प्रथमया विभाक्त्या यन् निर्दिश्यते समास-शास्त्रे तदुपसर्जन-सञ्ज्ञं भवति । समासे इति समास-विधायि शास्त्रं गृह्यते । वक्ष्यति - द्वितीया श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्नैः (*२,१।२४) इति । द्विदीया-समासे द्वितीया इत्य् एतत् प्रथमा-निर्दिष्टं, तृतीया-समासे तृतीया इति, चतुर्थी-समासे चतुर्थी इति, पञ्चमी-समासे पञ्चमी इति, षष्ठी-समासे षष्ठी इति, सप्तमी-समासे सप्तमी इति । कष्ट-श्रितः । शङ्कुला-खण्डः । यूप-दारु । वृक-भयम् । राज-पुरुषः । अक्ष-शौण्डः । उपसर्जन-प्रदेशाः - उपसर्जनं पूर्वम् (*२,२।३०) इत्य् एवम् आदयः ॥ एक-विभाक्ति च अपूर्व-निपाते
prathamayā vibhāktyā yan nirdiśyate samāsa-śāstre tadupasarjana-sañjñaṃ bhavati / samāse iti samāsa-vidhāyi śāstraṃ gṛhyate / vakṣyati - dvitīyā śrita-atīta-patita-gata-atyasta-prāpta-āpannaiḥ (*2,1.24) iti / dvidīyā-samāse dvitīyā ity etat prathamā-nirdiṣṭaṃ, tṛtīyā-samāse tṛtīyā iti, caturthī-samāse caturthī iti, pañcamī-samāse pañcamī iti, ṣaṣṭhī-samāse ṣaṣṭhī iti, saptamī-samāse saptamī iti / kaṣṭa-śritaḥ / śaṅkulā-khaṇḍaḥ / yūpa-dāru / vṛka-bhayam / rāja-puruṣaḥ / akṣa-śauṇḍaḥ / upasarjana-pradeśāḥ - upasarjanaṃ pūrvam (*2,2.30) ity evam ādayaḥ // eka-vibhākti ca apūrva-nipāte
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.