निरादयः क्रान्त्-आअद्य्-अर्थे पञ्चम्या । पूर्व-पदे नानाविभक्तिके ऽप्य् उत्तरपदं पञ्च्म्यन्तम् एव भवति । निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः । निष्त्रान्तं कौशाम्ब्या निष्कौशाम्बिम् । निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना । निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये । निष्क्रान्तात् कौशाम्ब्या निष्कौशाम्बेः । निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः । निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ । एवं निर्वाराणसिः । एकविभक्ति इति किम् ? राजकुमारी । अपूर्व-निपाते इति किम् ? न हि भवति कौशाम्बीनिः इति ॥ अर्थवद् अधातुर् अप्रत्ययः प्रातिपदिकम्
nirādayaḥ krānt-āady-arthe pañcamyā / pūrva-pade nānāvibhaktike 'py uttarapadaṃ pañcmyantam eva bhavati / niṣkrāntaḥ kauśāmbyā niṣkauśāmbiḥ / niṣtrāntaṃ kauśāmbyā niṣkauśāmbim / niṣkrāntena kauśāmbyā niṣkauśāmbinā / niṣkrāntāya kauśāmbyā niṣkauśāmbaye / niṣkrāntāt kauśāmbyā niṣkauśāmbeḥ / niṣkrāntasya kauśāmbyā niṣkauśāmbeḥ / niṣkrānte kauśāmbyā niṣkauśāmbau / evaṃ nirvārāṇasiḥ / ekavibhakti iti kim ? rājakumārī / apūrva-nipāte iti kim ? na hi bhavati kauśāmbīniḥ iti // arthavad adhātur apratyayaḥ prātipadikam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.