अभिधेय-वचनो ऽर्थ-शब्दः । अर्थवच्-छब्द-रूपं प्रातिपदिक-सञ्ज्ञं भवति धातु-प्रत्ययौ वर्जयित्वा । डित्थः । कपित्थः । कुण्डम् । पीठम् । अर्थवत् इति किम् ? वनम्, धनम् इति न अन्तस्य अवधेर् मा भूत् । नलोपो हि स्यात् । अधातुः इति किम् ? हन्तेर् लङ् । अहन् । अलोपः स्यत् । अप्रत्ययः इति किम् ? काण्डे । कुड्ये । ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२।४७) इति ह्रस्वः स्यात् । अनर्थकस्य अपि निपातस्य प्रातिपदिक-सञ्ज्ञा इष्यते । अध्यागच्छति । प्रलम्बते । प्रातिपदिक-प्रदेशाः -- ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२।४७) इत्य् एवम् आद्यः ॥ कृत्-तद्धित-समासाश् च
abhidheya-vacano 'rtha-śabdaḥ / arthavac-chabda-rūpaṃ prātipadika-sañjñaṃ bhavati dhātu-pratyayau varjayitvā / ḍitthaḥ / kapitthaḥ / kuṇḍam / pīṭham / arthavat iti kim ? vanam, dhanam iti na antasya avadher mā bhūt / nalopo hi syāt / adhātuḥ iti kim ? hanter laṅ / ahan / alopaḥ syat / apratyayaḥ iti kim ? kāṇḍe / kuḍye / hrasvo napuṃsake prātipadikasya (*1,2.47) iti hrasvaḥ syāt / anarthakasya api nipātasya prātipadika-sañjñā iṣyate / adhyāgacchati / pralambate / prātipadika-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) ity evam ādyaḥ // kṛt-taddhita-samāsāś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.