संवादो ह्यन्यसादृश्यन्तत्पुनः प्रतिबम्बवत् । आलेख्या कारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ १२ ॥ इत्यनेया कारिकया । एषा खण्डीकृत्य वृत्तौ व्याख्याता । शरीरिणामित्ययञ्चशब्दः प्रतिवाक्यं द्रष्टव्य इति दर्शितम् । शरीरिण इति । पूर्वमेव प्रतिलब्धस्वरूपतया बालप्रिया लोचने--संवादा इत्यादि । ऽसंवादाऽ इत्यादिऽसुमेधसाम्ऽ इत्यन्तं कारिकायाः प्रथमार्धं, ऽनैकेऽत्यादि ऽविपश्चितेऽ त्यन्तं द्वितीयार्धं चेत्यर्थः । अत्र सुमेधसां संवादा इत्यस्य सुमेधसां बुद्धीनां काव्यानां च संवादा इत्यर्थ इत्यभिप्रेत्य ऽस्थितं ह्येतदिऽत्यादिकं ऽसंवादो हि काव्यार्थस्योच्यतऽ इति च वृत्तावुक्तमिति बोध्यम् ॥११ ॥ ख एडीकृत्य(?) वृत्तौ व्याख्यातेति । केषुचित्पुस्तकेष्विति शेषः । अत एव वक्ष्यते--केषुचित् पुस्तकेषु कारिका अखण्डीकृता एव दृश्यन्त इति । खण्डीकृत्य व्याख्यानं तु ऽसंवादो ह्यन्यसादृश्यम्ऽ ऽसंवादो हि काव्यार्थस्योच्यते, यदन्येन काव्यवस्तुना सादृश्यम्, तत् पुनः प्रतिबिम्बवत्, तत्पुनश्शरीरिणां प्रतिबिम्बवत्ऽ इत्यादिकं बोध्यम् । प्रतिवाक्यमित्यादि । शरीरिणामित्यस्य प्रतिबिम्बादिभिस्त्रिभिस्सम्बन्ध इति भावः । अन्यदालेख्यप्रख्यम् अन्यत्तुल्येन शरीरणा सदृशम् । तत्र पूर्वम् अनन्यात्म तुच्छात्म तद्-अनन्तरम् । तृतीयं तु प्रसिद्धात्म नान्य-साम्यं त्यजेत् कविः
saṃvādo hyanyasādṛśyantatpunaḥ pratibambavat / ālekhyā kāravattulyadehivacca śarīriṇām // 12 // ityaneyā kārikayā / eṣā khaṇḍīkṛtya vṛttau vyākhyātā / śarīriṇāmityayañcaśabdaḥ prativākyaṃ draṣṭavya iti darśitam / śarīriṇa iti / pūrvameva pratilabdhasvarūpatayā bālapriyā locane--saṃvādā ityādi / 'saṃvādā' ityādi'sumedhasām' ityantaṃ kārikāyāḥ prathamārdhaṃ, 'naike'tyādi 'vipaścite' tyantaṃ dvitīyārdhaṃ cetyarthaḥ / atra sumedhasāṃ saṃvādā ityasya sumedhasāṃ buddhīnāṃ kāvyānāṃ ca saṃvādā ityartha ityabhipretya 'sthitaṃ hyetadi'tyādikaṃ 'saṃvādo hi kāvyārthasyocyata' iti ca vṛttāvuktamiti bodhyam //11 // kha eḍīkṛtya(?) vṛttau vyākhyāteti / keṣucitpustakeṣviti śeṣaḥ / ata eva vakṣyate--keṣucit pustakeṣu kārikā akhaṇḍīkṛtā eva dṛśyanta iti / khaṇḍīkṛtya vyākhyānaṃ tu 'saṃvādo hyanyasādṛśyam' 'saṃvādo hi kāvyārthasyocyate, yadanyena kāvyavastunā sādṛśyam, tat punaḥ pratibimbavat, tatpunaśśarīriṇāṃ pratibimbavat' ityādikaṃ bodhyam / prativākyamityādi / śarīriṇāmityasya pratibimbādibhistribhissambandha iti bhāvaḥ / anyadālekhyaprakhyam anyattulyena śarīraṇā sadṛśam / tatra pūrvam ananyātma tucchātma tad-anantaram / tṛtīyaṃ tu prasiddhātma nānya-sāmyaṃ tyajet kaviḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.