कर्मणि इत्य् एव । शुष्कादिषु कर्मवाचिषु उपपदेषु पिषेर् धातोः णमुल् प्रत्ययो भवति । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टि इत्य् अर्थः । चूर्णपेषं पिनष्टि । चूर्णं पिनष्टि इत्य् अर्थः । रूक्षपेषं पिनष्टि । रूक्षं पिनष्टि इत्य् अर्थः ॥ समूल-अकृत-जीवेषु हन्-कृञ्-ग्रहः
karmaṇi ity eva / śuṣkādiṣu karmavāciṣu upapadeṣu piṣer dhātoḥ ṇamul pratyayo bhavati / śuṣkapeṣaṃ pinaṣṭi / śuṣkaṃ pinaṣṭi ity arthaḥ / cūrṇapeṣaṃ pinaṣṭi / cūrṇaṃ pinaṣṭi ity arthaḥ / rūkṣapeṣaṃ pinaṣṭi / rūkṣaṃ pinaṣṭi ity arthaḥ // samūla-akṛta-jīveṣu han-kṛñ-grahaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.