अकर्त्र्-अभिप्राय-अर्थम् इदम् । कर्त्र्-अभिप्राये हि अनुपसर्गाज् ज्ञः (*१,३।७६) इति वक्ष्यति । जानातेर् अकर्मकाद् अकर्मक-क्रियावचनाद् आत्मनेपदं भवति । सर्पिशो जानीते । मधुनो जानीते । कथं च अयम् अकर्मकः ? न अत्र सर्पिर्-आदि ज्ञेयत्वेन विवक्षितम् । किं तर्हि ? ज्ञान-पूर्विकायां प्रवृत्तौ करणत्वेन । तथा च ज्ञो ऽविद्-अर्थस्य करणे (*२,३।५१) इति षष्ठी विधीयते -- सर्पिषो जानीते, मधुनो जानीते । सर्पिशा उपायेन प्रवर्तते इत्य् अर्थः । अकर्मकात् इति किम् ? स्वरेण पुत्रं जानाति ॥ सं-प्रतिभ्याम् अनाध्याने
akartr-abhiprāya-artham idam / kartr-abhiprāye hi anupasargāj jñaḥ (*1,3.76) iti vakṣyati / jānāter akarmakād akarmaka-kriyāvacanād ātmanepadaṃ bhavati / sarpiśo jānīte / madhuno jānīte / kathaṃ ca ayam akarmakaḥ ? na atra sarpir-ādi jñeyatvena vivakṣitam / kiṃ tarhi ? jñāna-pūrvikāyāṃ pravṛttau karaṇatvena / tathā ca jño 'vid-arthasya karaṇe (*2,3.51) iti ṣaṣṭhī vidhīyate -- sarpiṣo jānīte, madhuno jānīte / sarpiśā upāyena pravartate ity arthaḥ / akarmakāt iti kim ? svareṇa putraṃ jānāti // saṃ-pratibhyām anādhyāne
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.