आगस्त्य-कौण्डिन्ययोर् गोत्रप्रत्यययोः अणो यञश् च बहुषु लुग् भवति, परिशिष्टस्य च प्रकृति-भागस्य यथा-सङ्ख्यम् अगस्ति, कुण्डिनच् इत्य् एताव् आदेशौ भवतः । अगस्तयः । कुण्डिनाः । चकारः स्वरार्थः । मद्योदात्तो हि कुण्डिनी-शब्दस् तदादेशो ऽपि तथा स्यात् । अगस्त्य-शब्दाद् ऋष्यण्, कुण्डिनी-शब्दाद् गर्गादित्वाद् यञ् । तयोः गोत्रे ऽलुग्-अचि (*४,१।८९) इति लुकि प्रतिषिद्धे आगस्तीयाः छत्राः इति वृद्ध-लक्षणश्छो भवति । कौण्डिन्ये त्वणैव भवितव्यम्, कण्वादिभ्यो गोत्रे (*४,२।१११) इति । तत्र विशेषो न अस्ति । कौण्डिनाश्छात्राः ॥ सुपो धातु-प्रातिपदिकयोः
āgastya-kauṇḍinyayor gotrapratyayayoḥ aṇo yañaś ca bahuṣu lug bhavati, pariśiṣṭasya ca prakṛti-bhāgasya yathā-saṅkhyam agasti, kuṇḍinac ity etāv ādeśau bhavataḥ / agastayaḥ / kuṇḍināḥ / cakāraḥ svarārthaḥ / madyodātto hi kuṇḍinī-śabdas tadādeśo 'pi tathā syāt / agastya-śabdād ṛṣyaṇ, kuṇḍinī-śabdād gargāditvād yañ / tayoḥ gotre 'lug-aci (*4,1.89) iti luki pratiṣiddhe āgastīyāḥ chatrāḥ iti vṛddha-lakṣaṇaścho bhavati / kauṇḍinye tvaṇaiva bhavitavyam, kaṇvādibhyo gotre (*4,2.111) iti / tatra viśeṣo na asti / kauṇḍināśchātrāḥ // supo dhātu-prātipadikayoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.