Library·Jayaditya & Vamana: Kasikavrtti·1·1.3

Jayaditya & Vamana: Kasikavrtti 1.3

भूवादयो धातवः

bhūvādayo dhātavaḥ

Sanskrit only: no published translation is held for this verse.

भू इत्य् एवम् आदयः शब्दाः क्रियावचना धातुसञ्ज्ञा भवन्ति । भू - भवति । एध - एधते । स्पर्ध - स्पर्धते । धातु-शब्दः पूर्वाचार्य-सञ्ज्ञा । ते च क्रियावचनानां सञ्ज्ञां कृतवन्तः । तद् इह अपि पूर्वाचर्य-सञ्ज्ञाश्रयणात् क्रियावाचिनाम् एव भूवादीनां धातुसञ्ज्ञा विधीयते । भूवादीनां वकारो ऽयं मङ्गल-अर्थः प्रयुज्यते । भूवो वार्थं वदन्ति इति भ्व्-अर्था वा वादयः स्मऋताः ॥ धातुप्रदेशाः - धातोः (*३,१।९१) इत्य् एवम् आदयः ॥ उपदेशे ऽज्-अनुनासिक इत्

bhū ity evam ādayaḥ śabdāḥ kriyāvacanā dhātusañjñā bhavanti / bhū - bhavati / edha - edhate / spardha - spardhate / dhātu-śabdaḥ pūrvācārya-sañjñā / te ca kriyāvacanānāṃ sañjñāṃ kṛtavantaḥ / tad iha api pūrvācarya-sañjñāśrayaṇāt kriyāvācinām eva bhūvādīnāṃ dhātusañjñā vidhīyate / bhūvādīnāṃ vakāro 'yaṃ maṅgala-arthaḥ prayujyate / bhūvo vārthaṃ vadanti iti bhv-arthā vā vādayaḥ smaṛtāḥ // dhātupradeśāḥ - dhātoḥ (*3,1.91) ity evam ādayaḥ // upadeśe 'j-anunāsika it

Sanskrit only: no published translation is held for this verse.

उपदिश्यते ऽनेन इत्य् उपदेशः शास्त्रवाक्यानि, सूत्रपाठः, खिलपाठश् च । तत्र यो ऽच् अनुनासिकः स इत्सञ्ज्ञो भवति । एध । स्पर्ध । प्रतिज्ञ-अनुनासिक्याः पाणिनीयाः । उपदेशे इति किम् ? अभ्र आं अपः । अच् इति किम् ? अतो मनिन्-क्वनिब्-वनिपश् च (*३,२।७४) । अनुनासिकः इति किम् ? सर्वस्य अचो मा भूत् । इत्-प्रदेशाः - आद्-इतश् च (*७,२।१६) इत्य् एवम् आदयः ॥ हल्-अन्त्यम्

upadiśyate 'nena ity upadeśaḥ śāstravākyāni, sūtrapāṭhaḥ, khilapāṭhaś ca / tatra yo 'c anunāsikaḥ sa itsañjño bhavati / edha / spardha / pratijña-anunāsikyāḥ pāṇinīyāḥ / upadeśe iti kim ? abhra āṃ apaḥ / ac iti kim ? ato manin-kvanib-vanipaś ca (*3,2.74) / anunāsikaḥ iti kim ? sarvasya aco mā bhūt / it-pradeśāḥ - ād-itaś ca (*7,2.16) ity evam ādayaḥ // hal-antyam

Sanskrit only: no published translation is held for this verse.

उपदेशे इति वर्त्ते । अन्ते भवम् अन्त्यम् । धात्वादेः समुदायस्य यद्-अन्त्यम् हल्, तद् इत्सञ्ज्ञं भवति । ऐउण् - णकारः । ऋऌक् - ककारः । एओङ् - ङकरः । ऐऔच् - चकारः । उपदेशे इत्य् एव । अग्निचित् । सोमसुत् । हस्य ल् हल् इति द्वितीयम् अत्र हल्-ग्रहणं तन्त्रेण+उपात्तं द्रष्टव्यम् । तेन प्रत्याहार-पाठे हल् इत्य् अत्र लकारस्य इत्सञ्ज्ञा क्रियते । तथा च सति हलन्त्यम् इत्य् अत्र प्रत्याहारे न+इतरेतराश्रय-दोषो भवति ॥ न विभक्तौ तुस्माः

upadeśe iti vartte / ante bhavam antyam / dhātvādeḥ samudāyasya yad-antyam hal, tad itsañjñaṃ bhavati / aiuṇ - ṇakāraḥ / ṛḷk - kakāraḥ / eoṅ - ṅakaraḥ / aiauc - cakāraḥ / upadeśe ity eva / agnicit / somasut / hasya l hal iti dvitīyam atra hal-grahaṇaṃ tantreṇa+upāttaṃ draṣṭavyam / tena pratyāhāra-pāṭhe hal ity atra lakārasya itsañjñā kriyate / tathā ca sati halantyam ity atra pratyāhāre na+itaretarāśraya-doṣo bhavati // na vibhaktau tusmāḥ

Sanskrit only: no published translation is held for this verse.

तस् - पचतः । थस् - पचथः । मकारः - उपचत्ताम्, अपचतम् । बिभक्तौ इति किम् ? अचो यत् (*३,१।९७), ऊर्णाया युस् (*५,२।१२३), रुधादिभ्यः श्नम् (*३,१।७८) । किमो ऽत् (*५,३।१२), इटो ऽत् (*३,४।१०६) इत्य् अत्र प्रतिषेधो न भ्वति , अनित्यत्व-आदस्य प्रतिषेधस्य । इदमस् थमुः (*५,३।२४) इत्य् उकार-अनुबन्ध-निर्देशाद् अनित्यत्वम् उपलक्ष्यते ॥ आदिर् ञि-टु-डवः

tas - pacataḥ / thas - pacathaḥ / makāraḥ - upacattām, apacatam / bibhaktau iti kim ? aco yat (*3,1.97), ūrṇāyā yus (*5,2.123), rudhādibhyaḥ śnam (*3,1.78) / kimo 't (*5,3.12), iṭo 't (*3,4.106) ity atra pratiṣedho na bhvati , anityatva-ādasya pratiṣedhasya / idamas thamuḥ (*5,3.24) ity ukāra-anubandha-nirdeśād anityatvam upalakṣyate // ādir ñi-ṭu-ḍavaḥ

Sanskrit only: no published translation is held for this verse.

इत् इति वर्तते । आदि-शब्दः प्रतेकम् अभिसम्बध्यते । ञि-टु-डु इत्य् एतेषां समुदयानाम् आदितो वर्तमानानाम् इत्य् सञ्ज्ञा भवति । ञि, ञिमिदा - मिन्नः । ञिधृषा - धृष्टः । ञिक्ष्विदा - क्ष्विण्णः । ञीन्धी - इद्धः । टु, टुवेपृ - वेपथुः । टुओश्वि - श्वयथौः । डु, डुपचष् - पक्त्रिमम् । डुवप् - उप्त्रिमम् । डुकृञ् कृत्रिमम् । आदिः इति किम् ? प्टूयति । क्ण्डूयति । उपदेषे इत्य् एव - ञिकारीयति ॥ षः प्रत्ययसय

it iti vartate / ādi-śabdaḥ pratekam abhisambadhyate / ñi-ṭu-ḍu ity eteṣāṃ samudayānām ādito vartamānānām ity sañjñā bhavati / ñi, ñimidā - minnaḥ / ñidhṛṣā - dhṛṣṭaḥ / ñikṣvidā - kṣviṇṇaḥ / ñīndhī - iddhaḥ / ṭu, ṭuvepṛ - vepathuḥ / ṭuośvi - śvayathauḥ / ḍu, ḍupacaṣ - paktrimam / ḍuvap - uptrimam / ḍukṛñ kṛtrimam / ādiḥ iti kim ? pṭūyati / kṇḍūyati / upadeṣe ity eva - ñikārīyati // ṣaḥ pratyayasaya

Sanskrit only: no published translation is held for this verse.

षकारः प्रत्ययसय आदिः इत्सञ्ज्ञः भवति । शिल्पिनि ष्वुन् (*३,१।१४५) - नर्तकी, रजकी । प्रत्ययस्य इति किम् ? षोडः, षण्डः, षडिकः । आदिः इत्य् एव - अविमह्योष्टिषच् - अविषः, महिषः ॥ दुटू

ṣakāraḥ pratyayasaya ādiḥ itsañjñaḥ bhavati / śilpini ṣvun (*3,1.145) - nartakī, rajakī / pratyayasya iti kim ? ṣoḍaḥ, ṣaṇḍaḥ, ṣaḍikaḥ / ādiḥ ity eva - avimahyoṣṭiṣac - aviṣaḥ, mahiṣaḥ // duṭū

Sanskrit only: no published translation is held for this verse.

तेन वित्तश् चुञ्चुप्-चणपौ (*५,२।२६) - केशचुञ्चुः, केशचणः । अवात् कुटारच् च (*५,२।३०), नते नासिकायाः सञ्ज्ञायां टिटञ्-नाट्ज्-भ्रटचः (*५,२।३१) - अवटीतः । आदिः इत्य् एव । कर्मणि घटो ऽठच् (*५,२।३५) - कर्मठः ॥ ल-श-क्व् अतद्धिते

tena vittaś cuñcup-caṇapau (*5,2.26) - keśacuñcuḥ, keśacaṇaḥ / avāt kuṭārac ca (*5,2.30), nate nāsikāyāḥ sañjñāyāṃ ṭiṭañ-nāṭj-bhraṭacaḥ (*5,2.31) - avaṭītaḥ / ādiḥ ity eva / karmaṇi ghaṭo 'ṭhac (*5,2.35) - karmaṭhaḥ // la-śa-kv ataddhite

Sanskrit only: no published translation is held for this verse.

तद्धित-वर्जितस्य प्रत्ययस्य् आदितो वर्तमाना लकार-शकार-कवर्गा इत्सञ्ज्ञा भवन्ति । लकरः, ल्युट् च (*३,३।११५) - चयनम्, जयनम् । शकारः, कर्तरि शप् (*३,१।६८) - भवति, पचति । कवर्गः, क्तक्तवतू निष्ठा (*१,१।२६) - भुक्तः, भुक्तवत् । प्रिय-वशो वदः खच् (*३,२।३८) - प्रियंवदः, वशंवदः । ग्ला-जि-स्थश् च ग्स्नुः (*३,२।१३९) - ग्लास्नुः, जिष्णुः, भूष्णुः । भञ्ज-भास-मिदो घुरच् (*३,२।१६१) - भुअङ्गुरम् । टा-ङसिङसाम् इन-आत्-स्याः (*७,१।१२) - वृक्षात्, वृक्शस्य । अतद्धिते इति किम् ? चूढालः । लोमशः । कर्णिका ॥ तस्य लोपः

taddhita-varjitasya pratyayasy ādito vartamānā lakāra-śakāra-kavargā itsañjñā bhavanti / lakaraḥ, lyuṭ ca (*3,3.115) - cayanam, jayanam / śakāraḥ, kartari śap (*3,1.68) - bhavati, pacati / kavargaḥ, ktaktavatū niṣṭhā (*1,1.26) - bhuktaḥ, bhuktavat / priya-vaśo vadaḥ khac (*3,2.38) - priyaṃvadaḥ, vaśaṃvadaḥ / glā-ji-sthaś ca gsnuḥ (*3,2.139) - glāsnuḥ, jiṣṇuḥ, bhūṣṇuḥ / bhañja-bhāsa-mido ghurac (*3,2.161) - bhuaṅguram / ṭā-ṅasiṅasām ina-āt-syāḥ (*7,1.12) - vṛkṣāt, vṛkśasya / ataddhite iti kim ? cūḍhālaḥ / lomaśaḥ / karṇikā // tasya lopaḥ

Sanskrit only: no published translation is held for this verse.

तस्य इत्सञ्ज्ञकस्य लोपो भवति । तथा च+एव+उदाहृतम् । तस्य ग्रहणं सर्वलोप-अर्थम्, अलो ऽन्त्यसय् (*१,१।५२) मा भूत् आदिर् ञिटुडवः (*१,३।५) इति ॥ यथा-सङ्ख्यम् अनुदेशः समानाम्

tasya itsañjñakasya lopo bhavati / tathā ca+eva+udāhṛtam / tasya grahaṇaṃ sarvalopa-artham, alo 'ntyasay (*1,1.52) mā bhūt ādir ñiṭuḍavaḥ (*1,3.5) iti // yathā-saṅkhyam anudeśaḥ samānām

Sanskrit only: no published translation is held for this verse.

सङ्ख्या-शब्देन क्रमो लक्ष्यते । यथा-सङ्ख्यं यथा-क्रमम् अनुदेशो भवति । अनुदिश्यते इति अनुदेशः । पश्चाद् उच्चार्यते इत्य् अर्थः । समानां समसङ्ख्यानं समपरिपहितानाम् उद्देशिनाम् अनुदेशिनां च यथा-क्रममौद्देशिभिर् अनुदेशिनः सम्बध्यन्ते । तूदी-शलातुर-वर्मती-कूचवाराड् ढक्-छण्-ढञ्-यक्ः (*४,३।९४) । प्रथमात् प्रथमः, द्वितीयाद् द्वितीयः इत्य् आदि । तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः । समानाम् इति किम् ? लक्षण-इत्थम्-भूत-आख्यान-भाग। वीप्सासु प्रति-पर्य्-अनवः (*१,४।९०) । लक्षणादयश् चत्वारो ऽर्थाः, प्रत्यादयस् त्रयः, सर्वेषं सर्वत्र कर्मप्रवचनीय-सञ्ज्ञा भवति । इह कस्मान् न भवति वेशो-यश-आदेर् भगाद् यल् (*४,४।१३१) ख च (*४,४।१३२) इति ? स्वरितेन लिङ्गेन यथा-सङ्ख्यम् । यत्र एष्यते, तत्र स्वरितत्वं न प्रतिज्ञायते । स्वरितेन अधिकारः (*१,३।११) इति स्वरित-ग्र्हणं पूर्वेण अपि सम्बध्यते ॥ स्वरितेन अधिकारः

saṅkhyā-śabdena kramo lakṣyate / yathā-saṅkhyaṃ yathā-kramam anudeśo bhavati / anudiśyate iti anudeśaḥ / paścād uccāryate ity arthaḥ / samānāṃ samasaṅkhyānaṃ samaparipahitānām uddeśinām anudeśināṃ ca yathā-kramamauddeśibhir anudeśinaḥ sambadhyante / tūdī-śalātura-varmatī-kūcavārāḍ ḍhak-chaṇ-ḍhañ-yakḥ (*4,3.94) / prathamāt prathamaḥ, dvitīyād dvitīyaḥ ity ādi / taudeyaḥ / śālāturīyaḥ / vārmateyaḥ / kaucavāryaḥ / samānām iti kim ? lakṣaṇa-ittham-bhūta-ākhyāna-bhāga. vīpsāsu prati-pary-anavaḥ (*1,4.90) / lakṣaṇādayaś catvāro 'rthāḥ, pratyādayas trayaḥ, sarveṣaṃ sarvatra karmapravacanīya-sañjñā bhavati / iha kasmān na bhavati veśo-yaśa-āder bhagād yal (*4,4.131) kha ca (*4,4.132) iti ? svaritena liṅgena yathā-saṅkhyam / yatra eṣyate, tatra svaritatvaṃ na pratijñāyate / svaritena adhikāraḥ (*1,3.11) iti svarita-grhaṇaṃ pūrveṇa api sambadhyate // svaritena adhikāraḥ

Sanskrit only: no published translation is held for this verse.

अनुदात्तङित आत्मनेपदम्

anudāttaṅita ātmanepadam

Sanskrit only: no published translation is held for this verse.

अविशेषेण धातोर् आत्मनेपदं पर्स्मैपदं च विधास्यते, तत्र अयं नियमः क्रियते । अनुदात्त-इतो ये धतवो ङितश् च, तेभ्य एव आत्मनेपदं भवति न अन्येभ्यः । अनुदत्तेद्भ्यः, आस - आसते । वस - वस्ते । ङिद्भ्यः खल्व् अपि, षूङ् - सूते । शीङ् - शेते ॥ भाव-कर्मणोः

aviśeṣeṇa dhātor ātmanepadaṃ parsmaipadaṃ ca vidhāsyate, tatra ayaṃ niyamaḥ kriyate / anudātta-ito ye dhatavo ṅitaś ca, tebhya eva ātmanepadaṃ bhavati na anyebhyaḥ / anudattedbhyaḥ, āsa - āsate / vasa - vaste / ṅidbhyaḥ khalv api, ṣūṅ - sūte / śīṅ - śete // bhāva-karmaṇoḥ

Sanskrit only: no published translation is held for this verse.

लः कर्मणि च भावे च अकर्मकेभ्यः (*३,४।६९) इति भाव-कर्मणोर् विहितस्य लस्य तिब्-आदयः सामान्येन वक्ष्यन्ते । तत्र-इदम् उच्यते, भावे कर्मणि च आत्मनेपदं भवति । भावे - ग्लाय्ते भवता, सुप्यते भवता, आस्यते भवता । कर्मणि - क्रियते कटः, ह्रियते भारः । कर्मकर्तरि, लूयते केदारः स्वयम् एव इति, परस्मैपदं न भवति । तस्य विधाने द्वितीयं कर्तृ-ग्रहणम् अनुवर्तते । तेन कर्तिव यः कर्ता तत्र प्रस्मैपदं भवति ॥ कर्तरि कर्म-व्यतिहारे

laḥ karmaṇi ca bhāve ca akarmakebhyaḥ (*3,4.69) iti bhāva-karmaṇor vihitasya lasya tib-ādayaḥ sāmānyena vakṣyante / tatra-idam ucyate, bhāve karmaṇi ca ātmanepadaṃ bhavati / bhāve - glāyte bhavatā, supyate bhavatā, āsyate bhavatā / karmaṇi - kriyate kaṭaḥ, hriyate bhāraḥ / karmakartari, lūyate kedāraḥ svayam eva iti, parasmaipadaṃ na bhavati / tasya vidhāne dvitīyaṃ kartṛ-grahaṇam anuvartate / tena kartiva yaḥ kartā tatra prasmaipadaṃ bhavati // kartari karma-vyatihāre

Sanskrit only: no published translation is held for this verse.

कर्म-शब्दः क्रियवाची । व्यतिहारो विनिमयः । यत्र-अन्य-सम्बन्धिनीं क्रियामन्यः करोति, इतर-सम्बन्धिनीं चेतरः, स कर्म-व्यतिहारः । तद्धिशिष्ट-क्रियावचनाद् धातोर् आत्मनेपदं भवति । व्यतिलुनते । व्यतिपुनते । कर्म-व्यतिहारे इति किम् ? लुनन्ति । कर्तृ-ग्रहणम् उत्तर-अर्थं शेषात् कर्तरि परस्मैपदम् (*१,३।७८) इति ॥ न गति-हिंसा-अर्थेभ्यः

karma-śabdaḥ kriyavācī / vyatihāro vinimayaḥ / yatra-anya-sambandhinīṃ kriyāmanyaḥ karoti, itara-sambandhinīṃ cetaraḥ, sa karma-vyatihāraḥ / taddhiśiṣṭa-kriyāvacanād dhātor ātmanepadaṃ bhavati / vyatilunate / vyatipunate / karma-vyatihāre iti kim ? lunanti / kartṛ-grahaṇam uttara-arthaṃ śeṣāt kartari parasmaipadam (*1,3.78) iti // na gati-hiṃsā-arthebhyaḥ

Sanskrit only: no published translation is held for this verse.

पूर्वेण आत्मनेपदं प्राप्तं प्रतिषिद्यते । गत्य्-अर्थेभ्यो हिंसा-अर्थेभ्यश् च धातुघ्यः कर्म-व्यतिहरे आत्मनेपदं न भवति । व्यतिगच्छन्ति । व्यतिसर्पन्ति । हिंसा-अर्थेभ्यः -- व्यतिहिंसन्ति । व्यतिघ्नन्ति । प्रतिषेधे हसादीनाम् उपसङ्ख्यनम् । व्यतिहसन्ति । व्यतिजल्पन्ति । व्यतिपठन्ति । हरतेर् अप्रतिषेधः । संप्रहरन्ते राजानः ॥ इतरेतर-अन्योन्य-उपपदाच् च

pūrveṇa ātmanepadaṃ prāptaṃ pratiṣidyate / gaty-arthebhyo hiṃsā-arthebhyaś ca dhātughyaḥ karma-vyatihare ātmanepadaṃ na bhavati / vyatigacchanti / vyatisarpanti / hiṃsā-arthebhyaḥ -- vyatihiṃsanti / vyatighnanti / pratiṣedhe hasādīnām upasaṅkhyanam / vyatihasanti / vyatijalpanti / vyatipaṭhanti / harater apratiṣedhaḥ / saṃpraharante rājānaḥ // itaretara-anyonya-upapadāc ca

Sanskrit only: no published translation is held for this verse.

परस्पर-उपपदाच् च+इति वक्तव्यम् । पर्स्परस्य व्यतिलुनन्ति ॥ नेर् विशः

paraspara-upapadāc ca+iti vaktavyam / parsparasya vyatilunanti // ner viśaḥ

Sanskrit only: no published translation is held for this verse.

शषात् कर्तरि पर्स्मैपदम् (*१,३।७८) इति प्रस्मैपदे प्राप्ते नि-पूर्वाद् विश आत्मनेपदं विधीयते । नेः परस्माद् विश आत्मनेपदं भवति । निविशते । निविशन्ते । नेः इति किम् ? प्रविशति । य-दागमास् तद्-ग्रहणेन गृह्यन्ते तेन अटा न अस्ति व्यवधानम् । न्यविशत । नेर् उपसर्गस्य ग्रहणम्, अर्थवद्-ग्रहने न अनर्थकस्य ग्रहणम् इति । तस्माद् इह न भवति, मधुनि विशान्ति भ्रमराः ॥ परिव्य्-अवेभ्यः क्रियः

śaṣāt kartari parsmaipadam (*1,3.78) iti prasmaipade prāpte ni-pūrvād viśa ātmanepadaṃ vidhīyate / neḥ parasmād viśa ātmanepadaṃ bhavati / niviśate / niviśante / neḥ iti kim ? praviśati / ya-dāgamās tad-grahaṇena gṛhyante tena aṭā na asti vyavadhānam / nyaviśata / ner upasargasya grahaṇam, arthavad-grahane na anarthakasya grahaṇam iti / tasmād iha na bhavati, madhuni viśānti bhramarāḥ // parivy-avebhyaḥ kriyaḥ

Sanskrit only: no published translation is held for this verse.

डुक्रिञ् द्रव्य-विनिमये । ञित्वात् कर्त्र्-अभिप्राये क्रियाफले सिद्धम् आत्मनेपदम् । अकर्त्र्-अभिप्राय-अर्थो ऽयम्-आरम्भः । परिव्यवेभ्य उत्तरस्मात् क्रीणातेर् आत्मनेपदं भवति । परिक्रीणीते । विक्रीणीते । अवक्रीणीते । पर्यादय उपसर्गा गृह्यन्ते तेन+इह न भवति, वहुवि क्रीणाति वनम् ॥ विपराभ्यां जेः

ḍukriñ dravya-vinimaye / ñitvāt kartr-abhiprāye kriyāphale siddham ātmanepadam / akartr-abhiprāya-artho 'yam-ārambhaḥ / parivyavebhya uttarasmāt krīṇāter ātmanepadaṃ bhavati / parikrīṇīte / vikrīṇīte / avakrīṇīte / paryādaya upasargā gṛhyante tena+iha na bhavati, vahuvi krīṇāti vanam // viparābhyāṃ jeḥ

Sanskrit only: no published translation is held for this verse.

शेषात् कर्तरि परस्मैपदम् (*१,३।७८) इत्य् अस्य अपवादः । विपरा पूर्वाज् जयतेर् धातोर् आत्मनेपदं भवति । विजयते । पराजयते । विपरा-शब्दाव् उपसर्गौ गृह्येते साहचर्यत् । तेन+इह न भवति, बहुवि जयति वनम्, परा जयति सेना इति ॥ अङो दो ऽनास्य-विहरणे

śeṣāt kartari parasmaipadam (*1,3.78) ity asya apavādaḥ / viparā pūrvāj jayater dhātor ātmanepadaṃ bhavati / vijayate / parājayate / viparā-śabdāv upasargau gṛhyete sāhacaryat / tena+iha na bhavati, bahuvi jayati vanam, parā jayati senā iti // aṅo do 'nāsya-viharaṇe

Sanskrit only: no published translation is held for this verse.

क्रीडो ऽनु-सं-परिभ्यश् च

krīḍo 'nu-saṃ-paribhyaś ca

Sanskrit only: no published translation is held for this verse.

समवप्रविभ्यः स्थः

samavapravibhyaḥ sthaḥ

Sanskrit only: no published translation is held for this verse.

सम् अव प्र वि इत्य् एवं पूर्वात् तिष्ठतेर् आत्मनेपदं भवति । संतिष्ठते । अवतिष्ठते । वितिष्ठते । आङः स्थः प्रतिज्ञाने इति वक्तव्यम् । अस्तिं सकारम् आतिष्ठते । आगमौ गुण-वृद्धी आतिष्ठते ॥ प्रकाशन-स्थेय-आख्यहोश् च

sam ava pra vi ity evaṃ pūrvāt tiṣṭhater ātmanepadaṃ bhavati / saṃtiṣṭhate / avatiṣṭhate / vitiṣṭhate / āṅaḥ sthaḥ pratijñāne iti vaktavyam / astiṃ sakāram ātiṣṭhate / āgamau guṇa-vṛddhī ātiṣṭhate // prakāśana-stheya-ākhyahoś ca

Sanskrit only: no published translation is held for this verse.

स्वाभिप्रायकथनं प्रकाशनम् । स्थेयस्य आख्या स्थेयाख्या । तिष्ठत्य् अस्मिन्न् इति स्थेयः । विवादपदनिर्णेता लोके स्थेयः इति प्रसिधः । तस्य प्रतिपत्त्य्-अर्थम् आख्या-ग्रहणम् । प्रकाशने स्थेय-आख्यायां च तिष्ठतेर् आत्मनेपदं भवति । प्रकाशने तावत् -- तिष्ठते कन्या धात्रेभ्यः । तिष्ठते वृषली ग्राम-पुत्रेभ्यः । प्रकाशयत्य् आत्मानम् इत्य् अर्थः । स्थेय-आख्यायाम् -- त्वयि तिष्ठते । मयि तिष्ठते । संशय्य कर्णादिषु तिष्ठते यः ॥ उदो ऽनूर्ध्व-कर्मणि

svābhiprāyakathanaṃ prakāśanam / stheyasya ākhyā stheyākhyā / tiṣṭhaty asminn iti stheyaḥ / vivādapadanirṇetā loke stheyaḥ iti prasidhaḥ / tasya pratipatty-artham ākhyā-grahaṇam / prakāśane stheya-ākhyāyāṃ ca tiṣṭhater ātmanepadaṃ bhavati / prakāśane tāvat -- tiṣṭhate kanyā dhātrebhyaḥ / tiṣṭhate vṛṣalī grāma-putrebhyaḥ / prakāśayaty ātmānam ity arthaḥ / stheya-ākhyāyām -- tvayi tiṣṭhate / mayi tiṣṭhate / saṃśayya karṇādiṣu tiṣṭhate yaḥ // udo 'nūrdhva-karmaṇi

Sanskrit only: no published translation is held for this verse.

उत्पूर्वात् तिष्ठतेर् अनूर्ध्व-कर्मणि वर्तमानाद् आत्मनेपदं भवति । कर्मशब्दः क्रियावाची । अनूर्ध्वताविशिष्टक्रियावचनात् तिष्ठतेर् आत्मनेपदं भवति । गेहे उतिष्ठते । कुटुम्बे उत्तिष्ठते । तद्-अर्थं यतते इत्य् अर्थः । उद ईहायाम् इति वक्तव्यम् । इह मा भूत्, अस्माद् ग्रामात् शतम् उत्तिष्ठति । शतम् उत्पद्यते इत्य् अर्थः । ईहग्रहणम् अनूर्ध्व-कर्मण एव विशेषनं, न अपवादः । अनूर्ध्व-कर्मणि इति किम् ? आसनाद् उत्तिष्ठति ॥ उपान् मन्त्र-करणे

utpūrvāt tiṣṭhater anūrdhva-karmaṇi vartamānād ātmanepadaṃ bhavati / karmaśabdaḥ kriyāvācī / anūrdhvatāviśiṣṭakriyāvacanāt tiṣṭhater ātmanepadaṃ bhavati / gehe utiṣṭhate / kuṭumbe uttiṣṭhate / tad-arthaṃ yatate ity arthaḥ / uda īhāyām iti vaktavyam / iha mā bhūt, asmād grāmāt śatam uttiṣṭhati / śatam utpadyate ity arthaḥ / īhagrahaṇam anūrdhva-karmaṇa eva viśeṣanaṃ, na apavādaḥ / anūrdhva-karmaṇi iti kim ? āsanād uttiṣṭhati // upān mantra-karaṇe

Sanskrit only: no published translation is held for this verse.

वा लिप्सायामिति वक्तव्यम् । भिक्षुको ब्राह्मण-कुलम् उपतिष्थते, उपतिष्ठति इति वा ॥ अकर्मकाच् च

vā lipsāyāmiti vaktavyam / bhikṣuko brāhmaṇa-kulam upatiṣthate, upatiṣṭhati iti vā // akarmakāc ca

Sanskrit only: no published translation is held for this verse.

उपात् इति वर्तते । उपपूर्वात् तिष्ठतेर् अकर्मकात् अकर्मक-क्रियावचनाद् आत्मनेपदं भवति । यावद् भुक्तम् उपतिष्ठते । यावद् ओदनुम् उपतिष्ठते । भुक्तम् इति भावे क्त-प्रत्ययः । भोजने भोजने सन्निधीयते इत्य् अर्थः । अकर्मकात् इति किम् ? राजानम् उपतिष्ठति ॥ उद्-विभ्यां तपः

upāt iti vartate / upapūrvāt tiṣṭhater akarmakāt akarmaka-kriyāvacanād ātmanepadaṃ bhavati / yāvad bhuktam upatiṣṭhate / yāvad odanum upatiṣṭhate / bhuktam iti bhāve kta-pratyayaḥ / bhojane bhojane sannidhīyate ity arthaḥ / akarmakāt iti kim ? rājānam upatiṣṭhati // ud-vibhyāṃ tapaḥ

Sanskrit only: no published translation is held for this verse.

अकर्मकात् इति वर्तते । उत् वि इत्य् एवं पूर्वात् तपतेर् अकर्मक-त्रियावचनाद् आत्मनेपदं भवति । उत्तपते । वितपते । दीप्यते इत्य् अर्थः । अकर्मकात् इत्य् एव । उत्तपति सुवर्णं सुवर्ण-कारः । वितपति पृथ्वीं सविता । स्वाङ्गकर्मकाच् च+इति वक्तव्यम् । उत्तपते पाणिम्, उत्तपते पृष्ठम् । वितपते पाणिम्, वितपते पृष्ठम् । स्वाङ्गं च+इह न पारिभाषिकं गृह्यते अद्रवं मूर्तिमत् स्वाङ्गम् इति । किं तर्हि ? स्वम् अङ्गं स्वाङ्गम् । तेन+इह न भवति, देवदत्तो यज्ञदत्तस्य पृष्ठम् उत्तपति इति । उद्विभ्याम् इति किम् ? निष्टपति ॥ आङो यम-हनः

akarmakāt iti vartate / ut vi ity evaṃ pūrvāt tapater akarmaka-triyāvacanād ātmanepadaṃ bhavati / uttapate / vitapate / dīpyate ity arthaḥ / akarmakāt ity eva / uttapati suvarṇaṃ suvarṇa-kāraḥ / vitapati pṛthvīṃ savitā / svāṅgakarmakāc ca+iti vaktavyam / uttapate pāṇim, uttapate pṛṣṭham / vitapate pāṇim, vitapate pṛṣṭham / svāṅgaṃ ca+iha na pāribhāṣikaṃ gṛhyate adravaṃ mūrtimat svāṅgam iti / kiṃ tarhi ? svam aṅgaṃ svāṅgam / tena+iha na bhavati, devadatto yajñadattasya pṛṣṭham uttapati iti / udvibhyām iti kim ? niṣṭapati // āṅo yama-hanaḥ

Sanskrit only: no published translation is held for this verse.

अकर्मकात् इति वर्तते । यम उपरमे, हन हिंसागत्योः इति परस्मैपदिनौ । ताभ्याम् अकर्मक-क्रियावचनाभ्याम् आङ्पूर्वाभ्याम् आत्मनेपदं भवति । आयच्छते, आयच्छेते आयच्छन्ते । हनः खल्व् अपि -- आहते, आघ्नाते, आघ्नते । अकर्मकात् इत्य् एव । आयच्छति कूपाद् रज्जुम् । आहन्ति वृषलं पादेन । स्वाङ्गकर्मकाच् च+इति वक्तव्यम् । आयच्छते पाणिम् । आहते शिरः । स्वाङ्गं च+इह न पारिभाषिकम् गृह्यते । किं तर्हि ? स्वम् अङ्गं स्वाङ्गम् । तेन+इह न भवति , आहन्ति शिरः परकीयम् इति ॥ समो गम्य्-ऋच्छि-प्रच्छि-स्वरत्य् अर्ति-श्रु-विदिघ्यः

akarmakāt iti vartate / yama uparame, hana hiṃsāgatyoḥ iti parasmaipadinau / tābhyām akarmaka-kriyāvacanābhyām āṅpūrvābhyām ātmanepadaṃ bhavati / āyacchate, āyacchete āyacchante / hanaḥ khalv api -- āhate, āghnāte, āghnate / akarmakāt ity eva / āyacchati kūpād rajjum / āhanti vṛṣalaṃ pādena / svāṅgakarmakāc ca+iti vaktavyam / āyacchate pāṇim / āhate śiraḥ / svāṅgaṃ ca+iha na pāribhāṣikam gṛhyate / kiṃ tarhi ? svam aṅgaṃ svāṅgam / tena+iha na bhavati , āhanti śiraḥ parakīyam iti // samo gamy-ṛcchi-pracchi-svaraty arti-śru-vidighyaḥ

Sanskrit only: no published translation is held for this verse.

अर्तेर् लुङि च्लेः सर्-ति-शास्त्य्-अर्तिभ्यश्च (*३,१।५६) । इत्य् अङ्-आदेशः । तत्र प्रस्मैपदेशु इत्य् एतन् नाश्रीयते । बहुलं छन्दस्य् अमाङ्योगे ऽपि (*६,४।७५) इत्य् आट् प्रतिषध्यते । ऋदृशो ऽङि गुणः (*७,४।१६) इति गुणः -- समरनत । संशृणुते । संवित्ते । ऋच्छेरन् आदेशस्य ग्रहणम्, समृच्छिष्यते । अर्त्य्-आदेशस्य त्व् अर्ति इत्य् एव सिद्धम् आत्मनेपदम् । अर्तिरुभयत्र पठ्यते, ऋ गति-प्रापणयोः इति भ्वादौ, ऋ सृ गतौ इति जुहोत्य्-आदौ । विशेषाभावाद् द्वयोर् अपि ग्रहणम् । विदेर्ज्ञान-अर्थस्य ग्रहनम्, परस्मैपदिभिर् गमादिभिः साहचर्यात्, न लाभ-अर्थस्य स्वरितेत्त्वादुभ्यतोभाषस्य । दृशेश्च+इति वक्तव्यम् । संपश्यते । अकर्मकात् इत्य् एव । ग्रामं संपस्यति ॥ नि-सम्-उप-विभ्यो ह्वः

arter luṅi cleḥ sar-ti-śāsty-artibhyaśca (*3,1.56) / ity aṅ-ādeśaḥ / tatra prasmaipadeśu ity etan nāśrīyate / bahulaṃ chandasy amāṅyoge 'pi (*6,4.75) ity āṭ pratiṣadhyate / ṛdṛśo 'ṅi guṇaḥ (*7,4.16) iti guṇaḥ -- samaranata / saṃśṛṇute / saṃvitte / ṛccheran ādeśasya grahaṇam, samṛcchiṣyate / arty-ādeśasya tv arti ity eva siddham ātmanepadam / artirubhayatra paṭhyate, ṛ gati-prāpaṇayoḥ iti bhvādau, ṛ sṛ gatau iti juhoty-ādau / viśeṣābhāvād dvayor api grahaṇam / viderjñāna-arthasya grahanam, parasmaipadibhir gamādibhiḥ sāhacaryāt, na lābha-arthasya svaritettvādubhyatobhāṣasya / dṛśeśca+iti vaktavyam / saṃpaśyate / akarmakāt ity eva / grāmaṃ saṃpasyati // ni-sam-upa-vibhyo hvaḥ

Sanskrit only: no published translation is held for this verse.

अकर्मकात् इति निवृत्तम् । अतः परं सामान्येन आत्मनेपद-विधानं प्रतिपत्तव्यम् । नि सम् उप वि इत्य् एवं पूर्वात् ह्वयतेर् धातोर् आत्नमेपदं भवति । निह्वयते । संह्वयते उपह्वयते । विह्वयते । अकर्त्र्-अभिप्राय-अर्थो ऽयम्-आरम्भः । अन्यत्र हि ञित्त्वात् सिद्धम् एव-आत्मनेपदम् । उपसर्गादस्यत्यूह्योर् वा वचनम् । निरस्यति, निरस्यते । समूहति, समूहते ॥ स्पर्धायाम् आङः

akarmakāt iti nivṛttam / ataḥ paraṃ sāmānyena ātmanepada-vidhānaṃ pratipattavyam / ni sam upa vi ity evaṃ pūrvāt hvayater dhātor ātnamepadaṃ bhavati / nihvayate / saṃhvayate upahvayate / vihvayate / akartr-abhiprāya-artho 'yam-ārambhaḥ / anyatra hi ñittvāt siddham eva-ātmanepadam / upasargādasyatyūhyor vā vacanam / nirasyati, nirasyate / samūhati, samūhate // spardhāyām āṅaḥ

Sanskrit only: no published translation is held for this verse.

अकर्त्र्-अभिप्राय-अर्थो ऽयम्-आरम्भः । स्पर्धायां विषये आङ्-पूर्वाद् ह्वयतेर् आत्मनेपदं भवति । स्पर्धा सङ्घर्षः, पराभिभवेछा, स विषयो धात्व्-अर्थस्य । धातुस् तु शब्दत्रिय एव । मल्लो मल्लम् आह्वयते । छात्रश् छात्रम् आह्वयते । स्पर्धमानस् तस्य-आह्वानं करोति इत्य् अर्थः । स्पर्धायाम् इति किम् ? गाम् आह्वयति गोपालः ॥ गन्धन-अवक्षेपण-सेवन-साहसिक्य-प्रतिथत्न-प्रकथन-उपयोगेषु कृञः

akartr-abhiprāya-artho 'yam-ārambhaḥ / spardhāyāṃ viṣaye āṅ-pūrvād hvayater ātmanepadaṃ bhavati / spardhā saṅgharṣaḥ, parābhibhavechā, sa viṣayo dhātv-arthasya / dhātus tu śabdatriya eva / mallo mallam āhvayate / chātraś chātram āhvayate / spardhamānas tasya-āhvānaṃ karoti ity arthaḥ / spardhāyām iti kim ? gām āhvayati gopālaḥ // gandhana-avakṣepaṇa-sevana-sāhasikya-pratithatna-prakathana-upayogeṣu kṛñaḥ

Sanskrit only: no published translation is held for this verse.

तेषु सहसा प्रवर्तते इत्य् अर्थः । प्रतियत्ने -- एधो दकस्य+उपस्कुरुते । काण्डं गुडस्य+उपस्कुरुते । तस्य सतो गुणन्तराधानं करोति इत्य् अर्थः । षष्ठीसुटौ करोतेः प्रतियत्न एव विधीयेते । प्रकथने -- गाथाः प्रकुरुते । जनापवादान् प्रकुरुते । प्रकर्षेण कथयति इत्य् अर्थः । उपयोगे -- शतम् प्रकुरुते । सहस्रं प्रकुरुते । धर्म-अर्थं शतं विनियुङ्क्ते इत्य् अर्थः । एतेषु इति किम् ? कटं करोति ॥ अधेः प्रसहने

teṣu sahasā pravartate ity arthaḥ / pratiyatne -- edho dakasya+upaskurute / kāṇḍaṃ guḍasya+upaskurute / tasya sato guṇantarādhānaṃ karoti ity arthaḥ / ṣaṣṭhīsuṭau karoteḥ pratiyatna eva vidhīyete / prakathane -- gāthāḥ prakurute / janāpavādān prakurute / prakarṣeṇa kathayati ity arthaḥ / upayoge -- śatam prakurute / sahasraṃ prakurute / dharma-arthaṃ śataṃ viniyuṅkte ity arthaḥ / eteṣu iti kim ? kaṭaṃ karoti // adheḥ prasahane

Sanskrit only: no published translation is held for this verse.

अकर्त्र्-अभिप्राय-अर्थो ऽयम्-आरम्भः । अधिपूर्वात् करोतेः प्रसहने वर्तमानात् आत्मनेपदं भवति । प्रसहनम् अभिभवः अपराजयो वा । तम् अधिचक्रे । तम् अभिवभूव, न तेन प्राजितः इत्य् अर्थः । प्रसहने इति किम् ? अर्थम् अधिकरोति । पृथग्योगकरणम् उपसर्ग-विशेषण-अर्थम् ॥ वेः शब्द-कर्मणः

akartr-abhiprāya-artho 'yam-ārambhaḥ / adhipūrvāt karoteḥ prasahane vartamānāt ātmanepadaṃ bhavati / prasahanam abhibhavaḥ aparājayo vā / tam adhicakre / tam abhivabhūva, na tena prājitaḥ ity arthaḥ / prasahane iti kim ? artham adhikaroti / pṛthagyogakaraṇam upasarga-viśeṣaṇa-artham // veḥ śabda-karmaṇaḥ

Sanskrit only: no published translation is held for this verse.

कृञः इत्य् अनुवर्तते । विपूर्वत् करोतेर् अकर्त्रभिप्राये क्रियाफले शब्दकर्मण आत्मनेपदं भवति । कर्मशब्द इह कारकाभिधायी, न क्रियावचनः । क्रोष्टा विकुरुते स्वरान् । ध्वाङ्क्षो विकुरुते स्वरान् । शब्दकर्मणः इति किम् ? विकरोति पयः ॥ अकर्मकाच् च

kṛñaḥ ity anuvartate / vipūrvat karoter akartrabhiprāye kriyāphale śabdakarmaṇa ātmanepadaṃ bhavati / karmaśabda iha kārakābhidhāyī, na kriyāvacanaḥ / kroṣṭā vikurute svarān / dhvāṅkṣo vikurute svarān / śabdakarmaṇaḥ iti kim ? vikaroti payaḥ // akarmakāc ca

Sanskrit only: no published translation is held for this verse.

वेः कृञ इत्य् अनुवर्तते । विपूर्वात् करोतेर् अकर्मकाद् अकर्मक-क्रियावचनाद् आत्मनेपदं भवति । विकुर्वते सैन्धवाः । साधु दान्ताः शोभनं वल्गन्ति इत्य् अर्थः । ओदनस्य पूर्णाश् छात्रा विकुर्वते । निष्फलं चेष्टन्ते इत्य् अर्थः ॥ सम्मानन-उत्सञ्जन-आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु नियः

veḥ kṛña ity anuvartate / vipūrvāt karoter akarmakād akarmaka-kriyāvacanād ātmanepadaṃ bhavati / vikurvate saindhavāḥ / sādhu dāntāḥ śobhanaṃ valganti ity arthaḥ / odanasya pūrṇāś chātrā vikurvate / niṣphalaṃ ceṣṭante ity arthaḥ // sammānana-utsañjana-ācāryakaraṇa-jñāna-bhṛti-vigaṇana-vyayeṣu niyaḥ

Sanskrit only: no published translation is held for this verse.

कर्तृस्थे च शरीरे कर्मणि

kartṛsthe ca śarīre karmaṇi

Sanskrit only: no published translation is held for this verse.

नयतेः कर्ता देवदत्त-आदिर् लकारवाच्यः । कर्तृस्थे कर्मण्य् अशरीरे सति नयतेर् आत्मनेपदं भवति । शरीरं प्राणिकायः, तद्-एकदेशो ऽपि शरीरम् । क्रोधं विनयते । मन्युं विनयते । कर्तृस्थे इति किम् ? देवदत्तो यज्ञदत्तस्य क्रोधं विनयतेइ । अशरीरे इति किम् ? गडुं विनयति । घाटां विनयति । कर्मणि इति किम् ? बुद्ध्या विनयति । प्रज्ञया विनयति ॥ वृत्ति-सर्ग-तायनेषु क्रमः

nayateḥ kartā devadatta-ādir lakāravācyaḥ / kartṛsthe karmaṇy aśarīre sati nayater ātmanepadaṃ bhavati / śarīraṃ prāṇikāyaḥ, tad-ekadeśo 'pi śarīram / krodhaṃ vinayate / manyuṃ vinayate / kartṛsthe iti kim ? devadatto yajñadattasya krodhaṃ vinayatei / aśarīre iti kim ? gaḍuṃ vinayati / ghāṭāṃ vinayati / karmaṇi iti kim ? buddhyā vinayati / prajñayā vinayati // vṛtti-sarga-tāyaneṣu kramaḥ

Sanskrit only: no published translation is held for this verse.

शेषत् कर्तरि परस्मैपदे प्राप्ते वृत्त्य्-आदिश्व् अर्थेशु कर्मेर् धतोर् आत्मनेपदं भवति । वृत्तिर् अप्रतिबन्धः । सर्ग उत्साहः । तायनं स्फीतता । वृत्तौ तावत् --ऋक्ष्वस्य क्रमते बुद्धिः । न प्रतिहन्यते इत्य् अर्थः । यजुःष्वस्य क्रमते बुद्धिः । सर्गे -- व्याकरण-अध्ययनाय क्रमते । उत्सहते इत्य् अर्थः । तायते -- अस्मिन् शास्त्रापि क्रमन्ते । स्फीतीभवन्ति इत्य् अर्थः । एतेषु इति किम् ? अपक्रामति ॥ उप-पराभ्याम्

śeṣat kartari parasmaipade prāpte vṛtty-ādiśv artheśu karmer dhator ātmanepadaṃ bhavati / vṛttir apratibandhaḥ / sarga utsāhaḥ / tāyanaṃ sphītatā / vṛttau tāvat --ṛkṣvasya kramate buddhiḥ / na pratihanyate ity arthaḥ / yajuḥṣvasya kramate buddhiḥ / sarge -- vyākaraṇa-adhyayanāya kramate / utsahate ity arthaḥ / tāyate -- asmin śāstrāpi kramante / sphītībhavanti ity arthaḥ / eteṣu iti kim ? apakrāmati // upa-parābhyām

Sanskrit only: no published translation is held for this verse.

वृत्ति-सर्ग-तायनेषु इति वर्तते । उपपरापूर्वात् क्रमतेर् वृत्त्य्-आदिश्व् अर्थेषु वर्तमानाद् आत्मनेपदं भवति । किम्-अर्थं तर्हि इदम् उच्यते ? उपसर्ग-नियम-अर्थम् । सोपसर्गाद् उप-परा-पूर्वाद् एव, न अन्य-पूर्वात् इति । उपक्रमते । पराक्रमते । उपपराभ्याम् इति किम् ? सङ्क्रामति । वृत्त्य्-आदिष्व् इत्य् एव । उपक्रामति । पराक्रामति ॥ आङ उद्गमने

vṛtti-sarga-tāyaneṣu iti vartate / upaparāpūrvāt kramater vṛtty-ādiśv artheṣu vartamānād ātmanepadaṃ bhavati / kim-arthaṃ tarhi idam ucyate ? upasarga-niyama-artham / sopasargād upa-parā-pūrvād eva, na anya-pūrvāt iti / upakramate / parākramate / upaparābhyām iti kim ? saṅkrāmati / vṛtty-ādiṣv ity eva / upakrāmati / parākrāmati // āṅa udgamane

Sanskrit only: no published translation is held for this verse.

आङ्-पूर्वात् क्रमतेर् उद्गमने वर्तमानाद् आत्मनेपदं भवति । आक्रमते आदित्यः । आक्रमते चन्द्रमाः । आक्रमन्ते ज्योतींषि । उद्गनमे इति किम् ? आक्रामति माणवकः कुतुपम् । ज्योतिरुद्गमने इति वक्तव्यम् । इह मा भूत्, आक्रमति धूमो हर्म्यतलात् ॥ वेः पाद-विहरणे

āṅ-pūrvāt kramater udgamane vartamānād ātmanepadaṃ bhavati / ākramate ādityaḥ / ākramate candramāḥ / ākramante jyotīṃṣi / udganame iti kim ? ākrāmati māṇavakaḥ kutupam / jyotirudgamane iti vaktavyam / iha mā bhūt, ākramati dhūmo harmyatalāt // veḥ pāda-viharaṇe

Sanskrit only: no published translation is held for this verse.

प्र-उपाभ्यां समर्थाभ्याम्

pra-upābhyāṃ samarthābhyām

Sanskrit only: no published translation is held for this verse.

प्र उप् इत्य् एताभ्यां परस्मात् क्रमतेर् आत्मनेपदं भवति, तौ चेत् प्रोपौ समर्थौ तुल्य-अर्थौ भवतः । क्व चानयोस् तुल्य-अर्थता ? आदिकर्मणि । प्रक्रमते भोक्तुम् । उपक्रमते भोक्तुम् । समर्थाभ्याम् इति किम् ? पूर्वेध्युः प्रक्रामति । गच्छति इत्य् अर्थः । अपरेध्युर् उपक्रामति । आगच्छति इत्य् अर्थः । अथ उपपराभ्याम् (*१,३।३९) इत्य् अनेन आत्मनेपदम् अत्र कर्मान् न भाति ? वृत्त्यादि-ग्रहणम् तत्र अनुवर्तते । ततो ऽन्यत्र+इदं प्रत्युदाहरणम् ॥ अनुपसर्गाद् वा

pra up ity etābhyāṃ parasmāt kramater ātmanepadaṃ bhavati, tau cet propau samarthau tulya-arthau bhavataḥ / kva cānayos tulya-arthatā ? ādikarmaṇi / prakramate bhoktum / upakramate bhoktum / samarthābhyām iti kim ? pūrvedhyuḥ prakrāmati / gacchati ity arthaḥ / aparedhyur upakrāmati / āgacchati ity arthaḥ / atha upaparābhyām (*1,3.39) ity anena ātmanepadam atra karmān na bhāti ? vṛttyādi-grahaṇam tatra anuvartate / tato 'nyatra+idaṃ pratyudāharaṇam // anupasargād vā

Sanskrit only: no published translation is held for this verse.

क्रमः इति वर्तते । अप्राप्त-विभाषेयम् । उपसर्ग-वियुक्तात् क्रमतेर् आत्मनेपदं वा भवति । क्रमते । क्रामति । अनुपसर्गात् इति किम् ? सङ्क्रामति ॥ अपह्नवे ज्ञः

kramaḥ iti vartate / aprāpta-vibhāṣeyam / upasarga-viyuktāt kramater ātmanepadaṃ vā bhavati / kramate / krāmati / anupasargāt iti kim ? saṅkrāmati // apahnave jñaḥ

Sanskrit only: no published translation is held for this verse.

शेषात् कर्तरि प्रस्मैपदे प्राप्ते जानतेर् अपह्नवि वर्तमनाद् आत्मनेपदं भवति । अपह्नवो ऽपह्नुतिरपलापः । सोपसर्गश् च अयम्-अपह्नवे वर्तते, न केवलः । शतम् अपजनीते । सहस्रम् अपजानीते । अपलपति इत्य् अर्थः । अपह्नवे इति किम् ? न त्वं किञ्चद् अपि जानासि ॥ अकर्मकाच् च

śeṣāt kartari prasmaipade prāpte jānater apahnavi vartamanād ātmanepadaṃ bhavati / apahnavo 'pahnutirapalāpaḥ / sopasargaś ca ayam-apahnave vartate, na kevalaḥ / śatam apajanīte / sahasram apajānīte / apalapati ity arthaḥ / apahnave iti kim ? na tvaṃ kiñcad api jānāsi // akarmakāc ca

Sanskrit only: no published translation is held for this verse.

अकर्त्र्-अभिप्राय-अर्थम् इदम् । कर्त्र्-अभिप्राये हि अनुपसर्गाज् ज्ञः (*१,३।७६) इति वक्ष्यति । जानातेर् अकर्मकाद् अकर्मक-क्रियावचनाद् आत्मनेपदं भवति । सर्पिशो जानीते । मधुनो जानीते । कथं च अयम् अकर्मकः ? न अत्र सर्पिर्-आदि ज्ञेयत्वेन विवक्षितम् । किं तर्हि ? ज्ञान-पूर्विकायां प्रवृत्तौ करणत्वेन । तथा च ज्ञो ऽविद्-अर्थस्य करणे (*२,३।५१) इति षष्ठी विधीयते -- सर्पिषो जानीते, मधुनो जानीते । सर्पिशा उपायेन प्रवर्तते इत्य् अर्थः । अकर्मकात् इति किम् ? स्वरेण पुत्रं जानाति ॥ सं-प्रतिभ्याम् अनाध्याने

akartr-abhiprāya-artham idam / kartr-abhiprāye hi anupasargāj jñaḥ (*1,3.76) iti vakṣyati / jānāter akarmakād akarmaka-kriyāvacanād ātmanepadaṃ bhavati / sarpiśo jānīte / madhuno jānīte / kathaṃ ca ayam akarmakaḥ ? na atra sarpir-ādi jñeyatvena vivakṣitam / kiṃ tarhi ? jñāna-pūrvikāyāṃ pravṛttau karaṇatvena / tathā ca jño 'vid-arthasya karaṇe (*2,3.51) iti ṣaṣṭhī vidhīyate -- sarpiṣo jānīte, madhuno jānīte / sarpiśā upāyena pravartate ity arthaḥ / akarmakāt iti kim ? svareṇa putraṃ jānāti // saṃ-pratibhyām anādhyāne

Sanskrit only: no published translation is held for this verse.

ज्ञः इति वर्तते । सकर्मक-अर्थम् इदम् । सम् प्रति इत्य् एवं पूर्वाज् जानातेर् अनाध्याने वर्तमानाद् आत्मनेपदं भवति । आध्यानम् उत्कण्ठास्मरणम् । शतं संजानीते । सहस्रं संजानीते । शतं पतिजानीते । सहस्रं प्रतिजानीते । अनाध्याने इति किम् ? मातुः सञ्जानाति । पितुः सञ्जानाति । उत्कण्ठते इत्य् अर्थः ॥ भासन-उपसम्भाषा-ज्ञान-यत्न-विमत्य्-उपमन्त्रणेषु वदः

jñaḥ iti vartate / sakarmaka-artham idam / sam prati ity evaṃ pūrvāj jānāter anādhyāne vartamānād ātmanepadaṃ bhavati / ādhyānam utkaṇṭhāsmaraṇam / śataṃ saṃjānīte / sahasraṃ saṃjānīte / śataṃ patijānīte / sahasraṃ pratijānīte / anādhyāne iti kim ? mātuḥ sañjānāti / pituḥ sañjānāti / utkaṇṭhate ity arthaḥ // bhāsana-upasambhāṣā-jñāna-yatna-vimaty-upamantraṇeṣu vadaḥ

Sanskrit only: no published translation is held for this verse.

उपसान्त्वयति इत्य् अर्थः । ज्ञानं सम्यगवबोधः -- वदते चार्वी लोकायते । जानाति वदितुम् इत्य् अर्थः । यत्न उत्साहः -- क्षेत्रे वदते । गेहे वदते । तद्-विषयम् उत्साहम् आविष्करोति इत्य् अर्थः । विमतिर्नानामतिः - क्षेत्रे विवदन्ते । गेहे विवदन्ते । विमतिपतिता विचित्रं भाषन्ते इत्य् अर्थः । उपमन्त्रणं रहस्युपच्छन्दनम् - कुलभार्याम् उपवदते । परदारान् उपवदते । उपच्छन्दय्ति इत्य् अर्थः । एतेषु इति किम् ? यत् किञ्चिद् वदति ॥ व्यक्तवाचां समुच्चारणे

upasāntvayati ity arthaḥ / jñānaṃ samyagavabodhaḥ -- vadate cārvī lokāyate / jānāti vaditum ity arthaḥ / yatna utsāhaḥ -- kṣetre vadate / gehe vadate / tad-viṣayam utsāham āviṣkaroti ity arthaḥ / vimatirnānāmatiḥ - kṣetre vivadante / gehe vivadante / vimatipatitā vicitraṃ bhāṣante ity arthaḥ / upamantraṇaṃ rahasyupacchandanam - kulabhāryām upavadate / paradārān upavadate / upacchandayti ity arthaḥ / eteṣu iti kim ? yat kiñcid vadati // vyaktavācāṃ samuccāraṇe

Sanskrit only: no published translation is held for this verse.

वदः इति वर्तते । व्यक्तवाचां समुच्चारणं सहोच्चारणम् । तत्र वर्तमानाद् वदतेर् आत्मनेपदं भवति । ननु वद व्यक्तायां वाचि इत्य् एव पठ्यते, तत्र किं व्यक्तवाचाम् इति विशेषणेन ? प्रसिद्ध्य्-उपसंग्रह-अर्थम् एतत् । व्यक्तवाचः इति हि मनुष्याः प्रसिद्धाः । तेषां समुच्चारणे यथा स्यात् । संप्रवदन्ते ब्राह्मणाः । संप्रवदन्ते क्षत्रियाः । व्यक्तवाचाम् इति किम् ? संप्रवदन्ति कुक्कुटाः । समुच्चारणे इति किम् ? ब्राह्मणो वदति । क्षत्रियो वदति ॥ अनोर् अकर्मकात्

vadaḥ iti vartate / vyaktavācāṃ samuccāraṇaṃ sahoccāraṇam / tatra vartamānād vadater ātmanepadaṃ bhavati / nanu vada vyaktāyāṃ vāci ity eva paṭhyate, tatra kiṃ vyaktavācām iti viśeṣaṇena ? prasiddhy-upasaṃgraha-artham etat / vyaktavācaḥ iti hi manuṣyāḥ prasiddhāḥ / teṣāṃ samuccāraṇe yathā syāt / saṃpravadante brāhmaṇāḥ / saṃpravadante kṣatriyāḥ / vyaktavācām iti kim ? saṃpravadanti kukkuṭāḥ / samuccāraṇe iti kim ? brāhmaṇo vadati / kṣatriyo vadati // anor akarmakāt

Sanskrit only: no published translation is held for this verse.

वदः इति, व्यक्तवाचाम् इति च वर्तते । अनुपूर्वाद् वदतेर् अकर्मकाद् व्यक्तवाग्विषयाद् आत्मनेपदं भवति । अनुवदते कठः कलापस्य । अनुवदते मौद्गः पैप्पलादस्य । अनुः सादृश्ये । यथा कलापो ऽधीयानो वदति तथा कठः इत्य् अर्थः । अकर्मकात् इति किम् ? पूर्वम् एव यजुरुदितम् अनुवदति । व्यक्तवाचम् इत्य् एव । अनुवदति वीणा ॥ विभाषा विप्रलापे

vadaḥ iti, vyaktavācām iti ca vartate / anupūrvād vadater akarmakād vyaktavāgviṣayād ātmanepadaṃ bhavati / anuvadate kaṭhaḥ kalāpasya / anuvadate maudgaḥ paippalādasya / anuḥ sādṛśye / yathā kalāpo 'dhīyāno vadati tathā kaṭhaḥ ity arthaḥ / akarmakāt iti kim ? pūrvam eva yajuruditam anuvadati / vyaktavācam ity eva / anuvadati vīṇā // vibhāṣā vipralāpe

Sanskrit only: no published translation is held for this verse.

अवाद् ग्रः

avād graḥ

Sanskrit only: no published translation is held for this verse.

गॄ निगरणे इति तुदादौ पठ्यते, तस्य+इदं ग्रहणम् । न तु गॄ शब्दे इति क्र्यादिपठितस्य । तस्य ह्य् अवपूर्वस्य प्रयोग एव न अस्ति । शेषात् कर्तरि पर्स्मैपदे प्राप्ते अवपूर्वाद् गिरतेर् आत्मनेपदं भवति । अवगिरते, अवगिरेते, अवगिरन्ते । अवात् इति किम् ? गिरति ॥ समः प्रतिज्ञाने

gṝ nigaraṇe iti tudādau paṭhyate, tasya+idaṃ grahaṇam / na tu gṝ śabde iti kryādipaṭhitasya / tasya hy avapūrvasya prayoga eva na asti / śeṣāt kartari parsmaipade prāpte avapūrvād girater ātmanepadaṃ bhavati / avagirate, avagirete, avagirante / avāt iti kim ? girati // samaḥ pratijñāne

Sanskrit only: no published translation is held for this verse.

ग्रः इति वर्तते । संपूर्वात् गिरतेः प्रतिज्ञाने वर्तमानाद् आत्मनेपदं भवति । प्रतिज्ञानम् अभ्युपगमः । शतं संगिरते । निर्यं शब्दं संगिरते । प्रतिज्ञाने इति किम् ? सङ्गिरति ग्रासम् ॥ उदश् चरः सकर्मकात्

graḥ iti vartate / saṃpūrvāt girateḥ pratijñāne vartamānād ātmanepadaṃ bhavati / pratijñānam abhyupagamaḥ / śataṃ saṃgirate / niryaṃ śabdaṃ saṃgirate / pratijñāne iti kim ? saṅgirati grāsam // udaś caraḥ sakarmakāt

Sanskrit only: no published translation is held for this verse.

शेषात् कर्तरि परस्मैपदे प्राप्ते उत्पूर्वाच् चरतेः सकर्मक-क्रियाअवचनाद् आत्मनेपदं भवति । गेहम् उच्चरते । कुटुम्बम् उच्चरते । गुरुवचनम् उच्चरते । उत्क्रम्य गच्छति इत्य् अर्थः । सकर्मकात् इति किम् ? वाष्पम् उच्चरति ॥ संस् तृतीया-युक्तात्

śeṣāt kartari parasmaipade prāpte utpūrvāc carateḥ sakarmaka-kriyāavacanād ātmanepadaṃ bhavati / geham uccarate / kuṭumbam uccarate / guruvacanam uccarate / utkramya gacchati ity arthaḥ / sakarmakāt iti kim ? vāṣpam uccarati // saṃs tṛtīyā-yuktāt

Sanskrit only: no published translation is held for this verse.

यद्य् अप्य् अत्र तद्-अर्थ-योगः सम्भवति, तृतीया तु न श्रूयते, इति प्रत्युदाहरणं भवति ॥ दाणश् च सा चेच् चतुर्थ्य्-अर्थे

yady apy atra tad-artha-yogaḥ sambhavati, tṛtīyā tu na śrūyate, iti pratyudāharaṇaṃ bhavati // dāṇaś ca sā cec caturthy-arthe

Sanskrit only: no published translation is held for this verse.

उपाद् यमः स्वकरने

upād yamaḥ svakarane

Sanskrit only: no published translation is held for this verse.

शेषात् कर्तरि परस्मैपदे प्राप्ते उपपूर्वात् यमः स्वकरणे वर्तमानाद् आत्मनेपदं भवति । पाणि-ग्रहण-विशिष्टम् इह स्वकरनम् गृह्यते, न स्वकरण-मात्रम् । भार्याम् उपयच्छते । स्वकरणे इति किम् ? देवदत्तो यज्ञदत्तस्य भार्याम् उपयच्छति ॥ ज्ञा-श्रु-स्मृ-दृशां सनः

śeṣāt kartari parasmaipade prāpte upapūrvāt yamaḥ svakaraṇe vartamānād ātmanepadaṃ bhavati / pāṇi-grahaṇa-viśiṣṭam iha svakaranam gṛhyate, na svakaraṇa-mātram / bhāryām upayacchate / svakaraṇe iti kim ? devadatto yajñadattasya bhāryām upayacchati // jñā-śru-smṛ-dṛśāṃ sanaḥ

Sanskrit only: no published translation is held for this verse.

ज्ञा श्रु समृ दृश् इत्य् एतेषां सन्नन्तानाम् आत्मनेप्दं भवति । तत्र जानातेः अपह्नवे ज्ञः (*१,३।४४) इति त्रिभिः सूत्रैर् आत्मनेपदं विहितम्, श्रु-दृशोर् अपि समो गम्यृच्छि (*१,३।२९) इत्य् अत्र विहितम् । तस्मिन् विषये पूर्ववत् सनः (*१,३।६२) इत्य् एव सिद्धम् आत्मनेपदम् । ततो ऽन्यत्र अनेन विधीयते । स्मरते पुनर् अप्राप्त एव विधानम् । धर्मं जिज्ञासते । गुरुं शुश्रूषते । नष्टं सुस्मूर्षते । नृपं दिदृक्षते । सनः इति किम् ? जानाति, शृणोति, स्मरति, पष्यति ॥ न अनोर् ज्ञः

jñā śru samṛ dṛś ity eteṣāṃ sannantānām ātmanepdaṃ bhavati / tatra jānāteḥ apahnave jñaḥ (*1,3.44) iti tribhiḥ sūtrair ātmanepadaṃ vihitam, śru-dṛśor api samo gamyṛcchi (*1,3.29) ity atra vihitam / tasmin viṣaye pūrvavat sanaḥ (*1,3.62) ity eva siddham ātmanepadam / tato 'nyatra anena vidhīyate / smarate punar aprāpta eva vidhānam / dharmaṃ jijñāsate / guruṃ śuśrūṣate / naṣṭaṃ susmūrṣate / nṛpaṃ didṛkṣate / sanaḥ iti kim ? jānāti, śṛṇoti, smarati, paṣyati // na anor jñaḥ

Sanskrit only: no published translation is held for this verse.

पूर्वेण योगेन प्राप्तम् आत्मनेपदम् प्रतिषिध्यते । अनुपूर्वाज् जानातेः सन्नन्ताद् आत्मनेपदं न भवति । तथा च सति सकर्मकस्य+एव अयं प्रतिषेधः सम्पद्यते । पुत्रम् अनुजिज्ञासति । अनोः इति किम् ? धर्मं जिज्ञासते ॥ प्रत्य्-आङ्भ्यां श्रुवः

pūrveṇa yogena prāptam ātmanepadam pratiṣidhyate / anupūrvāj jānāteḥ sannantād ātmanepadaṃ na bhavati / tathā ca sati sakarmakasya+eva ayaṃ pratiṣedhaḥ sampadyate / putram anujijñāsati / anoḥ iti kim ? dharmaṃ jijñāsate // praty-āṅbhyāṃ śruvaḥ

Sanskrit only: no published translation is held for this verse.

प्रति आङ् इत्य् एवं पूर्वाच्-छृणोतेः सन्नन्ताद् आत्मनेपदं न भवति । प्रतिशुश्रूषति । आशुश्रूषति । उपसर्ग-ग्रहणं चेदं, तस्माद् इह प्रतिषेधो न भवति , देवदत्तं प्रति शुश्रूषते ॥ शदेः शितः

prati āṅ ity evaṃ pūrvāc-chṛṇoteḥ sannantād ātmanepadaṃ na bhavati / pratiśuśrūṣati / āśuśrūṣati / upasarga-grahaṇaṃ cedaṃ, tasmād iha pratiṣedho na bhavati , devadattaṃ prati śuśrūṣate // śadeḥ śitaḥ

Sanskrit only: no published translation is held for this verse.

म्रियतेर् लुङ्-लिङोश् च

mriyater luṅ-liṅoś ca

Sanskrit only: no published translation is held for this verse.

म्र्ङ् प्राणत्यागे । ङित्त्वाद् आत्मनेपदम् अत्र सिद्धम् एव । नियम-अर्थम् इदं वचनम् । म्रियतेर् लुङ्-लिङोः शितश् च-आत्मनेपदं भवति, अन्यत्र न भवति । अमृत । मृषीष्ट । शितः खल्व् अपि - म्रियते, म्रियेते, म्रियन्ते । नियमः किम्-अर्थः ? मरिश्यति । अमरिस्यत् ॥ पूर्ववत् सनः

mrṅ prāṇatyāge / ṅittvād ātmanepadam atra siddham eva / niyama-artham idaṃ vacanam / mriyater luṅ-liṅoḥ śitaś ca-ātmanepadaṃ bhavati, anyatra na bhavati / amṛta / mṛṣīṣṭa / śitaḥ khalv api - mriyate, mriyete, mriyante / niyamaḥ kim-arthaḥ ? mariśyati / amarisyat // pūrvavat sanaḥ

Sanskrit only: no published translation is held for this verse.

सनः पूर्वो यो धातुः आत्मनेपदी, तद्वत् सन्नन्ताद् आत्मनेपदम् भवति । येन निमित्तेन पूर्वस्माद् आत्मनेपदं विधीयते तेन+एव सन्नन्तादपि भवति । अनुदात्त-ङित आत्मनेपदम् (*१,३।१२) -- आस्ते, शेते । सन्नन्ताद् अपि तद् एव निमित्तम् - आसिसिषते, शिशयिषते । नेर् विशः (*१,३।१७) -- निविशते, निविविक्षते । आङ उद्गम्ने (*१,३।४०) -- आक्रमते, आचिक्रंसते । इह न भवति, शिशत्सति, मुमूर्षति । न हि शदिम्रियतिमात्रम् आत्मनेपदनिमित्तम् । किं तर्हि ? शिदाद्य् अपि, तच् च+इह न अस्ति । यस्य च पूर्वत्र+एव निमित्त-भावः प्रतिशिध्यते, तत् सन्नन्तेश्व् अप्य् अनिमित्तम् -- अनुचिकीर्षति । पराचिकीर्षति । इह जुगुप्सते, मीमांसते इति ? अनुदात्त-ङित इत्य् एव सिद्धम् आत्मनेप्दम् । अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति इति ॥ आम्-प्रत्ययवत् कृञो ऽनुप्रयोगस्य

sanaḥ pūrvo yo dhātuḥ ātmanepadī, tadvat sannantād ātmanepadam bhavati / yena nimittena pūrvasmād ātmanepadaṃ vidhīyate tena+eva sannantādapi bhavati / anudātta-ṅita ātmanepadam (*1,3.12) -- āste, śete / sannantād api tad eva nimittam - āsisiṣate, śiśayiṣate / ner viśaḥ (*1,3.17) -- niviśate, nivivikṣate / āṅa udgamne (*1,3.40) -- ākramate, ācikraṃsate / iha na bhavati, śiśatsati, mumūrṣati / na hi śadimriyatimātram ātmanepadanimittam / kiṃ tarhi ? śidādy api, tac ca+iha na asti / yasya ca pūrvatra+eva nimitta-bhāvaḥ pratiśidhyate, tat sannanteśv apy animittam -- anucikīrṣati / parācikīrṣati / iha jugupsate, mīmāṃsate iti ? anudātta-ṅita ity eva siddham ātmanepdam / avayave kṛtaṃ liṅgaṃ samudāyasya viśeṣakaṃ bhavati iti // ām-pratyayavat kṛño 'nuprayogasya

Sanskrit only: no published translation is held for this verse.

अकर्त्र्-अभिप्राय-अर्थो ऽयम्-आरम्भः । आम्-प्रत्ययो यस्मात् सो ऽयम्-आम्-प्रत्ययः । आम्-प्रत्ययस्य+इव धातोः कृञो ऽनुप्रयोगस्य आत्मनेपदं भवति । ईक्षाञ्चक्रे । ईहाञ्चक्रे । यदि विध्य्-अर्थम् एतत्, तर्हि उदुब्जाञ्चकार, उदुम्भाञ्चकार इति कर्त्र्-अभिप्राये क्रियाफले अत्मनेपदं प्राप्नोति । न+एष दोषः । उभयम् अनेन क्रियते, विधिः नियमश् च । कथम् ? पूर्ववत् इति वर्तते । स द्वितीयो यत्नो नियम-अर्थो भविष्यति । कृञः इति किम् ? ईक्षामास । ईक्षाम्बभूव । कथं पुनर् अस्य अनुप्रयोगः यावता कृञ् च अनुप्रयुज्यते लिति (*३,१।४०) इत्य् उच्यते ? कृञ् इति प्रत्याहार-ग्रहणं तत्र विज्ञायते । क्व संनिविष्टानां प्रत्याहारः ? अभूततद्भावे कृ-भ्व्-अस्तियोगे सम्पद्यकर्तरि च्विः (*५,४।५०) इति कृ-शब्दाद् आरभ्य यावत् कृञो द्वितीय-तृतीय-शम्ब-बीजात् कृषौ (*५,४।५८) इति ञकरम् ॥ प्र-उपाभ्यां युजेर् अयज्ञ-पात्रेषु

akartr-abhiprāya-artho 'yam-ārambhaḥ / ām-pratyayo yasmāt so 'yam-ām-pratyayaḥ / ām-pratyayasya+iva dhātoḥ kṛño 'nuprayogasya ātmanepadaṃ bhavati / īkṣāñcakre / īhāñcakre / yadi vidhy-artham etat, tarhi udubjāñcakāra, udumbhāñcakāra iti kartr-abhiprāye kriyāphale atmanepadaṃ prāpnoti / na+eṣa doṣaḥ / ubhayam anena kriyate, vidhiḥ niyamaś ca / katham ? pūrvavat iti vartate / sa dvitīyo yatno niyama-artho bhaviṣyati / kṛñaḥ iti kim ? īkṣāmāsa / īkṣāmbabhūva / kathaṃ punar asya anuprayogaḥ yāvatā kṛñ ca anuprayujyate liti (*3,1.40) ity ucyate ? kṛñ iti pratyāhāra-grahaṇaṃ tatra vijñāyate / kva saṃniviṣṭānāṃ pratyāhāraḥ ? abhūtatadbhāve kṛ-bhv-astiyoge sampadyakartari cviḥ (*5,4.50) iti kṛ-śabdād ārabhya yāvat kṛño dvitīya-tṛtīya-śamba-bījāt kṛṣau (*5,4.58) iti ñakaram // pra-upābhyāṃ yujer ayajña-pātreṣu

Sanskrit only: no published translation is held for this verse.

स्वराध्यन्तोपसृष्टाद् इति वक्तव्यम् । उद्युङ्क्ते । नियुङ्क्ते । स्वराद्यन्त-उपसृष्तात् इति किम् ? संयुनक्ति ॥ समः क्ष्णुवः

svarādhyantopasṛṣṭād iti vaktavyam / udyuṅkte / niyuṅkte / svarādyanta-upasṛṣtāt iti kim ? saṃyunakti // samaḥ kṣṇuvaḥ

Sanskrit only: no published translation is held for this verse.

क्ष्णु तेजने परस्मैपदी । ततः सम्पूर्वात् आत्मनेपदं भवति । समो गम्य्-ऋच्छि (*१,३।२९) इत्य् अत्र+एव कस्मान् न पठितः ? अकर्मकात् इति तत्र वर्तते । संक्ष्णुते षस्त्रम् । संक्ष्णुवाते, संक्ष्णुवते ॥ भुजो ऽनवने

kṣṇu tejane parasmaipadī / tataḥ sampūrvāt ātmanepadaṃ bhavati / samo gamy-ṛcchi (*1,3.29) ity atra+eva kasmān na paṭhitaḥ ? akarmakāt iti tatra vartate / saṃkṣṇute ṣastram / saṃkṣṇuvāte, saṃkṣṇuvate // bhujo 'navane

Sanskrit only: no published translation is held for this verse.

भुज पालनाभ्यवहारयोः इति रुधादौ पठ्यते । तस्माद् अनवने ऽपालने वर्तमानाद् आत्मनेपदं भवति । भुङ्क्ते, भुञ्जाते, भुञ्जते । अनवने इति किम् ? भुनक्त्य् एनम् अग्निर् आहितः । अनवन इति प्रतिषेधेन रौधादिकस्य-एव ग्रहनं विज्ञायते, न तौदादिकस्य भुजो कौटिल्ये इत्य् अस्य । तेन+इह न भवति, विभुजति पाणिम् ॥ णे रणौ यत् कर्म णौ चेत् स कर्ता ऽनाध्याने

bhuja pālanābhyavahārayoḥ iti rudhādau paṭhyate / tasmād anavane 'pālane vartamānād ātmanepadaṃ bhavati / bhuṅkte, bhuñjāte, bhuñjate / anavane iti kim ? bhunakty enam agnir āhitaḥ / anavana iti pratiṣedhena raudhādikasya-eva grahanaṃ vijñāyate, na taudādikasya bhujo kauṭilye ity asya / tena+iha na bhavati, vibhujati pāṇim // ṇe raṇau yat karma ṇau cet sa kartā 'nādhyāne

Sanskrit only: no published translation is held for this verse.

भी-स्म्योर् हेतुभये

bhī-smyor hetubhaye

Sanskrit only: no published translation is held for this verse.

णेः इति वर्तते । अकर्त्र्-अभिप्राय-अर्थो ऽयम्-आरम्भः । विभेतेः स्मयतेश् च ण्य्-अन्ताद् आत्मनेपदं भवति हेतुभये । हेतुः प्रयोजकः कर्ता लकार-वाच्यः, ततश् चेद् भयं भवति । भय-ग्रहणम् उपलक्षण-अर्थम्, विस्मयो ऽपि तत एव ? जटिलो भीषयते । मुण्डो भीषयते । जटिलो विस्मापयते । मुण्डो विस्मापयते । हेतुभये इति किम् ? कुञ्चिकयैनं भाययति । रूपेण विस्माययति । अत्र कुञ्चिका भयस्य करणम्, न हेतुः ॥ गृधि-वञ्च्योः प्रलम्भने

ṇeḥ iti vartate / akartr-abhiprāya-artho 'yam-ārambhaḥ / vibheteḥ smayateś ca ṇy-antād ātmanepadaṃ bhavati hetubhaye / hetuḥ prayojakaḥ kartā lakāra-vācyaḥ, tataś ced bhayaṃ bhavati / bhaya-grahaṇam upalakṣaṇa-artham, vismayo 'pi tata eva ? jaṭilo bhīṣayate / muṇḍo bhīṣayate / jaṭilo vismāpayate / muṇḍo vismāpayate / hetubhaye iti kim ? kuñcikayainaṃ bhāyayati / rūpeṇa vismāyayati / atra kuñcikā bhayasya karaṇam, na hetuḥ // gṛdhi-vañcyoḥ pralambhane

Sanskrit only: no published translation is held for this verse.

णेः इति वर्तते । अकर्त्र्-अभिप्राय-अर्थो ऽयम्-आरम्भः । गृधु अभिकाङ्क्षायाम्, वञ्चु गतौ इत्य् एतयोर् ण्य्-अनतयोः प्रलम्भने वर्तमानायोर् आत्मनेपदं भवति । प्रलम्भनम् विसंवादनं, मिथ्या-फल-आख्यानम् । माणवकं गर्धयते । माणवकं वञ्चयते । प्रल्म्भने इति किम् ? श्वानं गर्धयति । गर्धनम् अस्य-उत्पादयति इत्य् अर्थः अहिं वञ्चयति । परिहरति इत्य् अर्थः ॥ लियः संमानन-शालीनीकरणयोश् च

ṇeḥ iti vartate / akartr-abhiprāya-artho 'yam-ārambhaḥ / gṛdhu abhikāṅkṣāyām, vañcu gatau ity etayor ṇy-anatayoḥ pralambhane vartamānāyor ātmanepadaṃ bhavati / pralambhanam visaṃvādanaṃ, mithyā-phala-ākhyānam / māṇavakaṃ gardhayate / māṇavakaṃ vañcayate / pralmbhane iti kim ? śvānaṃ gardhayati / gardhanam asya-utpādayati ity arthaḥ ahiṃ vañcayati / pariharati ity arthaḥ // liyaḥ saṃmānana-śālīnīkaraṇayoś ca

Sanskrit only: no published translation is held for this verse.

णेः इति वर्तते । अकर्त्र्-अभिप्राय-अर्थो ऽयम्-आरम्भः । लीङ् श्लेषणे इति दिवादौ पठ्यते ली श्लेषणे इति च क्र्यादौ । विशेषाभावाद् द्वयोर् अपि ग्रहणम् । लियो ण्य्-अन्तात् संमानने शालीनीकरणे च वर्तमानाद् आत्मनेपदं भवति । च-शब्दात् प्रलम्भने च । सम्माननं पूजनम् - जटाभिर् आलापयते । पूजां समधिगच्छति इत्य् अर्थः । शालीनीकरणं न्यग्भावनम् - श्येनो वर्तिकामुल्लापय्ते । न्यक्करोति इत्य् अर्थः । प्रलम्भने - कस्त्वामुल्लापयते । विसंवादयति इत् यर्थः । विभाषा लीयतेः (*६,१।५१) इति वा आत्वं विधीयते । तद्-अस्मिन् विषये नित्यम् अन्यत्र विकल्पः । व्यवस्थित-विभाषा हि सा । सम्माननादिषु इति किम् ? बालकमुल्लापयति ॥ मिथ्योपपदात् कृञो ऽभ्यासे

ṇeḥ iti vartate / akartr-abhiprāya-artho 'yam-ārambhaḥ / līṅ śleṣaṇe iti divādau paṭhyate lī śleṣaṇe iti ca kryādau / viśeṣābhāvād dvayor api grahaṇam / liyo ṇy-antāt saṃmānane śālīnīkaraṇe ca vartamānād ātmanepadaṃ bhavati / ca-śabdāt pralambhane ca / sammānanaṃ pūjanam - jaṭābhir ālāpayate / pūjāṃ samadhigacchati ity arthaḥ / śālīnīkaraṇaṃ nyagbhāvanam - śyeno vartikāmullāpayte / nyakkaroti ity arthaḥ / pralambhane - kastvāmullāpayate / visaṃvādayati it yarthaḥ / vibhāṣā līyateḥ (*6,1.51) iti vā ātvaṃ vidhīyate / tad-asmin viṣaye nityam anyatra vikalpaḥ / vyavasthita-vibhāṣā hi sā / sammānanādiṣu iti kim ? bālakamullāpayati // mithyopapadāt kṛño 'bhyāse

Sanskrit only: no published translation is held for this verse.

स्वरित-ञितः कर्त्र्-अभिप्राये क्रियाफले

svarita-ñitaḥ kartr-abhiprāye kriyāphale

Sanskrit only: no published translation is held for this verse.

णेः इति निवृत्तम् । शेषात् कर्तरि परस्मैपदे प्रप्ते स्वरितेतो ये धातवो ञितश् च तेभ्यः आत्मनेपदं भवति, कर्तारं चेत् क्रियाफलम् अभिप्रैति । क्रियायाः फलं क्रियाफलं प्रधान-भूतम्, यद्-अर्थम् असौ क्रिया आरभ्यते तच् चेत् कर्तुर् लकार-वाच्यस्य भवति । यजते । पचते । ञितः खल्व् अपि - सुनुते । कुरुते । स्वर्गादि प्रधान-फलम् इह कर्तारम् अभिप्रैति । कर्त्रभिप्राये इति किम् ? यजन्ति याजकाः । पचन्ति पाचकाः । कुर्वन्ति कर्मकराः । यद्य् अपि दक्षिणा भृतिश् च कर्तुः फल्मिहास्ति तथा अपि न तद्-अर्थः क्रियारम्भः ॥ अपाद् वदः

ṇeḥ iti nivṛttam / śeṣāt kartari parasmaipade prapte svariteto ye dhātavo ñitaś ca tebhyaḥ ātmanepadaṃ bhavati, kartāraṃ cet kriyāphalam abhipraiti / kriyāyāḥ phalaṃ kriyāphalaṃ pradhāna-bhūtam, yad-artham asau kriyā ārabhyate tac cet kartur lakāra-vācyasya bhavati / yajate / pacate / ñitaḥ khalv api - sunute / kurute / svargādi pradhāna-phalam iha kartāram abhipraiti / kartrabhiprāye iti kim ? yajanti yājakāḥ / pacanti pācakāḥ / kurvanti karmakarāḥ / yady api dakṣiṇā bhṛtiś ca kartuḥ phalmihāsti tathā api na tad-arthaḥ kriyārambhaḥ // apād vadaḥ

Sanskrit only: no published translation is held for this verse.

कर्त्र्-अभिप्राये इति वर्तते । अपपूर्वद् वदतेः कर्त्र्-अभिप्राये क्रियाफले आत्मनेपदं भवति । धनकामो न्यायम् अपवदते । न्यायापवादेन धनम् अर्जयिष्यामि इति मन्यते । कर्त्र्-अभिप्रये क्रियफले इत्य् एव, अपवदति ॥ णिचश् च

kartr-abhiprāye iti vartate / apapūrvad vadateḥ kartr-abhiprāye kriyāphale ātmanepadaṃ bhavati / dhanakāmo nyāyam apavadate / nyāyāpavādena dhanam arjayiṣyāmi iti manyate / kartr-abhipraye kriyaphale ity eva, apavadati // ṇicaś ca

Sanskrit only: no published translation is held for this verse.

कर्त्र्-अभिप्राये क्रियाफले इति वर्तते । णिज्-अन्ताद् आत्मनेपदं भवति कर्त्र्-अभिप्राये क्रियाफले । कटं कारयते । ओदनं पाचयते । कर्त्र्-अभिप्राये इत्य् एव, कटं कारयति परस्य ॥ सम्-उद्-आङ्भ्यो यमो ऽग्रन्थे

kartr-abhiprāye kriyāphale iti vartate / ṇij-antād ātmanepadaṃ bhavati kartr-abhiprāye kriyāphale / kaṭaṃ kārayate / odanaṃ pācayate / kartr-abhiprāye ity eva, kaṭaṃ kārayati parasya // sam-ud-āṅbhyo yamo 'granthe

Sanskrit only: no published translation is held for this verse.

कर्त्र्-अभिप्राये इति वर्तते । सम् उद् आङ् इत्य् एवं पूर्वाद् यमेः कर्त्र्-अभिप्राये क्रियाफले आत्मनेपदं भवति, ग्रन्थ-विशयश् चेत् प्रयोगो न भवति । व्रीहीन् संयच्छते । भारम् उद्यच्छते । वस्त्रम् आयच्छते । आङ्-पूर्वाद् अकर्मकात् आङो यमहनः (*१,३।२८) इति सिद्धम् एव-आत्मनेपदम् । सकर्मक-अर्थम् इदं पुनर्-ग्रहणम् । अग्रन्थे इति किम् ? उध्यच्छति चिकित्सां वैद्यः । कर्त्र्-अभिप्राये इत्य् एव, संयच्छति । उद्यच्छति । आयच्छति ॥ अनुपसर्गाज् ज्ञः

kartr-abhiprāye iti vartate / sam ud āṅ ity evaṃ pūrvād yameḥ kartr-abhiprāye kriyāphale ātmanepadaṃ bhavati, grantha-viśayaś cet prayogo na bhavati / vrīhīn saṃyacchate / bhāram udyacchate / vastram āyacchate / āṅ-pūrvād akarmakāt āṅo yamahanaḥ (*1,3.28) iti siddham eva-ātmanepadam / sakarmaka-artham idaṃ punar-grahaṇam / agranthe iti kim ? udhyacchati cikitsāṃ vaidyaḥ / kartr-abhiprāye ity eva, saṃyacchati / udyacchati / āyacchati // anupasargāj jñaḥ

Sanskrit only: no published translation is held for this verse.

विभाषा-उपपदेन प्रतीयमाने

vibhāṣā-upapadena pratīyamāne

Sanskrit only: no published translation is held for this verse.

स्वरितञितः (*१,३।७२) इति पञ्चभिः सुत्रैर् आत्मनेपदं कर्त्र्-अभिप्राये क्रियाफले द्योतिते विहितम् । तद्-उपपदेन द्योतिते न प्राप्नोति इति वचनम् आरभ्यते । समीपे श्रूयमाणं शब्द-अन्तरम् उपपदम् । तेन प्रतीयमाने कर्त्र्-अभिप्राये क्रियाफले विभाशा आत्मनेपदं भवति । स्वं जज्ञं यजते, सवं यज्ञं यजति । सवं कठं कुरुते, स्वं कथं करोति । स्वं पुत्रम् अपवदते, स्वं पुत्रम् अपवदति । एवं पञ्चसूत्र्याम् उदाहार्यम् ॥ शेषात् कर्तरि परस्मैपदम्

svaritañitaḥ (*1,3.72) iti pañcabhiḥ sutrair ātmanepadaṃ kartr-abhiprāye kriyāphale dyotite vihitam / tad-upapadena dyotite na prāpnoti iti vacanam ārabhyate / samīpe śrūyamāṇaṃ śabda-antaram upapadam / tena pratīyamāne kartr-abhiprāye kriyāphale vibhāśā ātmanepadaṃ bhavati / svaṃ jajñaṃ yajate, savaṃ yajñaṃ yajati / savaṃ kaṭhaṃ kurute, svaṃ kathaṃ karoti / svaṃ putram apavadate, svaṃ putram apavadati / evaṃ pañcasūtryām udāhāryam // śeṣāt kartari parasmaipadam

Sanskrit only: no published translation is held for this verse.

पूर्वेण प्रकरणेन आत्मनेपद-नियमः कृतः, न प्रस्मैपद-नियमः । तत् सर्वतः प्राप्नोति, तद्-अर्थम् इदम् उच्यते । येभ्यो धातुभ्यो येन विशेषणेन आत्मनेपदम् उक्तं ततो यद्-अन्यत् स शेषः । शेषात् कर्तरि परस्मैपदं भवति । शेषाद् एव न अन्यस्मात् । अनुदात्तङित आत्मनेपदम् उक्तम् -- अस्ते । शेते । ततो ऽन्यत्र परस्मैपदम् भवति -- याति । वाति । नेर्विशः आत्मनेपदम् उक्तम् -- निविशते । ततो ऽन्यत्र परस्मैपदम् -- आविशति । प्रविशति । कर्तरि इति किम् ? पच्यते । गम्यते । कर्मकर्तरि कस्मात् परस्मैपदं न भवति, पच्यते ओदनः स्वयम् एव ? कर्तरि कर्म-व्यतिहारे (*१,३।१४) इति द्वितीयं कर्तृ-ग्रहणम् अनुवर्तते, तेन कर्ता-एव यः कर्ता तत्र प्रस्मैपदम् भवति, कर्मकर्तरि न भवति ॥ अनु-पराभ्यां कृञः

pūrveṇa prakaraṇena ātmanepada-niyamaḥ kṛtaḥ, na prasmaipada-niyamaḥ / tat sarvataḥ prāpnoti, tad-artham idam ucyate / yebhyo dhātubhyo yena viśeṣaṇena ātmanepadam uktaṃ tato yad-anyat sa śeṣaḥ / śeṣāt kartari parasmaipadaṃ bhavati / śeṣād eva na anyasmāt / anudāttaṅita ātmanepadam uktam -- aste / śete / tato 'nyatra parasmaipadam bhavati -- yāti / vāti / nerviśaḥ ātmanepadam uktam -- niviśate / tato 'nyatra parasmaipadam -- āviśati / praviśati / kartari iti kim ? pacyate / gamyate / karmakartari kasmāt parasmaipadaṃ na bhavati, pacyate odanaḥ svayam eva ? kartari karma-vyatihāre (*1,3.14) iti dvitīyaṃ kartṛ-grahaṇam anuvartate, tena kartā-eva yaḥ kartā tatra prasmaipadam bhavati, karmakartari na bhavati // anu-parābhyāṃ kṛñaḥ

Sanskrit only: no published translation is held for this verse.

कर्त्र्-अभिप्राये क्रियाफले गन्धनादिषु च करोतेर् आत्मनेपदं विहितम् । तद्-अपवादः परस्मैपदं विधीयते । अनु परा इत्य् एवं पूर्वात् करोतेः परस्मैपदं भवति । अनुकरोति । पराकरोति ॥ अभि-प्रत्य्-अतिभ्यः क्षिपः

kartr-abhiprāye kriyāphale gandhanādiṣu ca karoter ātmanepadaṃ vihitam / tad-apavādaḥ parasmaipadaṃ vidhīyate / anu parā ity evaṃ pūrvāt karoteḥ parasmaipadaṃ bhavati / anukaroti / parākaroti // abhi-praty-atibhyaḥ kṣipaḥ

Sanskrit only: no published translation is held for this verse.

प्राद्वहः

prādvahaḥ

Sanskrit only: no published translation is held for this verse.

वह प्राप्ने स्वरितेत् । तत्र कर्त्र्-अभिप्राय-क्रियाफल-विवक्षायाम् आत्मनेपदे प्राप्ते परस्मैपदं विधीयते । प्रपूर्वाद् वहतेः प्रस्मैपदम् भवति । प्रवहति, प्रवहतः, प्रवहन्ति । प्रात् इति किम् ? आवहते ॥ परेर् मृषः

vaha prāpne svaritet / tatra kartr-abhiprāya-kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate / prapūrvād vahateḥ prasmaipadam bhavati / pravahati, pravahataḥ, pravahanti / prāt iti kim ? āvahate // parer mṛṣaḥ

Sanskrit only: no published translation is held for this verse.

मृष तितिक्षायाम् स्वरितेत् । ततः तथा+एव आत्मनेपदे प्राप्ते परस्मैपदं विधीयते । परिपूर्वाद् मृष्यतेः परस्मैपदं भवति । परिमृष्यति, परिमृष्यतः, परिमृष्यन्ति । परेः इति किम् ? आमृष्यते । वहतिम् अपि केचिद् अत्र अनुवर्तयन्ति - परिवहति ॥ व्य्-आङ्-परिभ्यो रमः

mṛṣa titikṣāyām svaritet / tataḥ tathā+eva ātmanepade prāpte parasmaipadaṃ vidhīyate / paripūrvād mṛṣyateḥ parasmaipadaṃ bhavati / parimṛṣyati, parimṛṣyataḥ, parimṛṣyanti / pareḥ iti kim ? āmṛṣyate / vahatim api kecid atra anuvartayanti - parivahati // vy-āṅ-paribhyo ramaḥ

Sanskrit only: no published translation is held for this verse.

रमु क्रीडायम् । अनुदात्तेत्त्वद् आत्मनेपदे प्राप्ते प्रस्मैपदं विधीयते । विआङ् परि इत्य् एवं पूर्वात् रमतेः परस्मैपदं भवति । विरमति । आरमति । परिरमति । एतेभ्यः इति किम् ? अभिरमते ॥ उपाच् च

ramu krīḍāyam / anudāttettvad ātmanepade prāpte prasmaipadaṃ vidhīyate / viāṅ pari ity evaṃ pūrvāt ramateḥ parasmaipadaṃ bhavati / viramati / āramati / pariramati / etebhyaḥ iti kim ? abhiramate // upāc ca

Sanskrit only: no published translation is held for this verse.

रमः इत्य् एव । उपपुर्वात् रमतेः प्रस्मैपदं भवति । देवदत्तम् उपरमति । जज्ञदत्तम् उपरमति । उपरमयति इति यावत् । अन्तर्भावितन्यर्थो ऽत्र रमिः । पृथग् योग-करणम् उत्तर-अर्थम् । अकर्मकाद् विभाषां वक्ष्यति, सा उपपूर्वाद् एव यथा स्यात् ॥ विभाशा ऽकर्मकात्

ramaḥ ity eva / upapurvāt ramateḥ prasmaipadaṃ bhavati / devadattam uparamati / jajñadattam uparamati / uparamayati iti yāvat / antarbhāvitanyartho 'tra ramiḥ / pṛthag yoga-karaṇam uttara-artham / akarmakād vibhāṣāṃ vakṣyati, sā upapūrvād eva yathā syāt // vibhāśā 'karmakāt

Sanskrit only: no published translation is held for this verse.

रमः उपात् इति च वर्तते । पूर्वेण नित्ये परस्मैपदे प्राप्ते विकल्प आरभ्यते । उपपूर्वद् रमतेर् अकर्मकाद् विभाषा परस्मैपदं भवति । यावद् भुक्तम् औपरमति, यावद् भुक्तम् उपरमते । निवर्तते इत्य् अर्थः ॥ बुध-युध-नश-जन-इङ्-प्रु-द्रु-स्रुभ्यो णेः

ramaḥ upāt iti ca vartate / pūrveṇa nitye parasmaipade prāpte vikalpa ārabhyate / upapūrvad ramater akarmakād vibhāṣā parasmaipadaṃ bhavati / yāvad bhuktam auparamati, yāvad bhuktam uparamate / nivartate ity arthaḥ // budha-yudha-naśa-jana-iṅ-pru-dru-srubhyo ṇeḥ

Sanskrit only: no published translation is held for this verse.

ये ऽत्र-अकर्मकास् तेषाम् अणाव्-अकर्मकाच् चित्तवत्-कर्तृकात् (*१,३।८८) इत्य् एवं सिद्धे वचनम् इदम् अचित्तवत्-कर्तृक-अर्थम् । बोध्यति पद्मम् । योध्यन्ति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । ये ऽत्र चलन-अर्थ अपि तेषाम् निगरण-चलन-अर्थेभ्यश् च (*१,३।८७) इति सिद्धे यदा न चलन-अर्थास् तद्-अर्थं वचनम् । प्रवते । प्राप्नोति इति गम्यते । अयो द्रवति । विलीयते इत्य् अर्थः कुण्डिका स्रवति । स्यन्दते इत्य् अर्थः । तद्-विषयाण्य् उदाहरणानि - प्रावयति । द्रावयति । स्रावयति ॥ निगरण-चलन-अर्थेभ्यश् च

ye 'tra-akarmakās teṣām aṇāv-akarmakāc cittavat-kartṛkāt (*1,3.88) ity evaṃ siddhe vacanam idam acittavat-kartṛka-artham / bodhyati padmam / yodhyanti kāṣṭhāni / nāśayati duḥkham / janayati sukham / ye 'tra calana-artha api teṣām nigaraṇa-calana-arthebhyaś ca (*1,3.87) iti siddhe yadā na calana-arthās tad-arthaṃ vacanam / pravate / prāpnoti iti gamyate / ayo dravati / vilīyate ity arthaḥ kuṇḍikā sravati / syandate ity arthaḥ / tad-viṣayāṇy udāharaṇāni - prāvayati / drāvayati / srāvayati // nigaraṇa-calana-arthebhyaś ca

Sanskrit only: no published translation is held for this verse.

णेः इति वर्तते । कर्त्र्-अभिप्राय-क्रियाफल-विवक्शायाम् आत्मनेपद-अपवाद्ः परस्मैपदं विधियते । निगरणम् अभ्यवहारः । चलनं कम्पनम् । निगरण-अर्थेभ्यश् चलन-अर्थेभ्यश् च धातुभ्यो ण्य्-अन्तेभ्यः परस्मैपदं भवति । निगारयति । आशयति । भोजयति । चलन-अर्थेभ्यः -- चलयति । चोपयति । कम्पयति । अयम् अपि योगः सकर्मक-अर्थः, अचित्तवत्-कर्तृकार्थश् च । अदेः प्रतिषेधो वक्तव्यः । अत्ति देवदत्तः, आदयते देवदत्तेन ॥ अणाव् अकर्मकाच् चित्तवत्-कर्तृकात्

ṇeḥ iti vartate / kartr-abhiprāya-kriyāphala-vivakśāyām ātmanepada-apavādḥ parasmaipadaṃ vidhiyate / nigaraṇam abhyavahāraḥ / calanaṃ kampanam / nigaraṇa-arthebhyaś calana-arthebhyaś ca dhātubhyo ṇy-antebhyaḥ parasmaipadaṃ bhavati / nigārayati / āśayati / bhojayati / calana-arthebhyaḥ -- calayati / copayati / kampayati / ayam api yogaḥ sakarmaka-arthaḥ, acittavat-kartṛkārthaś ca / adeḥ pratiṣedho vaktavyaḥ / atti devadattaḥ, ādayate devadattena // aṇāv akarmakāc cittavat-kartṛkāt

Sanskrit only: no published translation is held for this verse.

णेः इति वर्तते । कर्त्र्-अभिप्राय-क्रियाफल-विवक्षायाम् आत्मनेपदापवादः परस्मैपदं विधीयते । अण्यन्तो यो धतुर् अकर्मकश् चित्तवत्-कर्तृकश् च तस्माद् ण्यन्तात् परस्मैपदं भवति । आस्ते देवदत्तः, आसयति देवदत्तम् । शेते देवदत्तः, शाययति देवदत्तम् । अणौ इति किम् ? चेतयमानं प्रयोजयति चेतयते, इति केचित् प्रत्युदाहरन्ति तद्-युक्तम् । हेतुमण्णिचो विधिः । प्रतिषेधो ऽपि प्रत्यासत्तेस् तस्य+एव न्याय्यः । तस्माद् इह चेतयति इति परस्मैपदेन+एव भवितव्यम् । इदं तु प्रत्युदहरणम् -- आरोहयमाणं प्रयुड्क्ते आरोहयते । अकर्मकात् इति किम् ? कठं कुर्वाणं प्रयुङ्क्ते कारयते । चितवत्कर्तृकात् इति किम् ? शुष्यन्ति व्रीहयः, शोषयते व्रीहीनातपः ॥ न पादम्य्-आङ्यम-आङ्यस-परिमुह-रुचि-नृति-वद-वसः

ṇeḥ iti vartate / kartr-abhiprāya-kriyāphala-vivakṣāyām ātmanepadāpavādaḥ parasmaipadaṃ vidhīyate / aṇyanto yo dhatur akarmakaś cittavat-kartṛkaś ca tasmād ṇyantāt parasmaipadaṃ bhavati / āste devadattaḥ, āsayati devadattam / śete devadattaḥ, śāyayati devadattam / aṇau iti kim ? cetayamānaṃ prayojayati cetayate, iti kecit pratyudāharanti tad-yuktam / hetumaṇṇico vidhiḥ / pratiṣedho 'pi pratyāsattes tasya+eva nyāyyaḥ / tasmād iha cetayati iti parasmaipadena+eva bhavitavyam / idaṃ tu pratyudaharaṇam -- ārohayamāṇaṃ prayuḍkte ārohayate / akarmakāt iti kim ? kaṭhaṃ kurvāṇaṃ prayuṅkte kārayate / citavatkartṛkāt iti kim ? śuṣyanti vrīhayaḥ, śoṣayate vrīhīnātapaḥ // na pādamy-āṅyama-āṅyasa-parimuha-ruci-nṛti-vada-vasaḥ

Sanskrit only: no published translation is held for this verse.

णिचश् च (*१,३।७४) इत्य् आत्मनेपदं भवति । तत्र पिवतिर् निगरण-अर्थः । दमिप्रभृतयश्चित्तवत्कर्तृकाः । नृतिश् चलन-अर्थो ऽपि । एषां परस्मैपदं न भवति । पा - पाययते । दमि - दमयते । आङ्यम् - आयामयते । यमो ऽपरिवेषणे इति मित्सञ्ज्ञा प्रतिषिध्यते । अङ्यस - आयासयते । परिमुह - परिमोहयते । रुचि - रोचयते । नृति - नर्तयते । वद - वादयते । वस - वासयते । पादिषु धेट उपसङ्ख्यानम् । धापयेते शिशुमेकं समीची ॥ वा क्यषः

ṇicaś ca (*1,3.74) ity ātmanepadaṃ bhavati / tatra pivatir nigaraṇa-arthaḥ / damiprabhṛtayaścittavatkartṛkāḥ / nṛtiś calana-artho 'pi / eṣāṃ parasmaipadaṃ na bhavati / pā - pāyayate / dami - damayate / āṅyam - āyāmayate / yamo 'pariveṣaṇe iti mitsañjñā pratiṣidhyate / aṅyasa - āyāsayate / parimuha - parimohayate / ruci - rocayate / nṛti - nartayate / vada - vādayate / vasa - vāsayate / pādiṣu dheṭa upasaṅkhyānam / dhāpayete śiśumekaṃ samīcī // vā kyaṣaḥ

Sanskrit only: no published translation is held for this verse.

लोहितादि-डाज्भ्यः क्यष् (*३,१।१३) इति वक्ष्यति । तद्-अन्ताद् धातोर् वा परस्मैपदं भवति । लोहितायति, लोहितायते । पटपटायति, पटपटायते । अथ अत्र प्रस्मैपदेन मुक्ते कथम् आत्मनेपदं लभ्यते, यावता अनुदात्तङित आत्मनेपदम् (*१,३।१२) इत्य् एवम् आदिना प्रकर्णेन तन् नियतम् ? एवं तर्हि आत्मनेपदम् एव अत्र विकल्पितं विधीयते, तच् च अनन्तरं परस्मैपद-प्रतिषेधेन सनिधापितम् इह सम्बध्यते । तेन मुक्ते, शेषात् कर्तरि परस्मैपदम् भवति ॥ ध्य्द्भ्यो लुङि

lohitādi-ḍājbhyaḥ kyaṣ (*3,1.13) iti vakṣyati / tad-antād dhātor vā parasmaipadaṃ bhavati / lohitāyati, lohitāyate / paṭapaṭāyati, paṭapaṭāyate / atha atra prasmaipadena mukte katham ātmanepadaṃ labhyate, yāvatā anudāttaṅita ātmanepadam (*1,3.12) ity evam ādinā prakarṇena tan niyatam ? evaṃ tarhi ātmanepadam eva atra vikalpitaṃ vidhīyate, tac ca anantaraṃ parasmaipada-pratiṣedhena sanidhāpitam iha sambadhyate / tena mukte, śeṣāt kartari parasmaipadam bhavati // dhydbhyo luṅi

Sanskrit only: no published translation is held for this verse.

वा इत्य् एव । द्युत दीप्तौ । तत्स्-आहचर्याद् लुठादयो ऽपि कृपू पर्यन्तास् तथा+एव व्यपदिश्यन्ते । बहुवचन-निर्देशाद् आद्य्-अर्थो भवति । अनुदात्तेत्त्वान् नित्यम् एव आत्मनेपदे प्राप्ते द्युतादिभ्यो लुङि वा परस्मैपदं भवति । व्यद्युतत्, व्यद्योतिष्ट । अलुठत्, अलोठिष्ट । लुङि इति किम् ? द्योतते ॥ वृद्भ्यः स्यसनोः

vā ity eva / dyuta dīptau / tats-āhacaryād luṭhādayo 'pi kṛpū paryantās tathā+eva vyapadiśyante / bahuvacana-nirdeśād ādy-artho bhavati / anudāttettvān nityam eva ātmanepade prāpte dyutādibhyo luṅi vā parasmaipadaṃ bhavati / vyadyutat, vyadyotiṣṭa / aluṭhat, aloṭhiṣṭa / luṅi iti kim ? dyotate // vṛdbhyaḥ syasanoḥ

Sanskrit only: no published translation is held for this verse.

लुटि च क्लुपः

luṭi ca klupaḥ

Sanskrit only: no published translation is held for this verse.