कर्तुः क्रियया यद् आप्तुम् इष्टतमं तत् कारकं कर्मसञ्ज्ञं भवति । कटं करोति । ग्रामं गच्छति । कर्तुः इति किम् ? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः, न कर्तुः । तम् अब्ग्रहणं किम् ? पयसा ओदनं भुङ्क्ते । कर्म इत्यनुवर्तमाने पुनः कर्म-ग्रहणम् आधार-निवृत्त्य्-अर्थम् । इतरथा आधारस्य+एव हि स्यात् गेहं प्रविशति इति । ओदनं पचति, सक्तून् पिबति इत्य् आदिषु न स्यात् । पुनः कर्म-ग्रहणात् सर्वत्र सिद्ध भवति । कर्म-प्रदेशाः -- कर्मणि द्वितीया (*२,३।२) इत्य् एवम् आदयः ॥ तथा-युक्तं च अनीप्सितम्
kartuḥ kriyayā yad āptum iṣṭatamaṃ tat kārakaṃ karmasañjñaṃ bhavati / kaṭaṃ karoti / grāmaṃ gacchati / kartuḥ iti kim ? māṣeṣvaśvaṃ badhnāti / karmaṇa īpsitā māṣāḥ, na kartuḥ / tam abgrahaṇaṃ kim ? payasā odanaṃ bhuṅkte / karma ityanuvartamāne punaḥ karma-grahaṇam ādhāra-nivṛtty-artham / itarathā ādhārasya+eva hi syāt gehaṃ praviśati iti / odanaṃ pacati, saktūn pibati ity ādiṣu na syāt / punaḥ karma-grahaṇāt sarvatra siddha bhavati / karma-pradeśāḥ -- karmaṇi dvitīyā (*2,3.2) ity evam ādayaḥ // tathā-yuktaṃ ca anīpsitam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.