कृत्-सञ्ज्ञकाः प्रत्ययाः कर्तरि कारके भवन्ति । कृद्-उत्पत्ति-वाक्यानाम् अयं शेषः । तत्र येषु अर्थ-निर्देशो नास्ति तत्र+इदम् उपतिष्ठते, अर्थाकाङ्क्षत्वात् । न ख्युन्नादि-वाक्येषु, साक्षाद् अर्थ-निर्देशे सति तेषाम् निराकाङ्क्षत्वात् । कारकः । कर्ता । नन्दनः । ग्राही । पचः ॥ भव्य-गेय-प्रवचनीय-उपस्थानीय-जन्य-आप्लाव्य-आपात्या वा
kṛt-sañjñakāḥ pratyayāḥ kartari kārake bhavanti / kṛd-utpatti-vākyānām ayaṃ śeṣaḥ / tatra yeṣu artha-nirdeśo nāsti tatra+idam upatiṣṭhate, arthākāṅkṣatvāt / na khyunnādi-vākyeṣu, sākṣād artha-nirdeśe sati teṣām nirākāṅkṣatvāt / kārakaḥ / kartā / nandanaḥ / grāhī / pacaḥ // bhavya-geya-pravacanīya-upasthānīya-janya-āplāvya-āpātyā vā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.