ ॥

gauṇyasaṃbhavāt yatpunaruktaṃ prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiśrutiriti / tatpratyāha- gauṇyasaṃbhavāditi / gauṇyā asaṃbhavo gauṇyasaṃbhavaḥ / nahi prāṇānāmutpattiśrutirgauṇī saṃbhavati / pratijñāhāniprasaṅgāt / 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti hyekavijñānena sarvavijñānaṃ pratijñāya tatsādhanāyedamāmnāyate- 'etasmājjāyate prāṇaḥ' (muṇḍa. 2.1.3) ityādi / sā ca pratijñā prāṇādeḥ samastasya jāgato brahmavikāratve sati prakṛtivyatirekeṇa vikārābhāvātsiddhyati / gauṇyāṃ tu prāṇānāmutpattiśrutau pratijñeyaṃ hīyeta / tathāca pratijñātārthamupasaṃharati- 'puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam' (muṇḍa. 2.2.11) iti, 'brahmaivedaṃ viśvamidaṃ variṣṭam' (muṇḍa. 2.2.11) iti ca / tathā 'ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam' ityevañjātīyakāsu śrutiṣveṣaiva pratijñā yojayitavyā / kathaṃ punaḥ prāgutpatteḥ prāṇānāṃ sadbhāvaśravaṇam / naitanmūlaprakṛtiviṣayam / 'aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ' (muṇḍa, 2.1.2) iti mūlaprakṛteḥ prāṇādisamastaviśeṣarahitatvāvadhāraṇāt / avāntaraprakṛtiviṣayaṃ tvetatsvavavikārāpekṣaṃ pragutpatteḥ prāṇānāṃ sadbhāvāvadhāraṇamiti draṣṭavyam / vyākṛtaviṣayāṇāmapi bhūyasīnāmavasthānāṃ śrutismṛtyoḥ prakṛtivikārabhāvaprasiddheḥ / viyadadhikaraṇe hi 'gauṇyasaṃbhavāt' iti pūrvapakṣasūtratvādgauṇī janmaśrutirasaṃbhavāditi vyākhyātam / pratijñāhānyā ca tatra siddhānto 'bhihitaḥ / iha tu siddhāntasūtratvādgoṇyā janmaśruterasaṃbhavāditi vyākyātam / tadanurodena tvihāpi gauṇī janmaśrutisaṃbhavāditi vyācakṣāṇaiḥ pratijñāhānirupekṣitā syāt // 2 //

Sanskrit only: no published translation is held for this verse.

तत्प्राक्श्रुतेश् च इतश्चाकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुतिः । यज्जायत इत्येकं जन्मवाचिपदं प्राणेषु प्राक्श्रुतं सदुत्तरेष्वप्याकाशादिष्वनुवर्तते । ऽएतस्माज्जायते प्राणःऽ (मु। २।१।३) इत्यत्राकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितं तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति । नह्येकस्मिन्प्रकरण एकस्मिंश्च वाक्य एकः शब्दः सकृदुच्चरितो बहुभिः संबध्यमानः क्वचिन्मुख्यः क्वचिद्गौण इत्यध्यवसातुं शक्यम् । वैरूप्यप्रसङ्गात् । तथा ऽस प्राणमसृजत प्राणाच्छ्रद्धाम्ऽ (प्रश्न। ६।४) इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्युत्पत्तिमत्सु श्रद्धादिष्वनुषज्यते । यत्रापि पश्चच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः संबध्यते तत्राप्येष एव न्यायः । यथा ऽसर्वाणि भूतानि व्युच्चरन्तिऽ इत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः संबध्यते ॥ ३ ॥

tatprākśruteś ca itaścākāśādīnāmiva prāṇānāmapi mukhyaiva janmaśrutiḥ / yajjāyata ityekaṃ janmavācipadaṃ prāṇeṣu prākśrutaṃ saduttareṣvapyākāśādiṣvanuvartate / 'etasmājjāyate prāṇaḥ' (mu. 2.1.3) ityatrākāśādiṣu mukhyaṃ janmeti pratiṣṭhāpitaṃ tatsāmānyātprāṇeṣvapi mukhyameva janma bhavitumarhati / nahyekasminprakaraṇa ekasmiṃśca vākya ekaḥ śabdaḥ sakṛduccarito bahubhiḥ saṃbadhyamānaḥ kvacinmukhyaḥ kvacidgauṇa ityadhyavasātuṃ śakyam / vairūpyaprasaṅgāt / tathā 'sa prāṇamasṛjata prāṇācchraddhām' (praśna. 6.4) ityatrāpi prāṇeṣu śrutaḥ sṛjatiḥ pareṣvapyutpattimatsu śraddhādiṣvanuṣajyate / yatrāpi paścacchruta utpattivacanaḥ śabdaḥ pūrvaiḥ saṃbadhyate tatrāpyeṣa eva nyāyaḥ / yathā 'sarvāṇi bhūtāni vyuccaranti' ityayamante paṭhito vyuccarantiśabdaḥ pūrvairapi prāṇādibhiḥ saṃbadhyate // 3 //

Sanskrit only: no published translation is held for this verse.

तत्पूर्वकत्वाद् वाचः यद्यपि ऽतत्तेजो ऽसृजतऽ (छा। ६।२।३) इत्येतस्मिन्प्रकरणे प्राणानामुत्पत्तिर्न पठ्यते, तेजोबन्नानामेव च त्रयाणां भूतानामुत्पत्तिश्रवणात् । तथापि ब्रह्मप्रकृतिकतेजोबन्नपीर्वकत्वाभिधानाद्वाक्प्राणमनसां तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रह्मप्रभवत्वं सिद्धं भवति । तथाहि- अस्मिन्नेव प्रकरणे तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायते- ऽअन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्ऽ (छा। ६।५।४) इति । तत्र यदि तावन्मुख्यमेवैषामन्नादिमयत्वं ततो वर्तत एव ब्रह्मप्रभवत्वम् । अथ भाक्तं ततापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायां श्रवणात् ऽयेनाश्रुतं श्रुतं भवतिऽ (छा। ६।१।३) इति चोपक्रमात् ऽऐतदात्म्यमिदं सर्वम्ऽ (छा। ६।८।७) इति चोपसंहाराच्छ्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमयत्ववचनमिति गम्यते । तस्मादपि प्राणानां ब्रह्मविकारत्वसिद्धिः ॥ ४ ॥

tatpūrvakatvād vācaḥ yadyapi 'tattejo 'sṛjata' (chā. 6.2.3) ityetasminprakaraṇe prāṇānāmutpattirna paṭhyate, tejobannānāmeva ca trayāṇāṃ bhūtānāmutpattiśravaṇāt / tathāpi brahmaprakṛtikatejobannapīrvakatvābhidhānādvākprāṇamanasāṃ tatsāmānyācca sarveṣāmeva prāṇānāṃ brahmaprabhavatvaṃ siddhaṃ bhavati / tathāhi- asminneva prakaraṇe tejobannapūrvakatvaṃ vākprāṇamanasāmāmnāyate- 'annamayaṃ hi somya mana āpomayaḥ prāṇastejomayī vāk' (chā. 6.5.4) iti / tatra yadi tāvanmukhyamevaiṣāmannādimayatvaṃ tato vartata eva brahmaprabhavatvam / atha bhāktaṃ tatāpi brahmakartṛkāyāṃ nāmarūpavyākriyāyāṃ śravaṇāt 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.3) iti copakramāt 'aitadātmyamidaṃ sarvam' (chā. 6.8.7) iti copasaṃhārācchrutyantaraprasiddheśca brahmakāryatvaprapañcanārthameva manaādīnāmannādimayatvavacanamiti gamyate / tasmādapi prāṇānāṃ brahmavikāratvasiddhiḥ // 4 //

Sanskrit only: no published translation is held for this verse.

सप्त गतेर् विशेषितत्वाच् च उत्पत्तिविषयः श्रुतिविप्रतिषेधः प्राणानां परिहृतः । संख्यविषय इदानीं परिह्रियते । तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति । संप्रति तु कतीतरे प्राणा इति संप्रधारयति । श्रुतिविप्रतिपत्तेश्चात्र विशयः । क्वचित्सप्त प्राणाः संकीर्त्यन्ते- ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मुण्ड। २।१।८) इति । क्वचिच्चाष्टौ प्राणा ग्रहत्वेन गुणेन संकीर्त्यन्ते- ऽ अष्टौ ग्रहा अष्टावतिग्रहाःऽऽ (बृ। ३।२।१) इति । क्वचिन्नव- ऽसप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौऽ (तै। सं। ५।१।७।१) इति । क्वचिद्दश- ऽनव वै पुरुषे प्राणा नाभिर्दशमीऽ इति । क्वचिदेकादश- ऽदशेमे पुरुषे प्राणा आत्मैकादशःऽ (बृ। ३।९।४) इति । क्वचिद्द्वादश- ऽसर्वेषां स्पर्शानां त्वगेकायनम्ऽ (बृ। २।४।११) इत्यत्र । क्वचित्त्रयोदश ऽचक्षुश्च द्रष्टव्यं चऽ (बृ। ४।८) इत्यत्र । एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः । किं तावत्प्राप्तम् । सप्तैव प्राणा इति । कुतः गतेः । यतस्तावन्तो ऽवगम्यन्ते- ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मुण्ड। २।१।८) इत्येवंविधासु श्रुतिषु । विशेषिताश्चैते ऽसप्त वै शीर्षण्याः प्राणाःऽ इत्यत्र । ननु ऽप्राणा गुहाशया निहिताः सप्त सप्तऽ (मुण्ड। २।१।८) इति वीप्सा श्रूयते, सा सप्तभ्यो ऽतिरिक्तान्प्राणान्गमयति । नैष दोषः । पुरुषभेदाभिप्रायेयं वीप्सा प्रतिपुरुषं सप्त सप्त प्राणा इति, न तत्त्वभेदाभिप्राया सप्त सप्तान्ये ऽन्ये प्राणा इति । नन्वष्टत्वादिकापि संखाया प्राणेषूदाहृता कथं सप्तैव स्युः । सत्यमुदाहृता । विरोधात्त्वन्यतमा संक्याध्यवसातव्या । तत्र स्तोककल्पनानुरोधात्सप्तसंख्याध्यवसानम् । वृत्तिभेदापेक्षं च संख्यान्तरश्रवणमिति मन्यते ॥ ५ ॥ ---------------------- फ़्न्: विशयः संशयः । ग्रहत्वं बन्धकत्वम् । गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि । अतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः । अवाञ्चौ पायूपस्थौ । गतेः अवगतेः । अत्रोच्यते-

sapta gater viśeṣitatvāc ca utpattiviṣayaḥ śrutivipratiṣedhaḥ prāṇānāṃ parihṛtaḥ / saṃkhyaviṣaya idānīṃ parihriyate / tatra mukhyaṃ prāṇamupariṣṭādvakṣyati / saṃprati tu katītare prāṇā iti saṃpradhārayati / śrutivipratipatteścātra viśayaḥ / kvacitsapta prāṇāḥ saṃkīrtyante- 'sapta prāṇāḥ prabhavanti tasmāt' (muṇḍa. 2.1.8) iti / kvaciccāṣṭau prāṇā grahatvena guṇena saṃkīrtyante- ' aṣṭau grahā aṣṭāvatigrahāḥ'' (bṛ. 3.2.1) iti / kvacinnava- 'sapta vai śīrṣaṇyāḥ prāṇā dvāvavāñcau' (tai. saṃ. 5.1.7.1) iti / kvaciddaśa- 'nava vai puruṣe prāṇā nābhirdaśamī' iti / kvacidekādaśa- 'daśeme puruṣe prāṇā ātmaikādaśaḥ' (bṛ. 3.9.4) iti / kvaciddvādaśa- 'sarveṣāṃ sparśānāṃ tvagekāyanam' (bṛ. 2.4.11) ityatra / kvacittrayodaśa 'cakṣuśca draṣṭavyaṃ ca' (bṛ. 4.8) ityatra / evaṃ hi vipratipannāḥ prāṇeyattāṃ prati śrutayaḥ / kiṃ tāvatprāptam / saptaiva prāṇā iti / kutaḥ gateḥ / yatastāvanto 'vagamyante- 'sapta prāṇāḥ prabhavanti tasmāt' (muṇḍa. 2.1.8) ityevaṃvidhāsu śrutiṣu / viśeṣitāścaite 'sapta vai śīrṣaṇyāḥ prāṇāḥ' ityatra / nanu 'prāṇā guhāśayā nihitāḥ sapta sapta' (muṇḍa. 2.1.8) iti vīpsā śrūyate, sā saptabhyo 'tiriktānprāṇāngamayati / naiṣa doṣaḥ / puruṣabhedābhiprāyeyaṃ vīpsā pratipuruṣaṃ sapta sapta prāṇā iti, na tattvabhedābhiprāyā sapta saptānye 'nye prāṇā iti / nanvaṣṭatvādikāpi saṃkhāyā prāṇeṣūdāhṛtā kathaṃ saptaiva syuḥ / satyamudāhṛtā / virodhāttvanyatamā saṃkyādhyavasātavyā / tatra stokakalpanānurodhātsaptasaṃkhyādhyavasānam / vṛttibhedāpekṣaṃ ca saṃkhyāntaraśravaṇamiti manyate // 5 // ---------------------- FN: viśayaḥ saṃśayaḥ / grahatvaṃ bandhakatvam / gṛhṇanti badhnantīti grahā indriyāṇi / atigrahāḥ grahānatikrāntā viṣayā ityarthaḥ / avāñcau pāyūpasthau / gateḥ avagateḥ / atrocyate-

Sanskrit only: no published translation is held for this verse.

हस्तादयस् तु स्थिते ऽतो नैवम् हस्तादयस्त्वपरे सप्तभ्यो ऽतिरिक्ताः प्राणाः श्रूयन्ते- ऽहस्तौ वै ग्रहः स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोतिऽ (बृ। ३।२।८) इत्येवमाद्यासु श्रुतिषु । स्थिते च सप्तत्वातिरेके सप्तत्वमन्तर्भावाच्छक्यते संभावयितुम् । हीनाधिकसंख्याविप्रतिपत्तौ ह्यधिका संख्या संग्राह्या भवति तस्यां हीनान्तर्भवति नतु हीनायामधिका । अतश्च नैवं मन्तव्यं स्तोककल्पनानुरोधात्सप्तैव प्राणाः स्युरिति । उत्तरसंख्यानुरोधात्त्वेकादशैव ते प्राणाः स्युः । तथा चोदाहृता श्रुतिः - ऽदशेमे पुरुषे प्राणा आत्मैकादशःऽ (बृ। ३।९।४) इति । आत्मशब्देन चात्रान्तःकरणं परिगृह्यते, करणाधिकारात् । नन्वेकादशत्वादप्यधिके द्वादशत्रयोदशत्वे उदाहृते । सत्यमुदाहृते । नन्वेकादशाभ्यः कार्यजातेभ्यो ऽधिकं कार्यजातमस्ति यदर्थमधिकं करणं कल्प्येत । शब्दस्पर्शरूपरसगन्धविषयाः पञ्च बुद्धिभेदास्तदर्थानि पञ्च बुद्धीन्द्रियाणि । वचनादानविहरणोत्सर्गानन्दाः पञ्च कर्मभेदास्तदर्थानि च पञ्च कर्मेन्द्रियाणि । सर्वार्थविषयं त्रैकाल्यवृत्ति मनत्वेकमनेकवृत्तिकम् । तदेव वृत्तिभेदात् क्वचिद्भिन्नवद्व्यपदिश्यते- ऽमनो बुद्धिरङंकारश्चित्तं चऽ इति । तथाच श्रुतिः कामाद्या नानाविधा वृत्तिरनुक्रम्याह- ऽएतत्सर्वं मन एवऽ (बृ। १।५।३) इति । अपिच सप्तैव शीर्षण्यान्प्राणानभिमन्यमानस्य चत्वार एव प्राणा अभिमताः स्युः । स्थानभेदाद्ध्येते चत्वारः सन्तः सप्त गण्यन्ते ऽद्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वाक्ऽ इति । नच तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुं, हस्तादिवृत्तीनामत्यन्तविजातीयत्वात् । तथा ऽनव वै पुरुषे प्राणा नाभिर्दशमीऽ इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते न प्राणतत्त्वभेदाभिप्रायेण । नाभिद्दशमिति वचनात् । नहि नाभिर्नाम कश्चित्प्राणः प्रसिद्धो ऽस्ति । मुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमित्यतो नाभिर्दशमीत्युच्यते । क्वचिदुपासनार्थं कतिचित्प्राणा गण्यन्ते क्वचित्प्रदर्शनार्थम् । तदेवं विचित्रे प्राणेयत्ताम्नाने सति क्व किंपरमाम्नानमिति विवेक्तव्यम् । कार्यजातवशात्त्वेकादशात्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम् । इयमपरा सूत्रद्वययोजना । सप्तैव प्राणाः स्युर्यतः सप्तानामेव गतिः श्रूयते- ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ। ४।४।२) इत्यत्र । ननु सर्वशब्दो ऽप्यत्र पठ्यते, तत्कथं सप्तनामेव गतिः प्रतिज्ञायत इति । विशेषितत्वादित्याह । सप्तैव हि प्राणाश्चक्षुरादयस्त्वक्पर्यन्ता विशेषिता इह प्रकृताः ऽस यत्रैव चाक्षुषः पुरुषः पराङ्पर्यावर्तते ऽथारूपज्ञो भवतिऽ (बृ। ४।४।१) ऽएकीभवति न पश्यतीत्याहुःऽ (बृ। ४।४।२) इत्येवमादिनानुक्रमणेन । प्रकृतगामी च सर्वशब्दो भवति यथा सर्वे ब्राह्मणा भोजयितव्या इति ये निमन्त्रिताः प्रकृता ब्राह्मणास्त एव सर्वशब्देनोच्यन्ते नान्ये । एवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते नान्य इति । नन्वत्र विज्ञानमष्टममनुक्रान्तं, कथं सप्तानामेवानुक्रमणम् । नैष दोषः । मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदे ऽपि सप्तत्वोपपत्तेः । तस्मात्सप्तैव प्राणा इति । एवंप्राप्ते ब्रूमः - हस्तादयस्त्वपरे सप्तभ्यो ऽतिरिक्ताः प्राणाः प्रतीयन्ते-ऽ हस्तौ वै ग्रहःऽ (बृ। ३।२।८) इत्यादिश्रुतिषु । ग्रहत्वं च बन्धनभावो गृह्यते,बध्यते क्षेत्रज्ञो ऽनेन ग्रहसंज्ञकेन बन्धनेनेति । स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते, शरीरान्तरेष्वि तुल्यत्वाद्बन्धनस्य । तस्माच्छरीरान्तरसंचारीदं ग्रहसंज्ञकं बन्दनमित्यर्थादुक्तं भवति । तथाच स्मृतिः - पुर्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते । तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च । इति प्राङ्मोक्षाद्ग्रहसंज्ञकेनानेन बन्धनेनावियोगं दर्शयति । आथर्वणे च विषयेन्द्रियानुक्रमणे चक्षुष द्रष्टव्यं च इत्यत्र तुल्यवद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामति-ऽ हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं चऽ ( प्र। ४।८) इति । तथा ऽदशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्तिऽ (बृ। ३।९।४) इत्येकादशानां प्राणानामुत्क्रान्तिं दर्शयति । सर्वशब्दो ऽपि च प्राणशब्देन संबध्यमानो ऽशेषान्प्राणानभिदधानो दर्शयति । सर्वशब्दो ऽपि च प्राणशब्देन संबध्यमानो ऽशेषान्प्राणानभिदधानो न प्रकरणवशेन सप्तस्वेवावस्थापयितुं शक्यते, प्रकरणाच्छब्दस्य बलीयस्त्वात् । सर्वे ब्राह्मणा भोजयितव्या इत्यत्रापि सर्वेषामेवावनिवर्तिनां ब्राह्मणानां ग्रहणं न्याय्यं, सर्वशब्दसामर्थ्यात् । सर्वभोजनासंभवात्तु तत्र निमन्त्रितमात्रविषया सर्वशब्दस्य वृत्तिराश्रिता । इह तु न किञ्चित्सर्वशब्दार्थसंकोचने कारणमस्ति । तस्मात्सर्वशब्देनात्राशेषाणां प्राणानां परिग्रहः । प्रदर्शनार्थे च सप्तानामनुक्रमणमित्यनवद्यम् । तस्मादेकादशैव प्राणाः शब्दतः कार्यतश्चेति सिद्धम् ॥ ६ ॥ ---------------------- फ़्न्: गुहायां हृदये शेरत इति गुहाशयाः स्वस्तानेषु निहिताः निक्षिप्ताः । कर्मणा हस्तनिर्वर्त्यादानेन गृहीतः संबद्धः । त्रयः कालास्त्रैकाल्यं तद्विषय वृत्तिर्यस्य तन्त्रैकाल्यवृत्ति । चक्षुरादयस्त्वक्पर्यन्ता उत्क्रान्तौ विशेषिताः । इह उत्क्रान्तिप्रकरणे । प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं अन्तःकरणचतुष्टयं अविद्या कामः कर्म चेति पर्युष्टकम् । प्राणाणुत्वाधिकरणम् । सू। ७

hastādayas tu sthite 'to naivam hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥ śrūyante- 'hastau vai grahaḥ sa karmaṇātigraheṇa gṛhīto hastābhyāṃ hi karma karoti' (bṛ. 3.2.8) ityevamādyāsu śrutiṣu / sthite ca saptatvātireke saptatvamantarbhāvācchakyate saṃbhāvayitum / hīnādhikasaṃkhyāvipratipattau hyadhikā saṃkhyā saṃgrāhyā bhavati tasyāṃ hīnāntarbhavati natu hīnāyāmadhikā / ataśca naivaṃ mantavyaṃ stokakalpanānurodhātsaptaiva prāṇāḥ syuriti / uttarasaṃkhyānurodhāttvekādaśaiva te prāṇāḥ syuḥ / tathā codāhṛtā śrutiḥ - 'daśeme puruṣe prāṇā ātmaikādaśaḥ' (bṛ. 3.9.4) iti / ātmaśabdena cātrāntaḥkaraṇaṃ parigṛhyate, karaṇādhikārāt / nanvekādaśatvādapyadhike dvādaśatrayodaśatve udāhṛte / satyamudāhṛte / nanvekādaśābhyaḥ kāryajātebhyo 'dhikaṃ kāryajātamasti yadarthamadhikaṃ karaṇaṃ kalpyeta / śabdasparśarūparasagandhaviṣayāḥ pañca buddhibhedāstadarthāni pañca buddhīndriyāṇi / vacanādānaviharaṇotsargānandāḥ pañca karmabhedāstadarthāni ca pañca karmendriyāṇi / sarvārthaviṣayaṃ traikālyavṛtti manatvekamanekavṛttikam / tadeva vṛttibhedāt kvacidbhinnavadvyapadiśyate- 'mano buddhiraṅaṃkāraścittaṃ ca' iti / tathāca śrutiḥ kāmādyā nānāvidhā vṛttiranukramyāha- 'etatsarvaṃ mana eva' (bṛ. 1.5.3) iti / apica saptaiva śīrṣaṇyānprāṇānabhimanyamānasya catvāra eva prāṇā abhimatāḥ syuḥ / sthānabhedāddhyete catvāraḥ santaḥ sapta gaṇyante 'dve śrotre dve cakṣuṣī dve nāsike ekā vāk' iti / naca tāvatāmeva vṛttibhedā itare prāṇā iti śakyate vaktuṃ, hastādivṛttīnāmatyantavijātīyatvāt / tathā 'nava vai puruṣe prāṇā nābhirdaśamī' ityatrāpi dehacchidrabhedābhiprāyeṇaiva daśa prāṇā ucyante na prāṇatattvabhedābhiprāyeṇa / nābhiddaśamiti vacanāt / nahi nābhirnāma kaścitprāṇaḥ prasiddho 'sti / mukhyasya tu prāṇasya bhavati nābhirapyekaṃ viśeṣāyatanamityato nābhirdaśamītyucyate / kvacidupāsanārthaṃ katicitprāṇā gaṇyante kvacitpradarśanārtham / tadevaṃ vicitre prāṇeyattāmnāne sati kva kiṃparamāmnānamiti vivektavyam / kāryajātavaśāttvekādaśātvāmnānaṃ prāṇaviṣayaṃ pramāṇamiti sthitam / iyamaparā sūtradvayayojanā / saptaiva prāṇāḥ syuryataḥ saptānāmeva gatiḥ śrūyate- 'tamutkrāmantaṃ prāṇo 'nūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) ityatra / nanu sarvaśabdo 'pyatra paṭhyate, tatkathaṃ saptanāmeva gatiḥ pratijñāyata iti / viśeṣitatvādityāha / saptaiva hi prāṇāścakṣurādayastvakparyantā viśeṣitā iha prakṛtāḥ 'sa yatraiva cākṣuṣaḥ puruṣaḥ parāṅparyāvartate 'thārūpajño bhavati' (bṛ. 4.4.1) 'ekībhavati na paśyatītyāhuḥ' (bṛ. 4.4.2) ityevamādinānukramaṇena / prakṛtagāmī ca sarvaśabdo bhavati yathā sarve brāhmaṇā bhojayitavyā iti ye nimantritāḥ prakṛtā brāhmaṇāsta eva sarvaśabdenocyante nānye / evamihāpi ye prakṛtāḥ sapta prāṇāsta eva sarvaśabdenocyante nānya iti / nanvatra vijñānamaṣṭamamanukrāntaṃ, kathaṃ saptānāmevānukramaṇam / naiṣa doṣaḥ / manovijñānayostattvābhedādvṛttibhede 'pi saptatvopapatteḥ / tasmātsaptaiva prāṇā iti / evaṃprāpte brūmaḥ - hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥ pratīyante-' hastau vai grahaḥ' (bṛ. 3.2.8) ityādiśrutiṣu / grahatvaṃ ca bandhanabhāvo gṛhyate,badhyate kṣetrajño 'nena grahasaṃjñakena bandhaneneti / sa ca kṣetrajño naikasminneva śarīre badhyate, śarīrāntareṣvi tulyatvādbandhanasya / tasmāccharīrāntarasaṃcārīdaṃ grahasaṃjñakaṃ bandanamityarthāduktaṃ bhavati / tathāca smṛtiḥ - puryaṣṭakena liṅgena prāṇādyena sa yujyate / tena baddhasya vai bandho mokṣo muktasya tena ca / iti prāṅmokṣādgrahasaṃjñakenānena bandhanenāviyogaṃ darśayati / ātharvaṇe ca viṣayendriyānukramaṇe cakṣuṣa draṣṭavyaṃ ca ityatra tulyavaddhastādīnīndriyāṇi saviṣayāṇyanukrāmati-' hastau cādātavyaṃ copasthaścānandayitavyaṃ ca pāyuśca visarjayitavyaṃ ca pādau ca gantavyaṃ ca' ( pra. 4.8) iti / tathā 'daśeme puruṣe prāṇā ātmaikādaśaste yadāsmāccharīrānmartyādutkrāmantyatha rodayanti' (bṛ. 3.9.4) ityekādaśānāṃ prāṇānāmutkrāntiṃ darśayati / sarvaśabdo 'pi ca prāṇaśabdena saṃbadhyamāno 'śeṣānprāṇānabhidadhāno darśayati / sarvaśabdo 'pi ca prāṇaśabdena saṃbadhyamāno 'śeṣānprāṇānabhidadhāno na prakaraṇavaśena saptasvevāvasthāpayituṃ śakyate, prakaraṇācchabdasya balīyastvāt / sarve brāhmaṇā bhojayitavyā ityatrāpi sarveṣāmevāvanivartināṃ brāhmaṇānāṃ grahaṇaṃ nyāyyaṃ, sarvaśabdasāmarthyāt / sarvabhojanāsaṃbhavāttu tatra nimantritamātraviṣayā sarvaśabdasya vṛttirāśritā / iha tu na kiñcitsarvaśabdārthasaṃkocane kāraṇamasti / tasmātsarvaśabdenātrāśeṣāṇāṃ prāṇānāṃ parigrahaḥ / pradarśanārthe ca saptānāmanukramaṇamityanavadyam / tasmādekādaśaiva prāṇāḥ śabdataḥ kāryataśceti siddham // 6 // ---------------------- FN: guhāyāṃ hṛdaye śerata iti guhāśayāḥ svastāneṣu nihitāḥ nikṣiptāḥ / karmaṇā hastanirvartyādānena gṛhītaḥ saṃbaddhaḥ / trayaḥ kālāstraikālyaṃ tadviṣaya vṛttiryasya tantraikālyavṛtti / cakṣurādayastvakparyantā utkrāntau viśeṣitāḥ / iha utkrāntiprakaraṇe / prāṇādipañcakaṃ bhūtasūkṣmapañcakaṃ jñānendriyapañcakaṃ karmendriyapañcakaṃ antaḥkaraṇacatuṣṭayaṃ avidyā kāmaḥ karma ceti paryuṣṭakam / prāṇāṇutvādhikaraṇam / sū. 7

Sanskrit only: no published translation is held for this verse.

अणवश् च अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोति । अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः । अणुत्वं चैषां सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, कृत्स्नदेहव्यापिकार्यानुपपत्तिप्रसङ्गात् । सूक्ष्मा एते प्राणाः स्थूलाश्चेत्स्युर्मरणकाले शरीरान्निर्गच्छन्तो बिलादहिरिवोपलभ्येरन्म्रियमाणस्य पार्श्वस्थैः । परिच्छिन्नाश्चैते प्राणाः सर्वगताश्चेत्स्युरुत्क्रान्तिगत्यागतिश्रुतिव्याकोपः स्यात् । तद्गुणसारत्वं च जीवस्य न सिद्ध्येत् । सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत् । न। वृत्तिमात्रस्य करणत्वोपपत्तेः । यदेव ह्युपलब्धिसाधनं वृत्तिरन्यद्वा तस्यैव नः करणत्वं संज्ञामात्रे विवाद इति करणानां व्यापित्वकल्पना निरर्थिका । तस्मात्सूक्ष्माः परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः ॥ ७ ॥ ---------------------- फ़्न्: अनुद्भूतरूपस्पर्शत्वं सूक्ष्मत्वम् । परिच्छेदो ऽल्पत्वम् । ४ प्राणश्रैष्ठ्याधिकरणम् । सू। ८

aṇavaś ca adhunā prāṇānāmeva svabhāvāntaramabhyuccinoti / aṇavaścaite prakṛtāḥ prāṇāḥ pratipattavyāḥ / aṇutvaṃ caiṣāṃ saukṣmyaparicchedau na paramāṇutulyatvaṃ, kṛtsnadehavyāpikāryānupapattiprasaṅgāt / sūkṣmā ete prāṇāḥ sthūlāścetsyurmaraṇakāle śarīrānnirgacchanto bilādahirivopalabhyeranmriyamāṇasya pārśvasthaiḥ / paricchinnāścaite prāṇāḥ sarvagatāścetsyurutkrāntigatyāgatiśrutivyākopaḥ syāt / tadguṇasāratvaṃ ca jīvasya na siddhyet / sarvagatānāmapi vṛttilābhaḥ śarīradeśe syāditi cet / na. vṛttimātrasya karaṇatvopapatteḥ / yadeva hyupalabdhisādhanaṃ vṛttiranyadvā tasyaiva naḥ karaṇatvaṃ saṃjñāmātre vivāda iti karaṇānāṃ vyāpitvakalpanā nirarthikā / tasmātsūkṣmāḥ paricchinnāśca prāṇā ityadhyavasyāmaḥ // 7 // ---------------------- FN: anudbhūtarūpasparśatvaṃ sūkṣmatvam / paricchedo 'lpatvam / 4 prāṇaśraiṣṭhyādhikaraṇam / sū. 8

Sanskrit only: no published translation is held for this verse.

श्रेष्ठश् च मुख्यश्च प्राण इतरप्राणवद्ब्रह्मविकार इत्यतिदिशति । तच्चाविसेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम् । ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मुण्ड। २।१।३) इति सेन्द्रियमनोव्यतिरेकेण प्राणस्योत्पत्तिश्रवणात् । ऽस प्राणमसृजतऽ (प्र। ६।४) इत्यादि श्रवणेभ्यश्च । किमर्थः पुनरतिदेशः, अधिकाशङ्कापाकरणार्थः । नासदासीये हि ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति ऽन मृत्युरासीदमृतं न तर्हि न रात्र्या अह्नु आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनासऽ (ऋसं। ८।७।१७) इति । आनीदिति प्राणकर्मोपादानात्प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति । तस्मादजः प्राण इति जायते कस्यचिन्मतिः । तामतिदेशेनापनुदति । आनीच्छब्दो ऽपि न प्रागुत्पत्तेः प्राणसद्भावं सूचयति । अवातमिति विशेषणात् । ऽअप्राणो ह्यमनाः शुभ्रःऽ इति च मुलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वस्य दर्शितत्वात् । तस्मात्कारणसद्भावप्रदर्शनार्थ एवायमानीच्छब्द इति । श्रेष्ठ इति च मुख्यं प्राणमभिदधाति- ऽप्राणो वाव ज्येष्ठश्च श्रेष्ठश्चऽ (छा। ५।१।१) इति श्रुतिनिर्देशात् । ज्येष्ठश्च प्राणः शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात् । न चेतस्य तदानीं वृत्तिलाभः स्याद्योनौ निषिक्तं शुक्रं पूयेत न संभवेद्वा । श्रोत्रादीनां तु कर्णशष्कुल्यादिस्थानविभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठत्वम् । श्रेष्ठश्च प्राणो गुणाधिक्यात्, ऽन वै शक्ष्यामस्त्वदृते जीवितुम्ऽ (बृ। ६।१।१३) इति श्रुतेः ॥ ८ ॥ ---------------------- फ़्न्: तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत्, अमृतं देवभोग्यं नासीत्, रात्र्याः प्रकेतश्चिह्नरूपश्चन्द्रः अहः प्रकेतः सूर्यश्च नास्तां, स्वधया पितृदेयाग्नेन सह, आनीत् चेष्टां कृतवत् । ५ वायुक्रियाधिकरणम् । सू। ९-१२

śreṣṭhaś ca mukhyaśca prāṇa itaraprāṇavadbrahmavikāra ityatidiśati / taccāviseṣeṇaiva sarvaprāṇānāṃ brahmavikāratvamākhyātam / 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (muṇḍa. 2.1.3) iti sendriyamanovyatirekeṇa prāṇasyotpattiśravaṇāt / 'sa prāṇamasṛjata' (pra. 6.4) ityādi śravaṇebhyaśca / kimarthaḥ punaratideśaḥ, adhikāśaṅkāpākaraṇārthaḥ / nāsadāsīye hi brahmapradhāne sūkte mantravarṇo bhavati 'na mṛtyurāsīdamṛtaṃ na tarhi na rātryā ahnu āsītpraketaḥ / ānīdavātaṃ svadhayā tadekaṃ tasmāddhānyanna paraḥ kiñcanāsa' (ṛ.saṃ. 8.7.17) iti / ānīditi prāṇakarmopādānātprāgutpatteḥ santamiva prāṇaṃ sūcayati / tasmādajaḥ prāṇa iti jāyate kasyacinmatiḥ / tāmatideśenāpanudati / ānīcchabdo 'pi na prāgutpatteḥ prāṇasadbhāvaṃ sūcayati / avātamiti viśeṣaṇāt / 'aprāṇo hyamanāḥ śubhraḥ' iti ca mulaprakṛteḥ prāṇādisamastaviśeṣarahitatvasya darśitatvāt / tasmātkāraṇasadbhāvapradarśanārtha evāyamānīcchabda iti / śreṣṭha iti ca mukhyaṃ prāṇamabhidadhāti- 'prāṇo vāva jyeṣṭhaśca śreṣṭhaśca' (chā. 5.1.1) iti śrutinirdeśāt / jyeṣṭhaśca prāṇaḥ śukraniṣekakālādārabhya tasya vṛttilābhāt / na cetasya tadānīṃ vṛttilābhaḥ syādyonau niṣiktaṃ śukraṃ pūyeta na saṃbhavedvā / śrotrādīnāṃ tu karṇaśaṣkulyādisthānavibhāganiṣpattau vṛttilābhānna jyeṣṭhatvam / śreṣṭhaśca prāṇo guṇādhikyāt, 'na vai śakṣyāmastvadṛte jīvitum' (bṛ. 6.1.13) iti śruteḥ // 8 // ---------------------- FN: tarhi tadā pralayakāle mṛtyurmārako mṛtyumatkāryaṃ vā nāsīt, amṛtaṃ devabhogyaṃ nāsīt, rātryāḥ praketaścihnarūpaścandraḥ ahaḥ praketaḥ sūryaśca nāstāṃ, svadhayā pitṛdeyāgnena saha, ānīt ceṣṭāṃ kṛtavat / 5 vāyukriyādhikaraṇam / sū. 9-12

Sanskrit only: no published translation is held for this verse.

न वायुक्रिये पृथगुपदेशात् स पुनर्मुख्यः प्राणः किंस्वरूप इतीदानीं जिज्ञास्यते । तत्र प्राप्तं तावच्छ्रुतेर्वायुः प्राण इति । एवं हि श्रूयते- ऽयः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणो ऽपानो व्यान उदानः समानःऽ इति । अथवा तन्त्रान्तरीयाभिप्रायात्समस्तकरणवृत्तिः प्राण इति प्राप्तम् । एवं हि तन्त्रान्तरीया आचक्षते- ऽसामान्या करणवृत्तिः प्राणाद्या वायवः पञ्चेऽ ति । अत्रोच्यते- न वायुः प्राणो नापि करणव्यापारः । कुतः - पृथगुपदेशात् । वायोस्तावत्प्राणस्य पृथगुपदेशो भवति- ऽप्राण एव ब्रह्मणश्चश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति चऽ (छान्दो। ३।१८।४) इति । नहि वायुरेव सन् वायोः पृथगुपदिश्येत । तथा करणवृत्तेरपि पृथगुपदेशो भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात् । वृत्तिवृत्तिमतोश्चाभेदात् । नहि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येत । तथा ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुःऽ (मु। २।१।३) इत्येवमादयो ऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः । नच समस्तानां करणानामेका वृत्तिः संभवति, प्रत्येकमेकैकवृत्तित्वात्समुदायस्य चाकारकत्वात् । ननु पञ्जरचालनन्यायेनैतद्भविष्यति । यथैतपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः संभूयैकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादश प्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः संभूयैकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इति । नेत्युच्यते । युक्तं तत्र प्रत्येकवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः संभूयैकं पञ्जरं चालयेयुरिति । तथा दृष्टत्वात् । इह तु श्रवणाद्यवान्तरव्यापारोपेताः प्राण न संभूय प्राण्युरिति युक्तम्, प्रमाणाभावात् । अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य । तथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणं गुणभावोपगमश्च तं प्रति वागादीनां, न करणवृत्तिमात्रे प्राणे ऽवकल्पते । तस्मादन्यो वायुक्रियाभ्यां प्राणः । कथं तर्हीयं श्रुतिः ऽयः प्राणः स वायुःऽ इति । उच्यते- वायुरेवायमध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते न तत्त्वान्तरं नापि वायुमात्रम् । अतश्चोभे अपि भेदाभेदश्रुती न विरुध्येते ॥ ९ ॥ स्यादेतत् । प्राणो ऽपि तर्हि जीववदस्मिञ्शरीरे स्वातन्त्र्यं प्राप्नोति । श्रेष्ठत्वाद्गुणभावोपगमाच्च तं प्रति वागादीनामिन्द्रियाणाम् । तथाह्यनेकविधा विभूतिः प्राणस्य श्राव्यते- ऽसुप्तेषु वागादिषु प्राण एको हि जागर्ति प्राण एको मृत्युनानाप्तः प्राणः संवर्गो वागादीन्संवृङ् क्ते प्राण इतरान्प्राणान्रक्षति मातेव पुत्रान्ऽ इति । तस्मात्प्राणस्यापि जीववत्स्वातन्त्र्यप्रसङ्गः । तं परिहरति-

na vāyukriye pṛthagupadeśāt sa punarmukhyaḥ prāṇaḥ kiṃsvarūpa itīdānīṃ jijñāsyate / tatra prāptaṃ tāvacchrutervāyuḥ prāṇa iti / evaṃ hi śrūyate- 'yaḥ prāṇaḥ sa vāyuḥ sa eṣa vāyuḥ pañcavidhaḥ prāṇo 'pāno vyāna udānaḥ samānaḥ' iti / athavā tantrāntarīyābhiprāyātsamastakaraṇavṛttiḥ prāṇa iti prāptam / evaṃ hi tantrāntarīyā ācakṣate- 'sāmānyā karaṇavṛttiḥ prāṇādyā vāyavaḥ pañce' ti / atrocyate- na vāyuḥ prāṇo nāpi karaṇavyāpāraḥ / kutaḥ - pṛthagupadeśāt / vāyostāvatprāṇasya pṛthagupadeśo bhavati- 'prāṇa eva brahmaṇaścaścaturthaḥ pādaḥ sa vāyunā jyotiṣā bhāti ca tapati ca' (chāndo. 3.18.4) iti / nahi vāyureva san vāyoḥ pṛthagupadiśyeta / tathā karaṇavṛtterapi pṛthagupadeśo bhavati, vāgādīni karaṇānyanukramya tatra tatra pṛthakprāṇasyānukramaṇāt / vṛttivṛttimatoścābhedāt / nahi karaṇavyāpāra eva san karaṇebhyaḥ pṛthagupadiśyeta / tathā 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca / khaṃ vāyuḥ' (mu. 2.1.3) ityevamādayo 'pi vāyoḥ karaṇebhyaśca prāṇasya pṛthagupadeśā anusartavyāḥ / naca samastānāṃ karaṇānāmekā vṛttiḥ saṃbhavati, pratyekamekaikavṛttitvātsamudāyasya cākārakatvāt / nanu pañjaracālananyāyenaitadbhaviṣyati / yathaitapañjaravartina ekādaśapakṣiṇaḥ pratyekaṃ pratiniyatavyāpārāḥ santaḥ saṃbhūyaikaṃ pañjaraṃ cālayanti, evamekaśarīravartina ekādaśa prāṇāḥ pratyekaṃ pratiniyatavṛttayaḥ santaḥ saṃbhūyaikāṃ prāṇākhyāṃ vṛttiṃ pratilapsyanta iti / netyucyate / yuktaṃ tatra pratyekavṛttibhiravāntaravyāpāraiḥ pañjaracālanānurūpairevopetāḥ pakṣiṇaḥ saṃbhūyaikaṃ pañjaraṃ cālayeyuriti / tathā dṛṣṭatvāt / iha tu śravaṇādyavāntaravyāpāropetāḥ prāṇa na saṃbhūya prāṇyuriti yuktam, pramāṇābhāvāt / atyantavijātīyatvācca śravaṇādibhyaḥ prāṇanasya / tathā prāṇasya śreṣṭhatvādyudghoṣaṇaṃ guṇabhāvopagamaśca taṃ prati vāgādīnāṃ, na karaṇavṛttimātre prāṇe 'vakalpate / tasmādanyo vāyukriyābhyāṃ prāṇaḥ / kathaṃ tarhīyaṃ śrutiḥ 'yaḥ prāṇaḥ sa vāyuḥ' iti / ucyate- vāyurevāyamadhyātmamāpannaḥ pañcavyūho viśeṣātmanāvatiṣṭhamānaḥ prāṇo nāma bhaṇyate na tattvāntaraṃ nāpi vāyumātram / ataścobhe api bhedābhedaśrutī na virudhyete // 9 // syādetat / prāṇo 'pi tarhi jīvavadasmiñśarīre svātantryaṃ prāpnoti / śreṣṭhatvādguṇabhāvopagamācca taṃ prati vāgādīnāmindriyāṇām / tathāhyanekavidhā vibhūtiḥ prāṇasya śrāvyate- 'supteṣu vāgādiṣu prāṇa eko hi jāgarti prāṇa eko mṛtyunānāptaḥ prāṇaḥ saṃvargo vāgādīnsaṃvṛṅ kte prāṇa itarānprāṇānrakṣati māteva putrān' iti / tasmātprāṇasyāpi jīvavatsvātantryaprasaṅgaḥ / taṃ pariharati-

Sanskrit only: no published translation is held for this verse.

चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः तुशब्दः प्राणस्य जीववत्स्वातन्त्र्यं व्यवर्तयति । यथा चक्षुरादीनि राजप्रकृतिवज्जीवस्य कर्तृत्वं भोक्तृत्वं च प्रत्युपकरणानि न स्वतन्त्राणि । तथा मुख्यो ऽपि प्राणो राजमन्त्रिवज्जीवस्य सर्वार्थकरत्वेनोपकरणभूतो न स्वतन्त्रः । कुतः । तत्सहशिष्ट्यादिभ्यः । तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते प्राणसंवादादिषु । समानधर्माणां च सह शासनं युक्तं बृहद्रथन्तरादिवत् । आदिशब्देन संहतत्वाचेतनत्वादीन्प्राणस्य स्वातन्त्र्यनिराकरणहेतून्दर्शति ॥ १० ॥ स्यादेतत् । यदि चक्षुरादिवत्प्राणस्य जीवं प्रति करणभावो ऽभायुपगम्येत,विषयान्तरं रूपादिवत्प्रसज्येत । रूपाद्यालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति करणभावो भवति । अपिचैकादशैव कार्यजातानि रूपालोचनादीनि परिगणितानि यदर्थमेकादश प्राणाः संगृहीताः नतु द्वादशमपरं कार्यजातमधिगम्यते यदर्थमयं द्वादशः प्राणः प्रतिज्ञायेतेति । अत उत्तरं पठति-

cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ tuśabdaḥ prāṇasya jīvavatsvātantryaṃ vyavartayati / yathā cakṣurādīni rājaprakṛtivajjīvasya kartṛtvaṃ bhoktṛtvaṃ ca pratyupakaraṇāni na svatantrāṇi / tathā mukhyo 'pi prāṇo rājamantrivajjīvasya sarvārthakaratvenopakaraṇabhūto na svatantraḥ / kutaḥ / tatsahaśiṣṭyādibhyaḥ / taiścakṣurādibhiḥ sahaiva prāṇaḥ śiṣyate prāṇasaṃvādādiṣu / samānadharmāṇāṃ ca saha śāsanaṃ yuktaṃ bṛhadrathantarādivat / ādiśabdena saṃhatatvācetanatvādīnprāṇasya svātantryanirākaraṇahetūndarśati // 10 // syādetat / yadi cakṣurādivatprāṇasya jīvaṃ prati karaṇabhāvo 'bhāyupagamyeta,viṣayāntaraṃ rūpādivatprasajyeta / rūpādyālocanādibhirvṛttibhiryathāsvaṃ cakṣurādīnāṃ jīvaṃ prati karaṇabhāvo bhavati / apicaikādaśaiva kāryajātāni rūpālocanādīni parigaṇitāni yadarthamekādaśa prāṇāḥ saṃgṛhītāḥ natu dvādaśamaparaṃ kāryajātamadhigamyate yadarthamayaṃ dvādaśaḥ prāṇaḥ pratijñāyeteti / ata uttaraṃ paṭhati-

Sanskrit only: no published translation is held for this verse.

अकरणत्वाच् च न दोषस् तथा हि दर्शयति न तावद्विषयान्तरप्रसङ्गो दोषः । अकरणत्वात्प्राणस्य । नहि चक्षुरादिवत्प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते । नचास्यैतावता कार्याभाव एव । कस्मात् । तथाहि श्रुतिः प्राणान्तरेष्वसंभाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिषु- ऽअथ ह प्राणा अहंश्रेयसि व्यूदिरेऽ इत्युपक्रम्य ऽयस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठःऽ (छा। ५।१।६,७) इति चोपन्यस्य प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा प्राणोच्चिक्रमिषायां वागादिशैथिल्यापत्तिं शरीरपातप्रसङ्गं च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थितिं दर्शयति । ऽतावन्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि, इति चैतमेवार्थं श्रुतिराह- ऽप्राणेन रक्षन्नवरं कुलायम्ऽ (बृ। ४।३।१२) इति च सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति । ऽयस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदैव तच्छुष्यतिऽ (बृ। १।३।१९) । ऽतेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवतिऽ इति च प्राणनिमित्तां शरीरेन्द्रियपुष्टिं दर्शयति । ऽकस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामिऽ इति, ऽस प्राणमसृजतऽ इति च प्राणनिमित्ते जीवस्योत्क्रान्तप्रतिष्ठे दर्शयति ॥ ११ ॥ ---------------------- फ़्न्: अहंश्रेयसि स्वस्य श्रेष्ठतानिमित्तं, व्यूदिरे विवादं चक्रिरे । अपरं नीचं, कुलायं देहाख्यं गृहम् ।

akaraṇatvāc ca na doṣas tathā hi darśayati na tāvadviṣayāntaraprasaṅgo doṣaḥ / akaraṇatvātprāṇasya / nahi cakṣurādivatprāṇasya viṣayaparicchedena karaṇatvamabhyupagamyate / nacāsyaitāvatā kāryābhāva eva / kasmāt / tathāhi śrutiḥ prāṇāntareṣvasaṃbhāvyamānaṃ mukhyaprāṇasya vaiśeṣikaṃ kāryaṃ darśayati prāṇasaṃvādādiṣu- 'atha ha prāṇā ahaṃśreyasi vyūdire' ityupakramya 'yasminva utkrānte śarīraṃ pāpiṣṭhataramiva dṛśyate sa vaḥ śreṣṭhaḥ' (chā. 5.1.6,7) iti copanyasya pratyekaṃ vāgādyutkramaṇena tadvṛttimātrahīnaṃ yathāpūrvaṃ jīvanaṃ darśayitvā prāṇoccikramiṣāyāṃ vāgādiśaithilyāpattiṃ śarīrapātaprasaṅgaṃ ca darśayantī śrutiḥ prāṇanimittāṃ śarīrendriyasthitiṃ darśayati / 'tāvanvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṃ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmi, iti caitamevārthaṃ śrutirāha- 'prāṇena rakṣannavaraṃ kulāyam' (bṛ. 4.3.12) iti ca supteṣu cakṣurādiṣu prāṇanimittāṃ śarīrarakṣāṃ darśayati / 'yasmātkasmāccāṅgātprāṇa utkrāmati tadaiva tacchuṣyati' (bṛ. 1.3.19) / 'tena yadaśnāti yatpibati tenetarānprāṇānavati' iti ca prāṇanimittāṃ śarīrendriyapuṣṭiṃ darśayati / 'kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmi' iti, 'sa prāṇamasṛjata' iti ca prāṇanimitte jīvasyotkrāntapratiṣṭhe darśayati // 11 // ---------------------- FN: ahaṃśreyasi svasya śreṣṭhatānimittaṃ, vyūdire vivādaṃ cakrire / aparaṃ nīcaṃ, kulāyaṃ dehākhyaṃ gṛham /

Sanskrit only: no published translation is held for this verse.

पञ्चवृत्तिर् मनोवत् व्यपदिश्यते इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यं, यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु ऽप्राणो ऽपानो व्यान उदानः समानःऽ (बृ। १।५।३) इति । वृत्तिभेदश्चायं कार्यभेदापेक्षः । प्राणः प्राग्वृत्तिरुच्छ्वासादिकर्मा । अपानोर्ऽवाग्वृत्तिर्निश्वासादिकर्मा । व्यानस्तयोः संधौ वर्तमानो वीर्यवत्कर्महेतुः । उदान ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः । समानः समं सर्वेष्वङ्गेषु यो ऽन्नरसान्नयतीति । एवं पञ्चवृत्तिः प्राणो मनोवत् । यथा मनसः पञ्च वृत्तय एवं प्राणस्यापीत्यर्थः । श्रोत्रादिनिमित्ताः शब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धाः, नतु कामः संकल्पः इत्याद्याः परिपठिताः परिगृह्येरन् । पञ्चसंख्यातिरेकात् । नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषयापरा मनसो वृत्तिरस्तीति समानः पञ्चसंख्यातिरेकः । एवं तर्हि ऽपरमतमप्रतिषिद्धमनुमतं भवतिऽ इति न्यायादिहापि योगशास्त्रप्रसिद्धा मनसः पञ्चवृत्तयः परिगृह्यन्ते ऽप्रमाणविपर्ययविकल्पनिद्रास्मृतयःऽ (पात। योग। सू। १।१।६) नाम । बहुवृत्तित्वमात्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम् । जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वान्मनोवदिति योजयितव्यम् ॥ १२ ॥ ---------------------- फ़्न्: प्रमाणं प्रमितिः, विपर्ययो भ्रमः, शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः, तामसी वृत्तिर्निद्रा । ६ श्रेष्ठाणुत्वाधिकरणम् । सू। १३

pañcavṛttir manovat vyapadiśyate itaścāsti mukhyasya prāṇasya vaiśeṣikaṃ kāryaṃ, yatkāraṇaṃ pañcavṛttirayaṃ vyapadiśyate śrutiṣu 'prāṇo 'pāno vyāna udānaḥ samānaḥ' (bṛ. 1.5.3) iti / vṛttibhedaścāyaṃ kāryabhedāpekṣaḥ / prāṇaḥ prāgvṛttirucchvāsādikarmā / apānor'vāgvṛttirniśvāsādikarmā / vyānastayoḥ saṃdhau vartamāno vīryavatkarmahetuḥ / udāna ūrdhvavṛttirutkrāntyādihetuḥ / samānaḥ samaṃ sarveṣvaṅgeṣu yo 'nnarasānnayatīti / evaṃ pañcavṛttiḥ prāṇo manovat / yathā manasaḥ pañca vṛttaya evaṃ prāṇasyāpītyarthaḥ / śrotrādinimittāḥ śabdādiviṣayā manasaḥ pañca vṛttayaḥ prasiddhāḥ, natu kāmaḥ saṃkalpaḥ ityādyāḥ paripaṭhitāḥ parigṛhyeran / pañcasaṃkhyātirekāt / nanvatrāpi śrotrādinirapekṣā bhūtabhaviṣyadādiviṣayāparā manaso vṛttirastīti samānaḥ pañcasaṃkhyātirekaḥ / evaṃ tarhi 'paramatamapratiṣiddhamanumataṃ bhavati' iti nyāyādihāpi yogaśāstraprasiddhā manasaḥ pañcavṛttayaḥ parigṛhyante 'pramāṇaviparyayavikalpanidrāsmṛtayaḥ' (pāta. yoga. sū. 1.1.6) nāma / bahuvṛttitvamātreṇa vā manaḥ prāṇasya nidarśanamiti draṣṭavyam / jīvopakaraṇatvamapi prāṇasya pañcavṛttitvānmanovaditi yojayitavyam // 12 // ---------------------- FN: pramāṇaṃ pramitiḥ, viparyayo bhramaḥ, śabdajñānānupātī vastuśūnyo vikalpaḥ, tāmasī vṛttirnidrā / 6 śreṣṭhāṇutvādhikaraṇam / sū. 13

Sanskrit only: no published translation is held for this verse.

अणुश् च अणुश्चायं मुख्यः प्राणः प्रत्येतव्य इतरप्राणवत् । अणुत्वं चेहापि सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वम् । पञ्चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात् । सूक्ष्मः प्राण उत्क्रान्तौ पार्श्वस्थेनानुपलभ्यमानत्वात् । परिच्छिन्नश्चोत्क्रान्तिगत्यागतिश्रुतिभ्यः । ननु विभुत्वमपि प्राणस्य समाम्नायते- ऽसमः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समो ऽनेन सर्वेण (बृ। १।३।२२) इत्येवमादिप्रदेशेषु । तदुच्यते- आधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्णेण प्राणात्मनैवैतद्विभुत्वमाम्नायते नाध्यात्मिकेन । अपिच समः प्लुषिणेत्यादिना साम्यवचनेन प्रतिप्राणिवर्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते तस्माददोषः ॥ १३ ॥ ---------------------- फ़्न्: प्लुषिर्मशकादपि सूक्ष्मो जन्तुः, नागो हस्ती ।

aṇuś ca aṇuścāyaṃ mukhyaḥ prāṇaḥ pratyetavya itaraprāṇavat / aṇutvaṃ cehāpi saukṣmyaparicchedau na paramāṇutulyatvam / pañcabhirvṛttibhiḥ kṛtsnaśarīravyāpitvāt / sūkṣmaḥ prāṇa utkrāntau pārśvasthenānupalabhyamānatvāt / paricchinnaścotkrāntigatyāgatiśrutibhyaḥ / nanu vibhutvamapi prāṇasya samāmnāyate- 'samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo 'nena sarveṇa (bṛ. 1.3.22) ityevamādipradeśeṣu / taducyate- ādhidaivikena samaṣṭivyaṣṭirūpeṇa hairaṇyagarṇeṇa prāṇātmanaivaitadvibhutvamāmnāyate nādhyātmikena / apica samaḥ pluṣiṇetyādinā sāmyavacanena pratiprāṇivartinaḥ prāṇasya pariccheda eva pradarśyate tasmādadoṣaḥ // 13 // ---------------------- FN: pluṣirmaśakādapi sūkṣmo jantuḥ, nāgo hastī /

Sanskrit only: no published translation is held for this verse.

ज्योतिराद्यधिष्ठानं तु तदामननात् ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै कार्याय प्रभवन्त्याहोस्विद्देवताधिष्ठिताः प्रभवन्तीति विचार्यते- तत्र प्राप्तं तावद्यथा स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति । अपिच देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्युपगम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गाच्छरीरस्य भोक्तृत्वं प्रलीयेत । अतः स्वमहिम्नैवैषां प्रवृत्तिरिति । एवं प्राप्तं इदमुच्यते- ज्योतिराद्यधिष्ठानं तु इति । तुशब्देन पूर्वपक्षो व्यावर्त्यते । ज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादि करणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीते । हेतुं व्याचष्टे- तदामननादिति । तथाह्यामनन्ति- ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐत। २।४) इत्यादि । अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मनाधिष्ठातृत्वमङ्गीकृत्योच्यते । नहि देवतासंबन्धं प्रत्याख्यायाग्नेर्वाचि मुखे वा कश्चिद्विशेषसंबन्धो दृश्यते । तथा ऽवायुः प्राणो भूत्वा नासिके प्राविशत्ऽ (ऐत। २।४) इत्येवमाद्यपि यौजयितव्यम् । तथान्यत्रापि वागेव ब्रह्मणश्चतुर्थः पादः सो ऽग्निना ज्योतिषा भाति च तपति चऽ (छा। ३।१८।३) इत्येवमादिना वागादीनामग्न्यादिज्योतिष्ट्वादिवचनेनैतमेवार्थं द्रढयति । ऽस वै वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सो ऽग्निरभवत्ऽ (बृ। १।३।१२) इति चैवमादिना वागादीनामग्न्यादिभावापत्तिवचनेनैतमेवार्थं द्योतयति । सर्वत्र चाध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनुक्रमणमनयैव प्रत्यासत्त्या भवति । समृतावपि- ऽवागध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिनः । वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवचतम् । ऽ इत्यादिना वागादीनामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं दर्शितम् । यदुक्तं स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति । तदयुक्तम् । शक्तानामपि शकटादीनामनडुदाद्यधिष्ठितानां प्रवृत्तिदर्शनात् । उभयथोपपत्तौ चागमाद्देवताधिष्ठितत्वमेव निश्चीयते ॥ १४ ॥ ---------------------- फ़्न्: भाति दीप्यते । तपति स्वकार्यं करोति । स प्राणो वाचं प्रथमामुद्गीथकर्माणि प्रधानां अनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवान् । यदप्युक्तं देवतानामेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गो न शारीरस्येति तत्परिह्रियते-

jyotirādyadhiṣṭhānaṃ tu tadāmananāt te punaḥ prakṛtāḥ prāṇāḥ kiṃ svamahimnaiva svasmai kāryāya prabhavantyāhosviddevatādhiṣṭhitāḥ prabhavantīti vicāryate- tatra prāptaṃ tāvadyathā svakāryaśaktiyogātsvamahimnaiva prāṇāḥ pravarteranniti / apica devatādhiṣṭhitānāṃ prāṇānāṃ pravṛttāvabhyupagamyamānāyāṃ tāsāmevādhiṣṭhātrīṇāṃ devatānāṃ bhoktṛtvaprasaṅgāccharīrasya bhoktṛtvaṃ pralīyeta / ataḥ svamahimnaivaiṣāṃ pravṛttiriti / evaṃ prāptaṃ idamucyate- jyotirādyadhiṣṭhānaṃ tu iti / tuśabdena pūrvapakṣo vyāvartyate / jyotirādibhiragnyādyabhimāninībhirdevatābhiradhiṣṭhitaṃ vāgādi karaṇajātaṃ svakāryeṣu pravartata iti pratijānīte / hetuṃ vyācaṣṭe- tadāmananāditi / tathāhyāmananti- 'agnirvāgbhūtvā mukhaṃ prāviśat' (aita. 2.4) ityādi / agneścāyaṃ vāgbhāvo mukhapraveśaśca devatātmanādhiṣṭhātṛtvamaṅgīkṛtyocyate / nahi devatāsaṃbandhaṃ pratyākhyāyāgnervāci mukhe vā kaścidviśeṣasaṃbandho dṛśyate / tathā 'vāyuḥ prāṇo bhūtvā nāsike prāviśat' (aita. 2.4) ityevamādyapi yaujayitavyam / tathānyatrāpi vāgeva brahmaṇaścaturthaḥ pādaḥ so 'gninā jyotiṣā bhāti ca tapati ca' (chā. 3.18.3) ityevamādinā vāgādīnāmagnyādijyotiṣṭvādivacanenaitamevārthaṃ draḍhayati / 'sa vai vācameva prathamāmatyavahatsā yadā mṛtyumatyamucyata so 'gnirabhavat' (bṛ. 1.3.12) iti caivamādinā vāgādīnāmagnyādibhāvāpattivacanenaitamevārthaṃ dyotayati / sarvatra cādhyātmādhidaivatavibhāgena vāgādyagnyādyanukramaṇamanayaiva pratyāsattyā bhavati / samṛtāvapi- 'vāgadhyātmamiti prāhurbrāhmaṇāstattvadarśinaḥ / vaktavyamadhibhūtaṃ tu vahnistatrādhidaivacatam / ' ityādinā vāgādīnāmagnyādidevatādhiṣṭhitatvaṃ saprapañcaṃ darśitam / yaduktaṃ svakāryaśaktiyogātsvamahimnaiva prāṇāḥ pravarteranniti / tadayuktam / śaktānāmapi śakaṭādīnāmanaḍudādyadhiṣṭhitānāṃ pravṛttidarśanāt / ubhayathopapattau cāgamāddevatādhiṣṭhitatvameva niścīyate // 14 // ---------------------- FN: bhāti dīpyate / tapati svakāryaṃ karoti / sa prāṇo vācaṃ prathamāmudgīthakarmāṇi pradhānāṃ anṛtādipāpmarūpaṃ mṛtyumatītyāvahanmṛtyunā muktāṃ kṛtvā agnidevatātmatvaṃ prāpitavān / yadapyuktaṃ devatānāmevādhiṣṭhātrīṇāṃ bhoktṛtvaprasaṅgo na śārīrasyeti tatparihriyate-

Sanskrit only: no published translation is held for this verse.

प्राणवता शब्दात् सतीष्वपि प्राणानामधिष्टात्रीषु देवतासु प्राणवता कार्यकरणसंघातस्वामिना शारीरेणैवैषां प्राणानां संबन्धः श्रुतेरवगम्यते । तथाहि श्रुतिः - ऽअथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय तक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम्ऽ (छा। ८।१२४) इत्येवञ्जातीयका शारीरेणैव प्राणानां संबन्धं श्रावयति । अपिचानेकत्वात्प्रतिकरणमधिष्ठात्रीणां देवतानां न भोक्तृत्वमस्मिञ्शरीरे ऽवकल्पते । एको ह्येवमस्मिञ्शरीरे शारीरो भोक्ता प्रतिसंधानादिसंभवादवगम्यते ॥ १५ ॥ ---------------------- फ़्न्: अथ देहे प्रागप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः ।

prāṇavatā śabdāt satīṣvapi prāṇānāmadhiṣṭātrīṣu devatāsu prāṇavatā kāryakaraṇasaṃghātasvāminā śārīreṇaivaiṣāṃ prāṇānāṃ saṃbandhaḥ śruteravagamyate / tathāhi śrutiḥ - 'atha yatraitadākāśamanuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya takṣuratha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam' (chā. 8.124) ityevañjātīyakā śārīreṇaiva prāṇānāṃ saṃbandhaṃ śrāvayati / apicānekatvātpratikaraṇamadhiṣṭhātrīṇāṃ devatānāṃ na bhoktṛtvamasmiñśarīre 'vakalpate / eko hyevamasmiñśarīre śārīro bhoktā pratisaṃdhānādisaṃbhavādavagamyate // 15 // ---------------------- FN: atha dehe prāgapraveśānantaraṃ yatra golake etacchidramanupraviṣṭaṃ cakṣurindriyaṃ tatra cakṣuṣyabhimānī sa ātmā cākṣuṣaḥ tasya rūpadarśanāya cakṣuḥ /

Sanskrit only: no published translation is held for this verse.

तस्य च नित्यत्वात् तस्य च शारीरस्यास्मिञ्शरीरे भोक्तृत्वेन नित्यत्वेन पुण्यपापोपलेपसंभवात्सुखदुःखोपभोगसंभवाच्च न देवतानाम् । ता हि परस्मिन्नैश्वर्ये पदे ऽवतिष्ठमाना न हिने ऽस्मिञ्शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति । श्रुतिश्च भवति- ऽपुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छतिऽ (बृ। १।५।३) इति शारीरेणैव च नित्यः प्राणानां संबन्ध उत्क्रान्त्यादिषु तदनुवृत्तिदर्शनात् । ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ। ४।४।२) इत्यादिश्रुतिभ्यः । तस्मात्सतीष्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृत्वमपगच्छति । करणपक्षस्यैव हि देवता न भोक्तृपक्षस्येति ॥ १६ ॥ ८ इन्द्रियाधिकरणम् । सू। १७-१९

tasya ca nityatvāt tasya ca śārīrasyāsmiñśarīre bhoktṛtvena nityatvena puṇyapāpopalepasaṃbhavātsukhaduḥkhopabhogasaṃbhavācca na devatānām / tā hi parasminnaiśvarye pade 'vatiṣṭhamānā na hine 'smiñśarīre bhoktṛtvaṃ pratilabdhumarhanti / śrutiśca bhavati- 'puṇyamevāmuṃ gacchati na ha vai devānpāpaṃ gacchati' (bṛ. 1.5.3) iti śārīreṇaiva ca nityaḥ prāṇānāṃ saṃbandha utkrāntyādiṣu tadanuvṛttidarśanāt / 'tamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) ityādiśrutibhyaḥ / tasmātsatīṣvapi karaṇānāṃ niyantrīṣu devatāsu na śārīrasya bhoktṛtvamapagacchati / karaṇapakṣasyaiva hi devatā na bhoktṛpakṣasyeti // 16 // 8 indriyādhikaraṇam / sū. 17-19

Sanskrit only: no published translation is held for this verse.

त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् मुख्यश्चैक इतरे चैकादश प्राणा अनुक्रान्ताः । तत्रेदमपरं संदिह्यते । किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणा आहोस्वित्तत्त्वान्तराणीति । किं तावत्प्राप्तं, मुख्यस्यैवेतरे वृत्तिभेदा इति । कुतः - श्रुतेः । तथाहि श्रुतिर्मुख्यमितरांश्च प्राणान्संनिधाप्य मुख्यात्मतामितरेषां ख्यापयति- ऽहन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन्ऽ (बृ। १।५।२१) इति । प्राणैकशब्दत्वाच्चैकत्वाध्यवसायः । इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत । एकत्र वा मुख्यत्वमितरत्र वा लाक्षणिकत्वामापद्येत । तस्माद्यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तय एवं वागाद्या अप्येकादशेति । एवं प्राप्ते ब्रूमः - तत्त्वान्तराण्येव प्राणाद्वागादीनीति । कुतः - व्यपदेशाभावात् । को ऽयं व्यपदेशभेदः । ते प्रकृताः प्राणाः श्रेष्ठं वर्जयित्वावशिष्टा एकादशेन्जद्रियाणीत्युच्यन्ते । श्रुतावेवं व्यपदेशदर्शनात् । ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मु। २।१।३) इति ह्येवञ्जातीयकेषु प्रदेशेषु पृथक्प्राणो व्यपदिश्यते पृथक्त्चेन्द्रियाणि । ननु मनसो ऽप्येवं सति वर्जनमिन्द्रियत्वेन प्राणवत्स्यात्, ऽमनः सर्वेन्द्रियाणि चऽ इति पृथग्व्यपदेशदर्शनात् । सत्यमेतत् । स्मृतौ त्वेकादशेन्द्रियाणीति मनो ऽपीन्द्रियत्वेन श्रोत्रादिवत्संगृह्यते । प्राणस्य त्विन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति । व्यपदेशभेदश्चायं तत्त्वभेदपक्ष उपपद्यते । तत्त्वैकत्वे तु स एवैकः सन्प्राण इन्द्रियव्यपदेशं लभते न लभते चेति विप्रतिषिद्धम् । तस्मात्तत्त्वान्तरभूता मुख्यादितरे ॥ १७ ॥ ---------------------- फ़्न्: अस्यैव मुख्यप्राणस्य रूपं असाम भवेमेति संकल्प्य, ते वागादयः । कुतश्च तत्तवान्तरभूताः -

ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt mukhyaścaika itare caikādaśa prāṇā anukrāntāḥ / tatredamaparaṃ saṃdihyate / kiṃ mukhyasyaiva prāṇasya vṛttibhedā itare prāṇā āhosvittattvāntarāṇīti / kiṃ tāvatprāptaṃ, mukhyasyaivetare vṛttibhedā iti / kutaḥ - śruteḥ / tathāhi śrutirmukhyamitarāṃśca prāṇānsaṃnidhāpya mukhyātmatāmitareṣāṃ khyāpayati- 'hantāsyaiva sarve rūpamasāmeti ta etasyaiva sarve rūpamabhavan' (bṛ. 1.5.21) iti / prāṇaikaśabdatvāccaikatvādhyavasāyaḥ / itarathā hyanyāyyamanekārthatvaṃ prāṇaśabdasya prasajyeta / ekatra vā mukhyatvamitaratra vā lākṣaṇikatvāmāpadyeta / tasmādyathaikasyaiva prāṇasya prāṇādyāḥ pañca vṛttaya evaṃ vāgādyā apyekādaśeti / evaṃ prāpte brūmaḥ - tattvāntarāṇyeva prāṇādvāgādīnīti / kutaḥ - vyapadeśābhāvāt / ko 'yaṃ vyapadeśabhedaḥ / te prakṛtāḥ prāṇāḥ śreṣṭhaṃ varjayitvāvaśiṣṭā ekādaśenjadriyāṇītyucyante / śrutāvevaṃ vyapadeśadarśanāt / 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (mu. 2.1.3) iti hyevañjātīyakeṣu pradeśeṣu pṛthakprāṇo vyapadiśyate pṛthaktcendriyāṇi / nanu manaso 'pyevaṃ sati varjanamindriyatvena prāṇavatsyāt, 'manaḥ sarvendriyāṇi ca' iti pṛthagvyapadeśadarśanāt / satyametat / smṛtau tvekādaśendriyāṇīti mano 'pīndriyatvena śrotrādivatsaṃgṛhyate / prāṇasya tvindriyatvaṃ na śrutau smṛtau vā prasiddhamasti / vyapadeśabhedaścāyaṃ tattvabhedapakṣa upapadyate / tattvaikatve tu sa evaikaḥ sanprāṇa indriyavyapadeśaṃ labhate na labhate ceti vipratiṣiddham / tasmāttattvāntarabhūtā mukhyāditare // 17 // ---------------------- FN: asyaiva mukhyaprāṇasya rūpaṃ asāma bhavemeti saṃkalpya, te vāgādayaḥ / kutaśca tattavāntarabhūtāḥ -

Sanskrit only: no published translation is held for this verse.

भेदश्रुतेः भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते- ऽते ह वाचमूचुःऽ (बृ। १।३।२) इत्युपक्रम्य वागादीनसुरपाप्मविध्वस्तानुपन्यस्योपसंहृत्य वागादिप्रकरणम् ऽअथ हेममासन्यं प्राणमूचुःऽ इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमात् । तथा ऽमनो वाचं प्राणं तान्यात्मने ऽकुरुतऽ इत्येवमाद्या अपि भेदश्रुतय उदाहर्तव्याः । तस्मादपि तत्त्वान्तरभूता मुख्यादितरे ॥ १८ ॥ कुतश्च तत्त्वान्तरभूताः -

bhedaśruteḥ bhedena vāgādibhyaḥ prāṇaḥ sarvatra śrūyate- 'te ha vācamūcuḥ' (bṛ. 1.3.2) ityupakramya vāgādīnasurapāpmavidhvastānupanyasyopasaṃhṛtya vāgādiprakaraṇam 'atha hemamāsanyaṃ prāṇamūcuḥ' ityasuravidhvaṃsino mukhyasya prāṇasya pṛthagupakramāt / tathā 'mano vācaṃ prāṇaṃ tānyātmane 'kuruta' ityevamādyā api bhedaśrutaya udāhartavyāḥ / tasmādapi tattvāntarabhūtā mukhyāditare // 18 // kutaśca tattvāntarabhūtāḥ -

Sanskrit only: no published translation is held for this verse.

वैलक्षण्याच् च वैलक्षण्यं च भवति मुख्यस्येतरेषां च । सुषुप्तेषु वागादिषु मुख्य एको जागर्ति स एव चैको मृत्युनानाप्त आप्तास्त्वितरे । तस्यैव च स्थित्युक्रान्तिभ्यां देहधारणपतनहेतुत्वं नेन्द्रियाणाम् । विषयालोचनहेतुत्वं चेन्द्रियाणां न प्राणस्येवञ्जातीयको भूयाल्लक्षणभेदः प्राणेन्द्रियाणाम् । तस्मादप्येषां तत्त्वान्तरभावसिद्धिः । यदुक्तम्- ऽत एतस्यैव सर्वे रूपमभवन्ऽ (बृ। १।५।२१) इति श्रुतेः प्राण एवेन्द्रियाणीति, तदयुक्तम् । तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीतेः । तथाहि- वदिष्याम्येवाहमिति वाग्दध्रेऽ (बृ। १।५।२१) इति वागादीनीन्द्रियाण्यनुक्रम्य ऽतानि मृत्युः श्रमो भूत्वोपयेमे तस्माच्छ्राम्यत्येव वाक्ऽ इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय ऽअथेममेव नाप्नोद्यो ऽयं मध्यमः प्राणःऽ (बृ। १।५।२१) इति पृथक्प्राणं मृत्युनानभिभूतं तमनुक्रामति । ऽअयं वै नः श्रेष्ठःऽ (बृ। १।५।२१) इति च श्रेष्ठतामस्यावधारयति । तस्मात्तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वं तद्रूपभवनं वागादीनामिति मन्तव्यं न तादात्म्यम् । अत एव च प्राणशब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धिः । तथाच श्रुतिः - ऽत एतस्यैव सर्वे रूपमभवन् । तस्मादेत एतेनाख्यायन्ते प्राणाःऽ (बृ। १।५।२१) इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिकीं वृत्तिं दर्शयति । तस्मात्तत्त्वान्तराणि प्राणादिन्द्रियाणीति ॥ १९ ॥ ---------------------- फ़्न्: मृत्युरासङ्गदोषः । वाद्गग्ध्रे धारणाभिप्रायं चक्रे ।

vailakṣaṇyāc ca vailakṣaṇyaṃ ca bhavati mukhyasyetareṣāṃ ca / suṣupteṣu vāgādiṣu mukhya eko jāgarti sa eva caiko mṛtyunānāpta āptāstvitare / tasyaiva ca sthityukrāntibhyāṃ dehadhāraṇapatanahetutvaṃ nendriyāṇām / viṣayālocanahetutvaṃ cendriyāṇāṃ na prāṇasyevañjātīyako bhūyāllakṣaṇabhedaḥ prāṇendriyāṇām / tasmādapyeṣāṃ tattvāntarabhāvasiddhiḥ / yaduktam- 'ta etasyaiva sarve rūpamabhavan' (bṛ. 1.5.21) iti śruteḥ prāṇa evendriyāṇīti, tadayuktam / tatrāpi paurvāparyālocanādbhedapratīteḥ / tathāhi- vadiṣyāmyevāhamiti vāgdadhre' (bṛ. 1.5.21) iti vāgādīnīndriyāṇyanukramya 'tāni mṛtyuḥ śramo bhūtvopayeme tasmācchrāmyatyeva vāk' iti ca śramarūpeṇa mṛtyunā grastatvaṃ vāgādīnāmabhidhāya 'athemameva nāpnodyo 'yaṃ madhyamaḥ prāṇaḥ' (bṛ. 1.5.21) iti pṛthakprāṇaṃ mṛtyunānabhibhūtaṃ tamanukrāmati / 'ayaṃ vai naḥ śreṣṭhaḥ' (bṛ. 1.5.21) iti ca śreṣṭhatāmasyāvadhārayati / tasmāttadavirodhena vāgādiṣu parispandalābhasya prāṇāyattatvaṃ tadrūpabhavanaṃ vāgādīnāmiti mantavyaṃ na tādātmyam / ata eva ca prāṇaśabdasyendriyeṣu lākṣaṇikatvasiddhiḥ / tathāca śrutiḥ - 'ta etasyaiva sarve rūpamabhavan / tasmādeta etenākhyāyante prāṇāḥ' (bṛ. 1.5.21) iti mukhyaprāṇaviṣayasyaiva prāṇaśabdasyendriyeṣu lākṣaṇikīṃ vṛttiṃ darśayati / tasmāttattvāntarāṇi prāṇādindriyāṇīti // 19 // ---------------------- FN: mṛtyurāsaṅgadoṣaḥ / vādgagdhre dhāraṇābhiprāyaṃ cakre /

Sanskrit only: no published translation is held for this verse.

संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यते- ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति । तासां त्रिवृतं त्रिवृतमेकैकां करवाणीतिऽ (छा। ६।३।२) । तत्र संशयः - किं जीवकर्तृकमिदं नामरूपव्याकरणमाहोस्वित्परमेश्वरकर्तृकमिति । तत्र प्राप्तं तावज्जीवकर्तृकमेवेदं नामरूपव्याकरणमिति । कुतः - ऽअनेन जीवेनात्मनाऽ इति विशेषणात् । यथा लोके चारेणाहं परसैन्यमनुप्रविश्य संकलयानीत्येवञ्जातीयके प्रयोगे चारकर्तृकमेव सत्सैन्यसंकलनं हेतुकर्तृत्वाद्राजात्मन्यध्यारोपयति संकलयानीत्युत्तमपुरुषप्रयोगेण, एवं जीवकर्तृकमेव सन्नामरूपव्याकरणं हेतुकर्तृत्वाद्देवतात्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण । अपिच डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम् । तस्माज्जीवकर्तृकमेवेदं नामरूपव्याकरणमित्येवं प्राप्ते ऽभिधत्ते- ऽसंज्ञामूर्तिकॢप्तस्तुऽ इति । तुशब्देन पक्षं व्यावर्तयति । संज्ञामूर्तिकॢप्तिरिति नामरूपव्याक्रियेत्येतत् । त्रिवृत्कुर्वत इति परमेश्वरं लक्षयति, त्रिवृत्करणे तस्य निरपवादकर्तृत्वनिर्देशात् । येयं संज्ञाकॢप्तिमूर्तिकॢप्तिश्चाग्निरादित्यश्चन्द्रमा विद्युदिति, तथा कुशकाशपलाशादिषु पशुमृगमनुष्यादिषु च प्रत्याकृति प्रतिव्यक्ति चानेकप्रकारा । सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्हति । कुतः - उपदेशात् । तथाहि- ऽसेयं देवतैक्षतऽ इत्युपक्रम्य ऽव्याकरवाणिऽ इत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मणो व्याकर्तृत्वमिहोपदिश्यते । ननु जीवेनेति विशेषणाज्जीवकर्तृकत्वं व्याकरणस्याध्यवसितम् । नैतदेवम् । जीवेनेत्येतदनुप्रविश्येत्यनेन संबध्यत आनन्तर्यात्, न व्याकरवाणीत्यनेन । तेन हि संबन्धे व्याकरवाणीत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत । नच गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेष्वनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्ति । येष्वपि चास्ति सामर्थ्यं तेष्वपि परमेश्वरायत्तमेव तत् । नच जीवो नाम परमेश्वरादत्यन्तभिन्नश्चार इव राज्ञः, आत्मनेति विशेषणात् । उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य । तेन, तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति । परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः । ऽआकाशो ह वै नाम नामरूपयोर्निर्वहिताऽ (छा। ८।१४।१) इत्यादिश्रुतिभ्यः । तस्मात्परमेश्वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपयोर्व्याकरणम् । त्रिवृत्करणपूर्वकमेवेदमिह नामरूपव्याकरणं विवक्ष्यते, प्रत्येकं नामरूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात् । तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति- ऽयदग्रे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यऽ (छा। ६।४।१) इत्यादिना । तत्राग्निरितीदं रूपं व्याक्रियते । सति च रूपव्याकरणे विषयप्रतिलम्भादग्निरितीदं नाम व्याक्रियते । एवमादित्यचन्द्रविद्युत्स्वपि द्रष्टव्यम् । अनेन चाग्न्याद्युदाहरणेन भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति । उपक्रमोपसंहारयोः साधारणत्वात् । तथाह्यविशेषेणैवोपक्रमः - ऽइमास्तिस्रो देवतास्त्रिवृदेकैका भवतिऽ (छा। ६।३।४) इति । अविशेषेणैव चोपसंहारः - ऽयदु रोहितमिवाभूदिति तेजसस्तद्रूपम्ऽ इत्येवमादिः ऽयदविज्ञातमिवाभूदित्येतासामेव देवतानां समास इतिऽ (छा। ६।४।६।७) एवमन्तः ॥ २० ॥ ---------------------- फ़्न्: प्रक्रिया प्रकरणम् । तासां तिसृणामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्चीकरणोपलक्षणार्था । तासां तिसृणां देवतानां बहिस्त्रिवृत्कृतानां सतीनामध्यात्ममपरं त्रिवृत्करणमुक्तम्- ऽइमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवतिऽ (छा। ६।४।७) इति । तदिदानीमाचार्यो यथाश्रुत्येवोपदर्शयत्याशङ्कितं कञ्चिद्दोषं परिहरिष्यन्-

saṃjñāmūrtikḷptis tu trivṛtkurvata upadeśāt satprakriyāyāṃ tejobannānāṃ sṛṣṭimabhidhāyopadiśyate- 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti / tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti' (chā. 6.3.2) / tatra saṃśayaḥ - kiṃ jīvakartṛkamidaṃ nāmarūpavyākaraṇamāhosvitparameśvarakartṛkamiti / tatra prāptaṃ tāvajjīvakartṛkamevedaṃ nāmarūpavyākaraṇamiti / kutaḥ - 'anena jīvenātmanā' iti viśeṣaṇāt / yathā loke cāreṇāhaṃ parasainyamanupraviśya saṃkalayānītyevañjātīyake prayoge cārakartṛkameva satsainyasaṃkalanaṃ hetukartṛtvādrājātmanyadhyāropayati saṃkalayānītyuttamapuruṣaprayogeṇa, evaṃ jīvakartṛkameva sannāmarūpavyākaraṇaṃ hetukartṛtvāddevatātmanyadhyāropayati vyākaravāṇītyuttamapuruṣaprayogeṇa / apica ḍitthaḍavitthādiṣu nāmasu ghaṭaśarāvādiṣu ca rūpeṣu jīvasyaiva vyākartṛtvaṃ dṛṣṭam / tasmājjīvakartṛkamevedaṃ nāmarūpavyākaraṇamityevaṃ prāpte 'bhidhatte- 'saṃjñāmūrtikḷptastu' iti / tuśabdena pakṣaṃ vyāvartayati / saṃjñāmūrtikḷptiriti nāmarūpavyākriyetyetat / trivṛtkurvata iti parameśvaraṃ lakṣayati, trivṛtkaraṇe tasya nirapavādakartṛtvanirdeśāt / yeyaṃ saṃjñākḷptimūrtikḷptiścāgnirādityaścandramā vidyuditi, tathā kuśakāśapalāśādiṣu paśumṛgamanuṣyādiṣu ca pratyākṛti prativyakti cānekaprakārā / sā khalu parameśvarasyaiva tejobannānāṃ nirmātuḥ kṛtirbhavitumarhati / kutaḥ - upadeśāt / tathāhi- 'seyaṃ devataikṣata' ityupakramya 'vyākaravāṇi' ityuttamapuruṣaprayogeṇa parasyaiva brahmaṇo vyākartṛtvamihopadiśyate / nanu jīveneti viśeṣaṇājjīvakartṛkatvaṃ vyākaraṇasyādhyavasitam / naitadevam / jīvenetyetadanupraviśyetyanena saṃbadhyata ānantaryāt, na vyākaravāṇītyanena / tena hi saṃbandhe vyākaravāṇītyayaṃ devatāviṣaya uttamapuruṣa aupacārikaḥ kalpyeta / naca girinadīsamudrādiṣu nānāvidheṣu nāmarūpeṣvanīśvarasya jīvasya vyākaraṇasāmarthyamasti / yeṣvapi cāsti sāmarthyaṃ teṣvapi parameśvarāyattameva tat / naca jīvo nāma parameśvarādatyantabhinnaścāra iva rājñaḥ, ātmaneti viśeṣaṇāt / upādhimātranibandhanatvācca jīvabhāvasya / tena, tatkṛtamapi nāmarūpavyākaraṇaṃ parameśvarakṛtameva bhavati / parameśvara eva ca nāmarūpayorvyākarteti sarvopaniṣatsiddhāntaḥ / 'ākāśo ha vai nāma nāmarūpayornirvahitā' (chā. 8.14.1) ityādiśrutibhyaḥ / tasmātparameśvarasyaiva trivṛtkurvataḥ karma nāmarūpayorvyākaraṇam / trivṛtkaraṇapūrvakamevedamiha nāmarūpavyākaraṇaṃ vivakṣyate, pratyekaṃ nāmarūpavyākaraṇasya tejobannotpattivacanenaivoktatvāt / tacca trivṛtkaraṇamagnyādityacandravidyutsu śrutirdarśayati- 'yadagre rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ yatkṛṣṇaṃ tadannasya' (chā. 6.4.1) ityādinā / tatrāgniritīdaṃ rūpaṃ vyākriyate / sati ca rūpavyākaraṇe viṣayapratilambhādagniritīdaṃ nāma vyākriyate / evamādityacandravidyutsvapi draṣṭavyam / anena cāgnyādyudāharaṇena bhaumāmbhasataijaseṣu triṣvapi dravyeṣvaviśeṣeṇa trivṛtkaraṇamuktaṃ bhavati / upakramopasaṃhārayoḥ sādhāraṇatvāt / tathāhyaviśeṣeṇaivopakramaḥ - 'imāstisro devatāstrivṛdekaikā bhavati' (chā. 6.3.4) iti / aviśeṣeṇaiva copasaṃhāraḥ - 'yadu rohitamivābhūditi tejasastadrūpam' ityevamādiḥ 'yadavijñātamivābhūdityetāsāmeva devatānāṃ samāsa iti' (chā. 6.4.6.7) evamantaḥ // 20 // ---------------------- FN: prakriyā prakaraṇam / tāsāṃ tisṛṇāmekaikāṃ devatāṃ tejobannātmanā tryātmikāṃ kariṣyāmīti śrutiḥ pañcīkaraṇopalakṣaṇārthā / tāsāṃ tisṛṇāṃ devatānāṃ bahistrivṛtkṛtānāṃ satīnāmadhyātmamaparaṃ trivṛtkaraṇamuktam- 'imāstisro devatāḥ puruṣaṃ prāpya trivṛttrivṛdekaikā bhavati' (chā. 6.4.7) iti / tadidānīmācāryo yathāśrutyevopadarśayatyāśaṅkitaṃ kañciddoṣaṃ parihariṣyan-

Sanskrit only: no published translation is held for this verse.

मांसादि भौमं यथाशब्दमितरयोश् च भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं यथाशब्दं निष्पद्यते । तथाहि श्रुतिः - ऽअन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं यो ऽणिष्ठस्तन्मनःऽ (छा। ६।५।१) इति । त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेणाद्यत इत्यभिप्रायः । तस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति । मध्यममध्यात्मं मांसं वर्धयति । अणिष्ठं तु मनः । एवमितरयोरप्तेजसोर्यथाशब्दं कार्यमवगन्तव्यम् । एवं मूत्रं लोहितं प्राणश्चापां कार्यम् । अस्थि मज्जा वाक्तेजस इति ॥ २१ ॥ अत्राह- यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकमविशेषश्रुतेः ऽतास त्रिवृतं त्रिवृतमेकैकामकरोत्ऽ इति । किङ्कृतस्तर्ह्ययं विशेषव्यपदेशः ऽइदं तेज इमा आप इदमन्नम्ऽ इति । तथा ऽअध्यात्ममिदमन्नस्याशितस्य कार्यं मांसादि । इदमपां पीतानां कार्यं लोहितादि । इदं तेजसो ऽशितस्य कार्यमस्थ्यादिऽ इति । अत्रोच्यते-

māṃsādi bhaumaṃ yathāśabdamitarayoś ca bhūmestrivṛtkṛtāyāḥ puruṣeṇopabhujyamānāyā māṃsādikāryaṃ yathāśabdaṃ niṣpadyate / tathāhi śrutiḥ - 'annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṃ bhavati yo madhyamastanmāṃsaṃ yo 'ṇiṣṭhastanmanaḥ' (chā. 6.5.1) iti / trivṛtkṛtā bhūmirevaiṣā vrīhiyavādyannarūpeṇādyata ityabhiprāyaḥ / tasyāśca sthaviṣṭhaṃ rūpaṃ purīṣabhāvena bahirnirgacchati / madhyamamadhyātmaṃ māṃsaṃ vardhayati / aṇiṣṭhaṃ tu manaḥ / evamitarayoraptejasoryathāśabdaṃ kāryamavagantavyam / evaṃ mūtraṃ lohitaṃ prāṇaścāpāṃ kāryam / asthi majjā vāktejasa iti // 21 // atrāha- yadi sarvameva trivṛtkṛtaṃ bhūtabhautikamaviśeṣaśruteḥ 'tāsa trivṛtaṃ trivṛtamekaikāmakarot' iti / kiṅkṛtastarhyayaṃ viśeṣavyapadeśaḥ 'idaṃ teja imā āpa idamannam' iti / tathā 'adhyātmamidamannasyāśitasya kāryaṃ māṃsādi / idamapāṃ pītānāṃ kāryaṃ lohitādi / idaṃ tejaso 'śitasya kāryamasthyādi' iti / atrocyate-

Sanskrit only: no published translation is held for this verse.

वैशेष्यात् तु तद्वादस् तद्वादः तुशब्देन चोदितं दोषमपनुदति । विशेषस्य भावो वैशेष्यम् । भूयस्त्वमिति यावत् । सत्यपि त्रिवृत्करणे क्वचित्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते ऽअग्नेस्तेजोभूयस्त्वमुदकस्याब्भूयस्त्वं पृथिव्या अन्नभूयस्त्वम्ऽ इति । व्यवहारप्रसिद्ध्यर्थं चेदं त्रिवृत्करणम् । व्यवहारश्च त्रिवृत्कृतरज्जुवदेकत्वापत्तौ सत्यां न भेदेन भूतत्रयगोचरो लोकस्य प्रसिद्ध्येत् । तस्मात्सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय उपपद्यते । तद्वादस्तद्वाद इति पदाभ्यासो ऽध्यायपरिसमाप्तिं द्योतयति ॥ २२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य चतुर्थः पादः ॥ ४ ॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये ऽविरोधाख्यो द्वितीयो ऽध्यायः ॥

vaiśeṣyāt tu tadvādas tadvādaḥ tuśabdena coditaṃ doṣamapanudati / viśeṣasya bhāvo vaiśeṣyam / bhūyastvamiti yāvat / satyapi trivṛtkaraṇe kvacitkasyacidbhūtadhātorbhūyastvamupalabhyate 'agnestejobhūyastvamudakasyābbhūyastvaṃ pṛthivyā annabhūyastvam' iti / vyavahāraprasiddhyarthaṃ cedaṃ trivṛtkaraṇam / vyavahāraśca trivṛtkṛtarajjuvadekatvāpattau satyāṃ na bhedena bhūtatrayagocaro lokasya prasiddhyet / tasmātsatyapi trivṛtkaraṇe vaiśeṣyādeva tejobannaviśeṣavādo bhūtabhautikaviṣaya upapadyate / tadvādastadvāda iti padābhyāso 'dhyāyaparisamāptiṃ dyotayati // 22 // iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya caturthaḥ pādaḥ // 4 // iti śrīmadbrahmasūtraśāṅkarabhāṣye 'virodhākhyo dvitīyo 'dhyāyaḥ //

Sanskrit only: no published translation is held for this verse.