अकर्मकात् इति वर्तते । उत् वि इत्य् एवं पूर्वात् तपतेर् अकर्मक-त्रियावचनाद् आत्मनेपदं भवति । उत्तपते । वितपते । दीप्यते इत्य् अर्थः । अकर्मकात् इत्य् एव । उत्तपति सुवर्णं सुवर्ण-कारः । वितपति पृथ्वीं सविता । स्वाङ्गकर्मकाच् च+इति वक्तव्यम् । उत्तपते पाणिम्, उत्तपते पृष्ठम् । वितपते पाणिम्, वितपते पृष्ठम् । स्वाङ्गं च+इह न पारिभाषिकं गृह्यते अद्रवं मूर्तिमत् स्वाङ्गम् इति । किं तर्हि ? स्वम् अङ्गं स्वाङ्गम् । तेन+इह न भवति, देवदत्तो यज्ञदत्तस्य पृष्ठम् उत्तपति इति । उद्विभ्याम् इति किम् ? निष्टपति ॥ आङो यम-हनः
akarmakāt iti vartate / ut vi ity evaṃ pūrvāt tapater akarmaka-triyāvacanād ātmanepadaṃ bhavati / uttapate / vitapate / dīpyate ity arthaḥ / akarmakāt ity eva / uttapati suvarṇaṃ suvarṇa-kāraḥ / vitapati pṛthvīṃ savitā / svāṅgakarmakāc ca+iti vaktavyam / uttapate pāṇim, uttapate pṛṣṭham / vitapate pāṇim, vitapate pṛṣṭham / svāṅgaṃ ca+iha na pāribhāṣikaṃ gṛhyate adravaṃ mūrtimat svāṅgam iti / kiṃ tarhi ? svam aṅgaṃ svāṅgam / tena+iha na bhavati, devadatto yajñadattasya pṛṣṭham uttapati iti / udvibhyām iti kim ? niṣṭapati // āṅo yama-hanaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.