परिभाषा इयं स्थानि-नियम-अर्था ह्रस्व-दीर्घ-प्लुतः स्वसञ्ज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः । वक्ष्यति ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२।४७), रै--अतिरि । नौ--अतिनु । गो--उपगु । अचः इति किम् ? सुवाग् ब्रह्मण-कुलम् । अकृत्-सार्वधातुकयोर् दीर्घः (*७,४।२५) -- चीयते । श्रूयते । अचः इति किम् ? भिद्यते । धिद्य्ते । वाक्यस्य टेः प्लुत उदात्तः (*७,२।८२) --देवदत्त३ । यज्ञदत्त३ । अचः इति किम् ? अग्निचि३त् । सोमसु३त् । तकारस्य मा भूत् । स्वसञ्ज्ञया वधाने नियमः । अच् इति वर्तते । इह मा भूत् । द्यौः पन्थाः । सः द्यौभ्याम् । द्युभिः । अत्र नियमो न अस्ति ॥ उच्चैर् उदात्तः
paribhāṣā iyaṃ sthāni-niyama-arthā hrasva-dīrgha-plutaḥ svasañjñayā śiṣyamāṇā aca eva sthāne veditavyāḥ / vakṣyati hrasvo napuṃsake prātipadikasya (*1,2.47), rai--atiri / nau--atinu / go--upagu / acaḥ iti kim ? suvāg brahmaṇa-kulam / akṛt-sārvadhātukayor dīrghaḥ (*7,4.25) -- cīyate / śrūyate / acaḥ iti kim ? bhidyate / dhidyte / vākyasya ṭeḥ pluta udāttaḥ (*7,2.82) --devadatta3 / yajñadatta3 / acaḥ iti kim ? agnici3t / somasu3t / takārasya mā bhūt / svasañjñayā vadhāne niyamaḥ / ac iti vartate / iha mā bhūt / dyauḥ panthāḥ / saḥ dyaubhyām / dyubhiḥ / atra niyamo na asti // uccair udāttaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.