तृतीय उद्द्योतः तृतीय उद्द्योतः - - - एवं व्यङ्ग्यमुखेनैव ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्यञ्जकमुखेनैतत्प्रकाश्यते--- लोचनम् तृतीय उद्द्योतः स्मरामि स्मरसंहारलीलापाटवशालिनः । प्रसह्य शम्भोर्देहार्धे हरन्तीं परमेश्वरीम् ॥ उद्योतान्तरसङ्गतिं कर्तुमाह वृत्तिकारः---एवमित्यादि । तत्र वाच्यमुखेन तावदविवक्षितवाच्यादयो भेदाः, वाच्यश्च यद्यपि व्यञ्जक एव । यथोक्तम्--ऽयत्रार्थः शब्दो वाऽ इति । ततश्च व्यञ्जकमुखेनापि भेद उक्तः, तथापि स वाच्यो ऽर्थो व्यङ्ग्यमुखेनैव भिद्यते । तथा ह्यविवक्षितो वाच्यो व्यङ्ग्येन न्यग्भावितः, विवक्षितान्यपरो वाच्य इति व्यङ्ग्यार्थप्रवण एवोच्यते इत्येवं मूलभेदयोरेव यथास्वमवान्तरभेदसहितयोर्व्यञ्जकरूपो बालप्रिया अथ तृतीयोद्योतटिप्पणी प्रारभ्यते अथाहं प्रौढमुद्योतं तृतीयञ्च यथामति । किमपि व्याकरिष्यामि प्रसीदन्त्वत्र मे बुधाः ॥ स्मरामीति । स्मरस्य कामस्य संहार एव लीला, तत्र यत्पाटवं सामर्थ्यं तच्छालिनः । शम्भोः देहार्धं प्रसह्य हरन्तीमित्यनेन परमेश्वर्याः तथाविधात् परमेश्वरादप्यतिशयितं पाटवं द्योत्यते । उद्योतेति । अन्य उद्योतः उद्द्योतान्तरं तृतीयोद्योतः, तस्य सङ्गात द्वितीयोयोतेन सह प्रसङ्गरूपां सङ्गतिमित्यर्थः । कर्तुं सम्पादयितुम् । व्यङ्ग्यमुखेन प्रदर्शित इत्युक्त्या व्यञ्जकमुखेनाप्रदर्शनं लभ्यते, तदनुपपन्नमित्याशङ्कामुद्भाव्य तदुक्तेरभिप्रायं दर्शयन्नवतारयति---तत्रेत्यादि । यद्यपीत्यादौ योज्यम् । तत्र ध्वनौ । वाच्यमुखेनेत्यादि । अविवक्षितत्वादिविशिष्टवाच्यं भेदकमवलम्ब्यैव ध्वनेरविवक्षितवाच्यत्वादयः प्रभेदास्सम्भवन्तीत्यर्थः । ततः किमत आह--वाच्यश्चेत्यादि । यथोक्तमिति । वाच्यस्य व्यञ्जकत्वमस्तीत्युक्तमित्यर्थः । एतावतापि किमायातमित्यत आह---ततश्चेत्यादि । स इति । व्यञ्जक इत्यर्थः । व्यङ्ग्येन न्यग्भावित इति । वाच्यस्याविवक्षितत्वोक्त्या व्यङ्ग्येनाप्रधानीकृतत्वं सिद्ध्यतीति भावः । व्यङ्ग्यार्थप्रवणः व्यङ्ग्यपरतन्त्रः । उपसंहरति---इतीत्यादि । मूलभेदयोरिति । अविवक्षितवाच्यविवक्षितान्यपरवाच्ययोरित्यर्थः । व्यङ्ग्यमुखत्यादि । व्यङ्ग्यपारतन्त्र्येणैवेत्यर्थः । अत एव उक्ताभिप्रायादेव । किञ्चेति । व्यङ्ग्यमुखेन अविवक्षित-वाच्यस्य पद-वाक्य-प्रकाशता । तद्-अन्यस्यानुरणन-रूप-व्यङ्ग्यस्य च ध्वनेः
tṛtīya uddyotaḥ tṛtīya uddyotaḥ - - - evaṃ vyaṅgyamukhenaiva dhvaneḥ pradarśite saprabhede svarūpe punarvyañjakamukhenaitatprakāśyate--- locanam tṛtīya uddyotaḥ smarāmi smarasaṃhāralīlāpāṭavaśālinaḥ / prasahya śambhordehārdhe harantīṃ parameśvarīm // udyotāntarasaṅgatiṃ kartumāha vṛttikāraḥ---evamityādi / tatra vācyamukhena tāvadavivakṣitavācyādayo bhedāḥ, vācyaśca yadyapi vyañjaka eva / yathoktam--'yatrārthaḥ śabdo vā' iti / tataśca vyañjakamukhenāpi bheda uktaḥ, tathāpi sa vācyo 'rtho vyaṅgyamukhenaiva bhidyate / tathā hyavivakṣito vācyo vyaṅgyena nyagbhāvitaḥ, vivakṣitānyaparo vācya iti vyaṅgyārthapravaṇa evocyate ityevaṃ mūlabhedayoreva yathāsvamavāntarabhedasahitayorvyañjakarūpo bālapriyā atha tṛtīyodyotaṭippaṇī prārabhyate athāhaṃ prauḍhamudyotaṃ tṛtīyañca yathāmati / kimapi vyākariṣyāmi prasīdantvatra me budhāḥ // smarāmīti / smarasya kāmasya saṃhāra eva līlā, tatra yatpāṭavaṃ sāmarthyaṃ tacchālinaḥ / śambhoḥ dehārdhaṃ prasahya harantīmityanena parameśvaryāḥ tathāvidhāt parameśvarādapyatiśayitaṃ pāṭavaṃ dyotyate / udyoteti / anya udyotaḥ uddyotāntaraṃ tṛtīyodyotaḥ, tasya saṅgāta dvitīyoyotena saha prasaṅgarūpāṃ saṅgatimityarthaḥ / kartuṃ sampādayitum / vyaṅgyamukhena pradarśita ityuktyā vyañjakamukhenāpradarśanaṃ labhyate, tadanupapannamityāśaṅkāmudbhāvya tadukterabhiprāyaṃ darśayannavatārayati---tatretyādi / yadyapītyādau yojyam / tatra dhvanau / vācyamukhenetyādi / avivakṣitatvādiviśiṣṭavācyaṃ bhedakamavalambyaiva dhvaneravivakṣitavācyatvādayaḥ prabhedāssambhavantītyarthaḥ / tataḥ kimata āha--vācyaścetyādi / yathoktamiti / vācyasya vyañjakatvamastītyuktamityarthaḥ / etāvatāpi kimāyātamityata āha---tataścetyādi / sa iti / vyañjaka ityarthaḥ / vyaṅgyena nyagbhāvita iti / vācyasyāvivakṣitatvoktyā vyaṅgyenāpradhānīkṛtatvaṃ siddhyatīti bhāvaḥ / vyaṅgyārthapravaṇaḥ vyaṅgyaparatantraḥ / upasaṃharati---itītyādi / mūlabhedayoriti / avivakṣitavācyavivakṣitānyaparavācyayorityarthaḥ / vyaṅgyamukhatyādi / vyaṅgyapāratantryeṇaivetyarthaḥ / ata eva uktābhiprāyādeva / kiñceti / vyaṅgyamukhena avivakṣita-vācyasya pada-vākya-prakāśatā / tad-anyasyānuraṇana-rūpa-vyaṅgyasya ca dhvaneḥ
Sanskrit only: no published translation is held for this verse.
ध्वन्यभावे ध्वनिप्रकाशकत्वाभावे । पदानामिति शेषः । हेतूकृतं हेतुत्वेनोक्तम् । किन्त्वित्यादि । काव्यविशेषो ध्वनिः काव्यञ्च तथाविधं वाक्यमिति वाक्यमेव ध्वनिः, पदन्तु न ध्वनिरित्यर्थः । तथाच पदे ध्वन्यभावे अवाक्यत्वं हेतुरिति भावः । इति ब्रूयादिति सम्बन्धः । आहेति । सिद्धान्तीति शेषः । तथापीत्यन्तमभ्युपगमे । न उक्तमिति सम्बन्धः । समुदाय एवेति । ध्वनिरित्युक्तमित्यनुषङ्गः । अत्रोपष्टम्भकमाह---तथाचेत्यादि । तत्रेति । वाक्य इत्यर्थः । तथाविधं ध्वनिप्रकाशनानुकूलम् । इति कुत इत्येतत्कथं घटते । अत्र हेतुः-- अखएड इत्यादि । भागेषु कल्प्यत इत्यत्रोपष्टम्भकमाह---उक्तं हीत्यादि । वृत्तौ ऽकाव्यानाम्ऽ इत्यस्य ऽचारुत्वेऽत्यनेन सम्बन्धः । ऽसंस्थानेऽति । संस्थानविशेषैः शब्दसन्दर्भविशेषैः मुखाद्यवयवसंयोगविशेषैश्च अवच्छिन्नो विशिष्टो यस्समुदायस्तत्साध्यापीत्यर्थः । तथाच प्रतीयमानं चारुत्वं समुदायनिष्ठमिति भावः । ऽभागेषुऽ पदेषुमुखादिषु च । ऽकल्प्यतऽ इति । प्राधान्यादिति भावः । इतीति हेतौ । ऽव्यञ्जकत्वमुखेनऽ व्यञ्जकत्वप्राधान्येन । ऽध्वनिव्यवहारःऽ पदप्रकाशो ध्वनिरिति व्यवहारः । ऽअनिष्टस्येऽत्यादिग्रन्थमवतारयति लोचने--नन्वित्यादि । स्मारकाण्येवेत्यन्तः ऽअनिष्टस्य श्रुतिर्यद्वदापादयति दुष्टताम् । श्रुतिदुष्टाविषु व्यक्तं तद्वादिष्टस्मृतिर्गुणम् ॥ पदानां स्मारकत्वे ऽपि पदमात्रावभासिनः । तेन ध्वनेः प्रभेदेषु सर्वष्वेवास्ति रम्यता ॥ विच्छित्तिशोभिनैकेन भूषणेनेव कामिनी । पदद्योत्येन सुकवेर्ध्वनिनी भाति भारती ॥ ऽ इति परिकरश्लोकाः यस् त्व् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिर् वर्ण-पदादिषु । वाक्ये सङ्घटनायां च स प्रबन्धे ऽपि दीप्यते
dhvanyabhāve dhvaniprakāśakatvābhāve / padānāmiti śeṣaḥ / hetūkṛtaṃ hetutvenoktam / kintvityādi / kāvyaviśeṣo dhvaniḥ kāvyañca tathāvidhaṃ vākyamiti vākyameva dhvaniḥ, padantu na dhvanirityarthaḥ / tathāca pade dhvanyabhāve avākyatvaṃ heturiti bhāvaḥ / iti brūyāditi sambandhaḥ / āheti / siddhāntīti śeṣaḥ / tathāpītyantamabhyupagame / na uktamiti sambandhaḥ / samudāya eveti / dhvanirityuktamityanuṣaṅgaḥ / atropaṣṭambhakamāha---tathācetyādi / tatreti / vākya ityarthaḥ / tathāvidhaṃ dhvaniprakāśanānukūlam / iti kuta ityetatkathaṃ ghaṭate / atra hetuḥ-- akhaeḍa ityādi / bhāgeṣu kalpyata ityatropaṣṭambhakamāha---uktaṃ hītyādi / vṛttau 'kāvyānām' ityasya 'cārutve'tyanena sambandhaḥ / 'saṃsthāne'ti / saṃsthānaviśeṣaiḥ śabdasandarbhaviśeṣaiḥ mukhādyavayavasaṃyogaviśeṣaiśca avacchinno viśiṣṭo yassamudāyastatsādhyāpītyarthaḥ / tathāca pratīyamānaṃ cārutvaṃ samudāyaniṣṭhamiti bhāvaḥ / 'bhāgeṣu' padeṣumukhādiṣu ca / 'kalpyata' iti / prādhānyāditi bhāvaḥ / itīti hetau / 'vyañjakatvamukhena' vyañjakatvaprādhānyena / 'dhvanivyavahāraḥ' padaprakāśo dhvaniriti vyavahāraḥ / 'aniṣṭasye'tyādigranthamavatārayati locane--nanvityādi / smārakāṇyevetyantaḥ 'aniṣṭasya śrutiryadvadāpādayati duṣṭatām / śrutiduṣṭāviṣu vyaktaṃ tadvādiṣṭasmṛtirguṇam // padānāṃ smārakatve 'pi padamātrāvabhāsinaḥ / tena dhvaneḥ prabhedeṣu sarvaṣvevāsti ramyatā // vicchittiśobhinaikena bhūṣaṇeneva kāminī / padadyotyena sukaverdhvaninī bhāti bhāratī // ' iti parikaraślokāḥ yas tv alakṣya-krama-vyaṅgyo dhvanir varṇa-padādiṣu / vākye saṅghaṭanāyāṃ ca sa prabandhe 'pi dīpyate
Sanskrit only: no published translation is held for this verse.
यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिर्वर्णपदादिषु । वाक्ये सङ्घटनायां च स प्रबन्धे ऽपि दीप्यते ॥ २ ॥ लोचनम् वार्यते । यथा श्रुतिदुष्टानां पेलवादिपदानामसभ्यपेलाद्यर्थं प्रति न वाचकत्वम् । अपि तु स्मारकत्वम् । तद्वशाच्च चारुस्वरूपं काव्यं श्रुतिदुष्टम् । तच्च श्रुतिदुष्टत्वमन्वयव्यतिरेकाभ्यां भागेषु व्यवस्थाप्यते तथा प्रकृते ऽपीति तदाह--अनिष्टस्येति । अनिष्टार्थस्मारकस्येत्यर्थः । दुष्टतामित्यचारुत्वम् । गुणमिति चारुत्वम् । एवं दृष्टान्तमभिधाय पादत्रयेण तुर्येण दार्ष्टान्तिकार्थ उक्तः । अधुनोपसंहरति---पदानामिति । यत एव मिष्टस्मृतिश्चारुत्वमावैति तेन हेतुना सर्वेषु प्रकारेषु निरूपितस्य पदमात्रावभासिनो ऽपि पदप्रकाशस्यापि ध्वने रम्यतास्ति स्मारकत्वे ऽपि पदानामिति समन्वयः । अपिशब्दः काकाक्षिन्यायेनोभयत्रापि सम्बध्यते । अधुना चारुत्वप्रतीतौ पदस्यान्वयव्यतिरेकौ दर्शयति---विच्छित्तीति ॥ १ ॥ एवं कारिकां व्याख्याय तदसङ्गृहीतमलक्ष्यक्रमव्यङ्ग्यं प्रपञ्चयितुमाह--यस्त्विति । तुशब्दः पूर्वभेदेभ्यो ऽस्य विशेषद्योतकः । वर्णसमुदायश्च पदम् । तत्समुदायो वाक्यम् । सङ्घटना पदगता वाक्यगता च । सङ्घटितवाक्यसमुदायः प्रबन्धः बालप्रिया शङ्काग्रन्थः । ततः किमित्मादिर्वक्ष्यमाणार्थकः परिहारग्रन्थः । पेलवादिपदानामिति । ऽअतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठऽ इत्यादौ पेलवादिशब्दानामित्यर्थः । असभ्येति । असभ्यो यः पेलाद्यर्थः पेलादिशब्दार्थस्तं प्रतीत्यर्थः । पेलशब्दो हि लाटभाषायां वृषणवाचकः । नवाचकत्वमिति । तदर्थस्य तद्वाक्यार्थघटकत्वाभावादिति भावः । पादत्रयेणाभिधायेति सम्बन्धः । ऽतेनेऽत पदस्य विवरणम्---यत इत्यादि । निरूपितस्येति पूरितम् । अपिशब्दः स्मारकत्वे ऽपीत्यपिशब्दः ॥ २ ॥ तत्र वर्णानामनर्थकत्वाद्द्योतकत्वमसम्भवीत्याशङ्क्येदमुच्यते-- शषौ सरेफ-संयोगो ढकारश् चापि भूयसा । विरोधिनः स्युः शृङ्गारे ते न वर्णा रस-च्युतः
yastvalakṣyakramavyaṅgyo dhvanirvarṇapadādiṣu / vākye saṅghaṭanāyāṃ ca sa prabandhe 'pi dīpyate // 2 // locanam vāryate / yathā śrutiduṣṭānāṃ pelavādipadānāmasabhyapelādyarthaṃ prati na vācakatvam / api tu smārakatvam / tadvaśācca cārusvarūpaṃ kāvyaṃ śrutiduṣṭam / tacca śrutiduṣṭatvamanvayavyatirekābhyāṃ bhāgeṣu vyavasthāpyate tathā prakṛte 'pīti tadāha--aniṣṭasyeti / aniṣṭārthasmārakasyetyarthaḥ / duṣṭatāmityacārutvam / guṇamiti cārutvam / evaṃ dṛṣṭāntamabhidhāya pādatrayeṇa turyeṇa dārṣṭāntikārtha uktaḥ / adhunopasaṃharati---padānāmiti / yata eva miṣṭasmṛtiścārutvamāvaiti tena hetunā sarveṣu prakāreṣu nirūpitasya padamātrāvabhāsino 'pi padaprakāśasyāpi dhvane ramyatāsti smārakatve 'pi padānāmiti samanvayaḥ / apiśabdaḥ kākākṣinyāyenobhayatrāpi sambadhyate / adhunā cārutvapratītau padasyānvayavyatirekau darśayati---vicchittīti // 1 // evaṃ kārikāṃ vyākhyāya tadasaṅgṛhītamalakṣyakramavyaṅgyaṃ prapañcayitumāha--yastviti / tuśabdaḥ pūrvabhedebhyo 'sya viśeṣadyotakaḥ / varṇasamudāyaśca padam / tatsamudāyo vākyam / saṅghaṭanā padagatā vākyagatā ca / saṅghaṭitavākyasamudāyaḥ prabandhaḥ bālapriyā śaṅkāgranthaḥ / tataḥ kimitmādirvakṣyamāṇārthakaḥ parihāragranthaḥ / pelavādipadānāmiti / 'atipelavamatiparimitavarṇaṃ laghutaramudāharati śaṭha' ityādau pelavādiśabdānāmityarthaḥ / asabhyeti / asabhyo yaḥ pelādyarthaḥ pelādiśabdārthastaṃ pratītyarthaḥ / pelaśabdo hi lāṭabhāṣāyāṃ vṛṣaṇavācakaḥ / navācakatvamiti / tadarthasya tadvākyārthaghaṭakatvābhāvāditi bhāvaḥ / pādatrayeṇābhidhāyeti sambandhaḥ / 'tene'ta padasya vivaraṇam---yata ityādi / nirūpitasyeti pūritam / apiśabdaḥ smārakatve 'pītyapiśabdaḥ // 2 // tatra varṇānāmanarthakatvāddyotakatvamasambhavītyāśaṅkyedamucyate-- śaṣau sarepha-saṃyogo ḍhakāraś cāpi bhūyasā / virodhinaḥ syuḥ śṛṅgāre te na varṇā rasa-cyutaḥ
Sanskrit only: no published translation is held for this verse.
त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा । तदा तं दीपयन्त्य् एव ते न वर्णा रस-च्युतः
ta eva tu niveśyante bībhatsādau rase yadā / tadā taṃ dīpayanty eva te na varṇā rasa-cyutaḥ
Sanskrit only: no published translation is held for this verse.
लोचनम् रिकायां न निमित्तसप्तमीमात्रम्, अपि त्वनन्यत्र भावविषयार्थमपीति । शुद्ध इत्यर्थालङ्कारेण केनाप्यसंमिश्रः । कृतककुपितैबाष्पाम्भोभिः सदैन्यविलोकितैर्- वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया । नवजलधरश्यामाः पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥ अत्र तथा तैस्तैः प्रकारैर्मात्रा धृतापीत्यनुरागपरवशत्वेन गुरुवचनोल्लङ्घनमपि त्वया कृतमिति । प्रिये प्रिय इति परस्परजीवितसर्वस्वाभिमानात्मको रतिस्थायिभाव उक्तः । नवजलधरेत्यसोढपूर्वप्रावृषेण्यजलदालोकनं विप्रलम्भोद्दीपनविभावत्वेनोक्तम् । जीवत्येवेति सापेक्षभावता एवकारेण करुणावकाशनिराकरणायोक्ता । सर्वत एवेति । नात्रान्यतमस्य पदस्याधिकं क्रिञ्चद्रसव्यक्तिहेतुत्वमित्यर्थः । रसतत्त्वमिति । विप्रलम्भशृङ्गारात्मतत्वम् । स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभिर्- यदपि विधृताः तिष्ठन्त्यारादपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ बालप्रिया नेत्यादी । तत्सप्तम्यर्थो निमित्तमात्रं नेति यावात् । अनन्यत्रेति । अनन्यत्रभावः तदन्यत्र सम्भवाभावः, तद्रूपो यो विषयस्य अर्थो यस्य तत् । वाक्य इति सप्तम्यर्थो विषयश्चेत्यर्थः । कृतकेति । तृतीयान्तानां धृतातीत्यनेनान्वयः । यस्य प्रीत्या यस्मिन् मयि प्रेम्णा । धृता उपरुद्धा । व्याचष्टे--अत्रेत्यादि । कृतमितीति । व्यज्यत इति शेषः । प्रिये प्रिय इतीति । इत्याभ्यामित्यर्थः । उक्तः व्यञ्जितः । नवजलधरतीति । इत्यनेनेत्यर्थः । जीवत्येवेत्येवकारेण सापेक्षभावतोक्तेत्यन्वयः । स्मरेति । विधृतास्तिष्ठन्त्यारादपूर्णेति च पाठः । प्रावृषेण्यः प्रावृषिभवः । प्रवाहत्वारोपे गम्यं साधर्म्यमाह---सरभसेत्यादि । ऊढा इत्यनेनात्र विवक्षित माह---परस्परेत्यादि । पुनरित्यस्य विवरणमनन्तरमिति, गुरुपदेनार्थान्तरञ्ज अत्र हि रूपकेण यथोक्तव्यञ्जकलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते । अलक्ष्यक्रमव्यङ्ग्यः सङ्घटनायां भासते ध्वनिरित्युक्तं तत्र सङ्घटनास्वरूपमेव तावन्निरूप्येते--- असमासा समासेन मध्यमेन च भूषिता । तथा दीर्घ-समासेति त्रिधा सङ्घटनोदिता
locanam rikāyāṃ na nimittasaptamīmātram, api tvananyatra bhāvaviṣayārthamapīti / śuddha ityarthālaṅkāreṇa kenāpyasaṃmiśraḥ / kṛtakakupitaibāṣpāmbhobhiḥ sadainyavilokitair- vanamapi gatā yasya prītyā dhṛtāpi tathāmbayā / navajaladharaśyāmāḥ paśyandiśo bhavatīṃ vinā kaṭhinahṛdayo jīvatyeva priye sa tava priyaḥ // atra tathā taistaiḥ prakārairmātrā dhṛtāpītyanurāgaparavaśatvena guruvacanollaṅghanamapi tvayā kṛtamiti / priye priya iti parasparajīvitasarvasvābhimānātmako ratisthāyibhāva uktaḥ / navajaladharetyasoḍhapūrvaprāvṛṣeṇyajaladālokanaṃ vipralambhoddīpanavibhāvatvenoktam / jīvatyeveti sāpekṣabhāvatā evakāreṇa karuṇāvakāśanirākaraṇāyoktā / sarvata eveti / nātrānyatamasya padasyādhikaṃ kriñcadrasavyaktihetutvamityarthaḥ / rasatattvamiti / vipralambhaśṛṅgārātmatatvam / smaranavanadīpūreṇoḍhāḥ punargurusetubhir- yadapi vidhṛtāḥ tiṣṭhantyārādapūrṇamanorathāḥ / tadapi likhitaprakhyairaṅgaiḥ parasparamunmukhā nayananalinīnālānītaṃ pibanti rasaṃ priyāḥ // bālapriyā netyādī / tatsaptamyartho nimittamātraṃ neti yāvāt / ananyatreti / ananyatrabhāvaḥ tadanyatra sambhavābhāvaḥ, tadrūpo yo viṣayasya artho yasya tat / vākya iti saptamyartho viṣayaścetyarthaḥ / kṛtaketi / tṛtīyāntānāṃ dhṛtātītyanenānvayaḥ / yasya prītyā yasmin mayi premṇā / dhṛtā uparuddhā / vyācaṣṭe--atretyādi / kṛtamitīti / vyajyata iti śeṣaḥ / priye priya itīti / ityābhyāmityarthaḥ / uktaḥ vyañjitaḥ / navajaladharatīti / ityanenetyarthaḥ / jīvatyevetyevakāreṇa sāpekṣabhāvatoktetyanvayaḥ / smareti / vidhṛtāstiṣṭhantyārādapūrṇeti ca pāṭhaḥ / prāvṛṣeṇyaḥ prāvṛṣibhavaḥ / pravāhatvārope gamyaṃ sādharmyamāha---sarabhasetyādi / ūḍhā ityanenātra vivakṣita māha---parasparetyādi / punarityasya vivaraṇamanantaramiti, gurupadenārthāntarañja atra hi rūpakeṇa yathoktavyañjakalakṣaṇānugatena prasādhito rasaḥ sutarāmabhivyajyate / alakṣyakramavyaṅgyaḥ saṅghaṭanāyāṃ bhāsate dhvanirityuktaṃ tatra saṅghaṭanāsvarūpameva tāvannirūpyete--- asamāsā samāsena madhyamena ca bhūṣitā / tathā dīrgha-samāseti tridhā saṅghaṭanoditā
Sanskrit only: no published translation is held for this verse.
लोचनम् रूपकेणेति । स्मर एव नवनदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रवृद्धत्वात् तेनोढाः परस्परसांमुख्यमबुद्धिपूर्वमेव नीताः । अनन्तरं गुरवः श्वश्रूप्रभृतय एव सेतवः, इच्छाप्रसररोधकत्वात् । अत च गुरवो ऽलङ्ध्याः सेतवस्तैः विधृताः प्रतिहतेच्छाः । अत एवापूर्णमनोरथास्तिष्ठन्ति । तथापि परस्परोन्मुखतालक्षणेनान्योन्यतादात्म्येन स्वदेहे सकलवृत्तिनिरोधाल्लिखितप्रायैरङ्गैर्नयनान्येव नलिनीनालानि तैरानीतं रसं परस्पराभिलाषलक्षणमास्वादयन्ति परस्पराभिलाषात्मकदृष्टिच्छटामिश्रीकारयुक्त्यापि कालमतिवाहयन्तीति । ननु नात्र रूपकं निर्वयूढं हंसचक्रवाकादिरूपेण नायकयुगलस्यारूपितत्वात् । ते हि हंसाद्या एकनलिनीनालानीतसलिलपानक्रीडादिषूचिता इत्याशङ्क्याह---यथोक्तव्यञ्जकेति । उक्तं हि पूर्वम्--ऽविवक्षातत्परत्वेनऽ इत्यादौ ऽनातिनिर्वहणैषिताऽ इति । प्रसाधित इति । विभावादिभूषणद्वारेण रसो ऽपि प्रसाधित इत्यर्थः ॥ ३।॥ ,४ ॥ सङ्घटनायामिति बावे प्रत्ययः, वर्णादिवच्च निमित्तमात्रे सप्तमी । उक्तमिति । कारिकायाम् । निरूप्यत इति । गुणेभ्यो विविक्ततया विचार्यत इति यावत् । रसानिति बालप्रिया विवक्षितमित्याह---अथ चेत्यादि । तदपीत्यस्य विवरणम्--तथापीति । परस्परमुन्मुखा इत्येतल्लिखितप्रख्यैरित्यस्योपपादकमित्याह---परस्परेत्यादि । गम्यं साधर्म्यं दर्शयति--स्वदेह इत्यादि । वृत्तीति । चेष्टेत्यर्थः । अङ्गैरित्युपलक्षणे तृतीया । रसमित्यादि । परस्पराभिलाषरूपं जलमित्यर्थः । तात्पर्यमाह---परस्परेति । परस्पराभिलाषात्मकानां परस्पराभिलाषं प्रकाशयन्तीनां दृष्टिच्छटानां यो मिश्रीकारस्तस्य युक्त्या योजनयेत्यर्थः । प्रिया इत्यत्र हंसचक्रवाकेत्यत्राप्येकशेषो बोध्यः । अरूपितत्वादिति । अरूपणादित्यर्थः । तथा रूपणे युक्तिमाह--तेहीत्यादि । नन्वत्र कथं रूपकेण रसस्यालङ्कृतत्वमित्यत आह--विभावादीत्यादि ॥ ३।॥ ,४ ॥ भावे प्रत्यय इति । भावरूपार्थे युच् प्रत्यय इत्यर्थः । सप्ततमीति । सङ्घटनायामित्यत्र सप्तमीत्यर्थः । तां केवलमनद्येदमुच्यते-- गुणान् आश्रित्य तिष्ठन्ती माधुर्यादीन् व्यनक्ति सा । रसान् । । । । । । । । । । । । । । । इति भाव इति । शब्दगतं माधुर्यादिकं शृङ्गारादि तत्तद्रसाभिव्यञ्जनसामर्थ्यमेव, तच्च तथा तथासङ्घटनाया । अतस्सङ्घटनारूपा एव गुणा इति भावार्थ इत्यर्थः । वृत्तौ---ऽयत्त्विऽत्यादि । इति यत्तूक्तमित्यन्वयः । ऽयत्र लक्ष्येऽ इति । ऽअनवरतेऽत्यादौ, ऽयो यश्शस्त्रम्ऽ इत्यादौ चेत्यर्थः । ऽपरिकल्पितेऽति । ऽअसमासेऽत्याद्युक्तविषयस्य व्यभिचार इत्यर्थः । शक्तिव्युत्पत्तिपदे विवृणोति लोचने--शक्तिरित्यादि । तदुपयोगीत । तस्य वर्णनीयस्य उपयोगीनि यानि वस्तूनि तेषां पौर्वापर्येण यः परामर्शस्तत्र कौशलं सामर्थ्यमित्यर्थः । उत्तमदेवताविषयसम्भोगशृङ्गारनिबन्धनस्यानौचित्यं विवृणोति--य इत्यादि । चमत्काराविधातः चमत्कारविघातकाभावः । पितृसम्भोग इति । मातापित्रोस्सम्भोगस्य परामर्श इत्यर्थः । ऽशक्तितिरस्कृतत्वाऽदित्यादिग्रन्थं विवृणोति---सम्भोगो ऽपीत्यादि । असाविति । उत्तमदेवताविषय इत्यर्थः । तत्रैव वर्णिते सम्भोग एव । हृदयं कर्तृ । न ददाति स्वात्मानं, सहृदयस्येति शेषः । यद्वा--स इति शेषः । वर्णितस्सम्भोग इत्षथः । हृदयं कर्म । अविषये ऽपीति । बालगुरुजनादिविषये ऽपीत्यर्थः । तस्मिन्नवसर युद्धकाले । वितीर्यते पश्यद्भिः दीयते । वृत्तौ-ऽयथौचित्यात्यागऽइति । यथा येन प्रकारेम वर्णने । औचित्यात्यागः अनौचित्याभावः । ऽदर्सितामऽति । विभावभावेत्यादिग्रन्थजातेन प्रदर्शितमित्यर्थः । ऽअग्रेऽ उपरि । नन्वेवं दर्शयिष्यत इति वक्तव्यं न तु दर्शितमितीत्यत आह लोचने-- दर्शितमेवाग्रे । शक्ततिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवसीयते । तथा हि शक्तिरहतेन कविना एवंविदे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतभासते । नन्वस्मिन् पक्षे ऽयो यः शस्त्रं बिभर्तिऽ इत्यादौ किमचारुत्वम्? अप्रतीयमानमेवारोपयामः । तस्माद्गुणव्यतिरिक्तत्वे गुणरूपत्वे च सङ्घटनाया अन्यः कश्चिन्नियमहेतुर्वक्तव्य इत्युच्यते । । । । । तन्नियमे हेतुर् औचित्यं वक्तृ-वाच्ययोः
locanam rūpakeṇeti / smara eva navanadīpūraḥ prāvṛṣeṇyapravāhaḥ sarabhasameva pravṛddhatvāt tenoḍhāḥ parasparasāṃmukhyamabuddhipūrvameva nītāḥ / anantaraṃ guravaḥ śvaśrūprabhṛtaya eva setavaḥ, icchāprasararodhakatvāt / ata ca guravo 'laṅdhyāḥ setavastaiḥ vidhṛtāḥ pratihatecchāḥ / ata evāpūrṇamanorathāstiṣṭhanti / tathāpi parasparonmukhatālakṣaṇenānyonyatādātmyena svadehe sakalavṛttinirodhāllikhitaprāyairaṅgairnayanānyeva nalinīnālāni tairānītaṃ rasaṃ parasparābhilāṣalakṣaṇamāsvādayanti parasparābhilāṣātmakadṛṣṭicchaṭāmiśrīkārayuktyāpi kālamativāhayantīti / nanu nātra rūpakaṃ nirvayūḍhaṃ haṃsacakravākādirūpeṇa nāyakayugalasyārūpitatvāt / te hi haṃsādyā ekanalinīnālānītasalilapānakrīḍādiṣūcitā ityāśaṅkyāha---yathoktavyañjaketi / uktaṃ hi pūrvam--'vivakṣātatparatvena' ityādau 'nātinirvahaṇaiṣitā' iti / prasādhita iti / vibhāvādibhūṣaṇadvāreṇa raso 'pi prasādhita ityarthaḥ // 3.// ,4 // saṅghaṭanāyāmiti bāve pratyayaḥ, varṇādivacca nimittamātre saptamī / uktamiti / kārikāyām / nirūpyata iti / guṇebhyo viviktatayā vicāryata iti yāvat / rasāniti bālapriyā vivakṣitamityāha---atha cetyādi / tadapītyasya vivaraṇam--tathāpīti / parasparamunmukhā ityetallikhitaprakhyairityasyopapādakamityāha---parasparetyādi / gamyaṃ sādharmyaṃ darśayati--svadeha ityādi / vṛttīti / ceṣṭetyarthaḥ / aṅgairityupalakṣaṇe tṛtīyā / rasamityādi / parasparābhilāṣarūpaṃ jalamityarthaḥ / tātparyamāha---paraspareti / parasparābhilāṣātmakānāṃ parasparābhilāṣaṃ prakāśayantīnāṃ dṛṣṭicchaṭānāṃ yo miśrīkārastasya yuktyā yojanayetyarthaḥ / priyā ityatra haṃsacakravāketyatrāpyekaśeṣo bodhyaḥ / arūpitatvāditi / arūpaṇādityarthaḥ / tathā rūpaṇe yuktimāha--tehītyādi / nanvatra kathaṃ rūpakeṇa rasasyālaṅkṛtatvamityata āha--vibhāvādītyādi // 3.// ,4 // bhāve pratyaya iti / bhāvarūpārthe yuc pratyaya ityarthaḥ / saptatamīti / saṅghaṭanāyāmityatra saptamītyarthaḥ / tāṃ kevalamanadyedamucyate-- guṇān āśritya tiṣṭhantī mādhuryādīn vyanakti sā / rasān . . . . . . . . . . . . . . . iti bhāva iti / śabdagataṃ mādhuryādikaṃ śṛṅgārādi tattadrasābhivyañjanasāmarthyameva, tacca tathā tathāsaṅghaṭanāyā / atassaṅghaṭanārūpā eva guṇā iti bhāvārtha ityarthaḥ / vṛttau---'yattvi'tyādi / iti yattūktamityanvayaḥ / 'yatra lakṣye' iti / 'anavarate'tyādau, 'yo yaśśastram' ityādau cetyarthaḥ / 'parikalpite'ti / 'asamāse'tyādyuktaviṣayasya vyabhicāra ityarthaḥ / śaktivyutpattipade vivṛṇoti locane--śaktirityādi / tadupayogīta / tasya varṇanīyasya upayogīni yāni vastūni teṣāṃ paurvāparyeṇa yaḥ parāmarśastatra kauśalaṃ sāmarthyamityarthaḥ / uttamadevatāviṣayasambhogaśṛṅgāranibandhanasyānaucityaṃ vivṛṇoti--ya ityādi / camatkārāvidhātaḥ camatkāravighātakābhāvaḥ / pitṛsambhoga iti / mātāpitrossambhogasya parāmarśa ityarthaḥ / 'śaktitiraskṛtatvā'dityādigranthaṃ vivṛṇoti---sambhogo 'pītyādi / asāviti / uttamadevatāviṣaya ityarthaḥ / tatraiva varṇite sambhoga eva / hṛdayaṃ kartṛ / na dadāti svātmānaṃ, sahṛdayasyeti śeṣaḥ / yadvā--sa iti śeṣaḥ / varṇitassambhoga itṣathaḥ / hṛdayaṃ karma / aviṣaye 'pīti / bālagurujanādiviṣaye 'pītyarthaḥ / tasminnavasara yuddhakāle / vitīryate paśyadbhiḥ dīyate / vṛttau-'yathaucityātyāga'iti / yathā yena prakārema varṇane / aucityātyāgaḥ anaucityābhāvaḥ / 'darsitāma'ti / vibhāvabhāvetyādigranthajātena pradarśitamityarthaḥ / 'agre' upari / nanvevaṃ darśayiṣyata iti vaktavyaṃ na tu darśitamitītyata āha locane-- darśitamevāgre / śaktatiraskṛtatvaṃ cānvayavyatirekābhyāmavasīyate / tathā hi śaktirahatena kavinā evaṃvide viṣaye śṛṅgāra upanibadhyamānaḥ sphuṭameva doṣatvena pratabhāsate / nanvasmin pakṣe 'yo yaḥ śastraṃ bibharti' ityādau kimacārutvam? apratīyamānamevāropayāmaḥ / tasmādguṇavyatiriktatve guṇarūpatve ca saṅghaṭanāyā anyaḥ kaścinniyamaheturvaktavya ityucyate / . . . . tanniyame hetur aucityaṃ vaktṛ-vācyayoḥ
Sanskrit only: no published translation is held for this verse.
तस्मात्सर्वत्र प्रसादो ऽनुसर्तव्यः । अत एव च ऽयो यः शस्त्रं बिभर्तिऽ इत्यादौ यद्योजसः स्थितिरनेष्यते तत्प्रसादाख्य एव गुणो न माधुर्यम् । न चाचारुत्वम् ; अभिप्रेतरसप्रकाशनात् । तस्माद्गुणाव्यतिरिक्तत्वे गुणव्यतिरिक्तत्वे वा सङ्घटनाया यथोक्तादौचित्याद्विषयनियमो ऽस्तीति तस्या अपि रसव्यञ्जकत्वम् । तस्याश्च रसाभिव्यक्तिनिमित्तभूताया यो ऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धम् । लोचनम् व्यञ्जकस्य स्ववाच्यस्यैवाप्रत्यायनादिति भावः । तदिति । प्रसादस्यापरत्यागे अभीष्टत्वादत्रार्थे स्वकण्ठेनान्वयव्यतिरेकावुक्तौ । न माधुर्यमिति । ओजोमाधुर्ययोर्ह्यन्योन्याभावरूपत्वं प्राङ्निरूपितमिति तयोः सङ्करो ऽत्यन्तं श्रुतिबाह्य इति भावः । अभिप्रेतेति । प्रसादेनैव स रसः प्रकाशितः न न प्रकाशित इत्यर्थः । तस्मादिति । यदि गुणाः सङ्घटनैकरूपास्तथापि गुणानियम एव सङ्घटनाया नियमः । गुणाधीनसङ्घटनापक्षे ऽप्येवम् । सङ्घटनाश्रयगुणपक्षे ऽपि सङ्घटनाया नियामकत्वेन यद्वक्तृवाच्यौचित्यं बालप्रिया यो वाच्यो व्यङ्ग्याभिव्यञ्जको न भवतीति सम्बन्धः । स्वस्ववाचकशब्दानां दीर्घसमाससङ्घटनाङ्कितत्वे सत्येव वाच्यार्था व्यञ्जका भवन्तीति भावः । अपेक्षयेत्यस्य विगुणा न भवतीत्यनेनान्वय इत्याह--सेत्यादि । तदाक्षेपेत्यत्र व्याख्यानान्तरं प्रदर्श्य निराकरोति-नायकस्येत्यादि । न श्लिष्यतीति । अन्वयानुगुणुया भावादिति भावः । प्रसादाख्यो गुणो व्यापीत्युक्तं विवणोति - येत्यादि । या काचित्सङ्घटना सेति । दीर्घसमादिरूपा सङ्घटनेत्यर्थः । अभीष्टत्वादिति । प्रसादानुसरणस्याभिप्रेतत्वादित्यर्थः । उक्तावित्यनेनास्य सम्बन्धः । अत्रार्थैति । सर्वत्र प्रसादस्यानुसर्तव्यत्व इत्यर्थः । स्वकण्ठेनेत्यादि । तदपरित्यागे न न प्रकाशयतीत्यनेनान्वयः, प्रसादातिक्रम इत्यादिना व्यतिरेकश्चोक्त इत्यर्थः । भावमाह---ओजो माधुर्ययोरित्यादि । अन्योन्येति । माधुर्याभावरूपत्वमोजसस्तदभावरूपत्वं माधुर्यस्य चेत्यर्थः । सङ्कर इति । शृङ्गारादावोजसो रौद्रादौ माधुर्यस्य च समावेश इत्यर्थः । श्रुतिबाह्य इति । अश्रुत इत्यर्थः । तस्मादित्याद्यविरुद्धमित्यन्तग्रन्थस्य तात्पर्यमाह--यदि गुणा इत्यादिना ॥ ५-६ ॥ विषयाश्रयम् अप्य् अन्यद् औचित्यं तां नियच्छति । काव्य-प्रभेदाश्रयतः स्थिता भेदवती हि सा
tasmātsarvatra prasādo 'nusartavyaḥ / ata eva ca 'yo yaḥ śastraṃ bibharti' ityādau yadyojasaḥ sthitiraneṣyate tatprasādākhya eva guṇo na mādhuryam / na cācārutvam ; abhipretarasaprakāśanāt / tasmādguṇāvyatiriktatve guṇavyatiriktatve vā saṅghaṭanāyā yathoktādaucityādviṣayaniyamo 'stīti tasyā api rasavyañjakatvam / tasyāśca rasābhivyaktinimittabhūtāyā yo 'yamanantarokto niyamahetuḥ sa eva guṇānāṃ niyato viṣaya iti guṇāśrayeṇa vyavasthānamapyaviruddham / locanam vyañjakasya svavācyasyaivāpratyāyanāditi bhāvaḥ / taditi / prasādasyāparatyāge abhīṣṭatvādatrārthe svakaṇṭhenānvayavyatirekāvuktau / na mādhuryamiti / ojomādhuryayorhyanyonyābhāvarūpatvaṃ prāṅnirūpitamiti tayoḥ saṅkaro 'tyantaṃ śrutibāhya iti bhāvaḥ / abhipreteti / prasādenaiva sa rasaḥ prakāśitaḥ na na prakāśita ityarthaḥ / tasmāditi / yadi guṇāḥ saṅghaṭanaikarūpāstathāpi guṇāniyama eva saṅghaṭanāyā niyamaḥ / guṇādhīnasaṅghaṭanāpakṣe 'pyevam / saṅghaṭanāśrayaguṇapakṣe 'pi saṅghaṭanāyā niyāmakatvena yadvaktṛvācyaucityaṃ bālapriyā yo vācyo vyaṅgyābhivyañjako na bhavatīti sambandhaḥ / svasvavācakaśabdānāṃ dīrghasamāsasaṅghaṭanāṅkitatve satyeva vācyārthā vyañjakā bhavantīti bhāvaḥ / apekṣayetyasya viguṇā na bhavatītyanenānvaya ityāha--setyādi / tadākṣepetyatra vyākhyānāntaraṃ pradarśya nirākaroti-nāyakasyetyādi / na śliṣyatīti / anvayānuguṇuyā bhāvāditi bhāvaḥ / prasādākhyo guṇo vyāpītyuktaṃ vivaṇoti - yetyādi / yā kācitsaṅghaṭanā seti / dīrghasamādirūpā saṅghaṭanetyarthaḥ / abhīṣṭatvāditi / prasādānusaraṇasyābhipretatvādityarthaḥ / uktāvityanenāsya sambandhaḥ / atrārthaiti / sarvatra prasādasyānusartavyatva ityarthaḥ / svakaṇṭhenetyādi / tadaparityāge na na prakāśayatītyanenānvayaḥ, prasādātikrama ityādinā vyatirekaścokta ityarthaḥ / bhāvamāha---ojo mādhuryayorityādi / anyonyeti / mādhuryābhāvarūpatvamojasastadabhāvarūpatvaṃ mādhuryasya cetyarthaḥ / saṅkara iti / śṛṅgārādāvojaso raudrādau mādhuryasya ca samāveśa ityarthaḥ / śrutibāhya iti / aśruta ityarthaḥ / tasmādityādyaviruddhamityantagranthasya tātparyamāha--yadi guṇā ityādinā // 5-6 // viṣayāśrayam apy anyad aucityaṃ tāṃ niyacchati / kāvya-prabhedāśrayataḥ sthitā bhedavatī hi sā
Sanskrit only: no published translation is held for this verse.
प्रसिद्धेतिवृत्तैकदेशेत्यर्थः । महाकाव्यरूप इति । महाकाव्यादीनां लक्षणानि काव्यादर्शादावुक्तानि । द्वन्द्वेनेति । ऽआख्ययिकेऽत्यादिद्वन्द्वेन । कथमपि कृत्वेत्यादिव्याजेनाश्रवणमभिनीत्येत्यर्थः । शून्ये सखीशून्ये । शलोको ऽयं काव्यालङ्कारसङ्ग्रहव्याख्यायां विवृतः । ऽमध्यमसमासादीर्घसमासे मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । सन्दानितकादिषु तु विकटनिबन्धनौचित्यान्मध्यमसमासादीर्घसमासे एव रचने । प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुसर्तव्यम् । पर्यायबन्धे पुनरसमासामध्यमसमासे एव सङ्घटने । कदाचिदर्थौचित्याश्रयेण दीर्घसमासायामपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां कामचारः, तत्रेतिवृत्तमात्रोपन्यासेन नात्यन्तंरसबन्धाभिनिवेशात् । खण्डकथासकलकथयोस्तु प्रकृतप्रसिद्धयोः कुलकादिनिबन्धनभूयस्त्वाद्दीर्घसमासायामपि न विरोधः । वृत्त्यौचित्यं तु यथारसमनुसर्तव्यम् । सर्गबन्धेतु लोचनम् ननु मुक्तके विभावादिसङ्घटना कथं येन तदायत्तो रसः स्यादित्याशङ्क्याह---मुक्तकेष्विति । अमरुकस्येति । कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजप्रकल्पितमश्रुतम् । अहनसखीश्रोत्रप्राप्तिं विशङ्क्य समम्भ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः ॥ इत्यत्र हि श्लोके स्फुटैव विभावादसम्पत्प्रतीतिः । विकटेति । असमासायां हि सङ्घटनायां मन्थररूपा प्रतीतिः साकाङ्क्षा सती चिरेण क्रियापदं दूरवर्त्यनुधावन्ती वाच्यप्रतीतावेव विश्रान्ता सती न रसतत्वचर्वणायोग्या स्यादिति भावः । प्रबन्धाश्रयेष्विति । बालप्रिया एवेऽत्युक्तमुपपादयति---असमासायामित्यादि । सङ्घटनायामिति । सत्यामिति शेषः । मन्थररूपेति । मन्दीभवन्तीत्यर्थः । साकाङ्क्षेति । क्रियाद्याकाङ्क्षासहितेत्यर्थः । वाच्यप्रतीतावेव विश्रान्तेति । वाच्यार्थंप्रतीतेश्चिरेणैव जायमानत्वादिति भावः । न म्यादिति । तथाच वाच्यप्रतीतिमान्थर्यादिपरिहाराय मध्यमसमासा दीर्घसमासा वा सङ्घटना कार्येति भावः । प्रबन्धाश्रयेष्वत्यत्र सन्दानितकादिष्वित्यस्यैवानुषङ्गो न तु मुक्तकेष्वित्यस्यापि पूर्वोक्तलक्षणस्य मुक्तकस्य रसतात्पर्ये यथारसमौचित्यमन्यथा तु काभचारः, द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रसतात्पर्यं साधीयः । अभिनेयार्थे तु सर्वथा रसबन्धे ऽभिनिवेशः कार्यः । आख्यायिकाकथयोस्तु गद्यनिबन्धनबाहुल्याद्गद्ये च छन्दोबन्धभिन्नप्रस्थानत्वादिह नियमे हेतुरकृतपूर्वो ऽपि मना विक्रयते । एतद् यथोक्तम् औचित्यम् एव तस्या नियामकम् । सर्वत्र गद्य-बन्धे ऽपि छन्दो-नियम-वर्जिते
prasiddhetivṛttaikadeśetyarthaḥ / mahākāvyarūpa iti / mahākāvyādīnāṃ lakṣaṇāni kāvyādarśādāvuktāni / dvandveneti / 'ākhyayike'tyādidvandvena / kathamapi kṛtvetyādivyājenāśravaṇamabhinītyetyarthaḥ / śūnye sakhīśūnye / śaloko 'yaṃ kāvyālaṅkārasaṅgrahavyākhyāyāṃ vivṛtaḥ / 'madhyamasamāsādīrghasamāse muktakeṣu prabandheṣviva rasabandhābhiniveśinaḥ kavayo dṛśyante / yathā hyamarukasya kavermuktakāḥ śṛṅgārarasasyandinaḥ prabandhāyamānāḥ prasiddhā eva / sandānitakādiṣu tu vikaṭanibandhanaucityānmadhyamasamāsādīrghasamāse eva racane / prabandhāśrayeṣu yathoktaprabandhaucityamevānusartavyam / paryāyabandhe punarasamāsāmadhyamasamāse eva saṅghaṭane / kadācidarthaucityāśrayeṇa dīrghasamāsāyāmapi saṅghaṭanāyāṃ paruṣā grāmyā ca vṛttiḥ parihartavyā / parikathāyāṃ kāmacāraḥ, tatretivṛttamātropanyāsena nātyantaṃrasabandhābhiniveśāt / khaṇḍakathāsakalakathayostu prakṛtaprasiddhayoḥ kulakādinibandhanabhūyastvāddīrghasamāsāyāmapi na virodhaḥ / vṛttyaucityaṃ tu yathārasamanusartavyam / sargabandhetu locanam nanu muktake vibhāvādisaṅghaṭanā kathaṃ yena tadāyatto rasaḥ syādityāśaṅkyāha---muktakeṣviti / amarukasyeti / kathamapi kṛtapratyāpattau priye skhalitottare virahakṛśayā kṛtvā vyājaprakalpitamaśrutam / ahanasakhīśrotraprāptiṃ viśaṅkya samambhramaṃ vivalitadṛśā śūnye gehe samucchvasitaṃ tataḥ // ityatra hi śloke sphuṭaiva vibhāvādasampatpratītiḥ / vikaṭeti / asamāsāyāṃ hi saṅghaṭanāyāṃ manthararūpā pratītiḥ sākāṅkṣā satī cireṇa kriyāpadaṃ dūravartyanudhāvantī vācyapratītāveva viśrāntā satī na rasatatvacarvaṇāyogyā syāditi bhāvaḥ / prabandhāśrayeṣviti / bālapriyā eve'tyuktamupapādayati---asamāsāyāmityādi / saṅghaṭanāyāmiti / satyāmiti śeṣaḥ / manthararūpeti / mandībhavantītyarthaḥ / sākāṅkṣeti / kriyādyākāṅkṣāsahitetyarthaḥ / vācyapratītāveva viśrānteti / vācyārthaṃpratīteścireṇaiva jāyamānatvāditi bhāvaḥ / na myāditi / tathāca vācyapratītimāntharyādiparihārāya madhyamasamāsā dīrghasamāsā vā saṅghaṭanā kāryeti bhāvaḥ / prabandhāśrayeṣvatyatra sandānitakādiṣvityasyaivānuṣaṅgo na tu muktakeṣvityasyāpi pūrvoktalakṣaṇasya muktakasya rasatātparye yathārasamaucityamanyathā tu kābhacāraḥ, dvayorapi mārgayoḥ sargabandhavidhāyināṃ darśanādrasatātparyaṃ sādhīyaḥ / abhineyārthe tu sarvathā rasabandhe 'bhiniveśaḥ kāryaḥ / ākhyāyikākathayostu gadyanibandhanabāhulyādgadye ca chandobandhabhinnaprasthānatvādiha niyame heturakṛtapūrvo 'pi manā vikrayate / etad yathoktam aucityam eva tasyā niyāmakam / sarvatra gadya-bandhe 'pi chando-niyama-varjite
Sanskrit only: no published translation is held for this verse.
एतद्यथोक्तमौचित्यमेव तस्या नियामकम् । सर्वत्र गद्यबन्धे ऽपि छन्दोनियमवर्जिते ॥ ८ ॥ यदेतदौचत्यं वक्तृवाच्यगतं सङ्घटनाया नियामकमुक्तमेतदेव गद्ये छन्दोनियमवर्जिते ऽपि विषयापेक्षं नियमहेतुः । तथा ह्यत्रापि यदा कविः कविनिबद्धो वा वक्ता रसभावरहितस्तदा कामचारः । रसभावसमन्विते तु वक्तरि पूर्वेक्तमेवानुसर्तव्यम् । तत्रापि च विषयौचित्यमेव । आख्यायिकायां लोचनम् सन्दानितकादिषु कुलकान्तेषु । यदिवा प्रबन्धे ऽपि मुक्तकस्यास्तु सद्भावः, पूर्वापरनिरपेक्षेणापि हि येन रसचर्वणा क्रियते तदेव मुक्तकम् । यथा---ऽत्वामालिख्य प्रणयकुपितांऽ इत्यादिश्लेकः । कदाचिदिति रौद्रादिविषये । नात्यन्तमिति । रसबन्धे यो नात्यन्तमभिनिवेशस्तस्मादिति सङ्गतिः । वृत्तयौचात्यमिति । परुषोपनागरिकाग्राम्याणां वृत्तीनामौचित्यं यथाप्रबन्धं यथारसं च । अन्यथेति । कथामात्रतात्पर्ये वृत्तिष्वपि कामचारः । द्वयोरपीति सप्तमी । कथातात्पर्ये सर्गबन्धो यथा भट्टजयन्तकस्य कादम्बरीकथासारम् । रसतात्पर्यं यता रघुवंशादि । अन्ये तु संस्कृत प्रकृतयोर्द्वयोरिति व्याचक्षते । तत्र तु रसतात्पर्यं साधीय इति यदुक्तं तत्किमपेक्षयेति नेयार्थं स्यात् ॥ ७ ॥ बालप्रिया प्रबन्धेष्वसम्भवादित्याह---सन्दानितकादिष्वित्यादि । पक्षान्तरमाह---यदि वेत्यादि । ननु तर्हि किं मुक्तकलक्षणमित्यत आह--पूर्वेत्यादि । नात्यन्तमित्याद्येकं पदम् । रसबन्धे ऽभिनिवेशो रसबन्धाभिनिवेशः अत्यन्तं रसबन्धाभिनिवेशो यस्तस्याभावः । नात्यन्तंरसबन्धाभिनिवेशस्तस्मादित्यर्थ इत्यभिप्रायेण व्याचष्टे---रसबन्ध इत्यादि । अत्यन्तं रसबन्धानभिनिवेशादिति च वृत्तौ पाठः । द्वयोरपि मार्गयोरिति सप्तम्यन्ते । तात्पर्यस्येति शेषः । कथातात्पर्यस्य रसतात्पर्यस्य चेत्यर्थ इत्याह---द्वयोरित्यादि । द्वयोरपि मार्गयोरित्यस्य व्याख्यानान्तरमाह---अन्य इत्यादि । तद्दूषयति---तत्रेत्यादि ॥ ७ ॥ तु भूम्ना मध्यमसमासादीर्घसमासे एव सङ्घटने । गद्यस्य विकटबन्धाश्रयेण छायावत्त्वात् । तत्र च तस्य प्रकृष्यमाणत्वात् । कथायां तु विकटबन्धप्राचुर्ये ऽपि गद्यस्य रसबन्धोक्तमौचित्यमनुसर्तव्यम् । रस-बन्धोक्तम् औचित्यं भाति सर्वत्र संश्रिता । रचना विषयापेक्षं तत् तु किंचिद् विभेदवत्
etadyathoktamaucityameva tasyā niyāmakam / sarvatra gadyabandhe 'pi chandoniyamavarjite // 8 // yadetadaucatyaṃ vaktṛvācyagataṃ saṅghaṭanāyā niyāmakamuktametadeva gadye chandoniyamavarjite 'pi viṣayāpekṣaṃ niyamahetuḥ / tathā hyatrāpi yadā kaviḥ kavinibaddho vā vaktā rasabhāvarahitastadā kāmacāraḥ / rasabhāvasamanvite tu vaktari pūrvektamevānusartavyam / tatrāpi ca viṣayaucityameva / ākhyāyikāyāṃ locanam sandānitakādiṣu kulakānteṣu / yadivā prabandhe 'pi muktakasyāstu sadbhāvaḥ, pūrvāparanirapekṣeṇāpi hi yena rasacarvaṇā kriyate tadeva muktakam / yathā---'tvāmālikhya praṇayakupitāṃ' ityādiślekaḥ / kadāciditi raudrādiviṣaye / nātyantamiti / rasabandhe yo nātyantamabhiniveśastasmāditi saṅgatiḥ / vṛttayaucātyamiti / paruṣopanāgarikāgrāmyāṇāṃ vṛttīnāmaucityaṃ yathāprabandhaṃ yathārasaṃ ca / anyatheti / kathāmātratātparye vṛttiṣvapi kāmacāraḥ / dvayorapīti saptamī / kathātātparye sargabandho yathā bhaṭṭajayantakasya kādambarīkathāsāram / rasatātparyaṃ yatā raghuvaṃśādi / anye tu saṃskṛta prakṛtayordvayoriti vyācakṣate / tatra tu rasatātparyaṃ sādhīya iti yaduktaṃ tatkimapekṣayeti neyārthaṃ syāt // 7 // bālapriyā prabandheṣvasambhavādityāha---sandānitakādiṣvityādi / pakṣāntaramāha---yadi vetyādi / nanu tarhi kiṃ muktakalakṣaṇamityata āha--pūrvetyādi / nātyantamityādyekaṃ padam / rasabandhe 'bhiniveśo rasabandhābhiniveśaḥ atyantaṃ rasabandhābhiniveśo yastasyābhāvaḥ / nātyantaṃrasabandhābhiniveśastasmādityartha ityabhiprāyeṇa vyācaṣṭe---rasabandha ityādi / atyantaṃ rasabandhānabhiniveśāditi ca vṛttau pāṭhaḥ / dvayorapi mārgayoriti saptamyante / tātparyasyeti śeṣaḥ / kathātātparyasya rasatātparyasya cetyartha ityāha---dvayorityādi / dvayorapi mārgayorityasya vyākhyānāntaramāha---anya ityādi / taddūṣayati---tatretyādi // 7 // tu bhūmnā madhyamasamāsādīrghasamāse eva saṅghaṭane / gadyasya vikaṭabandhāśrayeṇa chāyāvattvāt / tatra ca tasya prakṛṣyamāṇatvāt / kathāyāṃ tu vikaṭabandhaprācurye 'pi gadyasya rasabandhoktamaucityamanusartavyam / rasa-bandhoktam aucityaṃ bhāti sarvatra saṃśritā / racanā viṣayāpekṣaṃ tat tu kiṃcid vibhedavat
Sanskrit only: no published translation is held for this verse.
सर्वाकारमिति क्रियाविशेषणम् । असमासैवेति । सर्वत्रैवेति शेषः । तथा हि वाक्याभिनयलक्षणे ऽचूर्णपादैः प्रसन्नैःऽ इत्यादि मुनिरभ्यधात् । अत्रापवादमाह---न चेति । नाटकादाविति । स्वविषये ऽपीति सम्बन्धः ॥ ९ ॥ एवं सङ्घटनायां चालक्ष्यक्रमो दीप्यत इति निर्णीतम् । प्रबन्धे दीप्यत इति तु निर्विवादसिद्धो ऽयमर्थ इति नात्र वक्तव्यं किञ्चिदस्ति । केवलं कविसहृदयान् व्युत्पादयितुं रसव्यञ्जने येतिकर्तव्यता प्रबन्धस्य सा निरूप्येत्याशयेनाह--इदानीमिति । इदानीं तत्प्रकारजातं प्रतिपाद्यत इति सम्बन्धः । प्रथमं दावदिति प्रबन्धस्य व्यञ्जकत्वे ये प्रकारास्ते क्रमेणौवोपयोगिनः । पूर्वं हि कथापरीक्षा । तत्रादिकावापः फलपर्यन्ततानयनम्, बालप्रिया किञ्चिद्विभेदवदित्यस्य विवरणम् - किञ्जिदित्यादि । यस्य सम्पाद्यत्वेन विद्यत इति सम्बन्धः । सर्वत्रैवासमासेत्यत्र मुनिवचनं प्रमाणयति---तथाहीत्यदि । वृत्तौ ऽन चेऽत्यत्र असमासैवेत्यस्यानुषङ्गः । ऽप्रमाणतऽ इति । रसबन्धोक्तौचित्यरूपात्प्रमाणादित्यर्थः । ऽआख्यायिकायाऽमित्यादि । ऽस्वविषये ऽपीऽति । अत्यन्तासमासाया विषये शृङ्गारादावपीत्यर्थः । ऽनेऽति । शोभत इत्यस्यानुषङ्गः । न चारुरित्यर्थः । ऽनाटकादाऽविति । स्वविषये ऽपीत्यस्यानुषङ्गः । अतिदीर्घसमासासङ्घटना न शोभत इत्यर्थः । "इतीकाव्यार्थे"त्यादिश्लेकः क्वचिद्ग्रन्थे न दृश्यते, अत एव न व्याख्यातः ॥ ९ ॥ लोचने ऽवतारयति---एवमित्यादि । येतिकर्तव्यतेति । यः प्रकार इत्यर्थः । निरूप्या निरूपणार्हा । ऽइदानीऽमित्यस्यान्वयं ऽतत्प्रतिपाद्यतऽ इत्यत्र तत्पदार्थञ्ज दर्शयति---इदानीमित्यादि । प्रथमन्तावदितीति प्रतीकधारणम् । विभावेत्यादिनिर्देशक्रमस्य बीजन्दर्शयति---प्रबन्धस्येत्यादि । फलपर्यन्ततानयनमिति । कथाया इति प्रकाशमानः प्रसिद्ध एव । तस्य तु यथा प्रकाशनं तत्प्रतिपाद्यते--- विभाव-भावानुभाव-सञ्चार्य्-औचित्य-चारुणः । विधिः कथा-शरीरस्य वृत्तस्योत्प्रेक्षितस्य वा
sarvākāramiti kriyāviśeṣaṇam / asamāsaiveti / sarvatraiveti śeṣaḥ / tathā hi vākyābhinayalakṣaṇe 'cūrṇapādaiḥ prasannaiḥ' ityādi munirabhyadhāt / atrāpavādamāha---na ceti / nāṭakādāviti / svaviṣaye 'pīti sambandhaḥ // 9 // evaṃ saṅghaṭanāyāṃ cālakṣyakramo dīpyata iti nirṇītam / prabandhe dīpyata iti tu nirvivādasiddho 'yamartha iti nātra vaktavyaṃ kiñcidasti / kevalaṃ kavisahṛdayān vyutpādayituṃ rasavyañjane yetikartavyatā prabandhasya sā nirūpyetyāśayenāha--idānīmiti / idānīṃ tatprakārajātaṃ pratipādyata iti sambandhaḥ / prathamaṃ dāvaditi prabandhasya vyañjakatve ye prakārāste krameṇauvopayoginaḥ / pūrvaṃ hi kathāparīkṣā / tatrādikāvāpaḥ phalaparyantatānayanam, bālapriyā kiñcidvibhedavadityasya vivaraṇam - kiñjidityādi / yasya sampādyatvena vidyata iti sambandhaḥ / sarvatraivāsamāsetyatra munivacanaṃ pramāṇayati---tathāhītyadi / vṛttau 'na ce'tyatra asamāsaivetyasyānuṣaṅgaḥ / 'pramāṇata' iti / rasabandhoktaucityarūpātpramāṇādityarthaḥ / 'ākhyāyikāyā'mityādi / 'svaviṣaye 'pī'ti / atyantāsamāsāyā viṣaye śṛṅgārādāvapītyarthaḥ / 'ne'ti / śobhata ityasyānuṣaṅgaḥ / na cārurityarthaḥ / 'nāṭakādā'viti / svaviṣaye 'pītyasyānuṣaṅgaḥ / atidīrghasamāsāsaṅghaṭanā na śobhata ityarthaḥ / "itīkāvyārthe"tyādiślekaḥ kvacidgranthe na dṛśyate, ata eva na vyākhyātaḥ // 9 // locane 'vatārayati---evamityādi / yetikartavyateti / yaḥ prakāra ityarthaḥ / nirūpyā nirūpaṇārhā / 'idānī'mityasyānvayaṃ 'tatpratipādyata' ityatra tatpadārthañja darśayati---idānīmityādi / prathamantāvaditīti pratīkadhāraṇam / vibhāvetyādinirdeśakramasya bījandarśayati---prabandhasyetyādi / phalaparyantatānayanamiti / kathāyā iti prakāśamānaḥ prasiddha eva / tasya tu yathā prakāśanaṃ tatpratipādyate--- vibhāva-bhāvānubhāva-sañcāry-aucitya-cāruṇaḥ / vidhiḥ kathā-śarīrasya vṛttasyotprekṣitasya vā
Sanskrit only: no published translation is held for this verse.
इतिवृत्त-वशायातां त्यक्त्वाननुगुणां स्थितिम् । उत्प्रेक्ष्याप्य् अन्तराभीष्ट-रसोचित-कथोन्नयः
itivṛtta-vaśāyātāṃ tyaktvānanuguṇāṃ sthitim / utprekṣyāpy antarābhīṣṭa-rasocita-kathonnayaḥ
Sanskrit only: no published translation is held for this verse.
सन्धि-सन्ध्य्-अङ्ग-घटनं रसाभिव्यक्त्य्-अपेक्षया । न तु केवलया शास्त्र-स्थिति-सम्पादनेच्छया
sandhi-sandhy-aṅga-ghaṭanaṃ rasābhivyakty-apekṣayā / na tu kevalayā śāstra-sthiti-sampādanecchayā
Sanskrit only: no published translation is held for this verse.
उद्दीपन-प्रशमने यथावसरम् अन्तरा । रसस्यारब्ध-विश्रान्तेर् अनुसन्धानम् अङ्गिनः
uddīpana-praśamane yathāvasaram antarā / rasasyārabdha-viśrānter anusandhānam aṅginaḥ
Sanskrit only: no published translation is held for this verse.
अलङ्कृतीनां शक्ताव् अप्य् आनुरूप्येण योजनम् । प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम्
alaṅkṛtīnāṃ śaktāv apy ānurūpyeṇa yojanam / prabandhasya rasādīnāṃ vyañjakatve nibandhanam
Sanskrit only: no published translation is held for this verse.
उद्धाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा ॥ ऽइति ॥ १४ ॥ बालप्रिया चिन्तनरूपनिद्राप्रतिबन्धकेन जाग्रतो मे निशा क्षीणेति सम्बन्धः । निशा निद्रां विनैवातीतेत्यर्थः । अत आह--दाक्षिणेयेत्यादि । दाक्षिण्यमत्र पझावतीविषयकं बोध्यम् । सा वासवदत्ता । अङ्कुरित इत्यादिना अनुसंहित इति सम्बन्धः । तथा भूत इति । मुनिवचसीति निमित्ते सप्तमी । स्थास्यतीत्यनेनास्यान्वयः । सा प्रियतमा तथा मम पुनःपश्चादपिपुर इतिवा पाठः । स्थास्यतीत्याशंसायां ऌट् । प्रयत्नान्तर्गूढामिति । प्रयत्नैरन्तर्नियमितामित्यर्थः । उक्त्या मधुरं मनोहरं यथा तथा । समुद्भिन्न संमिश्रा, युक्तेति यावत् पीतैः अन्तःस्तम्भितैः समुद्भिन्नप्रीतिरिति पाठः । साधिष्ठः समुद्भिन्न प्रकाशिता प्रीतिः यया सेत्यर्थः । नयनसलिलोद्गमो हि कुपितानां स्त्रीणां प्रीतेरनुवः । त्वदिति । आदिपदेन "तन्मत्वा त्यजतश्सरीरकमिदं नैवास्ति निस्स्नेहता आसन्नो ऽवसरस्तवानुगमने जाता धृतिः किन्त्वयम् । खेदो यच्च तवानुगं न हृदयं तस्मिन् क्षणे दारुण ॥ इत्यस्य सङ्ग्रहः । सचिवैः प्रयोजकैः मया प्रयोज्येन । ऽतदिऽति । त्वत्सम्प्राप्तिमित्यर्थः । अत्यजत इति च्छेदः । इत्यादिनेति तृतीयान्तानामनुसंहित इत्यने नान्वयो बोध्यः । योजनापेक्षयेति । योजनमिति कृदन्तापेक्षयेत्यर्थः । स्वञ्चितेति । वत्सराजोक्तिरियम् । स्वञ्तिते प्रवेशप्रतिबन्धाय सुष्टु मिथः सम्बद्धे पक्ष्मणी एव कवाटे यस्य तत् । नयनद्वारं नयनमेव द्वारम् । स्वरूपताडेन स्वस्यरूपमाकृतिः तदेव ताडः ताडनक्रिया साधनमुद्गाढनकरणमिति यावत् तेन । स्वरूपतडितैवेति पाठेस्वरूपमेव तडिद्विद्युत्तया करणेनेति तदर्थः । सा नृपतनूजा वासवदत्ता । अत्र नयनद्वारमित्येतावदेव रूपणं शृङ्गारानुगुणतया सुन्दरं न त्वन्यदपीति भावः ॥१४॥ किञ्च---- अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः । ध्वनेर् अस्य प्रबन्धेषु भासते सो ऽपि केषुचित्
uddhāṭya sā praviṣṭā hṛdayagṛhaṃ me nṛpatanūjā // 'iti // 14 // bālapriyā cintanarūpanidrāpratibandhakena jāgrato me niśā kṣīṇeti sambandhaḥ / niśā nidrāṃ vinaivātītetyarthaḥ / ata āha--dākṣiṇeyetyādi / dākṣiṇyamatra pajhāvatīviṣayakaṃ bodhyam / sā vāsavadattā / aṅkurita ityādinā anusaṃhita iti sambandhaḥ / tathā bhūta iti / munivacasīti nimitte saptamī / sthāsyatītyanenāsyānvayaḥ / sā priyatamā tathā mama punaḥpaścādapipura itivā pāṭhaḥ / sthāsyatītyāśaṃsāyāṃ ḷṭ / prayatnāntargūḍhāmiti / prayatnairantarniyamitāmityarthaḥ / uktyā madhuraṃ manoharaṃ yathā tathā / samudbhinna saṃmiśrā, yukteti yāvat pītaiḥ antaḥstambhitaiḥ samudbhinnaprītiriti pāṭhaḥ / sādhiṣṭhaḥ samudbhinna prakāśitā prītiḥ yayā setyarthaḥ / nayanasalilodgamo hi kupitānāṃ strīṇāṃ prīteranuvaḥ / tvaditi / ādipadena "tanmatvā tyajataśsarīrakamidaṃ naivāsti nissnehatā āsanno 'vasarastavānugamane jātā dhṛtiḥ kintvayam / khedo yacca tavānugaṃ na hṛdayaṃ tasmin kṣaṇe dāruṇa // ityasya saṅgrahaḥ / sacivaiḥ prayojakaiḥ mayā prayojyena / 'tadi'ti / tvatsamprāptimityarthaḥ / atyajata iti cchedaḥ / ityādineti tṛtīyāntānāmanusaṃhita ityane nānvayo bodhyaḥ / yojanāpekṣayeti / yojanamiti kṛdantāpekṣayetyarthaḥ / svañciteti / vatsarājoktiriyam / svañtite praveśapratibandhāya suṣṭu mithaḥ sambaddhe pakṣmaṇī eva kavāṭe yasya tat / nayanadvāraṃ nayanameva dvāram / svarūpatāḍena svasyarūpamākṛtiḥ tadeva tāḍaḥ tāḍanakriyā sādhanamudgāḍhanakaraṇamiti yāvat tena / svarūpataḍitaiveti pāṭhesvarūpameva taḍidvidyuttayā karaṇeneti tadarthaḥ / sā nṛpatanūjā vāsavadattā / atra nayanadvāramityetāvadeva rūpaṇaṃ śṛṅgārānuguṇatayā sundaraṃ na tvanyadapīti bhāvaḥ //14// kiñca---- anusvānopamātmāpi prabhedo ya udāhṛtaḥ / dhvaner asya prabandheṣu bhāsate so 'pi keṣucit
Sanskrit only: no published translation is held for this verse.
सो ऽभिव्यक्तः प्रकृतरसस्वरूपपर्यवसायी । सहचराः वसन्तयौवनमलयानिलादयस्तैः सह समागमे । मिअवहण्डिअरोरोणिरङ्कुसो अविवेअरहिओ वि । सविण वि तुमम्मि पुणोवन्ति अ अतन्ति पंमुसिम्मि ॥ इत्यादयो यौवनस्योक्तयस्तत्तन्निजस्वभावव्यञ्चिकाः, स स्वभावः प्रकृतरसपर्यवसायी । यथा चेति । श्मशानावतीर्णं पुत्रदाहार्थमुद्योगिनं जनं विप्रलब्धुं गृध्रो दिवा शवशरीरभक्षणार्थी शीघ्रमेवापसरत यूयमित्याह । अलं स्थित्वा श्मशाने ऽस्मिन्गृध्रगोमायुसङ्कुले । कङ्कालबहले घोरे सर्वप्राणिभयङ्करे ॥ बालप्रिया लीलेति । "लीलादाढग्गुद्धरिअस अलमहीमण्डलस्सविअअज्ज । कीसमुणालहरणं वितुझगुरु आइ अङ्गम्म ॥ इति पाठः । लीलादंष्ट्रग्रोद्धृतसकलमहीमण्डलस्यैवाद्य । कस्मान्मृणालाभरणमपि तव गुरु भवत्यङ्गे ॥ इतिच्छाया । लीलया दंष्ट्राग्रेण उद्धृतं सकलमहीमण्डलं येन वराहरूपिणा तस्येत्यनेन गुरुतरवस्तुवहने अनायासस्सूच्यते । एवकारो विरोधद्योतकः । मृणालाभरणमपि अतिलधुमृणालरूपमाभरणमपि । कस्माद्गुरु भवतीति सम्बन्धः । अनेन भगवतो विरहावस्थातिशयो द्योत्यते । एतमर्थं दर्शयति---रुक्मिणीत्यादि । रुक्मिणीविप्रलब्धोरुक्मिणीविरही यो वासुदेवस्तस्याशयो रुक्मिण्यामभिलाषः, तस्य प्रतिभेदनमाविष्करणं तदभिप्रायमित्यर्थः । प्रकृतरसेति । विप्रलम्भशृङ्गारेत्यर्थः । सहचरसमागमे इत्येतद्विवृणोति---सहचरा इत्यादि । मिश्रवेति । हुम्मि अवहत्थिअरे होणिरङ्कुसो अहविवेअरहिओवि । सिविणेवि तुमम्मि पुणो भन्तिं णपसुमरामि । इति पाठः । भवाम्यपहस्तितरेखो निरङ्कुशो ऽथ विवेकरहितो ऽपि । स्वप्ने ऽपि तव पुनर्भक्तिं न प्रस्मरामि ॥ इति छाया । अपहस्तितरेख इति । अतिक्रान्तमर्याद इत्यर्थः । तत्तन्निजस्वभावेति । कामानुवर्तनादिस्वभावेत्यर्थः । अलमित्यादि । काव्यप्रकाशे ऽप्युदाहृता इमे श्लोकोः । सुप्-तिङ्-वचन-सम्बन्धैस् तथा कारक-शक्तिभिः । कृत्-तद् धित-समासैश् च द्योत्यो ऽलक्ष्य-क्रमः क्वचित्
so 'bhivyaktaḥ prakṛtarasasvarūpaparyavasāyī / sahacarāḥ vasantayauvanamalayānilādayastaiḥ saha samāgame / miavahaṇḍiaroroṇiraṅkuso avivearahio vi / saviṇa vi tumammi puṇovanti a atanti paṃmusimmi // ityādayo yauvanasyoktayastattannijasvabhāvavyañcikāḥ, sa svabhāvaḥ prakṛtarasaparyavasāyī / yathā ceti / śmaśānāvatīrṇaṃ putradāhārthamudyoginaṃ janaṃ vipralabdhuṃ gṛdhro divā śavaśarīrabhakṣaṇārthī śīghramevāpasarata yūyamityāha / alaṃ sthitvā śmaśāne 'smingṛdhragomāyusaṅkule / kaṅkālabahale ghore sarvaprāṇibhayaṅkare // bālapriyā līleti / "līlādāḍhagguddhariasa alamahīmaṇḍalassaviaajja / kīsamuṇālaharaṇaṃ vitujhaguru āi aṅgamma // iti pāṭhaḥ / līlādaṃṣṭragroddhṛtasakalamahīmaṇḍalasyaivādya / kasmānmṛṇālābharaṇamapi tava guru bhavatyaṅge // iticchāyā / līlayā daṃṣṭrāgreṇa uddhṛtaṃ sakalamahīmaṇḍalaṃ yena varāharūpiṇā tasyetyanena gurutaravastuvahane anāyāsassūcyate / evakāro virodhadyotakaḥ / mṛṇālābharaṇamapi atiladhumṛṇālarūpamābharaṇamapi / kasmādguru bhavatīti sambandhaḥ / anena bhagavato virahāvasthātiśayo dyotyate / etamarthaṃ darśayati---rukmiṇītyādi / rukmiṇīvipralabdhorukmiṇīvirahī yo vāsudevastasyāśayo rukmiṇyāmabhilāṣaḥ, tasya pratibhedanamāviṣkaraṇaṃ tadabhiprāyamityarthaḥ / prakṛtaraseti / vipralambhaśṛṅgāretyarthaḥ / sahacarasamāgame ityetadvivṛṇoti---sahacarā ityādi / miśraveti / hummi avahatthiare hoṇiraṅkuso ahavivearahiovi / siviṇevi tumammi puṇo bhantiṃ ṇapasumarāmi / iti pāṭhaḥ / bhavāmyapahastitarekho niraṅkuśo 'tha vivekarahito 'pi / svapne 'pi tava punarbhaktiṃ na prasmarāmi // iti chāyā / apahastitarekha iti / atikrāntamaryāda ityarthaḥ / tattannijasvabhāveti / kāmānuvartanādisvabhāvetyarthaḥ / alamityādi / kāvyaprakāśe 'pyudāhṛtā ime ślokoḥ / sup-tiṅ-vacana-sambandhais tathā kāraka-śaktibhiḥ / kṛt-tad dhita-samāsaiś ca dyotyo 'lakṣya-kramaḥ kvacit
Sanskrit only: no published translation is held for this verse.
एतद्विवृणोति---न वाचकत्वमित्यादि । येनेति । वाचकत्वस्य ध्वनिव्यवहारोपयोगित्वेनेत्यर्थः । न तु नेत्यस्य व्यापारो ऽस्तीत्यनेनान्वयः । भावमाह---स्रक्चन्दनादय इत्यादि । ऽयत्रापीऽत्यादेः ऽअवसातव्यऽ मित्यन्तग्रन्थस्य तात्पर्यं विवृणोति---स्रक्चन्दनादिशब्दानामित्यादि । को ऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्वविषयो विशेषः स्यत् । अन्य एवासौ सहृदयसंवेद्य इति चेत् किमिदं सहृदयत्वं नाम? किं रसभावानपेक्षकाव्याश्रितसमयविशेषाभिज्ञत्वम्, उत रसभावादिमयकाव्यस्वरूपपरिज्ञाननैपुण्यम् । पूर्वस्मिन् पक्षे तथाविधसहृदयव्यवस्थापितानां शब्दविशेषाणां चारुत्वनियमो न स्यात् । पुनः समयान्तरेणान्यथापि व्यवस्थापनसम्भवात् । द्वितीयस्मिंस्तु पक्षे रसज्ञतैव सहृदयत्वमिति । तथाविधैः सहृदयैः संवेद्यो रसादिसमर्पणसामर्थ्यमेव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्येव तेषां मुख्यं चारुत्वम् । वाचकत्वाश्रयाणांतु लोचनम् दर्शनात्तदधिवाससुन्दरीभूतमर्थं प्रतपादयितुं सामर्थ्यमस्ति । तथाहि-ऽतटी तारं ताम्यतिऽ इत्यत्र तटशब्दस्य पुण्टशब्दस्य पुंस्त्वनपुंसकत्वे अनादृत्य स्त्रीत्वमेवाश्रितं सहृदयैः ऽस्त्रीति नामापि मधुरंऽ इति कृत्वा । यथा वास्मदुपाध्यायस्य विद्वत्कविसहृदयचक्रवर्तिनो भट्टेन्दुराजस्य--- इन्दीवरद्युति यदा बिभृयान्न लक्ष्म स्युर्विस्मयैकसुहृदो ऽस्य यदा विलासाः । स्यान्नाम पुण्यपरिणामवशात्तथापि किं किं कपोलतलकोमलकान्तिरिन्दुः ॥ अत्र हीन्दीवरलक्ष्मविस्मयसुहृद्विलासनामपरिणामकोमलादयः शब्दाः शृङ्गाराभिव्यञ्जनदृष्टशक्तयो ऽत्र परं सौन्दर्यमावहन्ति । अवश्यं चैतदभ्युपगन्तव्यमित्याह---को ऽन्यथेति । असंवेद्यस्तावदसौ न युक्त इत्याशयेनाह--सहृदयेति । पुनरिति । बालप्रिया तदानीमिति । प्रकृतप्रयोगकाल इत्यर्थः । शृङ्गारातिरिक्तवर्णनस्थल इति यावत् । पुंस्त्वनपुंसकत्वे इति । ऽतटं त्रिष्विऽ त्यनुशासनप्राप्ते ते इत्यर्थः । इन्दीवरेति । पुण्यपरिणामवशादिन्दुः इन्दीवरद्युति लक्ष्य न बिमृयाद्यदा, अस्य विलासाः विस्मयैकसुहृदः स्युः यदा, तथापि कपोलतलकोमलकान्तिः किं किं स्यान्नामेति सम्बन्धः । यदेति यदीत्यर्थे । कपोलेति । सुन्दरीकपोलतल इव कोमलकान्तिरित्यर्थः । केरीकपोलेति पाठे केरीशब्दः स्त्रीविशेषवाची बोध्यः । किं किं स्यान्नामेति । नैव स्यादित्यर्थः । अत्रेति । चन्द्रं विलोक्य मध्यस्थस्य कस्यचिद्रसिकस्य वचन इत्यर्थः । ऽअन्यऽ इत्यादिशङ्काग्रन्थमवतारयति--असंवेद्य इत्यादि । असाविति प्रसाद एवार्थापेक्षायां तेषां विशेषः । अर्थानपेक्षायां त्वनुप्रासादिरेव । एवं रसादीनां व्यञ्जकस्वरूपमभिधाय तेषामेव विरोधिरूपं लक्षयितुमिदमुपक्रम्यते--- प्रबन्धे मुक्तके वापि रसादीन् बन्धुम् इच्छता । यत्नः कार्यः सुमतिना परिहारे विरोधिनाम्
etadvivṛṇoti---na vācakatvamityādi / yeneti / vācakatvasya dhvanivyavahāropayogitvenetyarthaḥ / na tu netyasya vyāpāro 'stītyanenānvayaḥ / bhāvamāha---srakcandanādaya ityādi / 'yatrāpī'tyādeḥ 'avasātavya' mityantagranthasya tātparyaṃ vivṛṇoti---srakcandanādiśabdānāmityādi / ko 'nyathā tulye vācakatve śabdānāṃ cārutvaviṣayo viśeṣaḥ syat / anya evāsau sahṛdayasaṃvedya iti cet kimidaṃ sahṛdayatvaṃ nāma? kiṃ rasabhāvānapekṣakāvyāśritasamayaviśeṣābhijñatvam, uta rasabhāvādimayakāvyasvarūpaparijñānanaipuṇyam / pūrvasmin pakṣe tathāvidhasahṛdayavyavasthāpitānāṃ śabdaviśeṣāṇāṃ cārutvaniyamo na syāt / punaḥ samayāntareṇānyathāpi vyavasthāpanasambhavāt / dvitīyasmiṃstu pakṣe rasajñataiva sahṛdayatvamiti / tathāvidhaiḥ sahṛdayaiḥ saṃvedyo rasādisamarpaṇasāmarthyameva naisargikaṃ śabdānāṃ viśeṣa iti vyañjakatvāśrayyeva teṣāṃ mukhyaṃ cārutvam / vācakatvāśrayāṇāṃtu locanam darśanāttadadhivāsasundarībhūtamarthaṃ pratapādayituṃ sāmarthyamasti / tathāhi-'taṭī tāraṃ tāmyati' ityatra taṭaśabdasya puṇṭaśabdasya puṃstvanapuṃsakatve anādṛtya strītvamevāśritaṃ sahṛdayaiḥ 'strīti nāmāpi madhuraṃ' iti kṛtvā / yathā vāsmadupādhyāyasya vidvatkavisahṛdayacakravartino bhaṭṭendurājasya--- indīvaradyuti yadā bibhṛyānna lakṣma syurvismayaikasuhṛdo 'sya yadā vilāsāḥ / syānnāma puṇyapariṇāmavaśāttathāpi kiṃ kiṃ kapolatalakomalakāntirinduḥ // atra hīndīvaralakṣmavismayasuhṛdvilāsanāmapariṇāmakomalādayaḥ śabdāḥ śṛṅgārābhivyañjanadṛṣṭaśaktayo 'tra paraṃ saundaryamāvahanti / avaśyaṃ caitadabhyupagantavyamityāha---ko 'nyatheti / asaṃvedyastāvadasau na yukta ityāśayenāha--sahṛdayeti / punariti / bālapriyā tadānīmiti / prakṛtaprayogakāla ityarthaḥ / śṛṅgārātiriktavarṇanasthala iti yāvat / puṃstvanapuṃsakatve iti / 'taṭaṃ triṣvi' tyanuśāsanaprāpte te ityarthaḥ / indīvareti / puṇyapariṇāmavaśādinduḥ indīvaradyuti lakṣya na bimṛyādyadā, asya vilāsāḥ vismayaikasuhṛdaḥ syuḥ yadā, tathāpi kapolatalakomalakāntiḥ kiṃ kiṃ syānnāmeti sambandhaḥ / yadeti yadītyarthe / kapoleti / sundarīkapolatala iva komalakāntirityarthaḥ / kerīkapoleti pāṭhe kerīśabdaḥ strīviśeṣavācī bodhyaḥ / kiṃ kiṃ syānnāmeti / naiva syādityarthaḥ / atreti / candraṃ vilokya madhyasthasya kasyacidrasikasya vacana ityarthaḥ / 'anya' ityādiśaṅkāgranthamavatārayati--asaṃvedya ityādi / asāviti prasāda evārthāpekṣāyāṃ teṣāṃ viśeṣaḥ / arthānapekṣāyāṃ tvanuprāsādireva / evaṃ rasādīnāṃ vyañjakasvarūpamabhidhāya teṣāmeva virodhirūpaṃ lakṣayitumidamupakramyate--- prabandhe muktake vāpi rasādīn bandhum icchatā / yatnaḥ kāryaḥ sumatinā parihāre virodhinām
Sanskrit only: no published translation is held for this verse.
प्रबन्धे मुक्तके वापि रसादीन्बन्द्धुमिच्छता । यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥ १७ ॥ प्रबन्धे मुक्तके वापि रसभावनिबन्धनं प्रत्यादृतमनाः कविर्विरोधिपहिहारे परं यत्नमादधीत । अन्यथा त्वस्य रसमयः श्लोक एको ऽपि सम्यङ्न समप्द्यते । लोचनम् अनियन्त्रीतपुरुषेच्छायत्तो हि समयः कथं नियतः स्यात् । मुख्यं चारुत्वमिति । विशेष इति पूर्वेण सम्बन्धः । अर्थापेक्षायामिति । वाच्यापेक्षायामित्यर्थः । अनुप्रासादिरेवेति । शब्दान्तरेण सह या रचना तदपेक्षो ऽसौ विशेष इत्यर्थः । आदिग्रहणाच्छब्दगुणालङ्काराणां सङ्ग्रहः । अत एव रचनया प्रसादेन चारुत्वेन चोपबृंहिता एव शब्दाः काव्ये योज्या इति तात्पर्यम् ॥ १५॥ ,१६ ॥ रसादीनां यद्व्यञ्जकं वर्णपदादिप्रबन्धान्तं तस्य स्वरूपमभिधायेति सम्बन्धः । उपक्रम्यत इति । विरोधिनामपि लक्षणकरणे प्रयोजनमुच्यते शक्यहानत्वं नाम अनया कारिकया । लक्षणं तु विरोधिरससम्बन्धीत्यादिना भविष्यतीत्यर्थः ॥ १७ ॥ ननु ऽविभावभावानुभावसञ्चार्यौचित्यचारुणःऽ इति यदुक्तं तत एव व्यतिरेकमुखेनैतदप्यवगंस्यते । मैवम् ;व्यतिरेकेण हि तदभावमात्रं प्रतीयते न तु तद्विरुद्धम् । तदभावमात्रं च न तथा दूषकं यथा तद्विरुद्धम् । पथ्यानुपयोगो हि न तथा व्याधिं बालप्रिया शब्दगतो विशेष इत्यर्थः । अनियन्त्रितेत्यादिना ऽपुनऽरित्यादिग्रन्थस्य भावार्थ उक्तः । अनुप्रासपदार्थं व्याचष्टे--शब्दान्तरेणेत्यादि । फलितमाह---अत एव रचनयेत्यादि । उपबृंहिताः विशिष्टाः ॥ १५॥ ,१६ ॥ भावमाह--विरोधिनामपीत्यादि । शक्यहानत्वं नाम प्रयोजनमनया कारकया उच्यत इति सम्बन्धः । विरोधिनां लक्षणे ज्ञाते तेषां परिहारः शक्य इति तदेव प्रयोजनमित्यर्थः ॥ १७ ॥ एतदपीति । विरोधिनां परिहरणमपीत्यर्थः । तदभावमात्रमिति । विभावाद्यौचित्यशालिनः कथाशरीरस्य विधिरित्यादिना तदौचित्यविरहिणो विधिर्न कार्य इत्याद्यथमात्रमित्यर्थः । यत्नत इतीति । यत्नत इत्यादिनेत्यर्थः । वृत्तौ ऽशान्ताऽदीति कानि पुनस्तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानीत्युच्यते-- विरोधि-रस-सम्बन्धि-विभावादि-परिग्रहः । विस्तरेणान्वितस्यापि वस्तुनो ऽन्यस्य वर्णनम्
prabandhe muktake vāpi rasādīnbanddhumicchatā / yatnaḥ kāryaḥ sumatinā parihāre virodhinām // 17 // prabandhe muktake vāpi rasabhāvanibandhanaṃ pratyādṛtamanāḥ kavirvirodhipahihāre paraṃ yatnamādadhīta / anyathā tvasya rasamayaḥ śloka eko 'pi samyaṅna samapdyate / locanam aniyantrītapuruṣecchāyatto hi samayaḥ kathaṃ niyataḥ syāt / mukhyaṃ cārutvamiti / viśeṣa iti pūrveṇa sambandhaḥ / arthāpekṣāyāmiti / vācyāpekṣāyāmityarthaḥ / anuprāsādireveti / śabdāntareṇa saha yā racanā tadapekṣo 'sau viśeṣa ityarthaḥ / ādigrahaṇācchabdaguṇālaṅkārāṇāṃ saṅgrahaḥ / ata eva racanayā prasādena cārutvena copabṛṃhitā eva śabdāḥ kāvye yojyā iti tātparyam // 15// ,16 // rasādīnāṃ yadvyañjakaṃ varṇapadādiprabandhāntaṃ tasya svarūpamabhidhāyeti sambandhaḥ / upakramyata iti / virodhināmapi lakṣaṇakaraṇe prayojanamucyate śakyahānatvaṃ nāma anayā kārikayā / lakṣaṇaṃ tu virodhirasasambandhītyādinā bhaviṣyatītyarthaḥ // 17 // nanu 'vibhāvabhāvānubhāvasañcāryaucityacāruṇaḥ' iti yaduktaṃ tata eva vyatirekamukhenaitadapyavagaṃsyate / maivam ;vyatirekeṇa hi tadabhāvamātraṃ pratīyate na tu tadviruddham / tadabhāvamātraṃ ca na tathā dūṣakaṃ yathā tadviruddham / pathyānupayogo hi na tathā vyādhiṃ bālapriyā śabdagato viśeṣa ityarthaḥ / aniyantritetyādinā 'puna'rityādigranthasya bhāvārtha uktaḥ / anuprāsapadārthaṃ vyācaṣṭe--śabdāntareṇetyādi / phalitamāha---ata eva racanayetyādi / upabṛṃhitāḥ viśiṣṭāḥ // 15// ,16 // bhāvamāha--virodhināmapītyādi / śakyahānatvaṃ nāma prayojanamanayā kārakayā ucyata iti sambandhaḥ / virodhināṃ lakṣaṇe jñāte teṣāṃ parihāraḥ śakya iti tadeva prayojanamityarthaḥ // 17 // etadapīti / virodhināṃ pariharaṇamapītyarthaḥ / tadabhāvamātramiti / vibhāvādyaucityaśālinaḥ kathāśarīrasya vidhirityādinā tadaucityavirahiṇo vidhirna kārya ityādyathamātramityarthaḥ / yatnata itīti / yatnata ityādinetyarthaḥ / vṛttau 'śāntā'dīti kāni punastāni virodhīni yāni yatnataḥ kaveḥ parihartavyānītyucyate-- virodhi-rasa-sambandhi-vibhāvādi-parigrahaḥ / vistareṇānvitasyāpi vastuno 'nyasya varṇanam
Sanskrit only: no published translation is held for this verse.
अकाण्ड एव विच्छित्तिर् अकाण्डे च प्रकाशनम् । परिपोषं गतस्यापि पौनःपुन्येन दीपनम् । रसस्य स्याद् विरोधाय वृत्त्य्-अनौचित्यम् एव च
akāṇḍa eva vicchittir akāṇḍe ca prakāśanam / paripoṣaṃ gatasyāpi paunaḥpunyena dīpanam / rasasya syād virodhāya vṛtty-anaucityam eva ca
Sanskrit only: no published translation is held for this verse.
लोचने व्याचष्टे---यत इत्यादि । वृत्तौ प्राधान्ये सति यदिबन्धनं तस्मिन्निति सम्बन्धः । युक्तमिति यत्नो ऽस्माभिरारब्धो न ध्वनिप्रतिपादनमात्राभिनिवेशेन । पुनश्चायमन्यो रसभङ्गहेतुरवधारणीयो यत्परिपोषं गतस्यापि रसस्य पौनः--पुन्येन दीपनम् । उभयुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमाणः परिम्लानकुसुमकल्पः कल्पते । तथा वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव । यथा नायकं प्रति नायिकायाः कस्याश्चिदुचितां भङ्गिमन्तरेण स्वयं सम्भोगाभिलाषकथने । यदि वा वृत्तीनां भरतप्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तरप्रसिद्धानामुपनागरिकाद्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभङ्गहेतुः । एवमेषां रसविरोधिनामन्येषां चानया दिशा स्वयमुत्प्रेक्षितानां परिहारे सत्कविभिरवहितैर्भवितव्यम् । परिकरश्लोकाश्चात्र--- मुख्या व्यापारविषयाः सुकवीनां रसादयः । तेषां निबन्धने भाव्य तैः सदैवाप्रमादिभिः ॥ नीरसस्तु प्रबन्धो यः सो ऽपशब्दो महान् कवेः । स तेनाकविरेव स्यादन्येनास्मृतलक्षणः ॥ लोचनम् सति यदङ्गाङ्गिभावरहितानामविचारितगुणप्रधानभावानां रसभावानां निबन्धनं तन्निमित्तानि स्खलितानि सर्वे दोषा इत्यर्थः । न ध्वनिप्रतिपादनमात्रेति । व्यङ्ग्यो ऽर्थो भवतु मा वा भूत् कस्तत्राभिनिवेशः? काकदन्तपरीक्षाप्रायमेव तत्स्यादिति भावः । वृत्त्यनौचित्यमेव चेतिबहुदा व्याचष्टे तदपीत्यनेन चशब्दं कारिकागतं व्याचष्टे । रसभङ्गहेतुरेव इत्यनेनैवकारस्य कारिकागतस्य भिन्नक्रमत्वमुक्तम् । रसस्य विरोधायैवेत्यर्थः । नायकं प्रतीति । नायकस्य हि धीरोदात्तादिभेदभिन्नस्य सर्वथा वीररसानुवेधेन भवितव्यमिति तं प्रति कातरपुरुषोचितमधैर्ययोजनं दुष्टमेव । तेषामिति रसादीनाम् । तैरिति सुकविभिः । सो ऽपशब्द इति दुर्यश इत्यर्थः । ननु कालिदासः बालप्रिया चकारौ वाक्यालङ्कारे इत्याशयेन व्याचष्टे---इतिवृत्तेत्यादि । बहुधा व्याचष्ट इति । वृत्तेर्व्यवहारस्येत्यादिना रसभङ्गहेतुरित्यन्तग्रन्थेन त्रेधा व्याचष्ट इत्यर्थः । तदपीत्यनेनेति । तत्पदोत्तरापिशब्देनेत्यर्थः । नायकं प्रति नायकया स्वयं सम्भोगाभिलाषस्य कथने निबद्धे नायकस्याधैर्ययोजनमापतति, तच्च दुष्टमिति भावं विवृणोति---नायकस्येत्यादि । भावितव्यमिति । सर्वेषां वीरशब्देन व्यवहारादिति भावः । कातरपुरुषेति । अधीरपुरुषेत्यर्थः । वृत्तौ ऽउचितां भङ्गिमन्तरेणेऽ पूर्वे विशृङ्खलगिरः कवयः प्राप्तकीर्तयः । तान्समाश्रित्य न त्याज्या नीतिरेषा मनीषिणा ॥ वाल्मीकिव्यासमुख्याश्च ये प्रख्याताः कवीश्वराः । तदभिप्रायबाह्यो ऽयं नास्माभिर्दर्शितो नयः ॥ इति । विवक्षिते रसे लब्ध-प्रतिष्ठे तु विरोधिनाम् । बाध्यानाम् अङ्ग-भावं वा प्राप्तानाम् उक्तिर् अच्छला
locane vyācaṣṭe---yata ityādi / vṛttau prādhānye sati yadibandhanaṃ tasminniti sambandhaḥ / yuktamiti yatno 'smābhirārabdho na dhvanipratipādanamātrābhiniveśena / punaścāyamanyo rasabhaṅgaheturavadhāraṇīyo yatparipoṣaṃ gatasyāpi rasasya paunaḥ--punyena dīpanam / ubhayukto hi rasaḥ svasāmagrīlabdhaparipoṣaḥ punaḥ punaḥ parāmṛśyamāṇaḥ parimlānakusumakalpaḥ kalpate / tathā vṛttervyavahārasya yadanaucityaṃ tadapi rasabhaṅgahetureva / yathā nāyakaṃ prati nāyikāyāḥ kasyāściducitāṃ bhaṅgimantareṇa svayaṃ sambhogābhilāṣakathane / yadi vā vṛttīnāṃ bharataprasiddhānāṃ kaiśikyādīnāṃ kāvyālaṅkārāntaraprasiddhānāmupanāgarikādyānāṃ vā yadanaucityamaviṣaye nibandhanaṃ tadapi rasabhaṅgahetuḥ / evameṣāṃ rasavirodhināmanyeṣāṃ cānayā diśā svayamutprekṣitānāṃ parihāre satkavibhiravahitairbhavitavyam / parikaraślokāścātra--- mukhyā vyāpāraviṣayāḥ sukavīnāṃ rasādayaḥ / teṣāṃ nibandhane bhāvya taiḥ sadaivāpramādibhiḥ // nīrasastu prabandho yaḥ so 'paśabdo mahān kaveḥ / sa tenākavireva syādanyenāsmṛtalakṣaṇaḥ // locanam sati yadaṅgāṅgibhāvarahitānāmavicāritaguṇapradhānabhāvānāṃ rasabhāvānāṃ nibandhanaṃ tannimittāni skhalitāni sarve doṣā ityarthaḥ / na dhvanipratipādanamātreti / vyaṅgyo 'rtho bhavatu mā vā bhūt kastatrābhiniveśaḥ? kākadantaparīkṣāprāyameva tatsyāditi bhāvaḥ / vṛttyanaucityameva cetibahudā vyācaṣṭe tadapītyanena caśabdaṃ kārikāgataṃ vyācaṣṭe / rasabhaṅgahetureva ityanenaivakārasya kārikāgatasya bhinnakramatvamuktam / rasasya virodhāyaivetyarthaḥ / nāyakaṃ pratīti / nāyakasya hi dhīrodāttādibhedabhinnasya sarvathā vīrarasānuvedhena bhavitavyamiti taṃ prati kātarapuruṣocitamadhairyayojanaṃ duṣṭameva / teṣāmiti rasādīnām / tairiti sukavibhiḥ / so 'paśabda iti duryaśa ityarthaḥ / nanu kālidāsaḥ bālapriyā cakārau vākyālaṅkāre ityāśayena vyācaṣṭe---itivṛttetyādi / bahudhā vyācaṣṭa iti / vṛttervyavahārasyetyādinā rasabhaṅgaheturityantagranthena tredhā vyācaṣṭa ityarthaḥ / tadapītyaneneti / tatpadottarāpiśabdenetyarthaḥ / nāyakaṃ prati nāyakayā svayaṃ sambhogābhilāṣasya kathane nibaddhe nāyakasyādhairyayojanamāpatati, tacca duṣṭamiti bhāvaṃ vivṛṇoti---nāyakasyetyādi / bhāvitavyamiti / sarveṣāṃ vīraśabdena vyavahārāditi bhāvaḥ / kātarapuruṣeti / adhīrapuruṣetyarthaḥ / vṛttau 'ucitāṃ bhaṅgimantareṇe' pūrve viśṛṅkhalagiraḥ kavayaḥ prāptakīrtayaḥ / tānsamāśritya na tyājyā nītireṣā manīṣiṇā // vālmīkivyāsamukhyāśca ye prakhyātāḥ kavīśvarāḥ / tadabhiprāyabāhyo 'yaṃ nāsmābhirdarśito nayaḥ // iti / vivakṣite rase labdha-pratiṣṭhe tu virodhinām / bādhyānām aṅga-bhāvaṃ vā prāptānām uktir acchalā
Sanskrit only: no published translation is held for this verse.
स्मर्यमाण इति । त्रिपुरयुवतिभिरिति शेषः । विध्वस्ततयेति । नष्टतयेत्यर्थः शोकविभावतामित्यस्यानन्तरं प्रकृष्टामिति च क्वचित् पाठः । प्रतिपद्यत इति । तथाचात्र विशिष्टवैशिष्ट्यन्यायेन विप्रलम्भोपस्कृतः करुणः त्रिपुररिपुप्रभावातिशयं अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शि नीवीविस्रंसनः करः ॥ इत्यादौ । तदत्र त्रिपुरयुवतीनां शाम्भवः शराग्निरार्द्रापराधः कामी यथा व्यवहरति सम तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येव निर्विरोधत्वम् । तस्माद्यथा यथा निरूप्यते तता तथात्र दोषाभावः । इत्यं च---- क्रामन्त्यः क्षयकोमलाङ्गुलिवलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव पतद्बाष्पाम्बुधौताननाः । भीता भर्तृकरावलम्बितकरास्त्वद्वैरिनार्थाधुना दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥ इत्येवमादीनां सर्वेषामेव निर्विरोधत्वमवगन्तव्यम् । एवं तावद्रसादीनां विरोधिरसादिभिः समावेशासमावेशयोर्विषयविभागो दर्शितः । इदानीं तेषामेकप्रबन्धविनिवेशने न्याय्यो यः क्रमस्तं प्रतिपादयितुमुच्यते-- लोचनम् ग्राम्योक्तिरहितयेत्यर्थः । अत्रैव दृष्टान्तमाह---यथा अयमिति । अत्र भूरिश्रवसः समरभुवि निपतितं बाहुं दृष्ट्वा तत्कान्तानामेतदनुशोचनम् । रशनां मेखलां सम्भोगा वसरेषूर्ध्वं कर्षतीति रसनोत्कर्षी । अमुना विरोधोद्धरणप्रकारेण बहुतरं लक्ष्यमुपपादितं भवतीत्यभिप्रायेणाह--इत्थं चेति । होमाग्निधुमकृतं बाष्पाम्बु यदि वा बन्धुगृहत्यागदुःखोद्भवम् । भयं कुमारीजनोचितः साध्वसः । एवमियताङ्गभावं प्राप्तानामुक्तिरच्छलेति कारिकाभागोपयोगि निरूपितमित्युपसंहरति---एवमिति । तावद्ग्रहणेन वक्तव्यान्तरसप्यस्तीति सूचयति ॥२०॥ तदेवावतारयति---इदानीमित्यादिना । तेषां रसानां क्रम इति योजना । बालप्रिया तदालम्बितं इतिभावं वा उपस्करोतीति भावः । तदाहेति । उक्ताभिप्रायेणाहेत्यर्थः । अग्राम्यतयेत्यस्यैव विवरणम्--विभावेत्यादि । अत्र भूरिश्रवस इत्यादि । श्लोके ऽस्मिन्नायकगतशृङ्गारो नायिकागतकरुणस्याङ्गमित्यादिकं काव्यप्रदीपोद्योतादौ द्रष्टव्यम् । अमुनेति । उक्तेनेत्यर्थः । विवाहकाले कथं बाष्पोद्गम इत्यत आह--होमेति । अयमपि श्लोकः काव्यप्रकाशे उदाहृतः । क्षिप्त इत्यादाविवात्रापि सर्वं बोध्यम् ॥२०॥ इदानीं तेषामित्यत्र तेषामितिपदं व्याचष्टे---रसानामिति । क्रम इत्यादि । प्रसिद्धे ऽपि प्रबन्धानां नाना-रस-निबन्धने । एको रसो ऽङ्गीकर्तव्यस् तेषाम् उत्कर्षम् इच्छता
smaryamāṇa iti / tripurayuvatibhiriti śeṣaḥ / vidhvastatayeti / naṣṭatayetyarthaḥ śokavibhāvatāmityasyānantaraṃ prakṛṣṭāmiti ca kvacit pāṭhaḥ / pratipadyata iti / tathācātra viśiṣṭavaiśiṣṭyanyāyena vipralambhopaskṛtaḥ karuṇaḥ tripuraripuprabhāvātiśayaṃ ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ / nābhyūrujaghanasparśi nīvīvisraṃsanaḥ karaḥ // ityādau / tadatra tripurayuvatīnāṃ śāmbhavaḥ śarāgnirārdrāparādhaḥ kāmī yathā vyavaharati sama tathā vyavahṛtavānityanenāpi prakāreṇāstyeva nirvirodhatvam / tasmādyathā yathā nirūpyate tatā tathātra doṣābhāvaḥ / ityaṃ ca---- krāmantyaḥ kṣayakomalāṅgulivaladraktaiḥ sadarbhāḥ sthalīḥ pādaiḥ pātitayāvakairiva patadbāṣpāmbudhautānanāḥ / bhītā bhartṛkarāvalambitakarāstvadvairinārthādhunā dāvāgniṃ parito bhramanti punarapyudyadvivāhā iva // ityevamādīnāṃ sarveṣāmeva nirvirodhatvamavagantavyam / evaṃ tāvadrasādīnāṃ virodhirasādibhiḥ samāveśāsamāveśayorviṣayavibhāgo darśitaḥ / idānīṃ teṣāmekaprabandhaviniveśane nyāyyo yaḥ kramastaṃ pratipādayitumucyate-- locanam grāmyoktirahitayetyarthaḥ / atraiva dṛṣṭāntamāha---yathā ayamiti / atra bhūriśravasaḥ samarabhuvi nipatitaṃ bāhuṃ dṛṣṭvā tatkāntānāmetadanuśocanam / raśanāṃ mekhalāṃ sambhogā vasareṣūrdhvaṃ karṣatīti rasanotkarṣī / amunā virodhoddharaṇaprakāreṇa bahutaraṃ lakṣyamupapāditaṃ bhavatītyabhiprāyeṇāha--itthaṃ ceti / homāgnidhumakṛtaṃ bāṣpāmbu yadi vā bandhugṛhatyāgaduḥkhodbhavam / bhayaṃ kumārījanocitaḥ sādhvasaḥ / evamiyatāṅgabhāvaṃ prāptānāmuktiracchaleti kārikābhāgopayogi nirūpitamityupasaṃharati---evamiti / tāvadgrahaṇena vaktavyāntarasapyastīti sūcayati //20// tadevāvatārayati---idānīmityādinā / teṣāṃ rasānāṃ krama iti yojanā / bālapriyā tadālambitaṃ itibhāvaṃ vā upaskarotīti bhāvaḥ / tadāheti / uktābhiprāyeṇāhetyarthaḥ / agrāmyatayetyasyaiva vivaraṇam--vibhāvetyādi / atra bhūriśravasa ityādi / śloke 'sminnāyakagataśṛṅgāro nāyikāgatakaruṇasyāṅgamityādikaṃ kāvyapradīpodyotādau draṣṭavyam / amuneti / uktenetyarthaḥ / vivāhakāle kathaṃ bāṣpodgama ityata āha--hometi / ayamapi ślokaḥ kāvyaprakāśe udāhṛtaḥ / kṣipta ityādāvivātrāpi sarvaṃ bodhyam //20// idānīṃ teṣāmityatra teṣāmitipadaṃ vyācaṣṭe---rasānāmiti / krama ityādi / prasiddhe 'pi prabandhānāṃ nānā-rasa-nibandhane / eko raso 'ṅgīkartavyas teṣām utkarṣam icchatā
Sanskrit only: no published translation is held for this verse.
प्रसिद्धे ऽपि प्रबन्धानां नानारसनिबन्धने । एको रसो ऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ॥ २१ ॥ प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गिभावेन बहवो रसा उपनिबध्यन्त इत्यत्र प्रसिद्धौ सत्यामपि यः प्रबन्धानां छायातिशययोगमिच्छति तेन तेषां रसानामन्यतमः कश्चिद्विवक्षितो रसो ऽङ्गित्वेन विनिवेशयितव्य इत्ययं युक्ततरो मार्गः । ननु रसान्तरेषु बहुषु प्राप्तपरिपोषेषु सत्सु कथमेकस्याङ्गिता न विरुध्यत इत्याशङ्क्येदमुच्यते-- रसान्तर-समावेशः प्रस्तुतस्य रसस्य यः । नोपहन्त्य् अङ्गितां सो ऽस्य स्थायित्वेनावभासिनः
prasiddhe 'pi prabandhānāṃ nānārasanibandhane / eko raso 'ṅgīkartavyasteṣāmutkarṣamicchatā // 21 // prabandheṣu mahākāvyādiṣu nāṭakādiṣu vā viprakīrṇatayāṅgāṅgibhāvena bahavo rasā upanibadhyanta ityatra prasiddhau satyāmapi yaḥ prabandhānāṃ chāyātiśayayogamicchati tena teṣāṃ rasānāmanyatamaḥ kaścidvivakṣito raso 'ṅgitvena viniveśayitavya ityayaṃ yuktataro mārgaḥ / nanu rasāntareṣu bahuṣu prāptaparipoṣeṣu satsu kathamekasyāṅgitā na virudhyata ityāśaṅkyedamucyate-- rasāntara-samāveśaḥ prastutasya rasasya yaḥ / nopahanty aṅgitāṃ so 'sya sthāyitvenāvabhāsinaḥ
Sanskrit only: no published translation is held for this verse.
रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः । नोपहन्त्यङ्गितां सो ऽस्य स्थायित्वेनावभासिनः ॥ २२॥ प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनरनुसन्धीयमानत्वेन स्थायी यो रसस्तस्य सकलबन्धव्यापिनो रसान्तरैरन्तरालवर्तिभिः समावेशो यः लोचनम् प्रसिद्धे ऽपिति । भरतमुनिप्रभृतिभिर्निरूपिते ऽपीत्यर्थः । तेषामिति प्रबन्धानाम् । महाकाव्यादिष्वित्यादिशब्दः प्रकारे । अनभिनेयान्भेदानाह, द्वितीयस्त्वभिनेयान् । विप्रकीर्णतयेति । नायकप्रतिनायकपताकाप्रकरीनायकादिनिष्ठतयेत्यर्थः । अङ्गाङ्गिभावेनेत्येकनायकनिष्ठत्वेन । युक्ततर इति । यद्यपि रमवकारादौ पर्यायबन्धादौ च नैकस्याङ्गित्वं तथापि नायुक्तता तस्याप्येवंविधो यः प्रबन्धः तद्यथा नाटकं महाकाव्यं वा तदुत्कृष्टतरमिति तरशब्दस्यार्थः ॥ २१ ॥ नन्विति । स्वयं लब्धपरिपोषत्वे कथमङ्गत्वम्? अलब्धपरिपोषत्वे वा कथं रसत्वमिति रसत्वमङ्गत्वं चान्योन्यविरुद्धं तेषां चाङ्गत्वायोगे कथमेकस्याङ्गित्वमुक्तमिति भावः । रसान्तरेति । प्रस्तुतस्य समस्तेतिवृत्तव्यापिनस्तत एव विततव्याप्तिकत्वेनाङ्गिभावोचितस्य बालप्रिया क्रम इत्येनेन तेषामित्यस्य सम्बन्ध इत्यर्थः । ग्रसिद्धे ऽपीत्येतद्विवृणोति--भरतेत्यादि । वृत्तिग्रन्धं व्याचष्टे--महेत्यादि । ऽयुक्ततरऽ इत्यत्र तरबर्थं दर्शयति---यद्यपित्यादि । तथापि च तस्यापि नायुक्तता इति सम्बन्धः । तस्यापीति । समबकारादेरपीत्यर्थः । एवंविध इति । नानारसको ऽङ्गिभूतैकरसकश्चेत्यर्थः ॥ २१ ॥ ऽनन्विऽत्यादिशङ्काग्रन्थस्य भावमाह---स्वयमित्यादि । लब्धपरिपीषत्वे इति । रसान्तराणामिति शेषः । नन्वङ्गत्वं मास्त्वित्यत्राह--तेषां चेत्यादि । वृत्तौ स नाङ्गितामुपहन्ति । एतदेवोपपादयितुमुच्यते-- कार्यम् एकं यथा व्यापि प्रबन्धस्य विधीयते । तथा रसस्यापि विधौ विरोधो नैव विद्यते
rasāntarasamāveśaḥ prastutasya rasasya yaḥ / nopahantyaṅgitāṃ so 'sya sthāyitvenāvabhāsinaḥ // 22// prabandheṣu prathamataraṃ prastutaḥ san punaḥ punaranusandhīyamānatvena sthāyī yo rasastasya sakalabandhavyāpino rasāntarairantarālavartibhiḥ samāveśo yaḥ locanam prasiddhe 'piti / bharatamuniprabhṛtibhirnirūpite 'pītyarthaḥ / teṣāmiti prabandhānām / mahākāvyādiṣvityādiśabdaḥ prakāre / anabhineyānbhedānāha, dvitīyastvabhineyān / viprakīrṇatayeti / nāyakapratināyakapatākāprakarīnāyakādiniṣṭhatayetyarthaḥ / aṅgāṅgibhāvenetyekanāyakaniṣṭhatvena / yuktatara iti / yadyapi ramavakārādau paryāyabandhādau ca naikasyāṅgitvaṃ tathāpi nāyuktatā tasyāpyevaṃvidho yaḥ prabandhaḥ tadyathā nāṭakaṃ mahākāvyaṃ vā tadutkṛṣṭataramiti taraśabdasyārthaḥ // 21 // nanviti / svayaṃ labdhaparipoṣatve kathamaṅgatvam? alabdhaparipoṣatve vā kathaṃ rasatvamiti rasatvamaṅgatvaṃ cānyonyaviruddhaṃ teṣāṃ cāṅgatvāyoge kathamekasyāṅgitvamuktamiti bhāvaḥ / rasāntareti / prastutasya samastetivṛttavyāpinastata eva vitatavyāptikatvenāṅgibhāvocitasya bālapriyā krama ityenena teṣāmityasya sambandha ityarthaḥ / grasiddhe 'pītyetadvivṛṇoti--bharatetyādi / vṛttigrandhaṃ vyācaṣṭe--mahetyādi / 'yuktatara' ityatra tarabarthaṃ darśayati---yadyapityādi / tathāpi ca tasyāpi nāyuktatā iti sambandhaḥ / tasyāpīti / samabakārāderapītyarthaḥ / evaṃvidha iti / nānārasako 'ṅgibhūtaikarasakaścetyarthaḥ // 21 // 'nanvi'tyādiśaṅkāgranthasya bhāvamāha---svayamityādi / labdhaparipīṣatve iti / rasāntarāṇāmiti śeṣaḥ / nanvaṅgatvaṃ māstvityatrāha--teṣāṃ cetyādi / vṛttau sa nāṅgitāmupahanti / etadevopapādayitumucyate-- kāryam ekaṃ yathā vyāpi prabandhasya vidhīyate / tathā rasasyāpi vidhau virodho naiva vidyate
Sanskrit only: no published translation is held for this verse.
शृङ्गाराद्भुतयोरिति । यथा रत्नावल्यामैन्द्रजालिकदर्शने । शृङ्गारबीभत्सयोरिति । ययोहि परस्परोन्मूलनात्मकतयैवोद्भवस्तत्र को ऽङ्गाङ्गिभावः आलम्बननिमग्नरूपतया च रतिरुत्तिष्ठति ततः पलायमानरूपतया जुगुप्सेति समानाश्रयत्वेन तयोरन्योन्यसंस्कारोन्मूलनत्वम् । भयोत्साहावप्येवमेव विरुद्धौ वाच्यौ । शान्तस्यापि तत्त्वज्ञानसमुत्थितसमस्तसंसारविषयनिर्वेदप्राणत्वेन सर्वतो निरीहस्वभावस्य विषयासक्तिजीविताभ्यां रतिक्रोधाभ्यां विरोध एव ॥ २३ ॥ बालप्रिया स्मधिकरसोत्पादनेनेति च पाठः । शृङ्गाररसनाया आधिक्योत्पादनेनेत्यर्थः । तथात्वं पुरुषार्थत्वम् । तेन शृङ्गारेण । उक्तमिति । मुनिनेति शेषः । विशेषमाह--केवलमिति । असम्भाव्येत्यादि । वीरस्य ह्यसम्भाव्यवस्तुलाभेन विस्मयो भवति । उक्त इति । अविरोध इति शेषः । अत्रैकालम्बनकत्वेनाविरोधो बोध्यः । रौद्रकरुणयोर्भिन्नाश्रयकत्वस्यैव सम्भावत् । ऽशृङ्गाराद्भुतयोरपीऽति अविरोध इति शेषः । बाध्यबाधकभावमुक्तं विवृणोति--ययोर्हीत्यादि । ययोरिति । शृङ्गारबीभत्साद्योरित्यर्थः । तत्र तयोः । उक्तार्थे हेतु दर्शयति--आलम्बनेत्यादि । उत्तिष्ठति प्रादुर्भवति । तत इति । आलम्बनादित्यर्थः । जुगुप्सेति । उत्तिष्ठतीत्यनुषङ्गः । इतीति हतौ । समनाश्रयत्वेनेति । एकालम्बनकत्वेनैकाधिकरणकत्वेन चेत्यर्थः । तयोरिति । रतिजुगुप्सयोरित्यर्थः । अन्योन्येति । अन्योन्यस्य यः संस्कारः, तदुन्मूलनत्वं तद्विनाशकारित्वमित्यर्थः । एवमेवेति । एकाश्रयत्वेनेत्यर्थः ॥ २३ ॥ अविरोधी विरोधी वा रसो ऽङ्गिनि रसान्तरे । परिपोषं न नेतव्यस् तथा स्याद् अविरोधिता
śṛṅgārādbhutayoriti / yathā ratnāvalyāmaindrajālikadarśane / śṛṅgārabībhatsayoriti / yayohi parasparonmūlanātmakatayaivodbhavastatra ko 'ṅgāṅgibhāvaḥ ālambananimagnarūpatayā ca ratiruttiṣṭhati tataḥ palāyamānarūpatayā jugupseti samānāśrayatvena tayoranyonyasaṃskāronmūlanatvam / bhayotsāhāvapyevameva viruddhau vācyau / śāntasyāpi tattvajñānasamutthitasamastasaṃsāraviṣayanirvedaprāṇatvena sarvato nirīhasvabhāvasya viṣayāsaktijīvitābhyāṃ ratikrodhābhyāṃ virodha eva // 23 // bālapriyā smadhikarasotpādaneneti ca pāṭhaḥ / śṛṅgārarasanāyā ādhikyotpādanenetyarthaḥ / tathātvaṃ puruṣārthatvam / tena śṛṅgāreṇa / uktamiti / munineti śeṣaḥ / viśeṣamāha--kevalamiti / asambhāvyetyādi / vīrasya hyasambhāvyavastulābhena vismayo bhavati / ukta iti / avirodha iti śeṣaḥ / atraikālambanakatvenāvirodho bodhyaḥ / raudrakaruṇayorbhinnāśrayakatvasyaiva sambhāvat / 'śṛṅgārādbhutayorapī'ti avirodha iti śeṣaḥ / bādhyabādhakabhāvamuktaṃ vivṛṇoti--yayorhītyādi / yayoriti / śṛṅgārabībhatsādyorityarthaḥ / tatra tayoḥ / uktārthe hetu darśayati--ālambanetyādi / uttiṣṭhati prādurbhavati / tata iti / ālambanādityarthaḥ / jugupseti / uttiṣṭhatītyanuṣaṅgaḥ / itīti hatau / samanāśrayatveneti / ekālambanakatvenaikādhikaraṇakatvena cetyarthaḥ / tayoriti / ratijugupsayorityarthaḥ / anyonyeti / anyonyasya yaḥ saṃskāraḥ, tadunmūlanatvaṃ tadvināśakāritvamityarthaḥ / evameveti / ekāśrayatvenetyarthaḥ // 23 // avirodhī virodhī vā raso 'ṅgini rasāntare / paripoṣaṃ na netavyas tathā syād avirodhitā
Sanskrit only: no published translation is held for this verse.
अत एवान्ये रसस्थायीति षष्ठ्या सप्तम्या द्वितीयया वाश्रितादिषु बालप्रिया इति च पाठः । स दुःश्लिष्ट इत्यपकर्षः । बहुनामिति । समवेतानामात्मनिष्ठानाम् बहुनां भावानामिति शेषः । चित्तवृत्तिविशेषाणामित्यर्थः । मध्ये यस्य भावस्य, रूपं बहु भूयः प्रबन्धव्यापकं भवेत् । रस स्थायीति । रसः स्थायीति छेदः । "खर्परे शरी"ति विसर्गलोपः । सः स्थायी रसो मन्तव्य इति योजना । शेषा इति । रसा इति विपरणामेनानुषङ्गः । उक्तमर्थं दर्शयन्नाह--तत्रेत्यादि । तत्रोक्तक्रमेण तस्मिन् श्लोके उक्तो यः क्रमस्तेन । रस्यमानतासमये इति । रस्यमानतायामपीति च पाठः । स्थायिव्यभिचारिभावस्येति । रसानामिति शेषः । तथोचेत्यादि । भागुरिरपि बाढमस्तीत्यम्युपगमेनैवावोचदित्यन्वयः । ऽमतान्तरऽ इत्यादिग्रन्थं तन्मतस्योपपत्तिं दर्शयन्नवतारयति---अन्ये त्वित्यादि । अत्र वीर इत्यन्तमेकं वाक्यं, शान्त इत्यन्तं द्वितीयं, चतुर्थे ऽङ्क इत्यन्तं तृतीयं बोध्यम् । उन्मादस्येति । वितर्काद्यपेक्षयेति शेषः । समवेतानामित्यस्य विवरणं चित्तवृत्तिरूपाणां भावानामिति । सः स्थायी रसश्च मन्तव्य इति योजना । स्थायीत्यस्य व्याख्यानम्--त्थायिभाव इति । रस इत्यस्य रसीकरणयोग्य इति । शेषा इति । अन्ये भावा इत्यर्थः । न त्वित्यादि । किन्तु स्थायिनामेवेति भावः । युक्तेति । उक्तेति च पाठः । षष्ठ्येत्यादि । रसस्य रसे रसं स्थायीति विग्रह इति भावः । तन्मतेनोच्यते । मतान्तरे तु रसानां स्थायिनो भावा उपचाराद्रसशब्देनोक्तास्तेषामङ्गत्वं निर्विरोधमेव । एवमविरोधिनां विरोधिनां च प्रबन्धस्थेनाङ्गिना रसेन समावेशे साधारणमविरोधोपायं प्रतिपाद्येदानीं विरोधिविषयमेव तं प्रतिपादयितुमिदमुच्यते । विरुद्धैकाश्रयो यस् तु विरोधी स्थायिनो भवेत् । स विभिन्नाश्रयः कार्यस् तस्य पोषे ऽप्य् अदोषता
ata evānye rasasthāyīti ṣaṣṭhyā saptamyā dvitīyayā vāśritādiṣu bālapriyā iti ca pāṭhaḥ / sa duḥśliṣṭa ityapakarṣaḥ / bahunāmiti / samavetānāmātmaniṣṭhānām bahunāṃ bhāvānāmiti śeṣaḥ / cittavṛttiviśeṣāṇāmityarthaḥ / madhye yasya bhāvasya, rūpaṃ bahu bhūyaḥ prabandhavyāpakaṃ bhavet / rasa sthāyīti / rasaḥ sthāyīti chedaḥ / "kharpare śarī"ti visargalopaḥ / saḥ sthāyī raso mantavya iti yojanā / śeṣā iti / rasā iti viparaṇāmenānuṣaṅgaḥ / uktamarthaṃ darśayannāha--tatretyādi / tatroktakrameṇa tasmin śloke ukto yaḥ kramastena / rasyamānatāsamaye iti / rasyamānatāyāmapīti ca pāṭhaḥ / sthāyivyabhicāribhāvasyeti / rasānāmiti śeṣaḥ / tathocetyādi / bhāgurirapi bāḍhamastītyamyupagamenaivāvocadityanvayaḥ / 'matāntara' ityādigranthaṃ tanmatasyopapattiṃ darśayannavatārayati---anye tvityādi / atra vīra ityantamekaṃ vākyaṃ, śānta ityantaṃ dvitīyaṃ, caturthe 'ṅka ityantaṃ tṛtīyaṃ bodhyam / unmādasyeti / vitarkādyapekṣayeti śeṣaḥ / samavetānāmityasya vivaraṇaṃ cittavṛttirūpāṇāṃ bhāvānāmiti / saḥ sthāyī rasaśca mantavya iti yojanā / sthāyītyasya vyākhyānam--tthāyibhāva iti / rasa ityasya rasīkaraṇayogya iti / śeṣā iti / anye bhāvā ityarthaḥ / na tvityādi / kintu sthāyināmeveti bhāvaḥ / yukteti / ukteti ca pāṭhaḥ / ṣaṣṭhyetyādi / rasasya rase rasaṃ sthāyīti vigraha iti bhāvaḥ / tanmatenocyate / matāntare tu rasānāṃ sthāyino bhāvā upacārādrasaśabdenoktāsteṣāmaṅgatvaṃ nirvirodhameva / evamavirodhināṃ virodhināṃ ca prabandhasthenāṅginā rasena samāveśe sādhāraṇamavirodhopāyaṃ pratipādyedānīṃ virodhiviṣayameva taṃ pratipādayitumidamucyate / viruddhaikāśrayo yas tu virodhī sthāyino bhavet / sa vibhinnāśrayaḥ kāryas tasya poṣe 'py adoṣatā
Sanskrit only: no published translation is held for this verse.
विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् । स विभिन्नाश्रयः कार्यस्तस्य पोषो ऽप्यदोषता ॥ २५ ॥ । ऐकाधिकरण्यविरोधी नैरन्तर्यविरोधी चेति द्विविधो विरोधी । तत्र प्रबन्धस्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः । तस्य वीरस्य य आश्रयः कथानायकस्तद्विपक्षविषये सन्निवेशयितव्यः । तथा सति च तस्य विरोधिनो ऽपि यः परिपोषः स निर्देषः विपक्षविषये हि भयातिशयवर्णने लोचनम् गमिगाम्यादीनामिति समासं पठन्ति । तदाह--मतान्तरे ऽपीति । रसशब्देनेति । ऽरसान्तरसमावेशः प्रस्तुतस्य रसस्य यःऽ इत्यादिप्राक्तनकारिकानिविष्टेनेत्यर्थः ॥ २४ ॥ अथ साधारणं प्रकारमुपसंहरन्नसाधारणमासूत्रयति---एवमिति । तमित्यविरोधोपायम् । विरुद्धेति । विशेषणं हेतुगर्भम् । यस्तु स्थायीं स्थाय्यन्तरेणासंभाव्यमानैकाश्रयत्वाद्विरोधी भवेद्यथोत्साहेन भयं स विभिन्नाश्रयत्वेन नायकविपक्षादिगामित्वेन कार्यः । तस्येति । तस्य विरोधिनो ऽपि तथाकृतस्य तथानिबद्धस्य बालप्रिया आश्रितादिषु गम्यादीनामिति । द्वितीयया वेति सम्बन्धः । द्वितीयाश्रितेत्यादिसूत्रे "गम्यादीनामुपसंख्यान" मिति वार्तिकमनेन स्मारितम् ॥ २४ ॥ साधारणं प्रकारमिति । विरोध्यविरोधसाधारणं अविरोधोपायप्रकारमित्यर्थः । उपसंहरन्निति । अनेन प्रतिपाद्येत्यन्तवृकत्त्यर्थो दर्शितः । असाधारणं विरोधिमात्रविषयकम् । अनेन विरोधिविषयमेवेतिवृत्त्यर्थो दर्शितः । विरुद्धेतीति । विरुद्धैकाश्रय इतीत्यर्थः । विरुद्धपदं विवृणोति--स्थायीत्यादि । असम्भाव्यमानः एकाश्रयः यस्य तत्त्वात् । सः तथाविधः स्थायी । तस्येति । तत्पदार्थं विवृण्वन्नाह---तस्य विरोधिनो ऽपीत्यादि । तथा कृतस्य विभिन्नाश्रयत्वेन कृतस्य । अस्यैव विवरणम्---तथानिबद्धस्येति । नायकस्य नयपराक्रमादिसम्पत्सुतरामुद्द्योतिता भवति । एतच्च मदीये ऽर्जुनचरिते ऽर्जुनस्य पातालावतरणप्रसङ्गे वैशद्येन प्रदर्शितम् । एवमैकाधिकरण्यविरोधिनः प्रबन्धस्थेन सथायिना रसेनाङ्गभावगमने निर्विरोधित्वं यथा तथा तद्दर्शितम् । द्वितीयस्य तु तत्प्रतिपादयितुमुच्यते-- एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् । रसान्तर-व्यवधिना रसो व्यङ्ग्यः सुमेधसा
viruddhaikāśrayo yastu virodhī sthāyino bhavet / sa vibhinnāśrayaḥ kāryastasya poṣo 'pyadoṣatā // 25 // / aikādhikaraṇyavirodhī nairantaryavirodhī ceti dvividho virodhī / tatra prabandhasthena sthāyināṅginā rasenaucityāpekṣayā viruddhaikāśrayo yo virodhī yathā vīreṇa bhayānakaḥ sa vibhinnāśrayaḥ kāryaḥ / tasya vīrasya ya āśrayaḥ kathānāyakastadvipakṣaviṣaye sanniveśayitavyaḥ / tathā sati ca tasya virodhino 'pi yaḥ paripoṣaḥ sa nirdeṣaḥ vipakṣaviṣaye hi bhayātiśayavarṇane locanam gamigāmyādīnāmiti samāsaṃ paṭhanti / tadāha--matāntare 'pīti / rasaśabdeneti / 'rasāntarasamāveśaḥ prastutasya rasasya yaḥ' ityādiprāktanakārikāniviṣṭenetyarthaḥ // 24 // atha sādhāraṇaṃ prakāramupasaṃharannasādhāraṇamāsūtrayati---evamiti / tamityavirodhopāyam / viruddheti / viśeṣaṇaṃ hetugarbham / yastu sthāyīṃ sthāyyantareṇāsaṃbhāvyamānaikāśrayatvādvirodhī bhavedyathotsāhena bhayaṃ sa vibhinnāśrayatvena nāyakavipakṣādigāmitvena kāryaḥ / tasyeti / tasya virodhino 'pi tathākṛtasya tathānibaddhasya bālapriyā āśritādiṣu gamyādīnāmiti / dvitīyayā veti sambandhaḥ / dvitīyāśritetyādisūtre "gamyādīnāmupasaṃkhyāna" miti vārtikamanena smāritam // 24 // sādhāraṇaṃ prakāramiti / virodhyavirodhasādhāraṇaṃ avirodhopāyaprakāramityarthaḥ / upasaṃharanniti / anena pratipādyetyantavṛkattyartho darśitaḥ / asādhāraṇaṃ virodhimātraviṣayakam / anena virodhiviṣayamevetivṛttyartho darśitaḥ / viruddhetīti / viruddhaikāśraya itītyarthaḥ / viruddhapadaṃ vivṛṇoti--sthāyītyādi / asambhāvyamānaḥ ekāśrayaḥ yasya tattvāt / saḥ tathāvidhaḥ sthāyī / tasyeti / tatpadārthaṃ vivṛṇvannāha---tasya virodhino 'pītyādi / tathā kṛtasya vibhinnāśrayatvena kṛtasya / asyaiva vivaraṇam---tathānibaddhasyeti / nāyakasya nayaparākramādisampatsutarāmuddyotitā bhavati / etacca madīye 'rjunacarite 'rjunasya pātālāvataraṇaprasaṅge vaiśadyena pradarśitam / evamaikādhikaraṇyavirodhinaḥ prabandhasthena sathāyinā rasenāṅgabhāvagamane nirvirodhitvaṃ yathā tathā taddarśitam / dvitīyasya tu tatpratipādayitumucyate-- ekāśrayatve nirdoṣo nairantarye virodhavān / rasāntara-vyavadhinā raso vyaṅgyaḥ sumedhasā
Sanskrit only: no published translation is held for this verse.
तदाह--दयावीरादीनाञ्चेत्यादिग्रहणेन । विषयजुगुप्सारूपत्वाद्बीभत्से ऽन्तर्भावः शङ्क्यते । सा त्वस्य व्यभिचारिणी भवति न तु स्थायितामेति, पर्यन्तनिर्वाहे तस्या मूलत एव विच्छेदात् । आधिकारिकत्वेन तु शान्तो रसो न निबद्धव्यैति चन्द्रिकाकारः । तच्चेहास्माभिर्न पर्यालोचितं, प्रसङ्गान्तरात् । मोक्षफलत्वेन चायं परमपुरुषार्थनिष्ठत्वात्सर्वरसेभ्यः प्रधानतमः । स चायमस्मदुपाध्यायभट्टतौतेन काव्यकौतुके, अस्माभिश्च तद्विवरणे बहुतरकृतनिर्णयपूर्वपक्षसिद्धान्त इत्यलं बहुना ॥ २६ ॥ बालप्रिया आगमपुरस्सरमिति । ब्रह्मा प्राहेत्यक्तेरिति भावः । त्रैविध्यमेवेत्येवकारेण दयावीरव्यवच्छेदः । तदाहेति । उक्ताभिप्रायेणाहेत्यर्थः । ऽदयावीरादीनां चेऽ तीत्यस्यानन्तरं विषयेत्यादेः पूर्वमादिग्रहणेनेति पाठः सर्वेषु दृष्टग्रन्थेषु दृश्यते, तस्य च विषयेत्यादिना सम्बन्धो न घटते चातो ऽत्र धर्मवीरदानवीरयोर्ग्रहणमिति पूरणीयम् । यदि वा तथा ग्रन्थे पठनीयमिति बोध्यम् । वृत्तौ ऽचित्तवृत्तिवशेषाणाऽमिति । चर्व्यमाणानामिति शेषः । दयावीरो नाम परोपचिकीर्षाप्रयत्नरूप उत्साहः । ऽसर्वाकारम्ऽ इति क्रियाविशेषणम् । सर्वथेत्यर्थः । ऽअहङ्काररहितत्वेनेऽति हेतौ तृतीया, रहितत्वे इति च पाठः । नायकस्येति शेषः । ऽइतरथाऽ अहङ्कारसहितत्वे । शान्तस्थायिनो विषयजुगुप्सारूपत्वाच्छान्तस्य बीभत्से ऽन्तर्भाव इति केचित् । तन्मतं प्रसङ्गान्निराकरोति लोचने---विषयेत्यादि । विषयजुगुप्सारूपत्वादिति । शान्तस्येति शेषः । अस्येत्यपकर्षो वा । शङ्क्यत इति । कैश्चिदिति शेषः । वस्तुतो नैवमित्याह--सा त्वित्यादि । सा जुगुप्सा । अस्य शान्तस्य । तस्याः जुगुप्सायाः । शान्तस्य सर्वरसापेक्षयोत्कर्ष इत्याह--मोक्षेत्यादि । स चेति । शान्तश्चेत्यर्थः । बह्वित्यादि । वहुतरं यथा तथा कृतनिर्णयौ कृतविचारौ पूर्वपक्षसिद्धान्तौ यस्य सः ॥ २६ ॥ एतदेव स्थिरीकर्तुमिदमुच्यते-- रसान्तरान्तरितयोर् एक-वाक्य-स्थयोर् अपि । निवर्तते हि रसयोः समावेशे विरोधिता
tadāha--dayāvīrādīnāñcetyādigrahaṇena / viṣayajugupsārūpatvādbībhatse 'ntarbhāvaḥ śaṅkyate / sā tvasya vyabhicāriṇī bhavati na tu sthāyitāmeti, paryantanirvāhe tasyā mūlata eva vicchedāt / ādhikārikatvena tu śānto raso na nibaddhavyaiti candrikākāraḥ / taccehāsmābhirna paryālocitaṃ, prasaṅgāntarāt / mokṣaphalatvena cāyaṃ paramapuruṣārthaniṣṭhatvātsarvarasebhyaḥ pradhānatamaḥ / sa cāyamasmadupādhyāyabhaṭṭatautena kāvyakautuke, asmābhiśca tadvivaraṇe bahutarakṛtanirṇayapūrvapakṣasiddhānta ityalaṃ bahunā // 26 // bālapriyā āgamapurassaramiti / brahmā prāhetyakteriti bhāvaḥ / traividhyamevetyevakāreṇa dayāvīravyavacchedaḥ / tadāheti / uktābhiprāyeṇāhetyarthaḥ / 'dayāvīrādīnāṃ ce' tītyasyānantaraṃ viṣayetyādeḥ pūrvamādigrahaṇeneti pāṭhaḥ sarveṣu dṛṣṭagrantheṣu dṛśyate, tasya ca viṣayetyādinā sambandho na ghaṭate cāto 'tra dharmavīradānavīrayorgrahaṇamiti pūraṇīyam / yadi vā tathā granthe paṭhanīyamiti bodhyam / vṛttau 'cittavṛttivaśeṣāṇā'miti / carvyamāṇānāmiti śeṣaḥ / dayāvīro nāma paropacikīrṣāprayatnarūpa utsāhaḥ / 'sarvākāram' iti kriyāviśeṣaṇam / sarvathetyarthaḥ / 'ahaṅkārarahitatvene'ti hetau tṛtīyā, rahitatve iti ca pāṭhaḥ / nāyakasyeti śeṣaḥ / 'itarathā' ahaṅkārasahitatve / śāntasthāyino viṣayajugupsārūpatvācchāntasya bībhatse 'ntarbhāva iti kecit / tanmataṃ prasaṅgānnirākaroti locane---viṣayetyādi / viṣayajugupsārūpatvāditi / śāntasyeti śeṣaḥ / asyetyapakarṣo vā / śaṅkyata iti / kaiściditi śeṣaḥ / vastuto naivamityāha--sā tvityādi / sā jugupsā / asya śāntasya / tasyāḥ jugupsāyāḥ / śāntasya sarvarasāpekṣayotkarṣa ityāha--mokṣetyādi / sa ceti / śāntaścetyarthaḥ / bahvityādi / vahutaraṃ yathā tathā kṛtanirṇayau kṛtavicārau pūrvapakṣasiddhāntau yasya saḥ // 26 // etadeva sthirīkartumidamucyate-- rasāntarāntaritayor eka-vākya-sthayor api / nivartate hi rasayoḥ samāveśe virodhitā
Sanskrit only: no published translation is held for this verse.
रसान्तरान्तरितयोरेकवाक्यस्थयोरपि । निवर्तते हि रसयोः समावेशे विरोधिता ॥ २७ ॥ रसान्तरव्यवहितयोरेकप्रबन्धस्थयोर्विरोधिता निवर्तत इत्यत्र न काचिद्रभ्रान्तिः । यस्मादेकवाक्यस्थयोरपि रसयोरुक्तया नीत्या विरुद्धता निवर्तते । यथा--- भूरेणुदिग्धान्नवपरिजातमालारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः स्वगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ॥ विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमानांल्ललनाङ्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन् ॥ लोचनम् स्थिरीकर्तुमिति । शिष्यबुद्धावित्यर्थः । अपिशब्देन प्रबन्धविषयतया सिद्धो ऽयमर्थ इति दर्शयति---भूरेण्विति । विशेषणैरतीव दूरापेतत्वमसम्भावनास्पदमुक्तम् । स्वदेहानित्यनेन देहत्वाभिमानादेव तादात्म्यसम्भावनानिष्पत्तेरेकाश्रयत्वमस्ति, बालप्रिया अपिशब्देनेति । ऽएकवाक्यस्थयोरपीऽत्यपिशब्देनेत्यर्थः । वृत्तौ---ऽभूरेण्विऽत्यादि । इदं काव्यप्रकाशे ऽप्युदाहृतम् । वीराः पतितान् स्वदेहानपश्यन्नित सम्बन्धः । यथाक्रमं कुतूहलहेतुगर्भमेकं देहानामपरं वीराणां विशेषणम् । ऽदीग्धान्ऽ व्याप्तान् ऽवासितेऽति । सुरभीकृतेत्यर्थः । ऽबाहुमध्यंऽ बक्षः । ऽक्रव्यभुजांऽ मांसाशिनाम् । चन्दनवारीणां सेको यत्र तादृशैः । ऽकल्पलतादुकूलैःऽ कल्पलतोद्भूतपट्टवस्त्रैः, यद्वा--कल्पलता एव दुकूलानि तैः । ऽललनाःऽ स्वर्वेश्याः । लोचने---विशेषणैरिति । भूरेण्वित्यादिदेहविशेषणैरित्यर्थः । असम्भावनास्पदम् स्वीयत्वसम्भावनाया अभावस्य निमित्तम् । दूरापेतत्वं दूरविप्रकृष्टत्वमत्यन्तवैलक्षण्यमिति यावत् । उक्तं व्यञ्जितम् । ननु शृङ्गारबीत्भसयोरेकस्मिन्नेकालम्बनकयोरेव विरोधः, एकस्मिन्नेकदैकस्य रतिजुगुप्सयोरनुदयात् ; प्रकृते च भूरेमुदिग्धत्वादविशिष्टवीरदेहालम्बनको बीभत्सो दिव्यत्वविशिष्टवीरदेहालम्बनकश्च शृङ्गार इति तयोः कथमेकालम्बनकत्मरूपैकाश्रयत्वमिति शङ्कां परिहरन्नाह--स्वेत्यादि । देहत्वाभिमानादिति । वीराणां पतितदेहेषु स्वदेहत्वबुद्धेरित्यर्थः । इत्यादौ । अत्र हि शृङ्गारबीभत्सयोस्तदङ्गयोर्वा वीररसव्यवधानेन समावेशो न विरोधी । विरोधम् अविरोधं च सर्वत्रेत्थं निरूपयेत् । विशेषतस् तु शृङ्गारे सुकुमारतमा ह्य् असौ
rasāntarāntaritayorekavākyasthayorapi / nivartate hi rasayoḥ samāveśe virodhitā // 27 // rasāntaravyavahitayorekaprabandhasthayorvirodhitā nivartata ityatra na kācidrabhrāntiḥ / yasmādekavākyasthayorapi rasayoruktayā nītyā viruddhatā nivartate / yathā--- bhūreṇudigdhānnavaparijātamālārajovāsitabāhumadhyāḥ / gāḍhaṃ śivābhiḥ parirabhyamāṇānsurāṅganāśliṣṭabhujāntarālāḥ // saśoṇitaiḥ kravyabhujāṃ sphuradbhiḥ pakṣaiḥ svagānāmupavījyamānān / saṃvījitāścandanavārisekaiḥ sugandhibhiḥ kalpalatādukūlaiḥ // vimānaparyaṅkatale niṣaṇṇāḥ kutūhalāviṣṭatayā tadānīm / nirdiśyamānāṃllalanāṅgulībhirvīrāḥ svadehān patitānapaśyan // locanam sthirīkartumiti / śiṣyabuddhāvityarthaḥ / apiśabdena prabandhaviṣayatayā siddho 'yamartha iti darśayati---bhūreṇviti / viśeṣaṇairatīva dūrāpetatvamasambhāvanāspadamuktam / svadehānityanena dehatvābhimānādeva tādātmyasambhāvanāniṣpatterekāśrayatvamasti, bālapriyā apiśabdeneti / 'ekavākyasthayorapī'tyapiśabdenetyarthaḥ / vṛttau---'bhūreṇvi'tyādi / idaṃ kāvyaprakāśe 'pyudāhṛtam / vīrāḥ patitān svadehānapaśyannita sambandhaḥ / yathākramaṃ kutūhalahetugarbhamekaṃ dehānāmaparaṃ vīrāṇāṃ viśeṣaṇam / 'dīgdhān' vyāptān 'vāsite'ti / surabhīkṛtetyarthaḥ / 'bāhumadhyaṃ' bakṣaḥ / 'kravyabhujāṃ' māṃsāśinām / candanavārīṇāṃ seko yatra tādṛśaiḥ / 'kalpalatādukūlaiḥ' kalpalatodbhūtapaṭṭavastraiḥ, yadvā--kalpalatā eva dukūlāni taiḥ / 'lalanāḥ' svarveśyāḥ / locane---viśeṣaṇairiti / bhūreṇvityādidehaviśeṣaṇairityarthaḥ / asambhāvanāspadam svīyatvasambhāvanāyā abhāvasya nimittam / dūrāpetatvaṃ dūraviprakṛṣṭatvamatyantavailakṣaṇyamiti yāvat / uktaṃ vyañjitam / nanu śṛṅgārabītbhasayorekasminnekālambanakayoreva virodhaḥ, ekasminnekadaikasya ratijugupsayoranudayāt ; prakṛte ca bhūremudigdhatvādaviśiṣṭavīradehālambanako bībhatso divyatvaviśiṣṭavīradehālambanakaśca śṛṅgāra iti tayoḥ kathamekālambanakatmarūpaikāśrayatvamiti śaṅkāṃ pariharannāha--svetyādi / dehatvābhimānāditi / vīrāṇāṃ patitadeheṣu svadehatvabuddherityarthaḥ / ityādau / atra hi śṛṅgārabībhatsayostadaṅgayorvā vīrarasavyavadhānena samāveśo na virodhī / virodham avirodhaṃ ca sarvatretthaṃ nirūpayet / viśeṣatas tu śṛṅgāre sukumāratamā hy asau
Sanskrit only: no published translation is held for this verse.
विरोधमविरोधं च सर्वत्रेत्थं निरूपयेत् । विशेषतस्तु शृङ्गारे सुकुमारतमो ह्यसौ ॥ २८ ॥ यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धे ऽन्यत्र च निरूपयेत्सहृदयः; विशेषतस्तु शृङ्गारे । स हि रतपारिपोषात्मकत्वाद्रतेश्च लोचनम् अन्यथा विभिन्नविषयत्वात्को विरोधः । ननु वीर एवात्र रसो न शृङ्गारो न बीभत्सः, किन्तु रतिजुगुपसे हि वीरं प्रति व्यभिचारीभूते । भवत्वेवम्, तथापि प्रकृतोदाहरणता तावदुपपन्ना । तदाह--तदङ्गयोर्वेति । तयोरङ्गे तत्स्थायिभावावित्यर्थः । वीररसेति । ऽवीराः स्वदेहान्ऽ इत्यादिना तदीयोत्साहाद्यवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीतिरिति मध्यपाठाभावे ऽपि सुतरां वीरस्य व्यवधायकतेति भावः ॥ २७ ॥ अन्यत्र चेति मुक्तकादौ । सहि शृङ्गारः सुकुमारतम इति सम्बन्धः । सुकुमारस्तावद्रसजातीयः बालप्रिया एतत्प्रदर्शनार्थं स्वपदोपादानमिति भावः । तादात्म्येति । प्रतिपत्तुर्द्वयोर्देहयोरैक्यबुद्धिनिष्पत्तेरत्यर्थः । तथा च स्वर्ललनागतस्य शृङ्गारस्य बीभत्सस्य च देहद्वयैक्याभिमानी वीर एक एव विषय इति भावः । ऽतदङ्गयोर्वेऽति ग्रन्थमवतारयति--नन्वित्यादि । वीर एवेति । साहसेन रणमध्यनिपातनाद्यनुभावेनाक्षेपलभ्यगर्वादिसञ्चारिणा च वीररस एव प्रतीयत इत्यर्थः । तत्स्थायिभावाविति । शृङ्गारबीभत्सयोः स्थायिबावौ रतिजुगुप्से इत्यर्थः । इत्यादिनेति । वीरपदेन देहपाताद्यनुभावेन चेत्यर्थः । उत्साहादीत्यादिपदेन गर्वादेः परिग्रहः । अवगत्येत्यनन्तरं वीरो रस इति शेषः । वीरव्यवधानं विवृणोति--कर्तृकर्मणोरित्यादि । कर्तृकर्मणोः वीरस्य कर्तुः पतितदेहरूपकर्मणश्च । समस्तेत्यादि । अत्र वाक्यं पदसमुदायः भूरोण्वित्यादिवाक्यार्थान्वयितया कर्मणः न वेत्यादिवाक्यार्थान्वयितया कर्तुश्च प्रतीतिरित्यर्थः । इतीति हेतौ । भाव इति । अयमर्थः--ऽभूरेण्विऽत्यादिविशेषणार्थबोधे बीभत्सस्तद्विशेष्यार्थबोधे वीरो, न वेत्यादिविशेषणार्थबोधे शृङ्गारस्तद्विशेष्यार्थबोधे वीरश्चास्वाद्यत इति रीत्या वीरस्य मध्ये मध्ये आस्वादः । श्रुतक्रमेण बोधे त्वादौ बीभत्सो, योजन या बोधे त्वादौ शृङ्गार इति ॥ २७ ॥ ऽप्रबन्धे ऽन्यत्र चेऽत्यत्रान्यत्रपदं व्यापष्टे--मुक्तकादाविति । ऽसुकुमारतमो हि स्वल्पेनापि निमित्तेन भङ्गसम्भवात्सुकुमारतमः सर्वेभ्यो रसेभ्यो मनागपि विरोधिसमावेशं न सहते । अवधानातिशयवान् रसे तत्रैव सत्-कविः । भवेत् तस्मिन् प्रमादो हि झटित्य् एवोपलक्ष्यते
virodhamavirodhaṃ ca sarvatretthaṃ nirūpayet / viśeṣatastu śṛṅgāre sukumāratamo hyasau // 28 // yathoktalakṣaṇānusāreṇa virodhāvirodhau sarveṣu raseṣu prabandhe 'nyatra ca nirūpayetsahṛdayaḥ; viśeṣatastu śṛṅgāre / sa hi ratapāripoṣātmakatvādrateśca locanam anyathā vibhinnaviṣayatvātko virodhaḥ / nanu vīra evātra raso na śṛṅgāro na bībhatsaḥ, kintu ratijugupase hi vīraṃ prati vyabhicārībhūte / bhavatvevam, tathāpi prakṛtodāharaṇatā tāvadupapannā / tadāha--tadaṅgayorveti / tayoraṅge tatsthāyibhāvāvityarthaḥ / vīraraseti / 'vīrāḥ svadehān' ityādinā tadīyotsāhādyavagatyā kartṛkarmaṇoḥ samastavākyārthānuyāyitayā pratītiriti madhyapāṭhābhāve 'pi sutarāṃ vīrasya vyavadhāyakateti bhāvaḥ // 27 // anyatra ceti muktakādau / sahi śṛṅgāraḥ sukumāratama iti sambandhaḥ / sukumārastāvadrasajātīyaḥ bālapriyā etatpradarśanārthaṃ svapadopādānamiti bhāvaḥ / tādātmyeti / pratipatturdvayordehayoraikyabuddhiniṣpatteratyarthaḥ / tathā ca svarlalanāgatasya śṛṅgārasya bībhatsasya ca dehadvayaikyābhimānī vīra eka eva viṣaya iti bhāvaḥ / 'tadaṅgayorve'ti granthamavatārayati--nanvityādi / vīra eveti / sāhasena raṇamadhyanipātanādyanubhāvenākṣepalabhyagarvādisañcāriṇā ca vīrarasa eva pratīyata ityarthaḥ / tatsthāyibhāvāviti / śṛṅgārabībhatsayoḥ sthāyibāvau ratijugupse ityarthaḥ / ityādineti / vīrapadena dehapātādyanubhāvena cetyarthaḥ / utsāhādītyādipadena garvādeḥ parigrahaḥ / avagatyetyanantaraṃ vīro rasa iti śeṣaḥ / vīravyavadhānaṃ vivṛṇoti--kartṛkarmaṇorityādi / kartṛkarmaṇoḥ vīrasya kartuḥ patitadeharūpakarmaṇaśca / samastetyādi / atra vākyaṃ padasamudāyaḥ bhūroṇvityādivākyārthānvayitayā karmaṇaḥ na vetyādivākyārthānvayitayā kartuśca pratītirityarthaḥ / itīti hetau / bhāva iti / ayamarthaḥ--'bhūreṇvi'tyādiviśeṣaṇārthabodhe bībhatsastadviśeṣyārthabodhe vīro, na vetyādiviśeṣaṇārthabodhe śṛṅgārastadviśeṣyārthabodhe vīraścāsvādyata iti rītyā vīrasya madhye madhye āsvādaḥ / śrutakrameṇa bodhe tvādau bībhatso, yojana yā bodhe tvādau śṛṅgāra iti // 27 // 'prabandhe 'nyatra ce'tyatrānyatrapadaṃ vyāpaṣṭe--muktakādāviti / 'sukumāratamo hi svalpenāpi nimittena bhaṅgasambhavātsukumāratamaḥ sarvebhyo rasebhyo manāgapi virodhisamāveśaṃ na sahate / avadhānātiśayavān rase tatraiva sat-kaviḥ / bhavet tasmin pramādo hi jhaṭity evopalakṣyate
Sanskrit only: no published translation is held for this verse.
अवधानातशयवान्रसे तत्रैव सत्कविः । भवेत्तस्मिन् प्रमादो हि झटित्येवोपलक्ष्यते ॥ २९ ॥ तत्रैव च रसे सर्वेभ्यो ऽपि रसेम्यः सौकुमार्यातिशययोगिनि कविरवधानवान् प्रयत्नवान्स्यात् । तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवावज्ञानविषयता भवति । शृङ्गाररसो हि संसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनीयतया प्रधानभूतः । एवं च सति-- विनेयान् उन्मुखी-कर्तुं काव्य-शोभार्थम् एव वा । तद्-विरुद्ध-रस-स्पर्शस् तद्-अङ्गानां न दुष्यति
avadhānātaśayavānrase tatraiva satkaviḥ / bhavettasmin pramādo hi jhaṭityevopalakṣyate // 29 // tatraiva ca rase sarvebhyo 'pi rasemyaḥ saukumāryātiśayayogini kaviravadhānavān prayatnavānsyāt / tatra hi pramādyatastasya sahṛdayamadhye kṣipramevāvajñānaviṣayatā bhavati / śṛṅgāraraso hi saṃsāriṇāṃ niyamenānubhavaviṣayatvātsarvarasebhyaḥ kamanīyatayā pradhānabhūtaḥ / evaṃ ca sati-- vineyān unmukhī-kartuṃ kāvya-śobhārtham eva vā / tad-viruddha-rasa-sparśas tad-aṅgānāṃ na duṣyati
Sanskrit only: no published translation is held for this verse.
किं च शृङ्गारस्य सकलजनमनोहराभिरामत्वात्तदङ्गसमावेशः काव्येशोभातिशयं पुष्यतीत्यनेनापि प्रकारेण विरोधिनि रसे शृङ्गाराङ्गसमावेशो न विरोधी । ततश्च सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ इत्यादिषु नास्ति रसविरोधदोषः । लोचनम् मुनिभिरिति---भरतादिभिरित्यर्थः । एतच्च प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः प्रीतपूर्वकं जायासम्मितत्वेन नाट्यकाव्यगतं व्युत्पत्तिकारत्वं पूर्वमेव निरूपितमस्माभिरिति न पुनरुक्तभयादिह लिखितम् । ननु शृङ्गाराङ्गताभङ्ग्या यद्विभावादिनिरूपणमेतावतैव किं विनोयोन्मुखीकारः । न; अस्ति प्रकारान्तरं, तदाह--किं चेति । शोभातिशयमिति । अलङ्कारविशेषमुपमाप्रभृतिं पुष्यत सुन्दरीकरोतीत्यर्थः । यथोक्तम्---ऽकाव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्काराऽ इति । मत्ताङ्गनेति । अत्र हि शान्तविभावे सर्वस्यानित्यत्वे वर्ण्यमाने न कस्यचिद्विभावस्य शृङ्गारभङ्ग्या निबन्धः कृतः, किं तु सत्यमिति बालप्रिया तत्र सुखमित्येतद्व्याचष्टे--रञ्जनेति । एतच्चेत्यादि । प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः तान्यपेक्ष्य । नाट्यकाव्यगतमेतद्व्युत्पत्तिकारित्वं जायासम्मितत्वेन प्रीतिपूर्वकमिति पूर्वमेवास्माभिर्निरूपतमिति सम्बन्धः । इतीति हेतौ । किञ्चेत्यादिकमवतारयति---नन्वित्यादि । शृङ्गाराङ्गतेति । शृङ्गारविभावानुभावतेत्यर्थः । समाधत्ते--नेति । तदिति । प्रकारान्तरमित्यर्थः । शोभाया अतिशयो येनेति व्युत्पत्तिमभिप्रेत्य प्रकृतानुगुणं व्याचष्टे--अलङ्कारेत्यादि । ऽसत्यऽमित्यादि । सत्यमित्यर्धाङ्कीकारे । ऽरामाःऽ रमण्यः कामा इति च पाठः ऽविभूतयःऽ ऐश्वर्याणि । ऽमत्तेऽति । मत्ता यौवनादिमदयुक्ताया अङ्गना प्रशस्ताङ्गा नारी तस्याः अपाङ्गभङ्गः कटाक्ष- स इव लोलमस्थिरम् । ऽहीऽति प्रसिद्धौ । रामादीनां मनोरमत्वे ऽपि सत्येव जाविते जनैः स्वोपभोघायोपादेयास्ताः जीवितं चास्थिरमिति किड्कृतं तासामुपादेयत्वमतो रम्यत्वे ऽपि तास्सर्वा निष्फला एवेति भावः । उक्तमर्थं लोचने विवृणोति--अत्रेत्यादि । सर्वस्यानित्यत्व इति । समस्तानित्यत्वे इति च पाठः । सर्वजीवितस्यास्थिरत्वे इत्यर्थः । न कृत इति सम्बन्धः । कस्यचिद्विभावस्य शान्तादिविभावस्य । शृङ्गारभङ्ग्या शृङ्गारविभावत्वयोजनेन । सत्यमितीति । विज्ञायेत्थं रसादीनाम् अविरोध-विरोधयोः । विषयं सुकविः काव्यं कुर्वन् मुह्यति न क्वचित्
kiṃ ca śṛṅgārasya sakalajanamanoharābhirāmatvāttadaṅgasamāveśaḥ kāvyeśobhātiśayaṃ puṣyatītyanenāpi prakāreṇa virodhini rase śṛṅgārāṅgasamāveśo na virodhī / tataśca satyaṃ manoramā rāmāḥ satyaṃ ramyā vibhūtayaḥ / kiṃ tu mattāṅganāpāṅgabhaṅgalolaṃ hi jīvitam // ityādiṣu nāsti rasavirodhadoṣaḥ / locanam munibhiriti---bharatādibhirityarthaḥ / etacca prabhumitrasammitebhyaḥ śāstretihāsebhyaḥ prītapūrvakaṃ jāyāsammitatvena nāṭyakāvyagataṃ vyutpattikāratvaṃ pūrvameva nirūpitamasmābhiriti na punaruktabhayādiha likhitam / nanu śṛṅgārāṅgatābhaṅgyā yadvibhāvādinirūpaṇametāvataiva kiṃ vinoyonmukhīkāraḥ / na; asti prakārāntaraṃ, tadāha--kiṃ ceti / śobhātiśayamiti / alaṅkāraviśeṣamupamāprabhṛtiṃ puṣyata sundarīkarotītyarthaḥ / yathoktam---'kāvyaśobhāyāḥ kartāro dharmā guṇāstadatiśayahetavastvalaṅkārā' iti / mattāṅganeti / atra hi śāntavibhāve sarvasyānityatve varṇyamāne na kasyacidvibhāvasya śṛṅgārabhaṅgyā nibandhaḥ kṛtaḥ, kiṃ tu satyamiti bālapriyā tatra sukhamityetadvyācaṣṭe--rañjaneti / etaccetyādi / prabhumitrasammitebhyaḥ śāstretihāsebhyaḥ tānyapekṣya / nāṭyakāvyagatametadvyutpattikāritvaṃ jāyāsammitatvena prītipūrvakamiti pūrvamevāsmābhirnirūpatamiti sambandhaḥ / itīti hetau / kiñcetyādikamavatārayati---nanvityādi / śṛṅgārāṅgateti / śṛṅgāravibhāvānubhāvatetyarthaḥ / samādhatte--neti / taditi / prakārāntaramityarthaḥ / śobhāyā atiśayo yeneti vyutpattimabhipretya prakṛtānuguṇaṃ vyācaṣṭe--alaṅkāretyādi / 'satya'mityādi / satyamityardhāṅkīkāre / 'rāmāḥ' ramaṇyaḥ kāmā iti ca pāṭhaḥ 'vibhūtayaḥ' aiśvaryāṇi / 'matte'ti / mattā yauvanādimadayuktāyā aṅganā praśastāṅgā nārī tasyāḥ apāṅgabhaṅgaḥ kaṭākṣa- sa iva lolamasthiram / 'hī'ti prasiddhau / rāmādīnāṃ manoramatve 'pi satyeva jāvite janaiḥ svopabhoghāyopādeyāstāḥ jīvitaṃ cāsthiramiti kiḍkṛtaṃ tāsāmupādeyatvamato ramyatve 'pi tāssarvā niṣphalā eveti bhāvaḥ / uktamarthaṃ locane vivṛṇoti--atretyādi / sarvasyānityatva iti / samastānityatve iti ca pāṭhaḥ / sarvajīvitasyāsthiratve ityarthaḥ / na kṛta iti sambandhaḥ / kasyacidvibhāvasya śāntādivibhāvasya / śṛṅgārabhaṅgyā śṛṅgāravibhāvatvayojanena / satyamitīti / vijñāyetthaṃ rasādīnām avirodha-virodhayoḥ / viṣayaṃ sukaviḥ kāvyaṃ kurvan muhyati na kvacit
Sanskrit only: no published translation is held for this verse.
विज्ञायेत्थं रसादीनामविरोधविरोधयोः । विषयं सुकविः काव्यं कुर्वन्मुह्यति न क्वचित् ॥ ३१ ॥ इत्थमनेनानन्तरोक्तेन प्रकारेण रसादीनां रसभावतदाभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्यविषये प्रतिभातिशययुक्तः काव्यं कुर्वत्र क्वचिन्मुह्मति । एवं रसादिषु विरोधाविरोधनिरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जकवाच्यवाचकनिरूपणस्यापि तद्विषयस्य तत्प्रतिपाद्यते-- वाच्यानां वाचकानां च यद् औचित्येन योजनम् । रसादि-विषयेणैतत् कर्म मुख्यं महा-कवेः
vijñāyetthaṃ rasādīnāmavirodhavirodhayoḥ / viṣayaṃ sukaviḥ kāvyaṃ kurvanmuhyati na kvacit // 31 // itthamanenānantaroktena prakāreṇa rasādīnāṃ rasabhāvatadābhāsānāṃ parasparaṃ virodhasyāvirodhasya ca viṣayaṃ vijñāya sukaviḥ kāvyaviṣaye pratibhātiśayayuktaḥ kāvyaṃ kurvatra kvacinmuhmati / evaṃ rasādiṣu virodhāvirodhanirūpaṇasyopayogitvaṃ pratipādya vyañjakavācyavācakanirūpaṇasyāpi tadviṣayasya tatpratipādyate-- vācyānāṃ vācakānāṃ ca yad aucityena yojanam / rasādi-viṣayeṇaitat karma mukhyaṃ mahā-kaveḥ
Sanskrit only: no published translation is held for this verse.
वाच्यानां वाचकानां च यदौचित्येन योजनम् । रसादिविषयेणैतत्कर्म मुख्यं महाकवेः ॥ ३२ ॥ लोचनम् परहृदयानुप्रवेशेनोक्तम्; न खल्वलीकवैराग्यकौतुकरुचिं प्रकटयामः, अपि तु यस्य कृते सर्वमभ्यर्थ्यते तदेवेदं चलमिति; तत्र मत्ताङ्गनापाङ्गभङ्गस्य शृङ्गारं प्रति सम्भाव्यमानविभावानुभावत्वेनाङ्गस्य लोलतायामुपमानतोक्तति प्रियतमाकटाक्षो हि सर्वस्याभिलषणीय इति च तत्प्रीत्या प्रवृत्तिमान् गुडजिह्विकया प्रसक्तानुप्रसक्तवस्तुतत्त्वसंवेदनेन वैराग्ये पर्यवस्यति विनेयः ॥ ३।० ॥ तदेतदुपसंहरन्नस्योक्तस्य प्रकरणस्य फलमाह--विज्ञायेत्थमिति ॥ ३१ ॥ रसादिषु रसादिविषये व्यञ्जकानि यानि वाच्यानि विभावादीनि वाचकानि च सुप्तिङादीनि तेषां यन्निरूपणं तस्येति । तद्विषयस्येति । रसादिविषयस्य । तदिति बालप्रिया इत्यनेनेत्यर्थः । परेति । पराभिमतार्थाङ्कीकारेणेत्यर्थः । अलीकेति । अलीका असत्या या वैराग्यकौतुके रुचिस्तामित्यर्थः । यस्येति । जीवितस्येत्यर्थः । तत्र जीविते । तत्र लोलतायामुपमानतेति सम्बन्धः । तन्निरूपितं लोलतानिमित्तकोपमाप्रतियोगित्वमित्यर्थः । सम्भाव्येति । सम्भाव्यमानेन नायकविभावत्वेन नायिकानुभावत्वेन च हेतुना शृङ्गाराङ्गस्येत्यर्थः । तदुक्तेः फलमाह--प्रियेत्यादि । तत्प्रतीत्येति कटाक्षस्योपमानत्वप्रतीत्येत्यर्थः । तत्प्रीत्या इति च पाठः । विनेय इति । व्युत्पाद्यो राजकुमारादिरित्यर्थः । तथा च यया कयापि विधया शृङ्गाराङ्गयोजनं काव्यशोभाकरमिति भावः ॥ ३।० ॥ ऽविज्ञायेऽत्यादिकारिकामवतारयति---तदेतदित्यादि ॥ ३।१ ॥ रसादिष्वित्यस्य विवरणम्---रसादिविषये इति । ऽव्यञ्जकवाच्येऽत्यादिग्रन्थं वाच्यानामितिवृत्तविशेषाणां वाचकानां च तद्विषयाणां रसादिविषयेणौचित्येन यद्योजनमेतन्महाकवेर्भुख्यं कर्म । अयमेव हि महाकवेर्मुख्यो व्यापारो यद्रसादीनेव मुख्यतया काव्यार्थीकृत्य तद्य्वक्त्यनुगुणत्वेन शब्दानामर्थानां चोपनिबन्धनम् । एतच्च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धमेवेति प्रतिपादयितुमाह-- रसाद्य्-अनुगुणत्वेन व्यवहारो ऽर्थ-शब्दयोः । औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः
vācyānāṃ vācakānāṃ ca yadaucityena yojanam / rasādiviṣayeṇaitatkarma mukhyaṃ mahākaveḥ // 32 // locanam parahṛdayānupraveśenoktam; na khalvalīkavairāgyakautukaruciṃ prakaṭayāmaḥ, api tu yasya kṛte sarvamabhyarthyate tadevedaṃ calamiti; tatra mattāṅganāpāṅgabhaṅgasya śṛṅgāraṃ prati sambhāvyamānavibhāvānubhāvatvenāṅgasya lolatāyāmupamānatoktati priyatamākaṭākṣo hi sarvasyābhilaṣaṇīya iti ca tatprītyā pravṛttimān guḍajihvikayā prasaktānuprasaktavastutattvasaṃvedanena vairāgye paryavasyati vineyaḥ // 3.0 // tadetadupasaṃharannasyoktasya prakaraṇasya phalamāha--vijñāyetthamiti // 31 // rasādiṣu rasādiviṣaye vyañjakāni yāni vācyāni vibhāvādīni vācakāni ca suptiṅādīni teṣāṃ yannirūpaṇaṃ tasyeti / tadviṣayasyeti / rasādiviṣayasya / taditi bālapriyā ityanenetyarthaḥ / pareti / parābhimatārthāṅkīkāreṇetyarthaḥ / alīketi / alīkā asatyā yā vairāgyakautuke rucistāmityarthaḥ / yasyeti / jīvitasyetyarthaḥ / tatra jīvite / tatra lolatāyāmupamānateti sambandhaḥ / tannirūpitaṃ lolatānimittakopamāpratiyogitvamityarthaḥ / sambhāvyeti / sambhāvyamānena nāyakavibhāvatvena nāyikānubhāvatvena ca hetunā śṛṅgārāṅgasyetyarthaḥ / tadukteḥ phalamāha--priyetyādi / tatpratītyeti kaṭākṣasyopamānatvapratītyetyarthaḥ / tatprītyā iti ca pāṭhaḥ / vineya iti / vyutpādyo rājakumārādirityarthaḥ / tathā ca yayā kayāpi vidhayā śṛṅgārāṅgayojanaṃ kāvyaśobhākaramiti bhāvaḥ // 3.0 // 'vijñāye'tyādikārikāmavatārayati---tadetadityādi // 3.1 // rasādiṣvityasya vivaraṇam---rasādiviṣaye iti / 'vyañjakavācye'tyādigranthaṃ vācyānāmitivṛttaviśeṣāṇāṃ vācakānāṃ ca tadviṣayāṇāṃ rasādiviṣayeṇaucityena yadyojanametanmahākaverbhukhyaṃ karma / ayameva hi mahākavermukhyo vyāpāro yadrasādīneva mukhyatayā kāvyārthīkṛtya tadyvaktyanuguṇatvena śabdānāmarthānāṃ copanibandhanam / etacca rasāditātparyeṇa kāvyanibandhanaṃ bharatādāvapi suprasiddhameveti pratipādayitumāha-- rasādy-anuguṇatvena vyavahāro 'rtha-śabdayoḥ / aucityavānyastā etā vṛttayo dvividhāḥ sthitāḥ
Sanskrit only: no published translation is held for this verse.
न हि सामान्यमात्रलक्षणेनोपयोगिविशेषलक्षणानां प्रतिक्षेपः । शक्यः कर्तुम् । एवं हि सति सत्तामात्रलक्षणे कृते सकलसद्वस्तुलक्षणानां पौनरुक्त्यप्रसङ्गः । तदेवम्-- विमतिविषयो य आसीन्मनीषिणां सततमविदितसतत्त्वः । लोचनम् रूपं तदेव व्यञ्जकत्वमुच्यतामित्याशङ्क्याह--तदन्तः--पातित्वे ऽपीति । न वयं संज्ञानिवेशनादि निषेधाम इति भावः । विप्रतिपत्तिस्तादृग्विशेषो नास्तीति व्युत्पत्तिः संशयाज्ञाननिरासः । न हीति । उयोगिषु विशेषेषु यानि लक्षणानि तेषाम् । उपयोगिपदेनानुपयोगिनां काकदन्तादीनां व्युदासः । एवं हीति । त्रिपदार्थसङ्करी सत्तेत्यनेनैव द्रव्यगुणकर्मणां लक्षितत्वाच्छ्रुतिस्मृत्यायुर्वदधनुर्वेदप्रभृतीनां बालप्रिया विशिष्टं रूपमिति । अवस्थान्तरपर्यायं विलक्षणं स्वरूपमित्यर्थः । तदेव व्यञ्जक्वत्वमुच्यतामिति । व्यञ्जकत्वाख्यस्यार्थान्तरस्य कल्पनापेक्षया लाघवादिति भावः । वृत्तौ तस्य तदन्तःपातित्वे हठादभिधीयमाने ऽपीति योजना । ऽतदन्तःपातित्वेऽ गुणवृत्तिवाचकत्वाद्यन्तःपातित्वे । ऽतस्यऽ व्यञ्जकत्वस्य । ऽतद्विशेषस्य लोचने--न वयमित्यादि । वयं संज्ञानिवेशनादि न निषेधाम इति । अस्मदभिमतस्य व्यञ्जकत्वस्य विलक्षणस्वरूपाभिधादिसंज्ञा यदि क्रियते, तर्हि तां न निषेधाम इत्यर्थः । वस्तुनि हि समुचिता विमतिर्न नाममात्र इति भावः । विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिरिति व्युत्पत्तिमभिप्रेत्य तत्पदं व्याचष्टे--तादृगित्यादि । तादृग्विशेषः व्यञ्जकत्वरूपः । व्युत्पत्तिपदेन विवक्षितमाह--संशयेति । उपयोगीत्यादिग्रन्थं विवृणोति--उपयोगिष्वित्यादि । उपयोगिषु लोकयात्रोपयोगिषु । विशेषेषु वस्तुविशेषेषु । तद्गतानीति यावत् । उपयोगिष्विति विशेषणस्य फलमाह--उपयोगिपदेनेत्यादि वैशेषिकदर्शने द्रव्यादिपदार्थानामुर्दृशानन्तरमादौ "सदनित्यमि"त्यादिसूत्रेण द्रव्यगुणकर्मणां त्रयाणां सत्तावत्वादिकं लक्षणमभिहितं, तन्मनसि कृत्योक्तं वृत्तौ ऽसत्तामात्रेऽ त्यादि । तद्विवृणोति--त्रिपदार्थेत्यादि । त्रिपदार्थसङ्करीति । त्रिपदार्थसङ्कीर्णति पाठस्साधुः । द्रव्यादिपदार्थत्रयव्याप्तेत्यर्थः । सकलेत्यादिप्रसङ्ग इत्यन्तेन विवक्षितं व्याचष्टे--श्रुतीत्यादि । अनारम्भे बाधकं दर्शयति--सकलेत्यादि । वृत्तावुपसंहरति--ऽतदेवम्ऽ इत्यादि । ऽविमतीऽत्यादिश्लोको वृत्यन्तर्गतः । ऽअविदितिसतत्वऽ ध्वनिसञ्ज्ञितः प्रकारः काव्यस्य व्यञ्जितः सो ऽयम् ॥ प्रकारो ऽन्यो गुणी-भूत-व्यङ्ग्यः काव्यस्य दृश्यते । यत्र व्यङ्ग्यान्वये वाच्य-चारुत्वं स्यात् प्रकर्षवत्
na hi sāmānyamātralakṣaṇenopayogiviśeṣalakṣaṇānāṃ pratikṣepaḥ / śakyaḥ kartum / evaṃ hi sati sattāmātralakṣaṇe kṛte sakalasadvastulakṣaṇānāṃ paunaruktyaprasaṅgaḥ / tadevam-- vimativiṣayo ya āsīnmanīṣiṇāṃ satatamaviditasatattvaḥ / locanam rūpaṃ tadeva vyañjakatvamucyatāmityāśaṅkyāha--tadantaḥ--pātitve 'pīti / na vayaṃ saṃjñāniveśanādi niṣedhāma iti bhāvaḥ / vipratipattistādṛgviśeṣo nāstīti vyutpattiḥ saṃśayājñānanirāsaḥ / na hīti / uyogiṣu viśeṣeṣu yāni lakṣaṇāni teṣām / upayogipadenānupayogināṃ kākadantādīnāṃ vyudāsaḥ / evaṃ hīti / tripadārthasaṅkarī sattetyanenaiva dravyaguṇakarmaṇāṃ lakṣitatvācchrutismṛtyāyurvadadhanurvedaprabhṛtīnāṃ bālapriyā viśiṣṭaṃ rūpamiti / avasthāntaraparyāyaṃ vilakṣaṇaṃ svarūpamityarthaḥ / tadeva vyañjakvatvamucyatāmiti / vyañjakatvākhyasyārthāntarasya kalpanāpekṣayā lāghavāditi bhāvaḥ / vṛttau tasya tadantaḥpātitve haṭhādabhidhīyamāne 'pīti yojanā / 'tadantaḥpātitve' guṇavṛttivācakatvādyantaḥpātitve / 'tasya' vyañjakatvasya / 'tadviśeṣasya locane--na vayamityādi / vayaṃ saṃjñāniveśanādi na niṣedhāma iti / asmadabhimatasya vyañjakatvasya vilakṣaṇasvarūpābhidhādisaṃjñā yadi kriyate, tarhi tāṃ na niṣedhāma ityarthaḥ / vastuni hi samucitā vimatirna nāmamātra iti bhāvaḥ / viruddhā pratipattirvipratipattiriti vyutpattimabhipretya tatpadaṃ vyācaṣṭe--tādṛgityādi / tādṛgviśeṣaḥ vyañjakatvarūpaḥ / vyutpattipadena vivakṣitamāha--saṃśayeti / upayogītyādigranthaṃ vivṛṇoti--upayogiṣvityādi / upayogiṣu lokayātropayogiṣu / viśeṣeṣu vastuviśeṣeṣu / tadgatānīti yāvat / upayogiṣviti viśeṣaṇasya phalamāha--upayogipadenetyādi vaiśeṣikadarśane dravyādipadārthānāmurdṛśānantaramādau "sadanityami"tyādisūtreṇa dravyaguṇakarmaṇāṃ trayāṇāṃ sattāvatvādikaṃ lakṣaṇamabhihitaṃ, tanmanasi kṛtyoktaṃ vṛttau 'sattāmātre' tyādi / tadvivṛṇoti--tripadārthetyādi / tripadārthasaṅkarīti / tripadārthasaṅkīrṇati pāṭhassādhuḥ / dravyādipadārthatrayavyāptetyarthaḥ / sakaletyādiprasaṅga ityantena vivakṣitaṃ vyācaṣṭe--śrutītyādi / anārambhe bādhakaṃ darśayati--sakaletyādi / vṛttāvupasaṃharati--'tadevam' ityādi / 'vimatī'tyādiśloko vṛtyantargataḥ / 'aviditisatatva' dhvanisañjñitaḥ prakāraḥ kāvyasya vyañjitaḥ so 'yam // prakāro 'nyo guṇī-bhūta-vyaṅgyaḥ kāvyasya dṛśyate / yatra vyaṅgyānvaye vācya-cārutvaṃ syāt prakarṣavat
Sanskrit only: no published translation is held for this verse.
युवतिगतनिरतिशयलावण्यपूरव्याप्तत्वाल्लावण्यमयी सिन्धुर्यसायस्सेत्यर्थात्सन्धुशब्दो ऽत्रापि पक्षे मुख्यार्थक एव, न च प्रागुक्तदोषस्तरुण्या एव वर्णनीयत्वादिति भावः । पक्षत्रये ऽपि विवक्षितगुणीभूतव्यङ्ग्यप्रभेदत्वं निर्भाधमित्याह--सर्वर्थेत्यादि । निरूपितमिति । यथात्र व्यङ्ग्यस्य नायकवृत्तान्तस्य गुणीभावस्तथा दर्शितमित्यर्थः । ननु सन्ध्यादिशब्दानामतिरस्कृतवाच्यानामेन नायिकाद्यर्थप्रत्यायकत्वे ऽप्यनुरागशब्दस्य प्रेमवाचकत्वेनैव प्रसिद्धस्य रक्तिमरूपप्रकृतार्थे जहत्स्वार्थलक्षणाया एव वक्तव्यतया कथमतिरस्कृतवाच्यत्वमिति शङ्कां परिजिहीर्षुः प्रत्युत तत्पदस्य योगरूढ्या रक्तिमवाचकत्वमेव, प्रेमरूपार्थे इत्यादि । रसादिरूपव्यङ्ग्यस्य गुणीभावो रसवदलङ्कारे दर्शितः; तत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवहनप्रवृत्तभृत्यानुयायिराजवत् । व्यङ्ग्यालङ्कारस्य गुणीभावे दीवकादिविषयः । लोचनम् एतच्च प्रथमोद्द्योत एव निरूपितम् अनुरागशब्दस्य चाभिलाषे तदुपरक्तत्वलक्षणया लावण्यशब्दवत्प्रवृत्तिरित्यभिप्रायेणातिरस्कृतवाच्यत्वमुक्तम् । तस्यैवेति । वस्तुमात्रस्य । रसादीति । आदिशब्देन भावादयः रसवच्छब्देन प्रेयस्विप्रभृतयो ऽलङ्कारा उपलक्षिताः । नन्वत्यर्थं प्रधानभूतस्य रासदेः कथं गुणीभावः, गुणीभावे वा कथमचारुत्वं न स्यादित्याशङ्क्य प्रत्युत सुन्दरता भवतीति प्रसिद्धदृष्टान्तमुखेन दर्शयति---तत्र चेति । रसवदाद्यलङ्कारविषये । एवं वस्तुनो रसादेश्च गुणीभावं प्रदर्श्यालङ्कारात्मनो ऽपि तृतीयस्य व्यङ्ग्यप्रकारस्य तं दर्शयति---व्यङ्ग्यालङ्कारस्येति । उपमादेः ॥ ३।४ ॥ एवं प्रकारत्रयस्यापि गुणभावं प्रदर्श्य बहुतरलक्ष्यव्यापकतास्येति दर्शयितुमाह---तथेति । बालप्रिया तु निरूढलक्षणेत्यतिरस्कृतावाच्यत्वसुपपन्नमेवेति दर्शयति--अनुरागशब्दस्येत्यादि । अभिलाषे प्रेम्णि । तदिति । तत्पदार्थस्तद्वस्तु तदुपरक्तं येन तत्त्वं वस्तूपरञ्जकत्वं तेन निमित्तेन लक्षणयेत्यर्थः । लावण्यशब्दवदिति । सुषमाविशेषे लावण्यशब्दस्येवेत्यर्थः । प्रेमरूपार्थो व्यङ्ग्य एवेति बोध्यम् । रसवच्छब्देनेति । रसवदलङ्कारे दर्शित इत्यत्रत्यरसवच्छब्देनेत्यर्थः । रसवदलङ्कारविषयः प्राक्दर्शित इति च वृत्तौ पाठः । दृष्टान्तप्रदर्शनपूर्वकं रसादेर्गुणीभावप्रदर्शनस्य फलं तदसम्भवशङ्कानिवृत्तिरित्याशयेन शङ्कामाह--नन्वत्यर्थमित्यादि । वाच्यस्याप्यापेक्षिकं प्राधान्यमस्तीत्यतो ऽत्यर्थमित्युक्तम् । कथमिति । प्राधान्यगुणीभावयोरेकत्र समावेशो विरुद्ध एवेति भावः । ननु प्रधानस्यापि सतो रसादेः कविविवक्षावशाद्गुणीभावः किन्न स्यादित्यत आह--गुणीभावे वेति । प्रसिद्धदृष्टान्तेति । सुन्दरत्वेन प्रसिद्धदृष्टान्तेत्यर्थः । न हि राज्ञो विवाहप्रवृत्तमृत्यानुयायित्वमसुन्दरं भाति, प्रत्युत भृत्योत्कर्षविशेषो ऽपि राजोत्कर्षातिशयायैव कल्पिष्यत इति चारुत्वमेव पुष्णातीति भावः ॥ ३।४ ॥ अस्येति । गुणीभूतव्यङ्ग्यस्येत्यर्थः । प्रसादगुणयोगात्प्रसन्नानि व्यङ्ग्यार्थाक्षेपकत्वाद्गम्भीराणि चेति सम्बन्धः । सुखावहा इत्यनेन तेषु प्रकारो ऽयमेव योज्य तथा--- प्रसन्न-गम्भीर-पदाः काव्य-बन्धाः सुखावहाः । ये च तेषु प्रकारो ऽयम् एव योज्याः सुमेधसा
yuvatigataniratiśayalāvaṇyapūravyāptatvāllāvaṇyamayī sindhuryasāyassetyarthātsandhuśabdo 'trāpi pakṣe mukhyārthaka eva, na ca prāguktadoṣastaruṇyā eva varṇanīyatvāditi bhāvaḥ / pakṣatraye 'pi vivakṣitaguṇībhūtavyaṅgyaprabhedatvaṃ nirbhādhamityāha--sarvarthetyādi / nirūpitamiti / yathātra vyaṅgyasya nāyakavṛttāntasya guṇībhāvastathā darśitamityarthaḥ / nanu sandhyādiśabdānāmatiraskṛtavācyānāmena nāyikādyarthapratyāyakatve 'pyanurāgaśabdasya premavācakatvenaiva prasiddhasya raktimarūpaprakṛtārthe jahatsvārthalakṣaṇāyā eva vaktavyatayā kathamatiraskṛtavācyatvamiti śaṅkāṃ parijihīrṣuḥ pratyuta tatpadasya yogarūḍhyā raktimavācakatvameva, premarūpārthe ityādi / rasādirūpavyaṅgyasya guṇībhāvo rasavadalaṅkāre darśitaḥ; tatra ca teṣāmādhikārikavākyāpekṣayā guṇībhāvo vivahanapravṛttabhṛtyānuyāyirājavat / vyaṅgyālaṅkārasya guṇībhāve dīvakādiviṣayaḥ / locanam etacca prathamoddyota eva nirūpitam anurāgaśabdasya cābhilāṣe taduparaktatvalakṣaṇayā lāvaṇyaśabdavatpravṛttirityabhiprāyeṇātiraskṛtavācyatvamuktam / tasyaiveti / vastumātrasya / rasādīti / ādiśabdena bhāvādayaḥ rasavacchabdena preyasviprabhṛtayo 'laṅkārā upalakṣitāḥ / nanvatyarthaṃ pradhānabhūtasya rāsadeḥ kathaṃ guṇībhāvaḥ, guṇībhāve vā kathamacārutvaṃ na syādityāśaṅkya pratyuta sundaratā bhavatīti prasiddhadṛṣṭāntamukhena darśayati---tatra ceti / rasavadādyalaṅkāraviṣaye / evaṃ vastuno rasādeśca guṇībhāvaṃ pradarśyālaṅkārātmano 'pi tṛtīyasya vyaṅgyaprakārasya taṃ darśayati---vyaṅgyālaṅkārasyeti / upamādeḥ // 3.4 // evaṃ prakāratrayasyāpi guṇabhāvaṃ pradarśya bahutaralakṣyavyāpakatāsyeti darśayitumāha---tatheti / bālapriyā tu nirūḍhalakṣaṇetyatiraskṛtāvācyatvasupapannameveti darśayati--anurāgaśabdasyetyādi / abhilāṣe premṇi / taditi / tatpadārthastadvastu taduparaktaṃ yena tattvaṃ vastūparañjakatvaṃ tena nimittena lakṣaṇayetyarthaḥ / lāvaṇyaśabdavaditi / suṣamāviśeṣe lāvaṇyaśabdasyevetyarthaḥ / premarūpārtho vyaṅgya eveti bodhyam / rasavacchabdeneti / rasavadalaṅkāre darśita ityatratyarasavacchabdenetyarthaḥ / rasavadalaṅkāraviṣayaḥ prākdarśita iti ca vṛttau pāṭhaḥ / dṛṣṭāntapradarśanapūrvakaṃ rasāderguṇībhāvapradarśanasya phalaṃ tadasambhavaśaṅkānivṛttirityāśayena śaṅkāmāha--nanvatyarthamityādi / vācyasyāpyāpekṣikaṃ prādhānyamastītyato 'tyarthamityuktam / kathamiti / prādhānyaguṇībhāvayorekatra samāveśo viruddha eveti bhāvaḥ / nanu pradhānasyāpi sato rasādeḥ kavivivakṣāvaśādguṇībhāvaḥ kinna syādityata āha--guṇībhāve veti / prasiddhadṛṣṭānteti / sundaratvena prasiddhadṛṣṭāntetyarthaḥ / na hi rājño vivāhapravṛttamṛtyānuyāyitvamasundaraṃ bhāti, pratyuta bhṛtyotkarṣaviśeṣo 'pi rājotkarṣātiśayāyaiva kalpiṣyata iti cārutvameva puṣṇātīti bhāvaḥ // 3.4 // asyeti / guṇībhūtavyaṅgyasyetyarthaḥ / prasādaguṇayogātprasannāni vyaṅgyārthākṣepakatvādgambhīrāṇi ceti sambandhaḥ / sukhāvahā ityanena teṣu prakāro 'yameva yojya tathā--- prasanna-gambhīra-padāḥ kāvya-bandhāḥ sukhāvahāḥ / ye ca teṣu prakāro 'yam eva yojyāḥ sumedhasā
Sanskrit only: no published translation is held for this verse.
प्रसन्नगम्भीरपदाः काव्यबनधाः सुखावहाः । ये च तेषु प्रकारो ऽयमेव योज्यः सुमेधसा ॥ ३५ ॥ ये चैते ऽपरिमितस्वरूपा अपि प्रकाशमानास्तथाविधार्थरमणीयाः सन्तो विवेकिनां सुखावहाः, काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणीभूतव्यङ्ग्यो नाम योजनीयः । यथाः--- लच्छी दुहिदा जामाउओ हरी तंस धरिणिआ गङ्गा । लोचनम् प्रसन्नानि प्रसादगुणयोगाद्गभीराणि च व्यङ्ग्यार्थक्षेपकत्वात्पदानि येषु । सुखावहा इति चारुत्वहेतुः । तत्रायमेव प्रकार इति भावः । सुमेधसेति । यस्त्वेतं प्रकारं तत्र योजयितुं न शक्तः स परमलीकसहृदयभावनामुकुलितलोचनोक्त्योपहसनीयः स्यादिति भावः । लक्ष्मीः सकलजनाभिलाषभूमिर्दुहिता । जमाता हरिः यः समस्तभोगापवर्गदानसततोद्यमी । तथा गृहिणी गङ्गा यस्याः समभिलषणीये सर्वस्मिन्वस्तुन्यपहत उपायभावः । अमृतमृगाङ्कौ च सुतौ, अमृतमिह वारुणी । तेन गङ्गास्नानहरिचरणाराधनाद्युपायशतलब्धाया लक्ष्म्याश्चन्द्रोदयपानगोष्ठ्युपभोगलक्षणं मुख्यें फलमिति त्रैलोक्यसारभूतता बालप्रिया इत्यत्र तत्प्रकारस्य चारुत्वेहेतुत्वं दर्शितमित्याशयेनाह--चारुत्वहेतुरित्यादि । तत्र तथाविधे काव्यबन्धे । सहृदयत्वप्रतिष्टालाभश्चैतत्प्रकारयोजनकौशलशालितानिबन्धन एवेति तदर्थिभिस्तद्विषये महाप्रयत्न आधेय इति दर्शयितुं सुमेधसेत्युक्तमित्याह--यस्त्वेतमित्यादि । अलीकेति । अयं न सहृदयः किन्त्वलीकसहृदयभावनया असत्यस्य सहृदयत्वस्थ भावनया रसास्वादवैवश्यं मनसः प्रकटयितुं मुकुलितलोचन आस्ते, पश्यतास्य विप्रलम्भकभावमिति सहृदयगोष्ठीषुपरिहासपात्रं स्यादित्यर्थः । लक्ष्मीर्दुहिता जामाता हरिस्तस्य हिणी गङ्गा । अमृतमृगाङ्कौ च सुतावहो कुटुम्बं महोदधः ॥ इति छाया । पदानामेतद्गतानां व्यङ्ग्यमर्थजातन्दर्शयन्योजनामाह--लक्षमीरित्यादि । सकलेत्यादि । समस्तेत्यादि । यस्या इत्यादि च तत्तत्पदव्यङ्ग्यार्थकथनम् । अमृतमिति । अमृतपदार्थं इत्यर्थः । वारुणीति । न पीयूषं तस्य चन्द्रोदयवदखिलजनसाधारण्याभावादिति भावः । तेनेति । उक्तेनार्थजातेनेत्यर्थः । गङ्गास्नानेत्यादिगुणीभावमनुभवतीत्यन्तस्यायमर्थः । यस्यां स्नानाद्यदाराधनादितश्च या लभ्यते सा गङ्गास्य गृहिण्येव, स हरिरस्य जामातैव, सा लक्ष्मीरस्यात्मजैव, लब्धाया आमिअमिअङ्का अ सुआ अहो कुडुम्बं महोअहिणो ॥ वाच्यालङ्कार-वर्गो ऽयं व्यङ्ग्यांशानुगमे सति । प्रायेणैव परां छायां बिभ्रल् लक्ष्ये निरीक्ष्यते
prasannagambhīrapadāḥ kāvyabanadhāḥ sukhāvahāḥ / ye ca teṣu prakāro 'yameva yojyaḥ sumedhasā // 35 // ye caite 'parimitasvarūpā api prakāśamānāstathāvidhārtharamaṇīyāḥ santo vivekināṃ sukhāvahāḥ, kāvyabandhāsteṣu sarveṣvevāyaṃ prakāro guṇībhūtavyaṅgyo nāma yojanīyaḥ / yathāḥ--- lacchī duhidā jāmāuo harī taṃsa dhariṇiā gaṅgā / locanam prasannāni prasādaguṇayogādgabhīrāṇi ca vyaṅgyārthakṣepakatvātpadāni yeṣu / sukhāvahā iti cārutvahetuḥ / tatrāyameva prakāra iti bhāvaḥ / sumedhaseti / yastvetaṃ prakāraṃ tatra yojayituṃ na śaktaḥ sa paramalīkasahṛdayabhāvanāmukulitalocanoktyopahasanīyaḥ syāditi bhāvaḥ / lakṣmīḥ sakalajanābhilāṣabhūmirduhitā / jamātā hariḥ yaḥ samastabhogāpavargadānasatatodyamī / tathā gṛhiṇī gaṅgā yasyāḥ samabhilaṣaṇīye sarvasminvastunyapahata upāyabhāvaḥ / amṛtamṛgāṅkau ca sutau, amṛtamiha vāruṇī / tena gaṅgāsnānaharicaraṇārādhanādyupāyaśatalabdhāyā lakṣmyāścandrodayapānagoṣṭhyupabhogalakṣaṇaṃ mukhyeṃ phalamiti trailokyasārabhūtatā bālapriyā ityatra tatprakārasya cārutvehetutvaṃ darśitamityāśayenāha--cārutvaheturityādi / tatra tathāvidhe kāvyabandhe / sahṛdayatvapratiṣṭālābhaścaitatprakārayojanakauśalaśālitānibandhana eveti tadarthibhistadviṣaye mahāprayatna ādheya iti darśayituṃ sumedhasetyuktamityāha--yastvetamityādi / alīketi / ayaṃ na sahṛdayaḥ kintvalīkasahṛdayabhāvanayā asatyasya sahṛdayatvastha bhāvanayā rasāsvādavaivaśyaṃ manasaḥ prakaṭayituṃ mukulitalocana āste, paśyatāsya vipralambhakabhāvamiti sahṛdayagoṣṭhīṣuparihāsapātraṃ syādityarthaḥ / lakṣmīrduhitā jāmātā haristasya hiṇī gaṅgā / amṛtamṛgāṅkau ca sutāvaho kuṭumbaṃ mahodadhaḥ // iti chāyā / padānāmetadgatānāṃ vyaṅgyamarthajātandarśayanyojanāmāha--lakṣamīrityādi / sakaletyādi / samastetyādi / yasyā ityādi ca tattatpadavyaṅgyārthakathanam / amṛtamiti / amṛtapadārthaṃ ityarthaḥ / vāruṇīti / na pīyūṣaṃ tasya candrodayavadakhilajanasādhāraṇyābhāvāditi bhāvaḥ / teneti / uktenārthajātenetyarthaḥ / gaṅgāsnānetyādiguṇībhāvamanubhavatītyantasyāyamarthaḥ / yasyāṃ snānādyadārādhanāditaśca yā labhyate sā gaṅgāsya gṛhiṇyeva, sa harirasya jāmātaiva, sā lakṣmīrasyātmajaiva, labdhāyā āmiamiaṅkā a suā aho kuḍumbaṃ mahoahiṇo // vācyālaṅkāra-vargo 'yaṃ vyaṅgyāṃśānugame sati / prāyeṇaiva parāṃ chāyāṃ bibhral lakṣye nirīkṣyate
Sanskrit only: no published translation is held for this verse.
दीपकादौ क्वचिदेव चकास्त्याक्षेपादौ तु गुणीभूतव्यङ्ग्यस्य च प्रकारान्तरेणापि व्यङ्ग्यार्थानुगमलक्षणेन विषयत्वमस्त्येव । तदयं ध्वनिनिष्यन्दरूपो द्वितीयो ऽपि महाकविविषयो ऽतिरमणीयो लक्षणीयः सहृदयैः । सर्वथा नास्त्येव सहृदयहृदयहारिणः काव्यस्य स लोचनम् लक्षितेन सर्वेषां संग्रहः । मैवम्; वस्तुमात्रं वा रसो वा व्यङ्ग्यं सद्गुणीभूतं भविष्यति तदेवाह-गुणीभूतव्यङ्ग्यस्य चेति । प्रकारान्तरेण वस्तुरसात्मनोपलक्षितस्य । यदि वेत्थमवतरणिका--ननु गुणीभूतव्यङ्ग्येनालङ्कारा यदि लक्षितास्तर्हि लक्षणं वक्तव्यं किमिति नोक्तमित्याशङ्क्याह--गुणीभूतेति । विषयत्वमिति लक्षणीयत्वमिति यावत् । केन लक्षणीयत्वं ध्वनिव्यतिरिक्तो यः प्रकारो व्यङ्ग्यत्वेनार्थानुगमो नाम तदेव लक्षणं तेनेत्यर्थः । व्यङ्ग्ये लक्षिते तद्गुणीभावे च निरूपिते किमन्यदस्य लक्षक्रियतामिति तात्पर्यम् । एवं ऽकाव्यस्यात्मा ध्वनिःऽ इति निर्वाह्योपसंहरति--तदयमित्यादिना सौभाग्यमित्यन्तेन । बालप्रिया नेति भावः । तत्कथमित्यादि । अव्यापकत्वादलक्षणमिति भावः । गुणीभूतव्यङ्ग्यत्वमित्यत्र व्यङ्ग्यपदेनालङ्कारमात्रन्न विवक्षिम्; किन्तु वस्तुरसादिकञ्चातो नाव्यापकमिदमित्याह--मैवमित्यादि । वस्तुमात्रं वेति । यत्र गुणीभूतव्यङ्ग्यस्थले ऽलङ्कारो न चकास्ति तत्रेति भावः । व्यङ्ग्यार्थानुगमलक्षणेनेत्येतदर्थतो विवृतं व्यङ्ग्यं सद्गुणीभूतं भविष्यतीत्यनेन । व्यङ्ग्यत्वेनार्थानुगमो वाच्यं प्रति गुणभावः, स लक्षणमसाधारणधर्मः स्वरूपं वा यस्य प्रकारान्तरस्य तेनेति तदर्थः । प्रकारान्तरेणेत्युपलक्षणे तृतोयेत्याह--उपलक्षितस्येति । गुणीभूतव्यङ्ग्यस्येत्यस्य विशेषणं, तथा च वस्तुरसालङ्कारान्यतमस्य गुणीभूतस्य व्यङ्ग्यस्येत्यर्थः । विषयत्वमस्त्येवेत्यनेन सम्बन्धः । अलङ्कारेष्विति विपरिणामेनानुषङ्गः । उक्तग्रन्थयो जनायाः क्लेशसम्पाद्यत्वम्मन्वानः प्रकारान्तरेणाह--यदि वेत्यादि । लक्षिता इति । भवेयुरिति शेषः । तस्य गुणीभूतव्यङ्ग्यस्य । लक्षणेनेत्युक्तेर्विषयत्वमित्यस्य लक्षणीयत्वमित्यर्थस्मिद्ध्यतीत्याह--लक्षणीयत्वमितीति । केन लक्षणीयत्वमिति प्रकारान्तरेणेत्यस्यावतारिका । ध्वनिव्यतिरिक्त इति । पूर्वमलङ्कारापेक्षया प्रकारान्तरत्वमिदानीन्तु ध्वन्यपेक्षयेति विशेषः । अर्थानुगमः वाच्यं प्रति गुणीभावेनावस्थानम् । लक्षणमसाधारणधर्मः । नन्वेतल्लक्षणन्न प्रागुक्तमतः कथं सिद्धवदभिधानमित्यत आह--व्यङ्ग्य इत्यादि । व्यङ्ग्यलक्षणन्तावदुक्तमेव प्रथमोद्योते । यत्र व्यङ्ग्यान्वय इत्यादिना गुणीभावश्च निरूपित इति भावः । तदयमित्याद्युपसंहारस्योपसंहार्यार्थविशेषर्शनेन तात्पर्यमाह । निर्वाह्य निर्व्यूढं कृत्वा । प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यम् । तदिदं काव्यरहस्यं परमिति सूरिभिर्भावनीयम् । मुख्या महा-कवि-गिराम् अलङ्कृति-भृताम् अपि । प्रतीयमान-च्छायैषा भूषा लज्जेव योषिताम्
dīpakādau kvacideva cakāstyākṣepādau tu guṇībhūtavyaṅgyasya ca prakārāntareṇāpi vyaṅgyārthānugamalakṣaṇena viṣayatvamastyeva / tadayaṃ dhvaniniṣyandarūpo dvitīyo 'pi mahākaviviṣayo 'tiramaṇīyo lakṣaṇīyaḥ sahṛdayaiḥ / sarvathā nāstyeva sahṛdayahṛdayahāriṇaḥ kāvyasya sa locanam lakṣitena sarveṣāṃ saṃgrahaḥ / maivam; vastumātraṃ vā raso vā vyaṅgyaṃ sadguṇībhūtaṃ bhaviṣyati tadevāha-guṇībhūtavyaṅgyasya ceti / prakārāntareṇa vasturasātmanopalakṣitasya / yadi vetthamavataraṇikā--nanu guṇībhūtavyaṅgyenālaṅkārā yadi lakṣitāstarhi lakṣaṇaṃ vaktavyaṃ kimiti noktamityāśaṅkyāha--guṇībhūteti / viṣayatvamiti lakṣaṇīyatvamiti yāvat / kena lakṣaṇīyatvaṃ dhvanivyatirikto yaḥ prakāro vyaṅgyatvenārthānugamo nāma tadeva lakṣaṇaṃ tenetyarthaḥ / vyaṅgye lakṣite tadguṇībhāve ca nirūpite kimanyadasya lakṣakriyatāmiti tātparyam / evaṃ 'kāvyasyātmā dhvaniḥ' iti nirvāhyopasaṃharati--tadayamityādinā saubhāgyamityantena / bālapriyā neti bhāvaḥ / tatkathamityādi / avyāpakatvādalakṣaṇamiti bhāvaḥ / guṇībhūtavyaṅgyatvamityatra vyaṅgyapadenālaṅkāramātranna vivakṣim; kintu vasturasādikañcāto nāvyāpakamidamityāha--maivamityādi / vastumātraṃ veti / yatra guṇībhūtavyaṅgyasthale 'laṅkāro na cakāsti tatreti bhāvaḥ / vyaṅgyārthānugamalakṣaṇenetyetadarthato vivṛtaṃ vyaṅgyaṃ sadguṇībhūtaṃ bhaviṣyatītyanena / vyaṅgyatvenārthānugamo vācyaṃ prati guṇabhāvaḥ, sa lakṣaṇamasādhāraṇadharmaḥ svarūpaṃ vā yasya prakārāntarasya teneti tadarthaḥ / prakārāntareṇetyupalakṣaṇe tṛtoyetyāha--upalakṣitasyeti / guṇībhūtavyaṅgyasyetyasya viśeṣaṇaṃ, tathā ca vasturasālaṅkārānyatamasya guṇībhūtasya vyaṅgyasyetyarthaḥ / viṣayatvamastyevetyanena sambandhaḥ / alaṅkāreṣviti vipariṇāmenānuṣaṅgaḥ / uktagranthayo janāyāḥ kleśasampādyatvammanvānaḥ prakārāntareṇāha--yadi vetyādi / lakṣitā iti / bhaveyuriti śeṣaḥ / tasya guṇībhūtavyaṅgyasya / lakṣaṇenetyukterviṣayatvamityasya lakṣaṇīyatvamityarthasmiddhyatītyāha--lakṣaṇīyatvamitīti / kena lakṣaṇīyatvamiti prakārāntareṇetyasyāvatārikā / dhvanivyatirikta iti / pūrvamalaṅkārāpekṣayā prakārāntaratvamidānīntu dhvanyapekṣayeti viśeṣaḥ / arthānugamaḥ vācyaṃ prati guṇībhāvenāvasthānam / lakṣaṇamasādhāraṇadharmaḥ / nanvetallakṣaṇanna prāguktamataḥ kathaṃ siddhavadabhidhānamityata āha--vyaṅgya ityādi / vyaṅgyalakṣaṇantāvaduktameva prathamodyote / yatra vyaṅgyānvaya ityādinā guṇībhāvaśca nirūpita iti bhāvaḥ / tadayamityādyupasaṃhārasyopasaṃhāryārthaviśeṣarśanena tātparyamāha / nirvāhya nirvyūḍhaṃ kṛtvā / prakāro yatra na pratīyamānārthasaṃsparśena saubhāgyam / tadidaṃ kāvyarahasyaṃ paramiti sūribhirbhāvanīyam / mukhyā mahā-kavi-girām alaṅkṛti-bhṛtām api / pratīyamāna-cchāyaiṣā bhūṣā lajjeva yoṣitām
Sanskrit only: no published translation is held for this verse.
प्रतीयमानच्छायेत्येतदप्युपमाने योजयति--प्रतीयमानेत्यादि । पक्षे ऽत्र छायापदार्थो न कान्तिः, किन्तु योषितां यौवनारम्भसम्भाविनी कापि हृदयस्य दशेत्याह--अन्तरित्यादि । अन्तर्मदनोद्भेदजं तद्घृदयसौन्दर्यन्तदेव रूपं यस्यास्सा मदनोद्भेदरूपमनोविकारात्मिकेति यावत् । यया प्रतीयमानेति सम्बन्धः । उक्तमुपपादयति--लज्जेत्यादि । उक्तार्थे व्यतिरेकेण तदसम्भवं हेतुमाह--वीतेत्यादि । कुरङ्गीत्यादिश्लोकः काव्यप्रकाशे उदाहृतः । अत्र हि मन्मथविकारजुगोपयिषा स्पष्टं गम्यते । प्रकारान्तरेणापि तद्यथा---- विस्रम्भोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः के ऽपि लीलाविशेषाः । अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः ॥ लोचनम् कवेः--ऽकुरङ्गीवाङ्गानिऽ इत्यादिश्लोकः । तथा प्रतीयमानस्य प्रियतमाभिलाषानुनायनमानप्रभृतेः चाया कान्तिः यया । शृङ्गाररसतरङ्गिणी हि लज्जावरुद्धा निर्भरतया तास्तान् विलासान्नेत्रगात्रविकारपरम्परारूपान् प्रसूत इति गोपनासारसौन्दर्यलज्जाविजृम्भितमेतदिति भावः । विश्रम्भेति । मन्मथाचार्येण त्रिभुवनवन्द्यमानशासनेन अत एव लज्जासाध्वसध्वंसिना दत्ता येयमलङ्घनीयाज्ञा तदनुष्ठाने ऽवश्यकर्तव्ये सति साध्वसलज्जात्यागेन विस्रम्भसम्भोगकालोपनाताः, मुग्धाक्ष्या इति अकृतकसम्भोगपरिभावनोचितदृष्टिप्रसरपवित्रिता ये ऽन्ये विलासा गात्रनेत्रविकाराः, अत एवाक्षुण्णाः नवनवरूपतया प्रतिक्षणमुन्मिषन्तस्ते, केवलेनान्यात्राव्यग्रेणैकान्तावस्थानपूर्वं सर्वेन्द्रियोपसंहारेण भावयितुं बालप्रिया तत्पदं व्याचष्टे--प्रतीयमानस्येत्यादि । यया हेतुना कान्तिरिति सम्बन्धः । कथं लज्जायास्तद्धेतुत्वमित्यत आह--शृङ्गारेत्यादि । इत्येतदिति सम्बन्धः । नेत्रादिविकारजातं प्रतीयमानच्छायारूपमिति भावः । श्लोकं व्याचष्टे--मन्मथाचार्यणेत्यादि । राजा ज्ञातो ऽप्यनतिलङ्घनीया ह्याचार्याज्ञा "गुरौ रुष्टे न कश्चने"त्यादिवचनादत आचार्यत्वरूपणम् । त्रिभुवनेति । यथोक्तं मालतीमाधवे--ऽअन्त्येषु जन्तुष्विऽत्यादि । अत एव त्रिभुवनवन्दनीयशासनत्वादेव । दत्तेत्यवश्यग्राह्यत्वादिसूचनार्थम् । आज्ञेति । सर्वा युवत्यस्त्यक्तलज्जा साध्वसास्सम्भोगपरा भवेयुरित्याज्ञेत्यर्थः । त्यागेन कर्तव्य इति सम्बन्धः । अकृतकेति । अकृतकाः अकृत्रिमाः तथा सम्भोगस्य या परिभावना आस्वादः, तत्र तदवसर इति यावत् । उचिताश्च ये दृष्टिप्रसरास्तैः पवित्रिता इत्यर्थः । सम्भोगपरिभोगेति च पाठः । लीलाविशेषा इत्यत्रत्यविशेषपदार्थकथनम् । अन्ये इति । असाधारणा इत्यर्थः । अत एव अन्यत्वादेव । एकान्तावस्थानफलमुक्तम्--सर्वेन्द्रियोपसंहारेणेति । कृत्यप्रत्ययार्थं द्वेधाह--शक्या अर्हा इति । इत्यत्र के ऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं वस्त्वक्लिष्टमनन्तमर्पयता का छाया नोपपादिता । अर्थान्तर-गतिः काक्वा या चैषा परिदृश्यते । सा व्यङ्ग्यस्य गुणी-भावे प्रकारम् इमम् आश्रिता आम असत्यः उपरम पतिव्रते न त्या मलिनितं शीलम् । किं पुनर्जनस्य जायेव नापितं तं न कामयामहे ॥ इति च्छाया । आम असत्यो भवामः इत्यभ्युपगमकाकुः साकाङ्क्षोपहासा । उपरमेति निराकाङ्क्षतया सूचनगर्भा । पतिव्रते इति दीप्तस्मितयोगिनी । न त्वया मलिनितं शीलमिति सगद्गदाकाङ्क्षा । किं पुनर्जनस्य जायेव मन्मथान्धीकृता, चन्दिलं नापितमिति पामरप्रकृतिं न कामयामहे इति निराकाङ्क्षगद्गदोपहासगर्भा । एषा हि कयाचिन्नापि तानुरक्तया कुलवध्वा दृष्टाविनयाया उपहास्यमानायाः प्रत्युपहासावेशगर्भोक्तिः काकुप्रधानैवेति । गुणीभावं दर्शयितुं शब्दस्पृष्टतां तावत्साधयति--शब्दशक्तिरेवेत्यादिना । बालप्रिया दीप्ततारावलङ्कारान्तर्गतौ प्रशमनोद्दीपने त्वङ्गान्तर्गते इति विवेकः । अयमर्थ इति । मयि जीवति धार्तराष्ट्राः स्वस्था भवन्तीति वाच्यार्थ इत्यर्थः । स्पृशन्तीति । विषयीकुर्वाणा सतीत्यर्थः । तेनैव उक्तेन व्यङ्ग्येनैव । उपकृता सतीति हेतुकथनम् । व्यङ्ग्येति । असम्भाव्यत्वादिरूपोक्तव्यङ्ग्येनोपस्कृतस्येत्यर्थः । आधत्त सम्पादयति । तथाच व्यङ्ग्यं गुणीभूतमिति भावः । आमेति । वयमसत्यः स्वैरिण्यो भवामः । आमेत्यभ्युपगमे । उपरम त्वं मदुपहासाद्विरम । शीलं सद्वृत्तम् । किं पुनः किन्तु । जनस्य जायेवेति । त्वमिवेत्यर्थः । त्वं यथा कामयसे तथेति यावत् । लोचने--साकाङ्क्षेति । साकाङ्क्षा उपहासव्यञ्जिका चेत्यर्थः । पतिव्रत इति न मलिनितमित्यत्र च काक्वा तत्तदभावो व्यङ्ग्य इत्यभिप्रायेणाह--पतिव्रत इत्यादि । चन्दिलमित्यस्य छाया--नापितमिति । तेन गम्यमाह--पामरेति । गुणीभावमिति । व्यङ्ग्यस्येति शेषः । अनुगम इत्यस्य तद्विशिष्टवाच्यप्रतीतिस्तदा गुणीभूतव्यङ्ग्यतया तथाविधार्थद्योतिनः काव्यस्य व्यपदेशः । व्यङ्ग्यविशिष्टवाच्याभिधायिनो हि गुणीभूत्वयङ्ग्यत्वम् । प्रभेदस्यास्य विषयो यश् च युक्त्या प्रतीयते । विधातव्या सहृदयैर् न तत्र ध्वनि-योजना
pratīyamānacchāyetyetadapyupamāne yojayati--pratīyamānetyādi / pakṣe 'tra chāyāpadārtho na kāntiḥ, kintu yoṣitāṃ yauvanārambhasambhāvinī kāpi hṛdayasya daśetyāha--antarityādi / antarmadanodbhedajaṃ tadghṛdayasaundaryantadeva rūpaṃ yasyāssā madanodbhedarūpamanovikārātmiketi yāvat / yayā pratīyamāneti sambandhaḥ / uktamupapādayati--lajjetyādi / uktārthe vyatirekeṇa tadasambhavaṃ hetumāha--vītetyādi / kuraṅgītyādiślokaḥ kāvyaprakāśe udāhṛtaḥ / atra hi manmathavikārajugopayiṣā spaṣṭaṃ gamyate / prakārāntareṇāpi tadyathā---- visrambhotthā manmathājñāvidhāne ye mugdhākṣyāḥ ke 'pi līlāviśeṣāḥ / akṣuṇṇāste cetasā kevalena sthitvaikānte santataṃ bhāvanīyāḥ // locanam kaveḥ--'kuraṅgīvāṅgāni' ityādiślokaḥ / tathā pratīyamānasya priyatamābhilāṣānunāyanamānaprabhṛteḥ cāyā kāntiḥ yayā / śṛṅgārarasataraṅgiṇī hi lajjāvaruddhā nirbharatayā tāstān vilāsānnetragātravikāraparamparārūpān prasūta iti gopanāsārasaundaryalajjāvijṛmbhitametaditi bhāvaḥ / viśrambheti / manmathācāryeṇa tribhuvanavandyamānaśāsanena ata eva lajjāsādhvasadhvaṃsinā dattā yeyamalaṅghanīyājñā tadanuṣṭhāne 'vaśyakartavye sati sādhvasalajjātyāgena visrambhasambhogakālopanātāḥ, mugdhākṣyā iti akṛtakasambhogaparibhāvanocitadṛṣṭiprasarapavitritā ye 'nye vilāsā gātranetravikārāḥ, ata evākṣuṇṇāḥ navanavarūpatayā pratikṣaṇamunmiṣantaste, kevalenānyātrāvyagreṇaikāntāvasthānapūrvaṃ sarvendriyopasaṃhāreṇa bhāvayituṃ bālapriyā tatpadaṃ vyācaṣṭe--pratīyamānasyetyādi / yayā hetunā kāntiriti sambandhaḥ / kathaṃ lajjāyāstaddhetutvamityata āha--śṛṅgāretyādi / ityetaditi sambandhaḥ / netrādivikārajātaṃ pratīyamānacchāyārūpamiti bhāvaḥ / ślokaṃ vyācaṣṭe--manmathācāryaṇetyādi / rājā jñāto 'pyanatilaṅghanīyā hyācāryājñā "gurau ruṣṭe na kaścane"tyādivacanādata ācāryatvarūpaṇam / tribhuvaneti / yathoktaṃ mālatīmādhave--'antyeṣu jantuṣvi'tyādi / ata eva tribhuvanavandanīyaśāsanatvādeva / dattetyavaśyagrāhyatvādisūcanārtham / ājñeti / sarvā yuvatyastyaktalajjā sādhvasāssambhogaparā bhaveyurityājñetyarthaḥ / tyāgena kartavya iti sambandhaḥ / akṛtaketi / akṛtakāḥ akṛtrimāḥ tathā sambhogasya yā paribhāvanā āsvādaḥ, tatra tadavasara iti yāvat / ucitāśca ye dṛṣṭiprasarāstaiḥ pavitritā ityarthaḥ / sambhogaparibhogeti ca pāṭhaḥ / līlāviśeṣā ityatratyaviśeṣapadārthakathanam / anye iti / asādhāraṇā ityarthaḥ / ata eva anyatvādeva / ekāntāvasthānaphalamuktam--sarvendriyopasaṃhāreṇeti / kṛtyapratyayārthaṃ dvedhāha--śakyā arhā iti / ityatra ke 'pītyanena padena vācyamaspaṣṭamabhidadhatā pratīyamānaṃ vastvakliṣṭamanantamarpayatā kā chāyā nopapāditā / arthāntara-gatiḥ kākvā yā caiṣā paridṛśyate / sā vyaṅgyasya guṇī-bhāve prakāram imam āśritā āma asatyaḥ uparama pativrate na tyā malinitaṃ śīlam / kiṃ punarjanasya jāyeva nāpitaṃ taṃ na kāmayāmahe // iti cchāyā / āma asatyo bhavāmaḥ ityabhyupagamakākuḥ sākāṅkṣopahāsā / uparameti nirākāṅkṣatayā sūcanagarbhā / pativrate iti dīptasmitayoginī / na tvayā malinitaṃ śīlamiti sagadgadākāṅkṣā / kiṃ punarjanasya jāyeva manmathāndhīkṛtā, candilaṃ nāpitamiti pāmaraprakṛtiṃ na kāmayāmahe iti nirākāṅkṣagadgadopahāsagarbhā / eṣā hi kayācinnāpi tānuraktayā kulavadhvā dṛṣṭāvinayāyā upahāsyamānāyāḥ pratyupahāsāveśagarbhoktiḥ kākupradhānaiveti / guṇībhāvaṃ darśayituṃ śabdaspṛṣṭatāṃ tāvatsādhayati--śabdaśaktirevetyādinā / bālapriyā dīptatārāvalaṅkārāntargatau praśamanoddīpane tvaṅgāntargate iti vivekaḥ / ayamartha iti / mayi jīvati dhārtarāṣṭrāḥ svasthā bhavantīti vācyārtha ityarthaḥ / spṛśantīti / viṣayīkurvāṇā satītyarthaḥ / tenaiva uktena vyaṅgyenaiva / upakṛtā satīti hetukathanam / vyaṅgyeti / asambhāvyatvādirūpoktavyaṅgyenopaskṛtasyetyarthaḥ / ādhatta sampādayati / tathāca vyaṅgyaṃ guṇībhūtamiti bhāvaḥ / āmeti / vayamasatyaḥ svairiṇyo bhavāmaḥ / āmetyabhyupagame / uparama tvaṃ madupahāsādvirama / śīlaṃ sadvṛttam / kiṃ punaḥ kintu / janasya jāyeveti / tvamivetyarthaḥ / tvaṃ yathā kāmayase tatheti yāvat / locane--sākāṅkṣeti / sākāṅkṣā upahāsavyañjikā cetyarthaḥ / pativrata iti na malinitamityatra ca kākvā tattadabhāvo vyaṅgya ityabhiprāyeṇāha--pativrata ityādi / candilamityasya chāyā--nāpitamiti / tena gamyamāha--pāmareti / guṇībhāvamiti / vyaṅgyasyeti śeṣaḥ / anugama ityasya tadviśiṣṭavācyapratītistadā guṇībhūtavyaṅgyatayā tathāvidhārthadyotinaḥ kāvyasya vyapadeśaḥ / vyaṅgyaviśiṣṭavācyābhidhāyino hi guṇībhūtvayaṅgyatvam / prabhedasyāsya viṣayo yaś ca yuktyā pratīyate / vidhātavyā sahṛdayair na tatra dhvani-yojanā
Sanskrit only: no published translation is held for this verse.
यथा च--- प्रायच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता । न किञ्चिदूचे चरणेन केवलं लिलेश बाष्पाकुललोचना भुवम् ॥ इत्यत्र ऽनिर्वचनं जघानऽ ऽन किञ्जिदूचेऽ इति प्रतिषेधमुखेन व्यङ्ग्यस्यार्थस्योक्त्या किञ्चिद्विषयीकृतत्वाद्गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्ग्यो ऽर्थस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् । यथा ऽएवं वादिनि देवर्षौऽ इत्यादौ । इह पुनरुक्तिर्भङ्ग्यास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान्नात्रानुरणनरूपव्यङ्ग्यध्वनिव्यपदेशो विधेयः । लोचनम् प्रायच्छतेति । उच्चैरिति । उच्चैर्यानि कुसुमानि कान्तया स्वयं ग्रहीतुमशक्यत्वाद्य्वाचितानीत्यर्थः । अस्मदुपाध्यायास्तु हृद्यतमानि पुष्पाणि अमुके, गृहाणगृहाणेत्युच्चैस्तारस्वरेणादरातिशयार्थं प्रयच्छता । अत एव लम्भितेति । न किञ्चिदिति । एवंविधेषु शृङ्गारावसरेषुतामेवायं स्मरतीति माननप्रदर्शनमेवात्र न युक्तमिति सातिशयमन्युसंभारो व्यङ्ग्यो वचननिषेधस्यैव वाच्यस्य संस्कारः । तद्वक्ष्यति--उक्तिर्भङ्ग्यास्तीति । तस्येति व्यङ्ग्यस्य । इहेतु पत्युरित्यादौ । वाच्यस्यापीति । अपिशब्दो भिन्नक्रमः । ध्वनिशब्दस्य विशेषममुक्तम् ॥३९ ॥ बालप्रिया एतद्विशेषणव्यङ्ग्यमाह--कान्तयेत्यादि । उच्चैःशब्दस्य तारस्वरार्थकत्वं प्रदानक्रियाविशेषणत्वं च स्वाभिमतमित्याह--अस्मदित्यादि । अमुक इति । पाणितलादिपात्र इत्षथः । पुष्पाणीत्यनेन सम्बन्धः । उच्चैरित्यस्य व्याख्यानम्--तारस्वरेणेति । तारस्वरेम दाने निमित्तमादरातिशयद्योतनमित्याह--आदरेति । उक्तार्थसामञ्जस्यद्रढिम्ने पदान्तरमनुकूलयति--अत एवेत्यादि । अत एव तारस्वरेम कुसुमदानादेव । ऽन किञ्चिदूचऽ इत्यस्य प्रयोजनं दर्शयन् व्यङ्ग्यमाह--एवं विधेष्वित्यादि । मानप्रदर्शनमिति । अक्षिविवर्तनाद्यनुभावद्वारेति भावः । तदिति । व्यङ्ग्यस्य वाच्योपस्कारकतया वाच्यायमानत्वमित्यरिथः । भिन्नक्रम इति । अन्यथा व्याहतस्स्यादिति भावः । विशेषणमिति । अनुरणनेत्यादिविशेषणमित्यार्थः । असंलक्ष्यक्रमव्यङ्ग्यध्वनिरूपत्वस्यात्रापि सत्त्वद्योतकं हि तद्विशेषणमिति भावः ॥ ३।९ ॥ प्रकारो ऽयं गुणीभूत-व्यङ्ग्यो ऽपि ध्वनि-रूपताम् । धत्ते रसादि-तात्पर्य-पर्यालोचनया पुनः
yathā ca--- prāyacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā / na kiñcidūce caraṇena kevalaṃ lileśa bāṣpākulalocanā bhuvam // ityatra 'nirvacanaṃ jaghāna' 'na kiñjidūce' iti pratiṣedhamukhena vyaṅgyasyārthasyoktyā kiñcidviṣayīkṛtatvādguṇībhāva eva śobhate / yadā vakroktiṃ vinā vyaṅgyo 'rthastātparyeṇa pratīyate tadā tasya prādhānyam / yathā 'evaṃ vādini devarṣau' ityādau / iha punaruktirbhaṅgyāstīti vācyasyāpi prādhānyam / tasmānnātrānuraṇanarūpavyaṅgyadhvanivyapadeśo vidheyaḥ / locanam prāyacchateti / uccairiti / uccairyāni kusumāni kāntayā svayaṃ grahītumaśakyatvādyvācitānītyarthaḥ / asmadupādhyāyāstu hṛdyatamāni puṣpāṇi amuke, gṛhāṇagṛhāṇetyuccaistārasvareṇādarātiśayārthaṃ prayacchatā / ata eva lambhiteti / na kiñciditi / evaṃvidheṣu śṛṅgārāvasareṣutāmevāyaṃ smaratīti mānanapradarśanamevātra na yuktamiti sātiśayamanyusaṃbhāro vyaṅgyo vacananiṣedhasyaiva vācyasya saṃskāraḥ / tadvakṣyati--uktirbhaṅgyāstīti / tasyeti vyaṅgyasya / ihetu patyurityādau / vācyasyāpīti / apiśabdo bhinnakramaḥ / dhvaniśabdasya viśeṣamamuktam //39 // bālapriyā etadviśeṣaṇavyaṅgyamāha--kāntayetyādi / uccaiḥśabdasya tārasvarārthakatvaṃ pradānakriyāviśeṣaṇatvaṃ ca svābhimatamityāha--asmadityādi / amuka iti / pāṇitalādipātra itṣathaḥ / puṣpāṇītyanena sambandhaḥ / uccairityasya vyākhyānam--tārasvareṇeti / tārasvarema dāne nimittamādarātiśayadyotanamityāha--ādareti / uktārthasāmañjasyadraḍhimne padāntaramanukūlayati--ata evetyādi / ata eva tārasvarema kusumadānādeva / 'na kiñcidūca' ityasya prayojanaṃ darśayan vyaṅgyamāha--evaṃ vidheṣvityādi / mānapradarśanamiti / akṣivivartanādyanubhāvadvāreti bhāvaḥ / taditi / vyaṅgyasya vācyopaskārakatayā vācyāyamānatvamityarithaḥ / bhinnakrama iti / anyathā vyāhatassyāditi bhāvaḥ / viśeṣaṇamiti / anuraṇanetyādiviśeṣaṇamityārthaḥ / asaṃlakṣyakramavyaṅgyadhvanirūpatvasyātrāpi sattvadyotakaṃ hi tadviśeṣaṇamiti bhāvaḥ // 3.9 // prakāro 'yaṃ guṇībhūta-vyaṅgyo 'pi dhvani-rūpatām / dhatte rasādi-tātparya-paryālocanayā punaḥ
Sanskrit only: no published translation is held for this verse.
अकथनीयत्वे हेतुमाह--श्रूयमाणमित्यादि । श्रूयमाणं न तु श्रवणोत्तरमेवेत्यतिशयितनिर्वेदहेतुत्वं श्रवणस्य द्योतयितुं शतृप्रत्येन निर्देशः । वैराग्यादिव वक्षीत्यत्रेवशब्दः प्रतीतौ,त्वं वैराग्याद्वदसीति ज्ञायत इत्यर्थः । मदीयं वैराग्यं केन ज्ञातमित्यत आह--काक्वेत्यादि । काक्वा शोकसूचकध्वनिविकारयावत् । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवत न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥ न हि वृक्षविशेषेण सहोक्तिप्रत्युक्ती सम्भवत इत्यविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपवर्तिनो निर्धनस्य कस्यचिन्मनस्विनः परिदेवितं तात्पर्येण वाक्यर्थीकृतमिति प्रतीयते । विवक्षितत्वाविवक्षितत्वं यथा--- उप्पहजाआएं असोहिणीएं फलकुसुमपत्तरहआए । वेरीएं वैं देन्तो पामर हो ओहसिज्जिहसि ॥ लोचनम् साधुविदितमित्युत्तरम् । कस्मादिति वैराग्ये हेतुप्रश्नः । इदं कथ्यत इत्यादिसनिर्वेदस्मरणोपक्रमं कथङ्कथमपि निरूपणीयतयोत्तरम् । वामेनेति । अनुचितेन कुलादिनोपलक्षित इत्यर्थ- । वट इति । च्छायामात्रकणादेव फलदानादिशून्यादुद्धुरकन्धर इत्यर्थः । छायापीति । शाखोटको हि स्मशानाग्निज्वालालीढलतापल्लवादिस्तरुविशेषण । अत्राविवक्षायां हेतुमाह--न हीति । समृद्धो यो ऽसत्पुरुषः । ऽसमृद्धसत्पुरुषऽ बालप्रिया इदं कथ्यत इति कथनप्रतिज्ञाभिप्रायामाह--सनिर्वेदेत्यादि । स्मृतिविषयवस्तुनो निर्वेदप्रदत्वात्स्मरणसहभावी निर्वेद इति सनिर्वेदत्वं स्मरणस्य । निरूपणीयतयेति । निरूपणमुचितवचनपर्यालोचनम् । उत्तरमिति । इदं कथ्यत इत्यादीत्यस्यानेन सम्बन्धः । वामेनेत्येतत् प्रस्तुतार्थे योजयति--अनुचितेनेत्यादि । वटशब्देनार्थशक्तिबलेन गम्यमर्थमाह--छायेत्यादि । शून्यादिति । करणादित्यस्य विशेषणम् । अत्रन्ति । कस्त्वमित्याद्युदाहरण इत्यर्थः । वृत्तौ--ऽउत्पथेऽति । हे पामर तथाभूताया बदर्याः वृति ददात्त्वं जनैरपहसिष्यस इत्यन्वयः । बदरी वृक्षविशेषः । "प्राचीनां प्रान्ततो वृत्ति"रित्यमरः । सम्भवीत्यस्यानन्तरं न चासम्भवीति च क्वचित् अत्र हि वाच्यारथो नात्यन्तं सम्भवी ना चसम्भवी । तस्माद्वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये । प्रधान-गुण-भावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते । काव्ये उभे ततो ऽन्यद् यत् तच् चित्रम् अभिधीयते
akathanīyatve hetumāha--śrūyamāṇamityādi / śrūyamāṇaṃ na tu śravaṇottaramevetyatiśayitanirvedahetutvaṃ śravaṇasya dyotayituṃ śatṛpratyena nirdeśaḥ / vairāgyādiva vakṣītyatrevaśabdaḥ pratītau,tvaṃ vairāgyādvadasīti jñāyata ityarthaḥ / madīyaṃ vairāgyaṃ kena jñātamityata āha--kākvetyādi / kākvā śokasūcakadhvanivikārayāvat / vāmenātra vaṭastamadhvagajanaḥ sarvātmanā sevata na cchāyāpi paropakārakariṇī mārgasthitasyāpi me // na hi vṛkṣaviśeṣeṇa sahoktipratyuktī sambhavata ityavivakṣitābhidheyenaivānena ślokena samṛddhāsatpuruṣasamīpavartino nirdhanasya kasyacinmanasvinaḥ paridevitaṃ tātparyeṇa vākyarthīkṛtamiti pratīyate / vivakṣitatvāvivakṣitatvaṃ yathā--- uppahajāāeṃ asohiṇīeṃ phalakusumapattarahaāe / verīeṃ vaiṃ dento pāmara ho ohasijjihasi // locanam sādhuviditamityuttaram / kasmāditi vairāgye hetupraśnaḥ / idaṃ kathyata ityādisanirvedasmaraṇopakramaṃ kathaṅkathamapi nirūpaṇīyatayottaram / vāmeneti / anucitena kulādinopalakṣita ityartha- / vaṭa iti / cchāyāmātrakaṇādeva phaladānādiśūnyāduddhurakandhara ityarthaḥ / chāyāpīti / śākhoṭako hi smaśānāgnijvālālīḍhalatāpallavādistaruviśeṣaṇa / atrāvivakṣāyāṃ hetumāha--na hīti / samṛddho yo 'satpuruṣaḥ / 'samṛddhasatpuruṣa' bālapriyā idaṃ kathyata iti kathanapratijñābhiprāyāmāha--sanirvedetyādi / smṛtiviṣayavastuno nirvedapradatvātsmaraṇasahabhāvī nirveda iti sanirvedatvaṃ smaraṇasya / nirūpaṇīyatayeti / nirūpaṇamucitavacanaparyālocanam / uttaramiti / idaṃ kathyata ityādītyasyānena sambandhaḥ / vāmenetyetat prastutārthe yojayati--anucitenetyādi / vaṭaśabdenārthaśaktibalena gamyamarthamāha--chāyetyādi / śūnyāditi / karaṇādityasya viśeṣaṇam / atranti / kastvamityādyudāharaṇa ityarthaḥ / vṛttau--'utpathe'ti / he pāmara tathābhūtāyā badaryāḥ vṛti dadāttvaṃ janairapahasiṣyasa ityanvayaḥ / badarī vṛkṣaviśeṣaḥ / "prācīnāṃ prāntato vṛtti"rityamaraḥ / sambhavītyasyānantaraṃ na cāsambhavīti ca kvacit atra hi vācyāratho nātyantaṃ sambhavī nā casambhavī / tasmādvācyavyaṅgyayoḥ prādhānyāprādhānye yatnato nirūpaṇīye / pradhāna-guṇa-bhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthite / kāvye ubhe tato 'nyad yat tac citram abhidhīyate
Sanskrit only: no published translation is held for this verse.
चित्रं शब्दार्थ-भेदेन द्विविधं च व्यवस्थितम् । तत्र किंचिच् छब्द-चित्रं वाच्य-चित्रम् अतः परम्
citraṃ śabdārtha-bhedena dvividhaṃ ca vyavasthitam / tatra kiṃcic chabda-citraṃ vācya-citram ataḥ param
Sanskrit only: no published translation is held for this verse.
त्रिवर्गेति । त्रिवर्गस्य धर्मादित्रयस्य य उपायः, स एवोपेयो ज्ञातव्यस्तत्र कुशलास्वित्यर्थ- । लङ्घिअ इति । लङ्घितगगनाः कार्पासलता भवन्तीति वर्धयन्त्या । हालिकस्याशिषं प्रतिवेश्यबधुका निर्वापिता ॥ इतिच्छाया । हे हालिक! कार्पासलताः त्वदुपजीवनभूताः कार्पासस्तम्बाः । लङ्घितगगनाः अत्युच्चाः । भवन्तु इति हालिकस्याशिषं वर्धयन्त्या पुनः पुनः कुर्वत्या कयाचित् । प्रातीति । प्रातिवेशिनी वधूरित्यर्थः । निर्वापिता निर्वृतिं प्रापिता । कार्पासलतानां परिपोषे तत्स्थले निश्शङ्कं हालिकेन सह रमणं भविष्यतीति बद्धथा निर्वृतिरित्यनेन तच्चौर्यसम्भोगाभिलाषो वध्वा व्यज्यते, तच्च गुणीभूतम्; तदेतद्य्वाचष्टे--अत्रेत्यादि । ध्वनिरेव काव्यमिति स्थितमेतत् । तदयमत्र संग्रहः--- यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते । संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा ॥ काव्याध्वनि ध्वनिर्व्यङ्ग्यप्राधान्यैकनिबन्धनः । लोचनम् अत्र गोदावरीकच्छलतागहने भरेण जम्बूफलेषु पच्यमानेषु । हालिकवधूः परिधत्ते जम्बूफलरसरक्तं निवसनमिति त्वरितयौर्यसंभोगसंभाव्यमानजम्बूफलरसरक्तत्वपरभागनिह्नवनं गुणीभूतव्यङ्ग्यमित्यलं बहुना । ध्वनिरेव काव्यमिति । आत्मात्मिनोरभेद एव वस्तुतो व्युत्पत्तये तु विभागः बालप्रिया प्रातिवेश्यिको निर्वृतिं प्रापित इति च लोचने पाठः । सो ऽपि साधुः । तदनुसारेण गाथा छाया च पठनीया । अत्र पक्षे सङ्केतस्थानार्थिनं स्वानुरक्तं प्रातिवेश्यिकं तत्सम्भोगाभिलाषिणी काचिद्यदृच्छया दृष्टं हालिकं प्रत्येवमाशीर्वादेन सङ्केतस्थानं ज्ञापितवतीति तत्सम्मोगाभिलाषो व्यङ्ग्यो बोध्यः । गोलाकच्छेति । गोदाकच्छनिकुञ्जे भरेण जम्बूषूपच्यमाना । सुहालिकवधूर्नियच्छति जम्बूरसरक्तं सिचयम् ॥ इति च्छाया । भरेणेत्यस्यातिशयेनेत्यर्थः । लोचने ऽगोदेऽत्यादेः गोदावरीत्यादिविवरमं बोध्यम् । गुणीभूतं व्यङ्ग्यं दर्शयति---त्वरितेत्यादि । त्वरितः पतितजम्बूफले निकुञ्चदेशे सिचयास्तरणे त्वरया कृतो यश्चौर्यसम्भोगस्तेन सम्भाव्यमानः समुत्पाद्यमास्तद्धेतुकतया तर्क्यमाणो वा यो जम्बूफलरसरक्तत्वेन परभागः सिच्यस्य तत्तद्भागे वर्णान्तरप्राप्तिः तस्य निह्नवनं गोपनेच्छेत्यर्थः । गुणीभूतव्यङ्ग्यमिति । सर्वावयवावच्छेदेन जम्बूफलरसरक्तस्य सिचयस्य परिधानेन तन्निह्नवनं गम्यते, तत्तु वाच्यार्थे गुणीभूतमित्यर्थः । ननु ध्वनिकाव्ययोरात्मशरीरस्थानीययोर्भेदाद्वृत्तौ ऽ ध्वनिरेव काव्यम्ऽ इति सामानाधिकरण्येन निर्देशो ऽनुपपन्न इत्यत आह--आत्मात्मिनोरित्यादि । आत्मी देहः । व्युत्पत्तये शिष्यजनव्युत्पादनाय । विभाग इति । ध्वनिः काव्यस्यात्मा सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर्जनैः ॥ सगुणीभूत-व्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः । सङ्कर-संसृष्टिभ्यां पुनर् अप्य् उद्द्योतते बहुधा
trivargeti / trivargasya dharmāditrayasya ya upāyaḥ, sa evopeyo jñātavyastatra kuśalāsvityartha- / laṅghia iti / laṅghitagaganāḥ kārpāsalatā bhavantīti vardhayantyā / hālikasyāśiṣaṃ prativeśyabadhukā nirvāpitā // iticchāyā / he hālika! kārpāsalatāḥ tvadupajīvanabhūtāḥ kārpāsastambāḥ / laṅghitagaganāḥ atyuccāḥ / bhavantu iti hālikasyāśiṣaṃ vardhayantyā punaḥ punaḥ kurvatyā kayācit / prātīti / prātiveśinī vadhūrityarthaḥ / nirvāpitā nirvṛtiṃ prāpitā / kārpāsalatānāṃ paripoṣe tatsthale niśśaṅkaṃ hālikena saha ramaṇaṃ bhaviṣyatīti baddhathā nirvṛtirityanena taccauryasambhogābhilāṣo vadhvā vyajyate, tacca guṇībhūtam; tadetadyvācaṣṭe--atretyādi / dhvanireva kāvyamiti sthitametat / tadayamatra saṃgrahaḥ--- yasmin raso vā bhāvo vā tātparyeṇa prakāśate / saṃvṛttyābhihitau vastu yatrālaṅkāra eva vā // kāvyādhvani dhvanirvyaṅgyaprādhānyaikanibandhanaḥ / locanam atra godāvarīkacchalatāgahane bhareṇa jambūphaleṣu pacyamāneṣu / hālikavadhūḥ paridhatte jambūphalarasaraktaṃ nivasanamiti tvaritayauryasaṃbhogasaṃbhāvyamānajambūphalarasaraktatvaparabhāganihnavanaṃ guṇībhūtavyaṅgyamityalaṃ bahunā / dhvanireva kāvyamiti / ātmātminorabheda eva vastuto vyutpattaye tu vibhāgaḥ bālapriyā prātiveśyiko nirvṛtiṃ prāpita iti ca locane pāṭhaḥ / so 'pi sādhuḥ / tadanusāreṇa gāthā chāyā ca paṭhanīyā / atra pakṣe saṅketasthānārthinaṃ svānuraktaṃ prātiveśyikaṃ tatsambhogābhilāṣiṇī kācidyadṛcchayā dṛṣṭaṃ hālikaṃ pratyevamāśīrvādena saṅketasthānaṃ jñāpitavatīti tatsammogābhilāṣo vyaṅgyo bodhyaḥ / golākaccheti / godākacchanikuñje bhareṇa jambūṣūpacyamānā / suhālikavadhūrniyacchati jambūrasaraktaṃ sicayam // iti cchāyā / bhareṇetyasyātiśayenetyarthaḥ / locane 'gode'tyādeḥ godāvarītyādivivaramaṃ bodhyam / guṇībhūtaṃ vyaṅgyaṃ darśayati---tvaritetyādi / tvaritaḥ patitajambūphale nikuñcadeśe sicayāstaraṇe tvarayā kṛto yaścauryasambhogastena sambhāvyamānaḥ samutpādyamāstaddhetukatayā tarkyamāṇo vā yo jambūphalarasaraktatvena parabhāgaḥ sicyasya tattadbhāge varṇāntaraprāptiḥ tasya nihnavanaṃ gopanecchetyarthaḥ / guṇībhūtavyaṅgyamiti / sarvāvayavāvacchedena jambūphalarasaraktasya sicayasya paridhānena tannihnavanaṃ gamyate, tattu vācyārthe guṇībhūtamityarthaḥ / nanu dhvanikāvyayorātmaśarīrasthānīyayorbhedādvṛttau ' dhvanireva kāvyam' iti sāmānādhikaraṇyena nirdeśo 'nupapanna ityata āha--ātmātminorityādi / ātmī dehaḥ / vyutpattaye śiṣyajanavyutpādanāya / vibhāga iti / dhvaniḥ kāvyasyātmā sarvatra tatra viṣayī jñeyaḥ sahṛdayairjanaiḥ // saguṇībhūta-vyaṅgyaiḥ sālaṅkāraiḥ saha prabhedaiḥ svaiḥ / saṅkara-saṃsṛṣṭibhyāṃ punar apy uddyotate bahudhā
Sanskrit only: no published translation is held for this verse.
तथा पथिकान् प्रति श्यामायितेषु मोहजनकत्वाद्रात्रिरूपतामाचरितवत्सु । यदि वा पथिकानां श्यामायितं दुःखवशेन श्यामिका येभ्यः । शोभते प्रसारितग्रीवाणां मयूरवृन्दानां नृत्तम् । अभिनयप्रयोगरसिकेषु पथिकसामाजकेषु सत्सु मयूरवृन्दानां प्रसारितगीतानां प्रकृष्टसारणानुसारिगीतानां तथा ग्रीवारेचकाय प्रसारितग्रीवाणां नृत्तं शोभते । पथिकान् प्रति श्यामा इवाचरन्तीति क्यच् । प्रत्ययेन लुप्तोपमा निर्दिष्टा । पथिकसामाजिकेष्विति कर्मधारयस्य स्पष्टत्वाद्रूपकम् । ताभ्यां ध्वनेः संसर्ग इति ग्रन्थकारस्याशयः । अत्रैवोदाहरणेऽन्यद्भेदद्वयमुदाहर्तुं शक्यमित्याशयेनोदाहरणान्तरं न दत्तम् । तथाहि--व्याघ्रादेराकृतिगणत्वे पथिकसामाजिकेष्वित्युपमारूपकाभ्यां बालप्रिया रसः । संसृष्टालङ्कारेणेति । समासोक्तिसंसृष्टेन विरोधालङ्कारेणेत्यर्थः । मुनिभिरपि जातस्पृहैरवलोकितानीत्यनेन दयावीरस्य परिपोषप्रतीत्या विरोधस्यानुग्राहकत्वं स्पष्टमिति मनसि कृत्य समासोक्तेस्तदुपपादयति--समासोक्तिमहिम्नेत्यादि । इतीति । इत्यर्थादित्यर्थः । अनुभावेत्यादि । अनुभावः सान्द्रपुलकाविर्भावः । आलम्बनविभावः सिंही । उद्दीपनविभावो दन्तक्षतादिरिति बोध्यम् । द्वितीयमिति । संसृष्टालङ्कारसंसृष्टत्वरूपमित्यर्थः । अभिनवेत्यादि । वर्षावर्णनम् । अत्रादौ वाच्यमर्थं व्याचष्टे--अभिनवमित्यादि । पथिकान् विरहिणः । इयामायितोष्वित्यत्र रात्रिवाचकात् श्यामाशब्दादाचारार्थे क्यजित्यभिप्रेत्य व्याचष्टे--मोहेत्यादि । श्यामायितमित्यस्य श्यामिकेत्यर्थमभिप्रेत्याह--यदि वेत्यादि । श्यामिका वर्णभेदः । छायान्तरदर्शनेनात्र व्यङ्ग्यमर्थं दर्शयति--अभिनयप्रयोगेत्यादि । प्रसारितगीतानामित्यस्य व्याख्यानम्--प्रकृष्टेत्यादि । अत्र पक्षे प्रसारितग्रीवाणामिति च योज्यमित्याह--तथेत्यादि । ध्वनेः संसृष्टालङ्कारसंसृष्टत्वं विवृणोति--पथिकानित्यादि । रूपकमिति । पथिकेषु सामाजिकत्वारोपादिति भावः । ध्वनेरिति । अभिनयप्रयोगेत्याद्युक्तस्य व्यङ्ग्यस्येत्यर्थः । संसर्गः संसृष्टिः । अन्यद्भेदद्वयमिति । अत्र ह्युपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य ध्वनेः संसृष्टत्वम् । एवं ध्वनेः प्रभेदाः प्रभेद-भेदाश् च केन शक्यन्ते । सङ्ख्यातुं दिङ्-मात्रं तेषाम् इदम् उक्तम् अस्माभिः
tathā pathikān prati śyāmāyiteṣu mohajanakatvādrātrirūpatāmācaritavatsu / yadi vā pathikānāṃ śyāmāyitaṃ duḥkhavaśena śyāmikā yebhyaḥ / śobhate prasāritagrīvāṇāṃ mayūravṛndānāṃ nṛttam / abhinayaprayogarasikeṣu pathikasāmājakeṣu satsu mayūravṛndānāṃ prasāritagītānāṃ prakṛṣṭasāraṇānusārigītānāṃ tathā grīvārecakāya prasāritagrīvāṇāṃ nṛttaṃ śobhate / pathikān prati śyāmā ivācarantīti kyac / pratyayena luptopamā nirdiṣṭā / pathikasāmājikeṣviti karmadhārayasya spaṣṭatvādrūpakam / tābhyāṃ dhvaneḥ saṃsarga iti granthakārasyāśayaḥ / atraivodāharaṇe'nyadbhedadvayamudāhartuṃ śakyamityāśayenodāharaṇāntaraṃ na dattam / tathāhi--vyāghrāderākṛtigaṇatve pathikasāmājikeṣvityupamārūpakābhyāṃ bālapriyā rasaḥ / saṃsṛṣṭālaṅkāreṇeti / samāsoktisaṃsṛṣṭena virodhālaṅkāreṇetyarthaḥ / munibhirapi jātaspṛhairavalokitānītyanena dayāvīrasya paripoṣapratītyā virodhasyānugrāhakatvaṃ spaṣṭamiti manasi kṛtya samāsoktestadupapādayati--samāsoktimahimnetyādi / itīti / ityarthādityarthaḥ / anubhāvetyādi / anubhāvaḥ sāndrapulakāvirbhāvaḥ / ālambanavibhāvaḥ siṃhī / uddīpanavibhāvo dantakṣatādiriti bodhyam / dvitīyamiti / saṃsṛṣṭālaṅkārasaṃsṛṣṭatvarūpamityarthaḥ / abhinavetyādi / varṣāvarṇanam / atrādau vācyamarthaṃ vyācaṣṭe--abhinavamityādi / pathikān virahiṇaḥ / iyāmāyitoṣvityatra rātrivācakāt śyāmāśabdādācārārthe kyajityabhipretya vyācaṣṭe--mohetyādi / śyāmāyitamityasya śyāmiketyarthamabhipretyāha--yadi vetyādi / śyāmikā varṇabhedaḥ / chāyāntaradarśanenātra vyaṅgyamarthaṃ darśayati--abhinayaprayogetyādi / prasāritagītānāmityasya vyākhyānam--prakṛṣṭetyādi / atra pakṣe prasāritagrīvāṇāmiti ca yojyamityāha--tathetyādi / dhvaneḥ saṃsṛṣṭālaṅkārasaṃsṛṣṭatvaṃ vivṛṇoti--pathikānityādi / rūpakamiti / pathikeṣu sāmājikatvāropāditi bhāvaḥ / dhvaneriti / abhinayaprayogetyādyuktasya vyaṅgyasyetyarthaḥ / saṃsargaḥ saṃsṛṣṭiḥ / anyadbhedadvayamiti / atra hyupamārūpakābhyāṃ śabdaśaktyudbhavānuraṇanarūpavyaṅgyasya dhvaneḥ saṃsṛṣṭatvam / evaṃ dhvaneḥ prabhedāḥ prabheda-bhedāś ca kena śakyante / saṅkhyātuṃ diṅ-mātraṃ teṣām idam uktam asmābhiḥ
Sanskrit only: no published translation is held for this verse.
एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते । संख्यातुं दिङ्मात्रं तेषामिदमुक्तमस्माभिः ॥ ४४ ॥ अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिङ्मात्रं कथितम् । इत्य् उक्त-लक्षणो यो ध्वनिर् विवेच्यः प्रयत्नतः सद्भिः सत्-काव्यं कर्तुं वा ज्ञातुं वा सम्यग् अभियुक्तैः
evaṃ dhvaneḥ prabhedāḥ prabhedabhedāśca kena śakyante / saṃkhyātuṃ diṅmātraṃ teṣāmidamuktamasmābhiḥ // 44 // anantā hi dhvaneḥ prakārāḥ sahṛdayānāṃ vyutpattaye teṣāṃ diṅmātraṃ kathitam / ity ukta-lakṣaṇo yo dhvanir vivecyaḥ prayatnataḥ sadbhiḥ sat-kāvyaṃ kartuṃ vā jñātuṃ vā samyag abhiyuktaiḥ
Sanskrit only: no published translation is held for this verse.
इत्युक्तलक्षणो यो ध्वनिर्विवेच्यः प्रयत्नतः सद्भिः । सत्काव्यं कर्तुं वा ज्ञातु वा सम्यगभियुक्तैः ॥ ४५ ॥ उक्तस्वरूपध्वनिनिरूपणनिपुणा हि सत्कवयः सहृदयाश्च नियतमेव लोचनम् सन्देहास्पदत्वेन सङ्कीर्णाभ्यामभिनयप्रयोगे, अभिनवप्रयोगे च रसिकेष्विति प्रसारितगीतानामिति यः शब्दशक्त्युद्भवस्त संसर्गमात्रमनुग्राह्यत्वाभावात् । ऽपहिअसामाइएसुऽ इत्यत्र तु पदे सङ्कीर्णाभ्यां ताभ्यामुपमारूपकाभ्यां शब्दशक्तिमूलस्य ध्वनेः सङ्कीर्णत्वमेकव्यञ्जकानुप्रवेशादिति सङ्कीर्णालङ्कारसंसृष्टः । सङ्कीर्णालङ्कारसङ्कीर्णश्चेत्यपि भेदद्वयं मन्तव्यम् ॥ ४३ ॥ एतदुपसंहरति---एवमिति । स्पष्टम् ॥ ४४ ॥ अथ ऽसहृदयमनःप्रीतयेऽ इति यत्सूचितं तदिदानीं न शब्दमात्रमपि तु निर्व्यूढमित्याशयेनाह--इत्युक्तेत । यः प्रयत्नतो विवेच्यः अस्माभिश्चोक्तलक्षणो ध्वनिरेतदेव काव्यतत्त्वं यथोदितेन प्रपञ्चनिरूपणादिना व्याकर्तुमशक्नुवद्भिरलङ्कारैः रीतयः बालप्रिया सङ्कीर्णालङ्कारसंसृष्टत्वसङ्कीर्णालङ्कारसङ्कीर्णत्वरूपभेदद्वयमित्यर्थः । सङ्कीर्णाभ्यामुपमारूपकाभ्यामिति सम्बन्ध- । ऽअहिणअऽ इत्यस्य अभिनय अभिनव इत्युभयथापि च्छायेति दर्शयन् ध्वनिं दर्शयति--अभिनयेत्यादि । अनुग्राह्यत्वाभावादिति । उपमारूपकाभ्यां तस्येत्यनुषङ्गः ॥ ४३ ॥ एतदिति । बहुप्रभेदकथनमित्यर्थः ॥ ४४ ॥ सहृदयेत्यादि । ऽसहृदयमनः प्रीतये तत्स्वरूपं ब्रूमऽ इति यदुक्तमित्यर्थः । शब्दमात्रं वाङ्मात्रम् । इत्युक्तलक्षण इत्यादिकारिकाद्वयमेकवाक्यमित्याह---य इत्यादि । उक्तेत्यत्र पूरयति--अस्माभिरिति । एतदिति य इत्यस्य प्रतिनिर्देशः । यथोदितमित्यस्य व्याकर्तुमित्यनेन सम्बन्ध इति दर्शयन् विवृणोति--यथोदितेनेत्यादि । अन्ये त्वित्यादि । इत्युक्तलक्षणो ऽयं ध्वनिरिति पठन्तीत्यर्थः । एतत्पक्षे काव्यविषये परां प्रकर्षपदवीमासादयन्ति । अस्फुट-स्फुरितं काव्य-तत्त्वम् एतद् यथोदितम् । अशक्नुवद्भिर् व्याकर्तुं रीतयः सम्प्रवर्तिताः
ityuktalakṣaṇo yo dhvanirvivecyaḥ prayatnataḥ sadbhiḥ / satkāvyaṃ kartuṃ vā jñātu vā samyagabhiyuktaiḥ // 45 // uktasvarūpadhvaninirūpaṇanipuṇā hi satkavayaḥ sahṛdayāśca niyatameva locanam sandehāspadatvena saṅkīrṇābhyāmabhinayaprayoge, abhinavaprayoge ca rasikeṣviti prasāritagītānāmiti yaḥ śabdaśaktyudbhavasta saṃsargamātramanugrāhyatvābhāvāt / 'pahiasāmāiesu' ityatra tu pade saṅkīrṇābhyāṃ tābhyāmupamārūpakābhyāṃ śabdaśaktimūlasya dhvaneḥ saṅkīrṇatvamekavyañjakānupraveśāditi saṅkīrṇālaṅkārasaṃsṛṣṭaḥ / saṅkīrṇālaṅkārasaṅkīrṇaścetyapi bhedadvayaṃ mantavyam // 43 // etadupasaṃharati---evamiti / spaṣṭam // 44 // atha 'sahṛdayamanaḥprītaye' iti yatsūcitaṃ tadidānīṃ na śabdamātramapi tu nirvyūḍhamityāśayenāha--ityukteta / yaḥ prayatnato vivecyaḥ asmābhiścoktalakṣaṇo dhvaniretadeva kāvyatattvaṃ yathoditena prapañcanirūpaṇādinā vyākartumaśaknuvadbhiralaṅkāraiḥ rītayaḥ bālapriyā saṅkīrṇālaṅkārasaṃsṛṣṭatvasaṅkīrṇālaṅkārasaṅkīrṇatvarūpabhedadvayamityarthaḥ / saṅkīrṇābhyāmupamārūpakābhyāmiti sambandha- / 'ahiṇaa' ityasya abhinaya abhinava ityubhayathāpi cchāyeti darśayan dhvaniṃ darśayati--abhinayetyādi / anugrāhyatvābhāvāditi / upamārūpakābhyāṃ tasyetyanuṣaṅgaḥ // 43 // etaditi / bahuprabhedakathanamityarthaḥ // 44 // sahṛdayetyādi / 'sahṛdayamanaḥ prītaye tatsvarūpaṃ brūma' iti yaduktamityarthaḥ / śabdamātraṃ vāṅmātram / ityuktalakṣaṇa ityādikārikādvayamekavākyamityāha---ya ityādi / uktetyatra pūrayati--asmābhiriti / etaditi ya ityasya pratinirdeśaḥ / yathoditamityasya vyākartumityanena sambandha iti darśayan vivṛṇoti--yathoditenetyādi / anye tvityādi / ityuktalakṣaṇo 'yaṃ dhvaniriti paṭhantītyarthaḥ / etatpakṣe kāvyaviṣaye parāṃ prakarṣapadavīmāsādayanti / asphuṭa-sphuritaṃ kāvya-tattvam etad yathoditam / aśaknuvadbhir vyākartuṃ rītayaḥ sampravartitāḥ
Sanskrit only: no published translation is held for this verse.
अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम् । अशुक्नुवद्भिर्व्याकर्तुं रीतयः सम्प्रवर्तिताः ॥ ४६ ॥ एतद्ध्वनिप्रवर्तनेन निर्णीतं काव्यतत्त्वमस्फुटस्फुरितं सदशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः । रीतिलक्षणविधायिनां हि काव्यतत्त्वमेतदस्फुटतया मनाक्स्फुरितमासादिति लक्ष्यते तदत्र स्फुटतया सम्प्रदर्शितेनान्येन रीतिलक्षणेनन किञ्चित् । शब्द-तत्त्वाश्रयाः काश्चिद् अर्थ-तत्त्व-युजो ऽपराः । वृत्तयो ऽपि प्रकाशन्ते ज्ञाते ऽस्मिन् काव्य-लक्षणे
asphuṭasphuritaṃ kāvyatattvametadyathoditam / aśuknuvadbhirvyākartuṃ rītayaḥ sampravartitāḥ // 46 // etaddhvanipravartanena nirṇītaṃ kāvyatattvamasphuṭasphuritaṃ sadaśaknuvadbhiḥ pratipādayituṃ vaidarbhī gauḍī pāñcālī ceti rītayaḥ pravartitāḥ / rītilakṣaṇavidhāyināṃ hi kāvyatattvametadasphuṭatayā manāksphuritamāsāditi lakṣyate tadatra sphuṭatayā sampradarśitenānyena rītilakṣaṇenana kiñcit / śabda-tattvāśrayāḥ kāścid artha-tattva-yujo 'parāḥ / vṛttayo 'pi prakāśante jñāte 'smin kāvya-lakṣaṇe
Sanskrit only: no published translation is held for this verse.