एवं सर्वालङ्काराणां ध्वन्यमानत्वमस्तीति मन्तव्यम् । न तु यथा कैश्चिन्नियतविषयीकृतम् । यथायोगमिति । क्वचिदलङ्कारः क्वचिद्वस्तु व्यञ्जकमित्यर्थो योजनीय इति ॥ २।७ ॥ ननुक्तास्तावच्चिरन्तनैरलङ्कारास्तेषां तु भवता यदि व्यङ्ग्यत्वं प्रदर्शितं किमियतेत्याशङ्क्याह--एवमित्यादि । येषामलङ्काराणां वाच्यत्वेन शरीरीकरणं शरीरभूतात्प्रस्तुतादर्थान्तरभूततया अशरीराणां कटकादिस्थानीयानां शरीरतापादनं व्यवस्थितं बालप्रिया ते मधुमदनासवाः । लोकात्तरेण वपुषेति । नेत्ररूपेण भ्रूरूपेणाधररसरूपेण च शरीरेणेत्यर्थः । मदनधनुषो भ्रूरूपेण स्थित्या मदनस्य स्थितिः सिध्यतीति बोध्यम् । इतीति । इतिवक्तृकामुकवाक्यार्थप्रतीत्येत्यर्थः । अतिशयोक्तिरिति । नेत्रादौ । वसन्ताद्यभेदप्रतीत्या भेदे अभेदरूपातिशयोक्तिरित्यर्थः । तुल्ययोगितेति । दृग्द्वयस्य मधोश्च साम्यविवक्षया दृशौ विभ्रममधोर्धुर्यं वपुरित्युक्त्या "न्यूनस्यापि विशिष्टेने"त्यादिना भामहादिलक्षिता तुल्ययोगितेत्यर्थः । ऽएवमन्ये ऽप्यलङ्काराऽ इति बहुवचनलब्धमर्थमाह---एवमित्यादि । गम्यं व्यवच्छेद्यमाह---न त्वित्यादि । न त्विति । तथेति शेषः । नियतेति । नियतः नियमितः विषयः अलङ्कारविशेषरूपाश्रयो यस्य तत्कृतमित्यर्थः । ध्वन्यमानत्वमित्यनुषज्यते ॥ २।७ ॥ किमियतेति । अलङ्काराणां व्यङ्ग्यत्वप्रदर्शनेन किं फलमित्यर्थः । आहेति । शरीरीत्यादिना तत्फलं दर्शयतीत्यर्थः । कारिकां व्याचष्टे--येषामित्यादि । वाच्यत्वेनेति हेतौ तृतीया । च्विप्रत्ययार्थं दर्शयन् व्याचष्टे---शरीरभूतादित्यादि । शरीरतापादनमिति । शरीरत्वसम्पादनमित्यर्थः । व्यवस्थितत्वे गम्यं हेतुमाह---सुकविनामयत्नसम्पाद्यतया । सत्यां ध्वनावन्तःपातः । इतरथा तु गुणीभूतव्यङ्ग्यत्वं प्रतिपादयिष्यते । आङ्गित्वेन व्यङ्ग्यतायामपि । अलङ्काराणां द्वयी गतिः--कदाचिद्वस्तुमात्रेण व्यज्यन्ते, कदाचिदलङ्कारेण । तत्र--- व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तया । ध्रुवं ध्वन्यङ्गता तासां अत्र हेतुः- । । । । । । । । काव्य-वृत्तिस् तद्-आश्रया
evaṃ sarvālaṅkārāṇāṃ dhvanyamānatvamastīti mantavyam / na tu yathā kaiścinniyataviṣayīkṛtam / yathāyogamiti / kvacidalaṅkāraḥ kvacidvastu vyañjakamityartho yojanīya iti // 2.7 // nanuktāstāvaccirantanairalaṅkārāsteṣāṃ tu bhavatā yadi vyaṅgyatvaṃ pradarśitaṃ kimiyatetyāśaṅkyāha--evamityādi / yeṣāmalaṅkārāṇāṃ vācyatvena śarīrīkaraṇaṃ śarīrabhūtātprastutādarthāntarabhūtatayā aśarīrāṇāṃ kaṭakādisthānīyānāṃ śarīratāpādanaṃ vyavasthitaṃ bālapriyā te madhumadanāsavāḥ / lokāttareṇa vapuṣeti / netrarūpeṇa bhrūrūpeṇādhararasarūpeṇa ca śarīreṇetyarthaḥ / madanadhanuṣo bhrūrūpeṇa sthityā madanasya sthitiḥ sidhyatīti bodhyam / itīti / itivaktṛkāmukavākyārthapratītyetyarthaḥ / atiśayoktiriti / netrādau / vasantādyabhedapratītyā bhede abhedarūpātiśayoktirityarthaḥ / tulyayogiteti / dṛgdvayasya madhośca sāmyavivakṣayā dṛśau vibhramamadhordhuryaṃ vapurityuktyā "nyūnasyāpi viśiṣṭene"tyādinā bhāmahādilakṣitā tulyayogitetyarthaḥ / 'evamanye 'pyalaṅkārā' iti bahuvacanalabdhamarthamāha---evamityādi / gamyaṃ vyavacchedyamāha---na tvityādi / na tviti / tatheti śeṣaḥ / niyateti / niyataḥ niyamitaḥ viṣayaḥ alaṅkāraviśeṣarūpāśrayo yasya tatkṛtamityarthaḥ / dhvanyamānatvamityanuṣajyate // 2.7 // kimiyateti / alaṅkārāṇāṃ vyaṅgyatvapradarśanena kiṃ phalamityarthaḥ / āheti / śarīrītyādinā tatphalaṃ darśayatītyarthaḥ / kārikāṃ vyācaṣṭe--yeṣāmityādi / vācyatveneti hetau tṛtīyā / cvipratyayārthaṃ darśayan vyācaṣṭe---śarīrabhūtādityādi / śarīratāpādanamiti / śarīratvasampādanamityarthaḥ / vyavasthitatve gamyaṃ hetumāha---sukavināmayatnasampādyatayā / satyāṃ dhvanāvantaḥpātaḥ / itarathā tu guṇībhūtavyaṅgyatvaṃ pratipādayiṣyate / āṅgitvena vyaṅgyatāyāmapi / alaṅkārāṇāṃ dvayī gatiḥ--kadācidvastumātreṇa vyajyante, kadācidalaṅkāreṇa / tatra--- vyajyante vastumātreṇa yadālaṅkṛtayastayā / dhruvaṃ dhvanyaṅgatā tāsāṃ atra hetuḥ- . . . . . . . . kāvya-vṛttis tad-āśrayā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.