ये ऽत्र-अकर्मकास् तेषाम् अणाव्-अकर्मकाच् चित्तवत्-कर्तृकात् (*१,३।८८) इत्य् एवं सिद्धे वचनम् इदम् अचित्तवत्-कर्तृक-अर्थम् । बोध्यति पद्मम् । योध्यन्ति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । ये ऽत्र चलन-अर्थ अपि तेषाम् निगरण-चलन-अर्थेभ्यश् च (*१,३।८७) इति सिद्धे यदा न चलन-अर्थास् तद्-अर्थं वचनम् । प्रवते । प्राप्नोति इति गम्यते । अयो द्रवति । विलीयते इत्य् अर्थः कुण्डिका स्रवति । स्यन्दते इत्य् अर्थः । तद्-विषयाण्य् उदाहरणानि - प्रावयति । द्रावयति । स्रावयति ॥ निगरण-चलन-अर्थेभ्यश् च
ye 'tra-akarmakās teṣām aṇāv-akarmakāc cittavat-kartṛkāt (*1,3.88) ity evaṃ siddhe vacanam idam acittavat-kartṛka-artham / bodhyati padmam / yodhyanti kāṣṭhāni / nāśayati duḥkham / janayati sukham / ye 'tra calana-artha api teṣām nigaraṇa-calana-arthebhyaś ca (*1,3.87) iti siddhe yadā na calana-arthās tad-arthaṃ vacanam / pravate / prāpnoti iti gamyate / ayo dravati / vilīyate ity arthaḥ kuṇḍikā sravati / syandate ity arthaḥ / tad-viṣayāṇy udāharaṇāni - prāvayati / drāvayati / srāvayati // nigaraṇa-calana-arthebhyaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.