पदार्थे, सम्भावने, अन्ववसर्गे, गर्हायाम्, समुच्चये च वर्तमानः अपिः कर्मप्रवचनीय-सञ्ज्ञो भवति । पदान्तरस्य अप्रयुज्यमानस्य अर्थः पदार्थः - सर्पिषो ऽपि स्यात् । मधुनो ऽपि स्यात् । मात्रा, बिन्दुः, स्तोकम् इत्य् अस्य अर्थे ऽपि शब्दो वर्तते । सम्भावनम् अधिकार्थ-वचनेन शक्तेर् अप्रतिघाताविष्करनम् - अपि सिञ्चेन् मूलक-सहस्रम् । अपि स्तुयाद् राजानम् । अन्ववसर्गः कामचार-अभ्यनुज्ञानम् - अपि सिञ्च । अपि स्तुहि । गर्हा निन्दा - धिग् जाल्मं देवदत्तम्, अपि सिञ्चेत् पलाण्डुम् । अपि स्तुयाद् वृषलम् । समुच्चये - अपि सिञ्च । अपि स्तुहि । सिञ्च च स्तुहि च । उपसर्गसञ्ज्ञाबाधनात् षत्वम् न भवति ॥ अधिर् ईश्वरे
padārthe, sambhāvane, anvavasarge, garhāyām, samuccaye ca vartamānaḥ apiḥ karmapravacanīya-sañjño bhavati / padāntarasya aprayujyamānasya arthaḥ padārthaḥ - sarpiṣo 'pi syāt / madhuno 'pi syāt / mātrā, binduḥ, stokam ity asya arthe 'pi śabdo vartate / sambhāvanam adhikārtha-vacanena śakter apratighātāviṣkaranam - api siñcen mūlaka-sahasram / api stuyād rājānam / anvavasargaḥ kāmacāra-abhyanujñānam - api siñca / api stuhi / garhā nindā - dhig jālmaṃ devadattam, api siñcet palāṇḍum / api stuyād vṛṣalam / samuccaye - api siñca / api stuhi / siñca ca stuhi ca / upasargasañjñābādhanāt ṣatvam na bhavati // adhir īśvare
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.