उत्तरोत्तरं तरतमयोगेनेति भावः । आर्द्रतामिति । सहृदयस्य चेतः स्वाभाविकमनाविष्टत्वात्मकं काठिन्यं क्रोधादिदोप्तरूपत्वं बालप्रिया शृङ्गारेति । शृङ्गारादीत्यर्थः । लक्षणमिति । स्वरूपमित्यर्थः । अनेन ऽतत्प्रकाशनेऽत्यादि वृत्यर्थो दर्शितः । वृत्तौ ऽरसान्तरापेक्षया प्रह्लादहेतुत्वादिऽति सम्बन्धः । लोचने--नन्वित्यादि । नातिसमस्तार्थशब्दं मधुरमिति । काव्यमिति शेषः । इतीति । इति भामहोक्तमित्यर्थः । लक्षणमिति । श्रव्यत्वादिघटितलक्षणमित्यर्थः । एतदन्तः शङ्काग्रन्थः । नेत्याहेति । उक्तमतिव्याप्त्या लक्षणं न भवतीत्याहेत्यर्थः । सर्वमिति । श्रव्यमित्यादिनोक्तं सर्वमित्यर्थः । ओजस इति । ओजस्विनः काव्यस्येत्यर्थः । तदुदाहृत्यातिव्याप्तिं दर्शयति--यो य इत्यादि । पद्यमिदं वृत्तावुदाहरिष्यते ॥७॥ अवतारयति--सम्भोगेत्यादि । इतीति हेतौ । तदभीत्यादि । तत्पदेन मधुरतरस्य मधुरतमस्य च रसस्य परामर्शः । क्रममाहेति । तथा च क्रमेम प्रकर्षवदित्यर्थः । तमेवाह---उत्तरोत्तरमिति । आर्द्रतामेतीत्येतद्व्याचष्टे---सहृदयस्येत्यादि । ऽचेतस्त्यजतीऽति सम्बन्धः । स्वाभाविकं काठिन्यमिति । यथोक्तं भक्तिरसायने---"चित्तद्रव्यं तु कठिनं स्वभावादिऽति । क्रोधादीति । क्रोधाद्याहितं दीप्तत्वमित्यर्थः । विप्रलम्भशृङ्गारकरुमयोस्तु मादुर्यमेव प्रकर्षवत् । सहृदयहृदयावर्जनातिशयनिमित्त्वादिति । रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्य-वर्तिनः । तद्-व्यक्ति-हेतू शब्दार्थाव् आश्रित्यौजो व्यवस्थितम्
uttarottaraṃ taratamayogeneti bhāvaḥ / ārdratāmiti / sahṛdayasya cetaḥ svābhāvikamanāviṣṭatvātmakaṃ kāṭhinyaṃ krodhādidoptarūpatvaṃ bālapriyā śṛṅgāreti / śṛṅgārādītyarthaḥ / lakṣaṇamiti / svarūpamityarthaḥ / anena 'tatprakāśane'tyādi vṛtyartho darśitaḥ / vṛttau 'rasāntarāpekṣayā prahlādahetutvādi'ti sambandhaḥ / locane--nanvityādi / nātisamastārthaśabdaṃ madhuramiti / kāvyamiti śeṣaḥ / itīti / iti bhāmahoktamityarthaḥ / lakṣaṇamiti / śravyatvādighaṭitalakṣaṇamityarthaḥ / etadantaḥ śaṅkāgranthaḥ / netyāheti / uktamativyāptyā lakṣaṇaṃ na bhavatītyāhetyarthaḥ / sarvamiti / śravyamityādinoktaṃ sarvamityarthaḥ / ojasa iti / ojasvinaḥ kāvyasyetyarthaḥ / tadudāhṛtyātivyāptiṃ darśayati--yo ya ityādi / padyamidaṃ vṛttāvudāhariṣyate //7// avatārayati--sambhogetyādi / itīti hetau / tadabhītyādi / tatpadena madhuratarasya madhuratamasya ca rasasya parāmarśaḥ / kramamāheti / tathā ca kramema prakarṣavadityarthaḥ / tamevāha---uttarottaramiti / ārdratāmetītyetadvyācaṣṭe---sahṛdayasyetyādi / 'cetastyajatī'ti sambandhaḥ / svābhāvikaṃ kāṭhinyamiti / yathoktaṃ bhaktirasāyane---"cittadravyaṃ tu kaṭhinaṃ svabhāvādi'ti / krodhādīti / krodhādyāhitaṃ dīptatvamityarthaḥ / vipralambhaśṛṅgārakarumayostu māduryameva prakarṣavat / sahṛdayahṛdayāvarjanātiśayanimittvāditi / raudrādayo rasā dīptyā lakṣyante kāvya-vartinaḥ / tad-vyakti-hetū śabdārthāv āśrityaujo vyavasthitam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.