आत्मतायास्तु का सम्भावनापि । एवम्भूता चेयं व्यङ्ग्यता या अप्रधानभूतापि वाच्यमात्रालङ्कारेभ्य उत्कर्षमलङ्काराणां वितरति । बालक्रीडायामपि राजत्वमिवेत्यमुमर्थं मनसि कृत्वाह---इतरथा त्विति ॥ २।८ ॥ तत्रेति । द्वय्यां गतौ सत्याम् । अत्र हेतुरित्ययं वृत्तिग्रन्धः । काव्यस्य कविव्यापारस्य बालप्रिया सुकवीनामित्यादि । वाच्यत्वे इति सप्तम्यन्तम् । नेति पृथक् पदमित्यन्यथापि व्याचष्टे---यदि वेत्यादि । ऽध्वन्यङ्गताम्ऽ इत्यत्र ध्वनिशब्दं द्वेधा व्याचष्टे---व्यापारस्येत्यादि । कथमङ्गत्वमित्यत्राह----व्यङ्ग्यतयेति । यदि वेत्युक्तव्याख्यानानुरोधेन भावार्थमाह---अतदुक्तमित्यादि । भूषणमिति । उपमादिकं कुङ्कुमादिकं चेत्यर्थः । श्लिष्टमिति । सक्तमित्यर्थः । अतिश्लिष्टमिति च पाठः । शररीतापत्तिः शरीरत्वसम्पादनम् । अस्येति । उपमादेर्भूषणस्येत्यर्थः । कुङ्कुमेति । कुङ्कुमयुक्तानुलेपनविशेषः कुङ्कुमपीतिका तस्या इवेत्यर्थः । आत्मताया इति । आत्मत्वसम्पादनस्येत्यर्थः । अस्येत्यनुषङ्गः । का सम्भावनापीति । आत्मत्वसम्पादनमतिकष्टसम्पाद्यमित्यर्थः । इतरथेत्यादिग्रन्थमवतारयति---एवंभूतेत्यादि । इयं व्यङ्ग्यता एवम्भूता चेत्यन्वयः । कथम्भूतेत्यत्राह---येत्यादि । राजत्वमिवेति । बालान्तरेभ्यो राजबालस्येति । शेषः ॥ २।८ ॥ वृत्तिग्रन्थ इति । न तु कारिकांश इति भावः । "काव्ववृत्तिस्तदाश्रये"ति यस्मात्तत्र तथाविधव्यङ्ग्यालङ्कारपरत्वेनैव काव्यं प्रवृत्तम् । अन्यथा तु तद्वाक्यमात्रमेव स्यात् । तासामेवालङ्कृतीनाम्--- अलङ्कारान्तरव्यङ्ग्यभावे पुनः, । । । । । । । । ध्वन्य्-अङ्गता भवेत् । चारुत्वोत्कर्षतो व्यङ्ग्य-प्राधान्यं यदि लक्ष्यते
ātmatāyāstu kā sambhāvanāpi / evambhūtā ceyaṃ vyaṅgyatā yā apradhānabhūtāpi vācyamātrālaṅkārebhya utkarṣamalaṅkārāṇāṃ vitarati / bālakrīḍāyāmapi rājatvamivetyamumarthaṃ manasi kṛtvāha---itarathā tviti // 2.8 // tatreti / dvayyāṃ gatau satyām / atra heturityayaṃ vṛttigrandhaḥ / kāvyasya kavivyāpārasya bālapriyā sukavīnāmityādi / vācyatve iti saptamyantam / neti pṛthak padamityanyathāpi vyācaṣṭe---yadi vetyādi / 'dhvanyaṅgatām' ityatra dhvaniśabdaṃ dvedhā vyācaṣṭe---vyāpārasyetyādi / kathamaṅgatvamityatrāha----vyaṅgyatayeti / yadi vetyuktavyākhyānānurodhena bhāvārthamāha---ataduktamityādi / bhūṣaṇamiti / upamādikaṃ kuṅkumādikaṃ cetyarthaḥ / śliṣṭamiti / saktamityarthaḥ / atiśliṣṭamiti ca pāṭhaḥ / śararītāpattiḥ śarīratvasampādanam / asyeti / upamāderbhūṣaṇasyetyarthaḥ / kuṅkumeti / kuṅkumayuktānulepanaviśeṣaḥ kuṅkumapītikā tasyā ivetyarthaḥ / ātmatāyā iti / ātmatvasampādanasyetyarthaḥ / asyetyanuṣaṅgaḥ / kā sambhāvanāpīti / ātmatvasampādanamatikaṣṭasampādyamityarthaḥ / itarathetyādigranthamavatārayati---evaṃbhūtetyādi / iyaṃ vyaṅgyatā evambhūtā cetyanvayaḥ / kathambhūtetyatrāha---yetyādi / rājatvamiveti / bālāntarebhyo rājabālasyeti / śeṣaḥ // 2.8 // vṛttigrantha iti / na tu kārikāṃśa iti bhāvaḥ / "kāvvavṛttistadāśraye"ti yasmāttatra tathāvidhavyaṅgyālaṅkāraparatvenaiva kāvyaṃ pravṛttam / anyathā tu tadvākyamātrameva syāt / tāsāmevālaṅkṛtīnām--- alaṅkārāntaravyaṅgyabhāve punaḥ, . . . . . . . . dhvany-aṅgatā bhavet / cārutvotkarṣato vyaṅgya-prādhānyaṃ yadi lakṣyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.