अकर्मकात् इति वर्तते । यम उपरमे, हन हिंसागत्योः इति परस्मैपदिनौ । ताभ्याम् अकर्मक-क्रियावचनाभ्याम् आङ्पूर्वाभ्याम् आत्मनेपदं भवति । आयच्छते, आयच्छेते आयच्छन्ते । हनः खल्व् अपि -- आहते, आघ्नाते, आघ्नते । अकर्मकात् इत्य् एव । आयच्छति कूपाद् रज्जुम् । आहन्ति वृषलं पादेन । स्वाङ्गकर्मकाच् च+इति वक्तव्यम् । आयच्छते पाणिम् । आहते शिरः । स्वाङ्गं च+इह न पारिभाषिकम् गृह्यते । किं तर्हि ? स्वम् अङ्गं स्वाङ्गम् । तेन+इह न भवति , आहन्ति शिरः परकीयम् इति ॥ समो गम्य्-ऋच्छि-प्रच्छि-स्वरत्य् अर्ति-श्रु-विदिघ्यः
akarmakāt iti vartate / yama uparame, hana hiṃsāgatyoḥ iti parasmaipadinau / tābhyām akarmaka-kriyāvacanābhyām āṅpūrvābhyām ātmanepadaṃ bhavati / āyacchate, āyacchete āyacchante / hanaḥ khalv api -- āhate, āghnāte, āghnate / akarmakāt ity eva / āyacchati kūpād rajjum / āhanti vṛṣalaṃ pādena / svāṅgakarmakāc ca+iti vaktavyam / āyacchate pāṇim / āhate śiraḥ / svāṅgaṃ ca+iha na pāribhāṣikam gṛhyate / kiṃ tarhi ? svam aṅgaṃ svāṅgam / tena+iha na bhavati , āhanti śiraḥ parakīyam iti // samo gamy-ṛcchi-pracchi-svaraty arti-śru-vidighyaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.