ध्वन्यभावे ध्वनिप्रकाशकत्वाभावे । पदानामिति शेषः । हेतूकृतं हेतुत्वेनोक्तम् । किन्त्वित्यादि । काव्यविशेषो ध्वनिः काव्यञ्च तथाविधं वाक्यमिति वाक्यमेव ध्वनिः, पदन्तु न ध्वनिरित्यर्थः । तथाच पदे ध्वन्यभावे अवाक्यत्वं हेतुरिति भावः । इति ब्रूयादिति सम्बन्धः । आहेति । सिद्धान्तीति शेषः । तथापीत्यन्तमभ्युपगमे । न उक्तमिति सम्बन्धः । समुदाय एवेति । ध्वनिरित्युक्तमित्यनुषङ्गः । अत्रोपष्टम्भकमाह---तथाचेत्यादि । तत्रेति । वाक्य इत्यर्थः । तथाविधं ध्वनिप्रकाशनानुकूलम् । इति कुत इत्येतत्कथं घटते । अत्र हेतुः-- अखएड इत्यादि । भागेषु कल्प्यत इत्यत्रोपष्टम्भकमाह---उक्तं हीत्यादि । वृत्तौ ऽकाव्यानाम्ऽ इत्यस्य ऽचारुत्वेऽत्यनेन सम्बन्धः । ऽसंस्थानेऽति । संस्थानविशेषैः शब्दसन्दर्भविशेषैः मुखाद्यवयवसंयोगविशेषैश्च अवच्छिन्नो विशिष्टो यस्समुदायस्तत्साध्यापीत्यर्थः । तथाच प्रतीयमानं चारुत्वं समुदायनिष्ठमिति भावः । ऽभागेषुऽ पदेषुमुखादिषु च । ऽकल्प्यतऽ इति । प्राधान्यादिति भावः । इतीति हेतौ । ऽव्यञ्जकत्वमुखेनऽ व्यञ्जकत्वप्राधान्येन । ऽध्वनिव्यवहारःऽ पदप्रकाशो ध्वनिरिति व्यवहारः । ऽअनिष्टस्येऽत्यादिग्रन्थमवतारयति लोचने--नन्वित्यादि । स्मारकाण्येवेत्यन्तः ऽअनिष्टस्य श्रुतिर्यद्वदापादयति दुष्टताम् । श्रुतिदुष्टाविषु व्यक्तं तद्वादिष्टस्मृतिर्गुणम् ॥ पदानां स्मारकत्वे ऽपि पदमात्रावभासिनः । तेन ध्वनेः प्रभेदेषु सर्वष्वेवास्ति रम्यता ॥ विच्छित्तिशोभिनैकेन भूषणेनेव कामिनी । पदद्योत्येन सुकवेर्ध्वनिनी भाति भारती ॥ ऽ इति परिकरश्लोकाः यस् त्व् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिर् वर्ण-पदादिषु । वाक्ये सङ्घटनायां च स प्रबन्धे ऽपि दीप्यते
dhvanyabhāve dhvaniprakāśakatvābhāve / padānāmiti śeṣaḥ / hetūkṛtaṃ hetutvenoktam / kintvityādi / kāvyaviśeṣo dhvaniḥ kāvyañca tathāvidhaṃ vākyamiti vākyameva dhvaniḥ, padantu na dhvanirityarthaḥ / tathāca pade dhvanyabhāve avākyatvaṃ heturiti bhāvaḥ / iti brūyāditi sambandhaḥ / āheti / siddhāntīti śeṣaḥ / tathāpītyantamabhyupagame / na uktamiti sambandhaḥ / samudāya eveti / dhvanirityuktamityanuṣaṅgaḥ / atropaṣṭambhakamāha---tathācetyādi / tatreti / vākya ityarthaḥ / tathāvidhaṃ dhvaniprakāśanānukūlam / iti kuta ityetatkathaṃ ghaṭate / atra hetuḥ-- akhaeḍa ityādi / bhāgeṣu kalpyata ityatropaṣṭambhakamāha---uktaṃ hītyādi / vṛttau 'kāvyānām' ityasya 'cārutve'tyanena sambandhaḥ / 'saṃsthāne'ti / saṃsthānaviśeṣaiḥ śabdasandarbhaviśeṣaiḥ mukhādyavayavasaṃyogaviśeṣaiśca avacchinno viśiṣṭo yassamudāyastatsādhyāpītyarthaḥ / tathāca pratīyamānaṃ cārutvaṃ samudāyaniṣṭhamiti bhāvaḥ / 'bhāgeṣu' padeṣumukhādiṣu ca / 'kalpyata' iti / prādhānyāditi bhāvaḥ / itīti hetau / 'vyañjakatvamukhena' vyañjakatvaprādhānyena / 'dhvanivyavahāraḥ' padaprakāśo dhvaniriti vyavahāraḥ / 'aniṣṭasye'tyādigranthamavatārayati locane--nanvityādi / smārakāṇyevetyantaḥ 'aniṣṭasya śrutiryadvadāpādayati duṣṭatām / śrutiduṣṭāviṣu vyaktaṃ tadvādiṣṭasmṛtirguṇam // padānāṃ smārakatve 'pi padamātrāvabhāsinaḥ / tena dhvaneḥ prabhedeṣu sarvaṣvevāsti ramyatā // vicchittiśobhinaikena bhūṣaṇeneva kāminī / padadyotyena sukaverdhvaninī bhāti bhāratī // ' iti parikaraślokāḥ yas tv alakṣya-krama-vyaṅgyo dhvanir varṇa-padādiṣu / vākye saṅghaṭanāyāṃ ca sa prabandhe 'pi dīpyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.