पर्याप्तिः अन्यूनता । पर्याप्ति-वचनेषु अलमर्थेषु उपपदेषु धातोस्तुमुन् प्रत्यओ भवति । पर्याप्तो भोक्तुम् । अलं भोक्तुम् । भोक्तुं पारयति । पर्याप्ति-वचनेषु इति किम् ? अलं कृत्वा । अलम्-अर्थेषु इति किम् ? पर्याप्तं भुङ्क्ते । पूर्वसूत्रे शकिग्रहणम् अनलमर्थम्, शक्यम् एवं कर्तुम् इति ॥ कर्तरि कृत्
paryāptiḥ anyūnatā / paryāpti-vacaneṣu alamartheṣu upapadeṣu dhātostumun pratyao bhavati / paryāpto bhoktum / alaṃ bhoktum / bhoktuṃ pārayati / paryāpti-vacaneṣu iti kim ? alaṃ kṛtvā / alam-artheṣu iti kim ? paryāptaṃ bhuṅkte / pūrvasūtre śakigrahaṇam analamartham, śakyam evaṃ kartum iti // kartari kṛt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.