तथा चैकवाक्यतोपबन्धात् असति च परिप्लवार्थत्व आख्यानानां संनिहितविद्याप्रतिपादनोपयोगितैव न्याय्या । एकवाक्यतोबन्धात् । तथाहि त६ तत्र संनिहिताभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात्प्रतिपत्तिसौकर्योपयोगाच्च । मैत्रेयीब्राह्मणे तावत् - ऽआत्मा वा अरे द्रष्टव्यःऽ (बृ। ४।५।६) इत्याद्या विद्ययैकवाक्यता दृश्यते । प्रातर्दने ऽपि प्राणो ऽस्मि प्रज्ञात्मा इत्याद्यया । जानश्रुतिरिय्यत्रापि ऽवायुर्वाव संवर्गःऽ (छा। ४।३।१) इत्याद्या । यथा ऽस आत्मानो वपामुदखिदत्ऽ इत्येवमादीनां कर्मश्रुतिगतानामाख्यानां संनिहितविधिस्तुत्यर्थता तद्वत् । तस्मान्न पारिप्लवार्थत्वम् ॥ २४ ॥
tathā caikavākyatopabandhāt asati ca pariplavārthatva ākhyānānāṃ saṃnihitavidyāpratipādanopayogitaiva nyāyyā / ekavākyatobandhāt / tathāhi ta6 tatra saṃnihitābhirekavākyatā dṛśyate prarocanopayogātpratipattisaukaryopayogācca / maitreyībrāhmaṇe tāvat - 'ātmā vā are draṣṭavyaḥ' (bṛ. 4.5.6) ityādyā vidyayaikavākyatā dṛśyate / prātardane 'pi prāṇo 'smi prajñātmā ityādyayā / jānaśrutiriyyatrāpi 'vāyurvāva saṃvargaḥ' (chā. 4.3.1) ityādyā / yathā 'sa ātmāno vapāmudakhidat' ityevamādīnāṃ karmaśrutigatānāmākhyānāṃ saṃnihitavidhistutyarthatā tadvat / tasmānna pāriplavārthatvam // 24 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.