ऽउक्तिं विनेऽति यदुक्तं तद्य्वच्छेद्यं दर्शयितुमुपक्रमते---यत्र चेति । चशब्दस्तुशब्दस्यार्थे । अस्येति । अलक्ष्यक्रमस्तु तत्रापि स्यादेवेति भावः । उदाहरत--सङ्केतेति । व्यञ्जकत्वमिति । प्रदोषसमयं प्रतीति शेषः । उक्त्यैवेति आद्यपादत्रयेणेत्यर्थः । यद्यपि चात्र शब्दान्तरसन्निधाने ऽप प्रदोषार्थं प्रति न कस्यचिदभिधाशक्तिः पदस्येति व्यञ्जकत्वं न विघटितं, तथापि शब्देनैवोक्तमयमर्थो ऽर्थान्तरस्य व्यञ्जक इति । बालप्रिया क्रमव्यङ्ग्यतैवेति । लज्जायास्संलक्ष्यक्रमव्यङ्ग्यत्वमेवेत्यर्थः । रस इति । शृङ्गार इत्यर्थः । अत्रापि ऽएवंवादिनीऽत्यादावपि । दूरत एव विलम्बेनैव । पर्यालोच्यमान इत्यनेन सम्बन्धः । लज्जारूपव्यभिचारिप्रतीतिर्विलम्बेनैव, तत्प्रतीतौ सत्याञ्च झटिति रसप्रतीतिरित्यर्थः । तदपेक्षया रसापेक्षया । अलक्ष्यक्रमतैवेत्येवकारेण लक्ष्यक्रमत्वव्यवच्छेदः । तर्हि कथमत्र लक्ष्यक्रमत्वमुक्तमित्यत आह--लज्जेति एवशब्दः केवलशब्दश्चेति । ऽअलक्ष्यक्रमव्यङ्ग्यस्यैवेऽत्यत्रत्यैवशब्दः ऽस तस्य केवलस्येऽत्यत्रत्यकेवलशब्दश्चेत्यर्थः । वृत्तौ ऽअस्यध्वनेऽरित्यस्य संलक्ष्यक्रमध्वनेरित्यर्थः । तदुक्तेः फलमाह--अलक्ष्यक्रमस्त्विति । सङ्केतेति । विटं सङ्केतकाले मनो यस्य तं तज्जिज्ञासुम् । अत एव हसद्भ्यां नेत्राभ्यामर्पितं सूचितं आकूतं सङ्केतकालजिज्ञासारूपाभिप्रायो येन तम् । ज्ञात्वेति सम्बन्धः । लोचने--प्रदोषार्थं प्रति न कस्यचिदभिधाशक्तिः पदस्येति । प्रदोषरूपार्थः केनापि पदेनाभिधया नप्रतिपाद्यत इत्यर्थः । इतीति हेतौ । न विघटितमिति । अतश्चात्र ध्वनिविषयत्वमेव युक्तमिति भावः । शब्देनेति । अयमर्थो ऽर्थान्तरस्य व्यञ्जक इति शब्देनैवोक्तमित्यन्वयः । पझनिमीलनस्य प्रदोषसमयव्यञ्जकत्वमाद्यपादत्रयात्मकशब्देनैव प्रदर्शितमित्यर्थः । ततश्च तदपहस्तितमिति सम्बन्धः । गोप्यति । गोप्यमानतया उदितमुत्पन्नं यच्चारुत्वं तदात्मकमित्यर्थः । प्राणितं तथा च--- शब्दार्थ-शक्त्या क्षिप्तो ऽपि व्यङ्ग्यो ऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर् ध्वनेः
'uktiṃ vine'ti yaduktaṃ tadyvacchedyaṃ darśayitumupakramate---yatra ceti / caśabdastuśabdasyārthe / asyeti / alakṣyakramastu tatrāpi syādeveti bhāvaḥ / udāharata--saṅketeti / vyañjakatvamiti / pradoṣasamayaṃ pratīti śeṣaḥ / uktyaiveti ādyapādatrayeṇetyarthaḥ / yadyapi cātra śabdāntarasannidhāne 'pa pradoṣārthaṃ prati na kasyacidabhidhāśaktiḥ padasyeti vyañjakatvaṃ na vighaṭitaṃ, tathāpi śabdenaivoktamayamartho 'rthāntarasya vyañjaka iti / bālapriyā kramavyaṅgyataiveti / lajjāyāssaṃlakṣyakramavyaṅgyatvamevetyarthaḥ / rasa iti / śṛṅgāra ityarthaḥ / atrāpi 'evaṃvādinī'tyādāvapi / dūrata eva vilambenaiva / paryālocyamāna ityanena sambandhaḥ / lajjārūpavyabhicāripratītirvilambenaiva, tatpratītau satyāñca jhaṭiti rasapratītirityarthaḥ / tadapekṣayā rasāpekṣayā / alakṣyakramataivetyevakāreṇa lakṣyakramatvavyavacchedaḥ / tarhi kathamatra lakṣyakramatvamuktamityata āha--lajjeti evaśabdaḥ kevalaśabdaśceti / 'alakṣyakramavyaṅgyasyaive'tyatratyaivaśabdaḥ 'sa tasya kevalasye'tyatratyakevalaśabdaścetyarthaḥ / vṛttau 'asyadhvane'rityasya saṃlakṣyakramadhvanerityarthaḥ / tadukteḥ phalamāha--alakṣyakramastviti / saṅketeti / viṭaṃ saṅketakāle mano yasya taṃ tajjijñāsum / ata eva hasadbhyāṃ netrābhyāmarpitaṃ sūcitaṃ ākūtaṃ saṅketakālajijñāsārūpābhiprāyo yena tam / jñātveti sambandhaḥ / locane--pradoṣārthaṃ prati na kasyacidabhidhāśaktiḥ padasyeti / pradoṣarūpārthaḥ kenāpi padenābhidhayā napratipādyata ityarthaḥ / itīti hetau / na vighaṭitamiti / ataścātra dhvaniviṣayatvameva yuktamiti bhāvaḥ / śabdeneti / ayamartho 'rthāntarasya vyañjaka iti śabdenaivoktamityanvayaḥ / pajhanimīlanasya pradoṣasamayavyañjakatvamādyapādatrayātmakaśabdenaiva pradarśitamityarthaḥ / tataśca tadapahastitamiti sambandhaḥ / gopyati / gopyamānatayā uditamutpannaṃ yaccārutvaṃ tadātmakamityarthaḥ / prāṇitaṃ tathā ca--- śabdārtha-śaktyā kṣipto 'pi vyaṅgyo 'rthaḥ kavinā punaḥ / yatrāviṣkriyate svoktyā sānyaivālaṅkṛtir dhvaneḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.