पौत्रप्रभृति यद् अपत्यं तद् गोत्र-सञ्ज्ञं भवति । सम्बन्धि-शब्दत्वाद् अपत्य-शब्दस्य यद् अपत्यं तद् अपेक्षया पौत्र-प्रभृतेर् गोत्र-सञ्ज्ञा विधीयते । गर्गस्य अपत्यं पौत्र-प्रभृति गार्ग्यः । वात्सयः । अपत्यम् इति व्यपदेशो ऽयं पौत्र-प्रभृतेः । पौत्र-प्रभृति इति किम् ? अन्यस्य मा भूत् । कौञ्जिः । गार्गिः । गोत्र-प्रदेशाः - एको गोत्रे (*४,१।९३) इत्य् एवम् आदयः ॥ जीवति तु वंश्ये युवा
pautraprabhṛti yad apatyaṃ tad gotra-sañjñaṃ bhavati / sambandhi-śabdatvād apatya-śabdasya yad apatyaṃ tad apekṣayā pautra-prabhṛter gotra-sañjñā vidhīyate / gargasya apatyaṃ pautra-prabhṛti gārgyaḥ / vātsayaḥ / apatyam iti vyapadeśo 'yaṃ pautra-prabhṛteḥ / pautra-prabhṛti iti kim ? anyasya mā bhūt / kauñjiḥ / gārgiḥ / gotra-pradeśāḥ - eko gotre (*4,1.93) ity evam ādayaḥ // jīvati tu vaṃśye yuvā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.