मन्त्रे इति न अनुवर्तते । ऊत्यादयः शब्दा निपात्यन्ते । उदात्तः इति वर्तते । अवतेः ज्वर-त्वर-स्रिव्य्-अवि-मवाम् उपधायाश् च (*६,४।२०) इति ऊट्ः । ऊतिः । स्वरार्थं वचनम् । यौतेर् जवतेश् च यूतिः, जूतिः । दीर्धात्वम् च निपात्यते । सातिः । स्यतेः इत्वाभावो निपात्यते, सनोतेर् वा जन-सन-खनां सञ्ज्ञालोः (*६,४।४२) इत्य् आत्वे कृते स्वरार्थं निपातनम् । हन्तेर् हिनोतेर् वा हेतिः । कीर्तयतेः कीर्तिः ॥ व्रज-यजोर् भावे क्यप्
mantre iti na anuvartate / ūtyādayaḥ śabdā nipātyante / udāttaḥ iti vartate / avateḥ jvara-tvara-srivy-avi-mavām upadhāyāś ca (*6,4.20) iti ūṭḥ / ūtiḥ / svarārthaṃ vacanam / yauter javateś ca yūtiḥ, jūtiḥ / dīrdhātvam ca nipātyate / sātiḥ / syateḥ itvābhāvo nipātyate, sanoter vā jana-sana-khanāṃ sañjñāloḥ (*6,4.42) ity ātve kṛte svarārthaṃ nipātanam / hanter hinoter vā hetiḥ / kīrtayateḥ kīrtiḥ // vraja-yajor bhāve kyap
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.