सङ्ख्येये या सङ्ख्या वर्तते तया सह अव्यय-आसन्न-अदूर-अधिक-सङ्ख्याः समस्यन्ते बहुव्रीहिश् च समासो भवति । अव्यय - उपदशाः । उपविंशाः । आसन्नदशाः । आसन्नविंशाः । अदूरदशाः । अदूरविंशाः । अधिकदशाः । अधिकविंशाः । सङ्ख्या - द्वित्राः । त्रिचतुराः । द्विदशाः । सङ्ख्यया इति किम् ? पञ्च ब्राह्मणाः । अव्यय-आसन्न-अदूर-अधिक-सङ्ख्याः इति किम् ? ब्राह्मणाः पञ्च । सङ्ख्येये इति किम् ? अधिका विंशतिर् गवाम् ॥ दिङ्नामान्य् अन्तराले
saṅkhyeye yā saṅkhyā vartate tayā saha avyaya-āsanna-adūra-adhika-saṅkhyāḥ samasyante bahuvrīhiś ca samāso bhavati / avyaya - upadaśāḥ / upaviṃśāḥ / āsannadaśāḥ / āsannaviṃśāḥ / adūradaśāḥ / adūraviṃśāḥ / adhikadaśāḥ / adhikaviṃśāḥ / saṅkhyā - dvitrāḥ / tricaturāḥ / dvidaśāḥ / saṅkhyayā iti kim ? pañca brāhmaṇāḥ / avyaya-āsanna-adūra-adhika-saṅkhyāḥ iti kim ? brāhmaṇāḥ pañca / saṅkhyeye iti kim ? adhikā viṃśatir gavām // diṅnāmāny antarāle
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.