गति-सञ्ज्ञकाश् च प्र-आदयो भवन्ति क्रिया-योगे । प्रकृत्य । प्रकृतम् । यत् प्रकरोति । योग-विभाग उत्तर-अर्थः । उत्तरत्र गति-सञ्ज्ञा+एव यथा स्यात् । उपसर्ग-सञ्ज्ञा मा भूत् । ऊरीस्यात् इत्य् अत्र उपसर्ग-प्रादुर्भ्याम् अस्तिर् य्-अच्-परः (*८,३।८७) इति षत्वं प्रसज्येत । च-करः सञ्ज्ञा-समावेश-अर्थः । प्रणीतम् । अभिषिक्तम् । गतिर् अनन्तरः (*६,२।४९) इति स्वरः, उपसर्गात् (*८,४।१४) (*८,३।६५) इति णत्वषत्वे च भवतः । कारिका-शब्दस्य+उपसङ्ख्यानम् । कारिका-कृत्य । कारिका-कृतम् । यत् कारिका करोति । पुनश्चनसौ छन्दसि गतिसञ्ज्ञौ भवत इति वक्तव्यम् । पुनरुत्स्यूतं वासो देयम् । गतिर् गतौ (*८,१।७०) इति निघातो भवति । चनो हितः । गतिर् अनन्तरः (*६,२।४९) इति स्वरः । गति-प्रदेशाः -- कु-गति-प्र-आदय (*२,२।१८) इत्य् एवम् आदयः ॥ ऊर्य्-आदि-च्वि-डाचश् च
gati-sañjñakāś ca pra-ādayo bhavanti kriyā-yoge / prakṛtya / prakṛtam / yat prakaroti / yoga-vibhāga uttara-arthaḥ / uttaratra gati-sañjñā+eva yathā syāt / upasarga-sañjñā mā bhūt / ūrīsyāt ity atra upasarga-prādurbhyām astir y-ac-paraḥ (*8,3.87) iti ṣatvaṃ prasajyeta / ca-karaḥ sañjñā-samāveśa-arthaḥ / praṇītam / abhiṣiktam / gatir anantaraḥ (*6,2.49) iti svaraḥ, upasargāt (*8,4.14) (*8,3.65) iti ṇatvaṣatve ca bhavataḥ / kārikā-śabdasya+upasaṅkhyānam / kārikā-kṛtya / kārikā-kṛtam / yat kārikā karoti / punaścanasau chandasi gatisañjñau bhavata iti vaktavyam / punarutsyūtaṃ vāso deyam / gatir gatau (*8,1.70) iti nighāto bhavati / cano hitaḥ / gatir anantaraḥ (*6,2.49) iti svaraḥ / gati-pradeśāḥ -- ku-gati-pra-ādaya (*2,2.18) ity evam ādayaḥ // ūry-ādi-cvi-ḍācaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.