यत् तत्र इति निर्दिष्टं ग्रहणम् चेत् तद् भवति, यत् तेन इति निर्दिष्टं प्रहरनं चेत् तद् भवति, यत् इदम् इति निर्दिष्टं युद्धं चेत् तद् भवति । केशेषु केशेषु च गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि । कचाकचि । दण्डैश् च दण्डैश् च प्रगृत्य इदं युद्धं प्रवृत्तं दण्डादण्डि । मुसलामुसलि । इच् कर्मव्यतीहारे (*५,४।१२७) इति इच् समासान्तः, स च अव्ययम् । अन्येषाम् अपि दृश्यते (*६,३।१३७) इति पूर्वपदस्य दीर्घत्वम् । सरूप-ग्रहणं किम् ? हलैश् च मुसलैश् च प्रहृत्य इदं युद्धं प्रवृत्तम् ॥ तेन सह+इति तुल्ययोगे
yat tatra iti nirdiṣṭaṃ grahaṇam cet tad bhavati, yat tena iti nirdiṣṭaṃ praharanaṃ cet tad bhavati, yat idam iti nirdiṣṭaṃ yuddhaṃ cet tad bhavati / keśeṣu keśeṣu ca gṛhītvā idaṃ yuddhaṃ pravṛttaṃ keśākeśi / kacākaci / daṇḍaiś ca daṇḍaiś ca pragṛtya idaṃ yuddhaṃ pravṛttaṃ daṇḍādaṇḍi / musalāmusali / ic karmavyatīhāre (*5,4.127) iti ic samāsāntaḥ, sa ca avyayam / anyeṣām api dṛśyate (*6,3.137) iti pūrvapadasya dīrghatvam / sarūpa-grahaṇaṃ kim ? halaiś ca musalaiś ca prahṛtya idaṃ yuddhaṃ pravṛttam // tena saha+iti tulyayoge
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.